२४ न्यासपद्धतेः व्याख्या पद्धतिचन्द्रिका

डा. षण्मुख हेब्बार्

महदिदं सुकृतफलं यत् प्राणनारायणयोरपारानुग्रहभाजां बन्नञ्जे गोविन्दाचार्याणां समकालीना वयं भवामः तमपश्याम तद्वचांस्यशृणुम तद्ग्रन्थांश्चावलोकयाम इति। श्रीमदाचार्याणां समस्तग्रन्थानां संशोधकानां, अनुपलब्धाचार्यकृतीनां सम्पादकानां गरिमा कथंकारं परिमितपदगम्यो भवति। विशेषतः पण्डिताचार्यान्वयविरचितानां तदितरेषां च अप्रकटितानां ग्रन्थानां प्राकाश्यं नयतां श्रीमतां बन्नञ्जे गोविन्दाचार्याणां नैकभाषोद्भवासु कृतिप्रसूनेषु अन्यतमा श्रीमदाचार्यविरचितायाः न्यासपद्धतेः सम्पादनं व्याख्यानं च। न्यासपद्धतिः श्रीमदाचार्याणां लघ्वीषुकृतिषु अन्यतमा।

गोविन्दाचार्यकृता व्याख्यापि नात्यलघ्वी। तथापि व्याख्याने व्याख्यायाः अनेकानि विशिष्टानि रूपाणि तत्र तत्र प्रकाश्य निलीयन्ते। व्याख्याविशेषाः अधोनिर्दिष्टरूपेण पठितॄणां मनोभित्तौ चकासति।

न्यासपद्धतिरित्ययं ग्रन्थः अस्तीत्येव व्यस्मरल्लोकः। मध्वग्रन्थानां सप्तत्रिंशत्त्वमेव आम्रेड्यते स्म। तदात्वे अस्यैव आचार्यस्य दृष्टेः पथमापतितः श्रीमदानन्दतीर्थप्रणीतः न्यासपद्धत्याख्यः ग्रन्थः। समुद्भूताः विप्रतिपत्तयः- ‘ननु व्यासतीर्थप्रणीतेन ग्रन्थमालिकास्तोत्रेण ग्रन्थानां सप्तत्रिंशत्त्वे सिद्धे न्यासपद्धतेः मध्वकृतित्वम् असम्भावनाग्रस्तत्वेन निरस्तम् रसानामष्टत्वमिव’ इत्याद्याः। अत एव आचार्यैः तत्र सुरोत्तमतीर्थवचनं प्रमाणीकृतम्- भगवत्पा दकृतप्रणवकल्पन्यासपद्धत्यादौ कार्स्न्येन .. इत्यादिवचनम्। विप्रतिपत्तयश्च स्वयमेवोपशान्ताः समूलाः। श्रीमताम् आचार्याणाम् अयं विशेषः- नानिर्णायकापेतं निर्णयन्ति, नानिर्णायकं निर्णयायोपयन्ति। किन्तु निर्णायकेनैव निर्णयन्ति। सर्वत्राप्ययं गुणः संदृश्यते।

यद्यपि ग्रन्थस्यास्य पुरोवाच्येव ग्रन्थस्य महिमोपवर्णने शब्दतः लघुरपि अर्थतः महानयं ग्रन्थः इत्युदघोषि तत्रभवता व्याख्यात्रा। ननु अल्पमेव

[[232]]

दृश्यते व्याख्यानेऽपि इति न मन्तव्यम्। तत्रैवोक्तं विष्णुतीर्थीयम् अस्य विस्तृतं व्याख्यानरूपम् इति। अथापि क्कचिदस्य बह्वर्थत्वं अत्रापि प्राकाशि- तद्यथा ‘धृत्वोर्ध्वपुण्ड्रं विधिना’ इत्यत्र द्वादशपुण्ड्रस्थानानि कानि मन्त्राश्च के तत्र आदावन्तेच वासुदेवमन्त्रेण सम्पुटीकरणस्य औचित्यं, तिर्यक्त्वं निषिद्ध्य ऊर्ध्वपूण्ड्रस्यैव धारणे यौगिकं च महत्वं प्रकटीकृतम्। ऊर्ध्वपुण्ड्रविधानं वैष्णवत्वाधायकस्य मुद्राधारणस्यापि उपलक्षणार्थम् इति कथनेन ग्रन्थस्य बह्वर्थत्वमपि सूचितम्। अस्मिन्नेव श्लोके आसनं प्रकल्प्य इत्यस्यापि व्याख्यानावसरे द्विविधासनं लेशतः निरुच्य, अष्टमन्त्राणां विषयेऽपि विस्तारेण व्याख्यातम्।

मङ्गलाचरणे नरनारायणस्य वन्दनमाचरितम्। अपूर्वमिदं नमनम्। किमस्य स्यादौचित्यम्..? उच्यते आचार्येण ‘इदमिह तर्क्यते- नरनारायणाश्रमे नारायणेन समाज्ञप्तः पुनरपि बदरीं गत्वा तत्रेमं ग्रन्थं प्रायः प्रणिनाय अतो नाराय़णं ग्रन्थादौ सस्मारेति। न्यासधर्मान् सल्लोके शिक्षयितुमेव धर्मतनयत्वेन नाराय़णस्य अवतरणात् तत्स्तुतिः अत्रादौ समुचिता एव इति च। ब्रह्मादिनराणां नारायाश्च अयमयनमिति नरनारायणमिति सामान्येन व्याहरणमित्यपि। अथवा नराणां नारं निर्दुष्टं ज्ञानमाययतीति बादरायणोऽपि नरनारायणः। प्रसङ्गानुगुण्येन पदानां औचित्यपूर्णतया व्याख्यानं बन्नञ्जे गोविन्दाचार्याणामेव अपूर्वं कौशलम्।

अत्रैवानेकानि उदाहरणानि समुपलभ्यन्ते। स्थालीपुलाकन्यायः आश्रीयतेऽधुना।

एतादृशं निर्वचनसामर्थ्यं मध्वाचार्याणां ग्रन्थानां व्याख्यानावसरे नितरामपेक्ष्यते।

यद्यपि यत्याश्रमे विषये श्रीमदाचार्यैः अन्योऽपि ग्रन्थः निर्मितः ओन्तत्सत्प्रणवकल्पाख्यः। न्यासपद्धतेरपि यत्याश्रमविषयत्वात् कुतोऽयं ग्रन्थभेदः इत्यस्य परिहारः अत्र प्रकटितः- ओन्तत्सत्प्रणवकल्पस्य सन्न्यास- विधिः विषयः, अस्यास्तु न्यासिनामाचारनिरूपणमिति। इत्थं ग्रन्थभेदे औचित्यं प्रदर्शितम्।

अरुणोदयवेलायाम् उत्थितः इति अत्रोच्यते। चतस्रो घटिकाः

[[233]]

प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयम्….। इति अरुणोदयकालस्य स्नानकालत्वं उक्तम्। अत्र तु निद्रायाः उत्थानकालत्वमुच्यते। तत्कथम् पूर्वापरीभाववतोः समानकालत्वमिति प्रश्नः समुदेति परं व्याख्यानमत्र मौनमावहति इव। यद्यपि अरुणोदयवेलायाम्इत्यस्य विवरणे एव परिहारोऽपि निहितः। तत्र ‘यदा अरुण उदेति तस्मिन् काले’ ‘वेला काले च सीमायाम्’ इति च व्याख्यानम्। तदा इति वक्तव्ये तस्मिन् इति कथनं सामीपिकार्थं विवक्षित्वैव। उक्तार्थे कोशस्य प्रमाणीकरणं च अनया एव विवक्षया। वेला शब्दस्य तत्कालार्थत्वेवेलाकालेच इत्येवावक्ष्यत्, सीमार्थस्यैव विवक्षणात् सीमायाम् इत्यप्युक्तम्। अतः मूले अरुणोदयवेलायाम् इत्यस्य अरुणॊदयसमीपकाले उत्थाय इत्यर्थः इति समस्या परिहृता भवति। इत्थमपि आचार्याणां कृतिषु गूढाभिसन्धिः सम्भाव्यते।

स्नानं कुर्याद् यथोक्तेन विधिना इति मूलम्। पूर्वं स्नानविधानस्य अनुक्तत्वात् अनभिहितस्य आचरणं कथं सम्भवति इति प्रश्नस्य व्याख्याने इदमुत्तरम्- सदाचारस्मृतावुक्तेन विधानेन इत्यर्थः। प्रश्नः परिहृतः। - लाभे अलाभे च निर्विकारतया भिक्षार्थं अटनं भिक्षाटनम्, चरेद्भिक्षाटनं यतिःइति न्यासपद्धतौ। ननु त्यक्तसर्वसङ्गस्य भिक्षाव्याजेन स्नेहप्रवृत्त्यादेः पुनरारम्भः इति चेत् न। किन्नाम भिक्षाटनम् ?… उक्तं व्याख्यायाम् - ‘लाभेऽलाभे च निर्विकारतया भिक्षार्थं अटनम् भिक्षाटनम्’ इति। कुतोऽयमर्थलाभ इति चेद्धातुपाठादेव। तथाहि भिक्षयाच्ञायामलाभे लाभे च इति।

इतोऽपि केचनांशाः- ऊर्ध्वपुण्ड्रं धृत्वा आसनं प्रकल्प्य अष्टमन्त्रान् जपेत् इत्युक्तम्। परं किमासनम् ? वीरं? स्वस्तिकं? पद्मं.. वा ? उच्यते आचार्येण यद्यस्य सुखं तत्तस्यासनम्। स्थिरसुखत्वमेव चासनकल्पने प्रकर्षः इति।अतः न वीरादिनियमः। एतदेव च ब्रह्मसूत्रभाष्येऽपि श्रीमदाचार्येण विचारितम्।

त्रिपञ्चसप्तसद्मानि गच्छेन्नातोऽधिकं पुनः इति विधिः। अस्य अध्यात्मिकं मुखं प्रादर्शि व्याख्यात्रा- प्रणवप्रतिपाद्यः प्रीयतामिति त्रीणि सद्मानि।

[[234]]

पञ्चात्मा प्रीयतामिति पञ्चसद्मानि, सप्तविद्यावेद्यः प्रीयतामिति सप्त सद्मानि।

यदि वा द्विचतुर्षु सद्मसु पर्याप्तता तदा न त्रित्वादिपूरणार्थं पुनर्गच्छेत्। अयं चव्याख्यानविशेषः। तथात्वेपि भगवद्रूपविशेषानुसन्धानं व्याख्याने निरूपितम्।

इदं च व्याख्यानं न केवलं विदुषां अपि तु छात्राणां संस्कृताभ्यासिनामपि यथा हितकरं भवेत् तथा अन्वयानुगुणं प्रतीकग्रहणयुक्तमस्ति। अत एव मूलस्यार्थान्वेषणं न कष्टाय भवति।

इत्थम् अनेकैः विद्वद्रमणीयैः अंशैरुपेतं इदम् आचार्याणाम् व्याख्यानं नान्यैः स्वकीयैर्व्याख्यानैर्विभिद्यते। तथापि अवशिष्टा अपि सन्ति विषयाः।

‘दण्डोदकं जपस्यान्ते दद्याद्विधिविधानतः’। कोऽयं विधिः..? शास्त्राणाम् अवलोकः अपेक्षितः अस्ति। भिक्षासम्पादनावसरे ‘प्रायः तदात्वे मुसुरॆ इतिकल्पना नासीत्दित्युक्तम् व्याख्यात्रा तत्रभवता आचार्येण। साम्प्रतं क्कचिद्व्यत्यासेन मुसुरॆ इति तु आचर्यत एव इत्यतः प्रामाणिकः विचारयत्नः एतद्दिशि विधेयः अस्ति।


[[235]]