२६ खण्डार्थनिर्ण्णयव्याख्या खण्डार्थचन्द्रिका

विद्वान्. कृष्णराज कुत्पाडि

विषयेषु च संसर्गात् शाश्वतस्य च संशयात्।

मनसा चान्यदाकाङ्क्षत् परं न प्रतिपद्यते ॥

ज्ञानसूर्यः बलाहकान्तरितः। सकलसज्जनहृदयाकाशः अन्धतमसा अाच्छादितः। धृतभगवदादेशो वायुरायात्। कालमेघा अपासरन्। हृत्तमः गुरुतेजसाऽपागच्छत्। गुरुकारुण्यतैलभृताः सर्वमूलग्रन्थदीपास्तमोनुद इव ते नः पान्ति। प्राज्वालयदेनान् दीपान् तत्वज्ञानप्रदोऽस्माकं मध्वगुरुः। वेदवेदा न्ततन्त्रमन्त्रशिल्पागमपुराणेतिहासादीनि सर्वाणि क्षेत्राण्ययं स्वमातृभिः पस्पर्श। सर्वाणि शास्त्राण्यालोडयामास। शुशोध च। पूर्वप्रवृत्तान् वादान् विममर्श। दोषानेवोद्घाटयामास। गुणान् स्वीचकार। नैजसुखानुभूतिपथं दर्शयामास। युगचक्रेऽस्मिन्नाविर्भूतयोः व्यासवासुदेवयोः हृदयं प्राकटयत्।

परशुरामदेवः यच्च क्षेत्रं स्वबाणतेजसा निरमात् तत्रैव जजान। शिवशक्ति- स्कन्दगणपतिसूरादीनां पारम्यवादिनां वैदिकानां मतानि विचार्य। ‘कर्णाट- देशीयः आचार्यः’ इति सामोदं धरामिमां अस्मत्कालीन इतीमं कालञ्च वन्दामहे नन्दामहे च। भाग्यशालिनो वयम्।

खण्डार्थनिर्ण्णयः आचार्यमध्वप्रणीतासु सर्वमूलकृतिष्वन्यतमः। तत्व- वाददृशा ब्राह्मणारण्यकखण्डानामर्थनिर्णयमत्र चकार। कर्मपराणां श्रुतीनां निर्विवादं ज्ञानपरता विद्यत इत साधितम्।

महानाम्नीमन्त्राणां तथैव याज्यामन्त्राणां वैशिष्ट्यमत्र विववार।

ग्रन्थस्यास्य व्याख्यामकार्षीत् बन्नञ्जे श्रीगोविन्दपण्डिताचार्यः। इयं व्याख्या ‘खण्डार्थचन्द्रिका’ इति नाम्ना प्रथिता।

अयि मागध! किं वृथा प्रशंससि ? कः पण्डिताचार्यः ? लिकुचकुलजो वा ? यतिकुलचक्रवर्तिनः श्रीविश्वेशतीर्थश्रीपादाः विषयेऽस्मिन् प्रमाणम्।

[[240]]

श्रीकृष्णपूजायाः पञ्चमपूजादीक्षावधौ अन्यैः कृष्णोपासकैः सह कृष्णमुख्य- प्राणसन्निधौ इममुपाधिं ददुः। मान्यास्तावत् मान्यान् मानयन्ति। अपि च पण्डितवंशीयानां नैके ग्रन्थाः सम्पादिताः, प्रकटिताश्चेति पुनः सार्थक्यं भजते। गुरुमध्वदेवस्य साक्षाच्छिष्याणां कृतिषु निहितविशेषादरः आजीवनं तत्रैव जिजीव। जीवयामास च।

विषयोपस्थितिः विषयोपस्थापनञ्च प्रवक्तुः व्याख्यातुश्च वैशिष्ट्यं व्यनक्ति। आभ्यां गुणाभ्याम् आचार्यस्य प्रवचनानि ग्रन्थाश्च जिज्ञासूनां मनीषामाकर्षन्ति। विद्यापक्षपाती यः कोऽपि चिन्तनसरणिमेताम् आश्लिषति।

बहिर्भुग्ना अपि बहवोऽन्तश्श्लिष्टा एवेति निश्चप्रचम्।

व्यक्तिगौरवमविहाय गुणदोषयोः यथार्थचिन्तनं हि विमर्शः। न तु प्रशंसामात्रपरा, नापि दोषान्वेषणभरा वस्तुनिष्ठचर्चा न व्यक्तिनिष्ठा।

परिसरपद्धतिरियम्। आचार्यमध्वः न कमपि विचचार। न किमपि तत्याज।

गोविन्दाचार्योऽपि मार्गमेनमनुससार। दध्न्युपलपश्यकानां चन्द्रिकाव्याख्या न रोचेत। अभिप्रायभेदः न दोषाय। चन्द्रिकाव्याख्यानविषये किञ्चित् प्रस्तौमि।

प्रथमं तावत् पुरो काश्चन प्रतिज्ञाः कृताः। प्रबन्धुः गुरुबान्धवसम्बन्धं ताः विवृण्वन्ति। प्रतिदिनं ब्राह्मेमुहूर्ते विना पूर्वाचार्यस्मरणं प्राथमिकं नित्यकर्म न कुर्वते स्म। मङ्गलाचरणं गुरुस्मरणं पारायणं पुनरध्ययनं नित्यकर्म पुनः लेखनं, पाठनं, स्वाध्यायः पूर्वावलोकनं, प्रवचनं, पुस्तकपरिष्करणं रात्रौ घण्टात्रयं यावत् निद्रा पुनरुत्थानमेव दिनचर्यासीत्।

‘अत्यशक्येतु निद्रादौ पुनरेवसमभ्यसेत्’ इति अस्य उदाहरणमिवासीत् आचार्यजीवनम्। सततं शास्त्रार्थविचारतत्परं, स्वाध्यायशीलमेव आचार्य- जीवितम्। पाठे, प्रलापे च विविधव्याख्यानेषु विद्यमानान् स्वारस्यपूर्णविचारान् प्रस्तौति स्म।

सर्वदा आचार्यस्य चिन्तनगतिः शुद्धपाठगवेषणे। पाठशुद्धावर्थशुद्धिः खलु। बीजभङ्गेऽङ्कुरस्य कुतो जनिः ? मठीयग्रन्थालयेषु विद्यमानानां

[[241]]

हस्तमातृकाणां पांसुमोचने आचार्यगोविन्दस्य योगदानं महदस्ति। तत्रापि शुद्धः श्रीहृषीकेशतीर्थीयपाठः अस्यैव श्रमेणोपलब्धः। तत्र यल्लुप्तः श्रीरघुवर्यतीर्थीये पुनर्लब्धः। यदा विदिततुळुलिपिगन्धः भवेत् तदैवैतस्य परिश्रमानुभूतिः भवेत्। शोधक्षेत्रे मातृकाणां प्रामाण्याङ्गीकरणेऽनेकेविचाराः अनुसन्धेयाः। कालः, देशः लेखक उत रचयिता ? लिपिज्ञता, भाषातज्ज्ञता, प्रमेयविज्ञता, गुरदेवताभक्तिः एवं बहुप्रकारेण विमृश्य प्रामाण्यमुररीक्रियते।

तदलमतिविस्तरेण।

ऐतरेयारण्यकब्राह्मणानामर्थचिन्तनमत्र खण्डार्थनिर्णये कृतम्। तत्पूर्वं पूर्वेषां मताचार्याणाम् अन्येषां व्याख्यातॄणामभिमतं किमिति प्रस्तुतम्।

आरण्यके केऽध्यायाः उपनिषद्भागत्वेन स्वीक्रियन्ते ? तत्रर्षिः कः ? पूर्वकथा का ? को मतभेदः ? आचार्यमध्वस्य अभिप्रायः कः ? मतभेदे किं कारणम्? इत्येते विषयाः चर्चिताः।

एतेषां मन्त्राणां द्रष्टा महिदासः। पुराणे कश्चन भक्तः महिदास श्रूयते।

भागवते भगवान् महिदासः नारायणस्यांशत्वेन प्रतीयते। स एव ऐतरेयः।

ऋङ्मन्त्राणां द्रष्टा। भागवतेऽपि निर्णये विवृतः। एवमेव कृष्णकपिलनामकौ वरमन्त्रौ पूर्वदेवौ स्तः। भगवन्नाम गृहीत्वा प्रसिद्धिं स्वार्थं च साधयितुं प्रयतितौ। वराहावतारस्य अपि कार्यप्रवृत्तिः द्विवारमभवत् इति भागवतगतसंशीतिं पर्यहरत्।

प्रथमरूपं आदिहिरण्याक्षं दंष्ट्राभ्यामहनत्। द्वितीयं हिरण्याक्षं गदया तताड। एवं भगवद्रूपाणां निश्चयज्ञानं प्राप्यैव ध्यायेत्। षड्गुरुशिष्यादयः भगवन्तं महिदासं, भक्तं च महिदासं सम्मिश्र्यैतरेयर्षिकथां विवृण्वन्ति।

आचार्यः महिदासैतरेयचरितं सुस्पष्टं व्यवृणोत्।

ऐतरेयब्राह्मणस्य षोडशेऽध्याये तुरीयखण्डस्य तदुपबृंहणतया तृतीयखण्डस्य, तथा आरण्यकस्यान्ते पठितस्य महानाम्नीखण्डस्य च अर्थनिर्णयोऽयं ग्रन्थः। अत एव खण्डार्थनिर्णय इति सार्थकं नाम।

[[242]]

व्याजेनानेन समस्तकर्मकाण्डस्य भगवत्परता प्रतिपादिता आचार्यमध्वेन।

अहो! भगवत्पादस्य दयालुता। प्रमुमुदुः सज्जनाः साधुवाण्या। आचार्य- मध्वस्य आशीः परम्पराः परिरक्षन्त्वस्मान् शास्त्रमथनकर्मणि वर्मभूताः।

विषयानुक्रमणी सङ्ग्रहणीयप्रमापुष्करिणीव भाति। ग्रन्थस्यास्य स्पष्टता स्फुटता निष्कृष्टता च अनयैव ज्ञायते। ब्रह्मणोनन्तगुणत्वप्रतिपादनभागे नैके मन्त्राः उद्धृताः, व्याख्याताः, गुणाः प्रदर्शिताः अपूर्वार्थाः प्रकाशिताश्च।

मन्त्राणां व्याख्यातारः पूर्वसूरयः श्रीशङ्करसुरेश्वरसायणाद्याचार्याः कटाक्षीकृताः। गुणप्रतिपाद्यत्वेनैव ते मन्त्रान् व्याचख्युः। पुनश्च व्याख्यया अनया शाखान्तरे विद्यमानान् पाठभेदान् तत्रत्यं स्वारस्यं च प्रादर्शि।

इतिहासपुराणवाक्यैः वेदवचसां समुपबृंहणमपि कृतम्। व्याख्यानमिदं नैकेषां दर्शनानां निकषाश्मायितं बभौ।

वादसरणिरियं जिज्ञासूनां बोधदायिका, ज्ञानिनां चित्तचोदिका च।

सिद्धेऽर्थे व्युत्पत्तिनिर्णये तावत् कोषव्याकरणादीनां, सिद्धेऽर्थे प्रामाण्यस्य सर्वलोकप्रसिद्धेः सिद्धं महागुणवत्वं विष्णोः। महानाम्नीखण्डार्थनिर्णयावसरे आचार्यमध्वोदाहृतानां मन्त्राणां पूर्णपाठः, अर्थवैशिष्ट्यं, छन्दोविचारः, उपासनारहस्यम्, व्याकरणस्वारस्यं चाभिव्याङ्क्षीत्।

आचार्योदाहृतमन्त्रः- ‘तेभिरिन्द्रं चोदय दातवे मघम्’ अत्र विवरणम्- परिसोम प्रधन्वा स्वस्तये नृभिः पुनानो वासयाऽशिरम्।

ये ते मदा आहनसो विहायसः तेभिरिन्द्रं चोदय दातवे मघम्॥

ऋ- 9-75-5 इति समग्रो मन्त्रः। पञ्चर्चं सूक्तम्। भार्गवस्य कवेः आर्षम्। जागतं छन्दः। पवमानः सोमो देवता। सर्वजीवेभ्यः उत्कृष्टया प्रमया सहितः पवमानो मुख्यवायुः प्रार्थ्यते- हे सोम! अस्माकं, सु+अस्तये सन्ततसौख्याय, सम्यक्

[[243]]

सत्वाय वा परितः रक्षकः सन् प्र धन्व। धन्वगतौ। परितो दत्तदृष्टिः सञ्चरन् भवेत्यर्थः।

दैर्घ्यमवधारणे। नृभिः स्वभक्तैः कृतया सेवया जगत् पुनानः आशिरं त्वमाश्रितं जनं त्वद्रक्षाकवचेन वासय आच्छादय।

ये ते मदा आनन्दजनका भक्तिरसाः तेभिः इन्द्रं नारायणं चोदय।

किमिति ? अस्मभ्यं मघं विद्यावित्तात्मकं धनं दातवे दातुम्। कीदृशास्ते भक्तिरसाः ? सर्वान् दोषान् घ्नन्तीति आहनसः। विः विष्णुरेक एव हायते गम्यत एभिः इति विहायसः। ओ हाङ् गतौ। सदा विष्णुमेव यन्तः, आखणाश्मत्वात् असुरैरहन्यमाना इत्यर्थः।

इत्यपावृतो मन्त्रार्थः बन्नञ्जेपदोपाह्वेन आचार्यगोविन्दपण्डितेन।

एवमग्रे, प्रज्ञातानुष्टुभामर्थनिर्णयः फलवाचिखण्डार्थनिर्णयः अर्थवादानां स्वार्थे तात्पर्यनिर्णयः परीधानीयमन्त्रार्थनिर्णयः, याज्यमन्त्रार्थनिर्णयः, छन्दसां व्यतिषङ्गनिर्णयः इतिकर्तव्यतानिर्णयः इत्येते विषयाः सम्यङ् निरूपिताः। शतमानेऽस्मिन् गोविन्दपण्डिताचार्यस्तु प्रतनयोगमीमांसां प्राणसूत्राणि परिचय्य सूत्रकारो बभूव। प्राणाग्निसूक्तस्य भाष्यमकारि।

भाष्यकारस्समजनि।

ब्रह्मसूत्रभाष्यस्य व्याख्यानभूतस्य तत्वप्रदीपस्य पुनष्टीकाकृतानेन चन्द्रिका नाम्ना। एवं टीकाकारः। पुनश्च भागवततात्पर्यनिर्णये अधोभागे टिप्पणीः आरचयत्। पुनः कन्नड अनुवादचन्द्रिकया संस्कृतमूलग्रन्थाः इतोऽप्यधिकं प्रकाशिताः।

गीर्वाणकार्णाटिक्युभयभाषाविचक्षणः। गद्यपद्यसाहित्यचतुरः। पठन- पाठनविज्ञः। प्रवक्ता रचयिता च। लौकिकवैदिकविचारनिष्णातः।

सव्यसाची लेखकः। विमर्शकः, संशोधकः, अनुवादकश्च। मुख्यतः संशयच्छित् स्वयमसंशयश्च डा. बन्नञ्जे गोविन्दपण्डिताचार्यः।

[[244]]