२५ तन्त्रज्ञेन दृष्टः तन्त्रसारसङ्ग्रहः

विद्वान्. कृष्ण नूरित्तायः

तन्त्रसारसङ्ग्रहः आचार्यमध्वस्य सर्वमूलेषु अन्यतमा श्रेष्ठतमा कृतिः।

तन्त्रशास्त्रप्रपञ्चे च अपूर्वा च। एतस्य ग्रन्थस्य विषये नारायणपण्डिताचार्या मध्वचरितं दृष्ट्वा ग्रन्थवैशिष्ट्यमपि अनुभूय मध्वविजयाख्यग्रन्थे इत्थम् अभ्यधुः- कस्तन्त्रसारं सम्प्राप्य न स्यात्पर्याप्तवाञ्छितः।

अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ॥

तन्त्रग्रन्थास्तु बहवः। परन्तु तन्त्रार्थः कः? तत्र कति भेदाः? तनोति विफुलानर्थान् तत्तमन्त्रसमन्वितान्।

त्राणं च कुरुते यस्मात् तन्त्रामित्यभिधीयते ॥

इति तत्वज्ञानं मन्त्रज्ञानं च दत्वा यस्त्रायते सः तन्त्रः।

सर्वेऽर्थाः येन तन्यन्ते त्रायन्ते च भयाज्जनाः।

इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते ॥

इत्यपि तदर्थे अन्यत्रोक्तं मननीयम् ॥

एतादृशस्य तन्त्रस्य भेदास्तु शैव-गाणपत्य-वैष्णवेत्यादयः बहवः वर्तन्ते। तत्र वैष्णवतन्त्रमूलस्तु पाञ्चरात्रमेव।

पाञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥

इति भगवदुक्तवाक्यान्येव तत्र वर्तन्ते। रात्रिर्नाम - शब्दस्पर्शरूपरस- गन्धनामकपञ्चभूतगुणाः। तदसारतां प्रतिपाद्य अज्ञानं दूरीकृत्य तद्व्यतिरिक्त निरञ्जनं यस्तन्त्रः दर्शयति सः पञ्चरात्रतन्त्रः। अन्यग्रन्थास्तु तद्भिन्नं लौकिकार्थं सम्पादयन्ति। न तु भगवद्ज्ञानम्।

तन्त्रस्यागमः इत्यादि वर्तते नाम। ‘तन्त्रं वै वेदसग्मितं’ इति वेदतुल्यबुध्द्या गौरवेण तथोक्तम्। आगमो नाम-

[[236]]

आगतं शिववक्त्रेभ्यो गतश्च गिरिजानने।

गतं श्री वासुदेवस्य तस्मादाग उच्यते।

रुद्रयामलादितन्त्रेषु अवोचन्। नग्नदेवताराधन-शवाराधनादिकं स्मशानसाधनादिकमपि। परन्तु तद्व्यतिरिक्तं पाञ्चरात्रं सात्विकं, भगवज्ज्ञान- साधनाप्रकारं सत्वमार्गेण वदति। न तु मुक्तिमार्गम्।

एतादृशानाम् अनेकेषां तन्त्रग्रन्थानामध्ययनं दुष्करमिति मत्वा श्रीशङ्कराचार्याः प्रपञ्चसारसङ्ग्रह इत्येकां कृतिं सर्वतन्त्राणि समीकृत्य आरचयन्। परन्तु तत्र शाक्तछाया बहु दरीदृश्यते। अतः सम्पूर्णसात्विकतन्त्रः न। अपि च ते पाञ्चरात्रागमविरोधिनः। परम्परया वैष्णवविरोधः तत्र वर्तते।

अतः आचार्यमध्वः श्रीविष्णूदिततन्त्रसारग्रन्थस्य सारं सङ्गृह्य ‘तन्त्रसारसङ्ग्रहः’ इत्येकं ग्रन्थं अददात्। अयं ग्रन्थः अध्यायचतुष्केण ४४० श्लोकैश्च व्याप्तः बहु सङ्क्षिप्तः परन्तु अर्थदृष्ट्या विश्वतोमुखः।

एतादृशग्रन्थः ‘आह देवो रमोत्सङ्गविलसत्पादपल्लवः’ इति प्रथमाध्याये, ‘अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः’ इति चतुर्थाऽध्याये च साक्षाद् भगवदुक्तत्वेन दृश्यते। अयं च ग्रन्थः पाञ्चरात्रसम्वादी। प्रथमाध्यायं मन्त्रपूजादिविषयः हितीये होमविषयः तृतीये च शिल्पदेवालयनिर्माणवास्तु- प्रतिष्ठादिकं, चतुर्थे तु फलप्रदमन्त्रोद्घाटनम् अवोचन्। योगसाधनमपि।

आचार्यैरवोक्तं- ‘अस्य सञ्क्षेपशास्त्रत्वात् न विस्तरविरोधिता इति। अल्पाक्षरोऽपि अर्थतः विस्तृतोऽयं ग्रन्थः न सुलभाध्ययनसाध्यः व्याख्यानेन विना।

एतादृशस्य ग्रन्थस्य संस्कृते तन्त्रसारविवृतिः, छलारि, तत्वकणिकाख्यः लघुटिप्पणिश्च एतादृशव्याख्यानचतुष्टयं वर्तते।

कर्नाटकभाषायां तावत् अपूर्वव्याख्यानं बन्नञ्जे गोविन्दपण्डिताचार्येण इदं प्रथमतया १९५८ तमे वर्षे संक्षिप्य प्राकारि। तेषां २०तमे वयसि। ततः पुनः १९९६ तमे वर्षे पुनर्मुद्रापितम्। सर्वमूलग्रन्थप्रकटनसन्दर्भे हृषीकेश- तीर्थश्रीपादानां मूलपाठः सम्पादितः च तैः।

[[237]]

परन्तु तस्य पुस्तकस्य अलाभे बहुजनापेक्षया विस्तृतव्याख्यानसंहितं देवतामूर्तिचित्रेण सह होमोपयुक्ताचार्यमध्वोक्तमण्डसहितं, यन्त्रविन्यासं , चक्राब्द-भद्रकमण्डलविशेषविवरणेन सहितं विजयदासवर्योक्त कङ्कणाकार- सुळादि-उपासनाविधानमपि परिशिष्टे दत्तवन्तः।

अपि च प्रतिष्ठारम्भोपयुक्ताङ्कुरार्पणं, आन्दतीर्थभगवत्पादैः तन्त्रसारोक्त नाडीचक्रविवरणं, मन्त्राणां ऋषिच्छन्दोदेवातविचारश्च परतन्त्रोक्त आचार्य- मध्वोक्तवैशिष्ट्यसहितं, प्रणवगायत्रीमन्त्रापूर्वन्यासक्रमश्च, मुद्रणं विन्यासादि विशेषतः परिशिष्टे न्यधादि।

इत्थं बन्नञ्जे गोविन्दाचार्याः पौरोहित्योपयुक्तवैष्णवपद्धतिं तन्त्रसार सङ्ग्रहव्याख्याव्याजेन निर्ममिरे। तेषां भाषारीतिरप्यपूर्वा। साहित्यभूयिष्ठा सुन्दरी च। सररा प्रगल्भा च। तन्त्रसारसङ्ग्रहश्लोकव्याख्याने तस्य तस्य श्लोकस्य अपूर्वटिप्पणी विशिष्टा। अन्यान्यतन्त्रग्रन्थावलोकनं विना तादृश- टिप्पणी असाध्या। तेषां अध्ययनव्याप्तिं सा दर्शयत्यस्माकम्। तत्र च अन्यग्रन्थानां दोषोद्घाटनपूर्वकं आचार्यमध्ववैशिष्ट्यं तैः प्रत्यपादि।

उदाहरणं- नारायणाष्टाक्षरमन्त्रध्यानम्- उद्यदभास्वत्……… भूषिताः इति।

तत्र ध्याने समग्रावरणपूजा निरूपिता इति गोविन्दाचार्या अवदन्।

कथमिति चेत् - ‘स्वमूर्तिगणमध्यगः’ इत्यत्र परमपुरुषमारभ्य……

विश्वरूपपर्यन्तं पञ्चमावरणं न्यरूपयन्। ततः ‘ब्रह्मवायुशिवाहीशविपैः’ इयमनेन षष्ठावरणम् अवदन्। ‘शक्रादिकैरपि‘ इत्यनेन सप्तमदिक्पालावरणं अवोचन् आचार्यमध्वा इति प्रतिपादयन्तः गोविन्दाचार्याः, अस्मान् पौनः- पुन्येन तत्र तत्र एतादृशाचार्यमध्वौक्तवाक्यानां सूक्ष्मविशेषाणां उद्घाटनद्वारा विस्मयं प्रमोदं च अददन्त।

चतुर्थाध्याये तु अन्यतन्त्रोक्तमन्त्राणां आचार्यमध्वोक्तमन्त्राणां च

[[238]]

व्यत्यासं आचार्योक्तमन्त्रमाहात्म्यप्रदर्शनद्वारा विस्मयावहविषयम् अवोचन्।

इदानीन्तनवर्षेषु आचार्यमध्वानां सर्वमूलग्रन्थसम्पादनम् अध्ययनम् अध्यापनं पुस्तकप्रकटनम् उपन्यासादिकं एतादृशनानाविधसेवां बहुविधां कृतवन्तः। वयं तेषां काले एव जीवनं प्राप्तवन्तः, तेषां दर्शनेनोपान्यासेन संलापेन च वयं पुण्यशालिनः। तेषां ग्रन्थाध्ययनेन केवलं सर्वमूलग्रन्थस्य विशेषतः तन्त्रसारसङ्ग्रहव्याख्यापुरस्सराध्ययनेन समस्ततन्त्रग्रन्थावलोकनं भवेत् इति अहं धैर्येण निःसन्देहं वदामि।


[[239]]