२३ दूषणत्रयम्

अवधानी डा. वेङ्कटेश कुलकर्णी

उत्सादिव जलधाराः विद्वद्वरेण्यस्य बन्नञ्जे गोविन्दाचर्यस्य बुध्देः नूतनाः विचारधाराः निस्सरन्ति। यासां नावसितिरस्ति नोपक्रमोऽस्ति, नान्तरायोऽ स्ति। तदनुरोधेनैव च अर्थगभीराः रसमेदुराः परममहोदधिगामिन्यो वाक्सरितः स्यन्दन्ति। तासु च कश्चित् महानद्य इव वपुषा विषयैश्च महत्य उपनिषच्चन्द्रिकाद्याः। काश्चित् क्षुद्रापगा इव गात्रेणाल्पा अपि विषयेण गाम्भीर्येण च महत्य एव। तासु अन्यतमेयम् दूषणत्रयविवृतिः।

गोविन्दाचार्यस्य जीवितावधेरुपान्ते एकाशीतितमे वयसि सम्पादितोयम् ग्रन्थः जराग्रस्तशरीरस्यापि बुध्देरजराग्रस्ततामावेदयति। श्रीमदानन्दतीर्थ- भगवत्पादाचार्याणां बदरिकाश्रमप्रवेशादूर्ध्वं सप्तशतमानोत्सवशुभावसरे प्राकाश्यं नीतोयं ग्रन्थः इति मान्यतास्य ग्रन्थस्य धन्यता च ग्रन्थकर्तुः।

‘दूषणत्रयम्’ इति त्रैलोक्यगुरोः श्रीमध्वाचार्यस्य ‘खण्डनत्रयम्’ इति लोकप्रसिद्धस्य ग्रन्थत्रयस्य नामान्तरम्। ग्रन्थोऽयम् आद्यटीकया श्रीपद्मनाभतीर्थीयया अद्यतनीयया गोविन्दीयया च संवलिता विराजते।

नामविमर्शः आचार्यस्य विमर्शः नाम्ना एव सर्वत्र आरभ्यते। अत्रापि मायावाद- खण्डनम्, प्रपञ्चमिथ्यात्वानुमानखण्डनम्, उपाधिखण्डनम् इत्यभिधाभिः खण्डनत्रयमिति लोकप्रथितिरस्ति। इयमप्यभिधा ‘प्रश्नः पृष्टः खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम्’ इति पण्डिताचार्यवाण्याधारा भवितुमर्हतीति सम्प्रतिपत्तिमपि प्रसिध्द- नाम्नोऽभिधाय प्राचीनहृषीकेशतीर्थीयपाठे विद्यमानं ‘मायावाददूषणम्’ इति नामावलम्ब्य ‘दूषणत्रयम्’ इति शीर्षिकादृतेति अवतरणिकायां जगाद।

[[227]]

‘पाठशुध्दिः’ शुध्दपाठन्यस्तदृष्टिराचार्यो लघुग्रन्थेऽप्यस्मिन् साधु पाठं चिन्तयामास।

यथा मायावाददूषणे ‘द्वाविमौ..’ इत्यादि पञ्चश्लोकोल्लेखानन्तरं पद्मनाभतीर्थीयटीकायां इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।

मनसस्तु परा बुध्दिर्बुध्देरात्मा महान् परः ॥

महतः परमयक्तमव्यक्तात् पुरुषः परः।

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥’ ‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ इति काठकोपनिषदः मन्त्रद्वयं ब्रह्मसूत्रञ्चैकं व्याख्यातं दरीदृश्यते।

किन्तु हृषीकेशीयपाठे नानयोरुल्लेखोऽस्ति। कथमिदं भवितुमर्हति? उभावपि त्रैलोक्यगुरोन्तेवासिनौ। साक्षादेव गुरुमध्वमुखकमलादेव ग्रन्थानां श्रोतारौ, प्राज्ञौ च। तत्कथमत्र प्रक्षेपो विक्षेपो वा इति भवत्येव संशीतिः। तत्रैव समीहितं श्रीमता। पूर्वमुपदेशकाले इदं वचनद्वयमयोजयित्वैव कथितम्।

ततः कालान्तरे पुनरुपदेशे स्फुटतायै वचनद्वयं स्वयमेव योजयित्वाऽभ्यधायि।

अतः पाठद्वयमपि प्रामाणिकं, ग्राह्यञ्च।

काव्यकौशलम् यल्लिखति गोविन्दाचार्यः सर्वं तत् रमणीयं काव्यमेव भवति। तस्य सर्वास्वपि भाषासु तादृशी एव गतिः, तादृश एव चमत्कारः। अत्र गद्यरूपस्य मायावाददूषणस्य टीकां पद्यैः, पद्यरूपस्य उपाधिखण्डनस्य गद्यरूपं व्याख्यानं गद्यरूपस्य प्रपञ्चमिथ्यात्वानुमानखण्डस्य च गद्यपद्यरूपां व्याख्यां लिलेख। समग्रं मायावाददूषणं पद्यपञ्चकेन प्रपञ्चयामास।‘तत्रैकं पद्यमस्ति’ सिद्धं तत्वमथो विशेषरहितं कञ्चावृणोत्वज्ञता यच्चाज्ञातचराभिधेयगमकं तद्धि प्रमाणं तव।

[[228]]

अज्ञानानुपत्तितस्तव मतं सर्वं निरस्तं स्वतो मिथ्या चेदिदमैक्यमागमगणो मिथ्यार्थवादी भवेत्।

अत्र आद्यपादेन ‘सिद्धत्वात् स्वरूपस्य विशेषभावाच्च नाज्ञानं कस्यचिदावरकं’ इति वचनं व्याचख्यौ। द्वितीयपादेन ‘अनधिगतार्थगन्तृ प्रमाणमिति तन्मतम्’ इति वचनं विवार। तृतीयेन पादेन ‘अज्ञानासम्भवादेव तन्मतमखिलमपाकृतम्’ इति वाक्यं व्याख्यात्। तुरीयेण च पादेन ‘मिथ्यात्वे चैक्यस्यातत्वावेदकत्वमागमस्य स्यात्’ इत्याचार्यवचः व्याचष्ट। एवमेकैकेनैव पादेन श्रीमदाचार्यवचनानामाशयः साधु सङ्गृहीतो दरीदृश्यते।

विमर्शः उपाधिदूषणे दृश्यमानानां- सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः।

दृश्यो ह्युपाधिभेदेऽपि हस्तपादिगो यथा ॥

नानादेहगभोगानुसन्धानं योगिनो यथा।

न चेद् भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥

अनुसन्धानरहितदेहबाहुल्यमन्यथा।

सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥

पद्यानामेषां बहुविस्तृतं विवरणमस्ति। अत्र श्रीमदाचार्यैः आत्मैक्यवादे यथा योगी नानादेहगभोगानुसन्धानवान् तथा सर्वेऽपि सर्वदेहगभोगानु- सन्धानवन्तः स्युरिति आपाद्यते। तत्र या सौभरेः कथा सा रमणीयतया गोविन्दाचार्येण विवृता। ततस्तेषामयं विमर्शो भवति। भवतु सौभरिः पञ्चाशद्देहवान्। तथापि तस्य तावद्देहगभोगानुसन्धानमस्ति इत्यत्र किं नियामकम्? सर्वमप्येक एवानुबभूव इति कुतोऽङ्गीकार्यम्? तस्येदं समाधानम्। यदि नास्ति भोगः, कुतो वा तावच्छरीरजिघृक्षा ? प्र- कुतो न भवेत् ?

[[229]]

स- न विनोदेन पञ्चाशच्छरीरोपादानम्, अपि तु पञ्चाशज्ज्न्म प्रारब्धक्षयो भूयादित्येव। प्रारब्धक्षयश्च न शरीरस्वीकारमात्रेण। नापि भोगाशया शरीरोपादानम्। न ह्याशा कदाऽप्यन्तमेति। अतः अनुभूत्या कर्मक्षयो भूयादित्येव ग्रहणम्। तच्च तदैव भवति यदि सर्वशरीरावच्छेदेन एकस्यानुभूतिर्भवति।

प्र- कथं वा एकस्य पञ्चाशच्छरीरवचनादेन भोगः ? स- न भवत्यन्येषामयोगिनाम्।चित्तवृत्तिनिरोधरूपयोगाभ्यासवतश्च अन्यासाध्यमपि साध्यं भवति। वार्धकेऽपि मानिनीमनोमोहनरूपग्रहणसमर्थस्य पञ्चाशच्छरीरोपादानं, तदवच्छेदेनानुसन्धानं सर्वमुपपद्यते। योगो ह्यत्र भक्तियोगः। ‘किमलभ्यं भगवति प्रसन्ने श्रीनिकेतन’ इत्याह भगवान् बादरायणः।

एवमाक्षेपपरम्परायाः समाधानं विदधति आचार्यवचनानि हृदयस्पर्शीणि विलसन्ति।

अपूर्वचिन्तनम् मिथ्यात्वानुमानदूषणमेवारभ्यते ‘विमतम् मिथ्या दृश्यत्वात्। यदित्थं तत्तथा यथा शुक्तिरजतम्’ इति।

कथं वा मङ्गलं विना ग्रन्थस्यास्योपक्रमः इति भवति जिज्ञासा। तत्र द्वेधा समाहितं गोविन्दाचार्येण। दूषणत्रयमेको ग्रन्थः। ‘नरसिंहोऽखिलाज्ञान…’ इति पद्यमेव दूषणत्रयात्मकस्य समग्रस्य ग्रन्थस्य मङ्गलम्। अतो न पृथङ्मङ्गलापेक्षा। साक्षादेव मिथ्यात्वसाधकं परानुमानमनूद्य निरस्यति इत्येकं समाधानम्। अपरञ्च श्रीमदाचार्यैः प्रोक्तं ‘विमतं मिथ्या दृश्यत्वात्। यदित्थं तत्तथा यथा शुक्तिरजतम्’ इति वचनमेव मङ्गलमपि परोक्तानुमाना- नुवादोऽपि। गुह्यभाषारूपेणास्य भगवद्वाचित्वात् मङ्गलत्वमस्ति।

तथा हि- विमतमित्याद्यं पदम्। मतं - ज्ञातम्। वि- विलक्षणतया,

[[230]]

विशेषतश्च। तथा च जगद्भिन्नत्वेन ज्ञातत्वात् ब्रह्म विमतम्। सर्वोत्तमत्वेन विष्णुत्वेन च ज्ञातत्वात् ब्रह्म विमतम्। तत् मिथ्या। मिथुनीभूय ईयते इति मिथ्या। रमया युक्तत्वेनैव ज्ञानिभिः गम्यते इति मिथ्या। सदा मम वाक्यप्रयोक्तुः मध्वाचार्यस्य दृश्यत्वात् विशेषतो मतम्। अनेनैव क्रमेण समेषां पदानां भगवद्वाचित्वं प्रदर्शितम्। यस्य उपनिषद्भाष्याणि ऋग्भाष्यमपि च वचोविधेयं न तस्य एवं व्याख्यानं क्लेशसाध्यम्।

ग्रन्थस्यास्य गोविन्दाचार्याणां मङ्गलपद्यमपि वैशिष्ट्यपूर्णम्।

तच्चैवमस्ति- विमतं विमतं वन्दे विमतं विमतं हरिम्।

विगतं विगतं दोषैरगतं सुगतं बुधैः ॥

पद्यनिबन्धनचतुरेण चतुर्गुणं विमतपदं न्यधायि। कविहार्दं ‘विमतं मिथ्या..’ इति वाक्यव्याख्यानावलोकनेनैव विज्ञायते।

एवं गोविन्दाचार्यकृतिषु प्रतिपदमपूर्वता, मनोज्ञता, पाठशुध्दिनैर्भर्यं, काव्यकौशलं, भाषाप्रभुत्वमित्येवं शतशोगुणाः बुभुत्सून् नन्दयन्ति।

यस्य लेखानामध्ययनेेन, प्रवचनानां श्रवणेन च बोद्धॄणामधिगतौ नूतना दृष्टिः भाषाप्रभुत्वं, मध्वगुरौ महादर इत्येवं गुणा विलसन्ति। किं पुनर्वक्तव्यं तस्य स्फूर्तिनिदानस्य गोविन्दाचार्यस्येति ॥


[[231]]