२२ निर्णयभावचन्द्रिकायां गोविन्दाचार्यस्य नवोन्मेषाः

विदुषी. अनूषा राव्

गोविन्दपण्डिताचार्येन निर्णयभावचन्द्रिकाख्या महाभारततात्पर्य- निर्णयटीका प्राणायि। इतिहासपुराणशास्त्रग्रन्थगातानां प्रमेयाणामपूर्व- शब्दार्थानाञ्च रत्नकोशप्रायः सङ्ग्रहोऽयं ग्रन्थः। तद्भूमिकायां गोविन्दाचार्येण उच्यते- ‘समग्रं शास्त्राध्ययनमत्र निष्पिण्डितम्’ इति (पु. १०४)।

तदध्ययनस्यागाधत्वं सागरस्येव अपरिमेयत्वञ्चाम्बरस्येव अस्मादृशाम् ऊहितुमपि दुश्शकं किं पुनरवगन्तुम्। तथापि ग्रन्थस्यास्याध्ययनेन य आनन्दः अन्वभावि तमस्मिन् प्रबन्धे किञ्चिदिव निवेदयिष्ये।

सत्स्वपि नैकेषु व्याख्यानेषु किंप्रयोजनेयं निर्णयभावचन्द्रिकेत्याशङ्क्य भूमिकायां गोविन्दाचार्येण प्रतिज्ञावाक्यमिदं उत्तरतया प्रस्तूयते।

विरुद्धवत् प्रतीतानां पुराणवचसामपि।

समन्वयसमीक्षात्र कृता मूलानुसारतः ॥

पूर्णप्रज्ञप्रयोगेषु दर्शिता विपुलार्थता।

पाणिन्यविहितानां च साधुत्वं साधु साधितम् ॥

उपसर्गस्याव्ययस्य विशेषणगणस्य च।

अर्थचिन्तनमत्रास्ति नाम्नां निर्वचनं तथा ॥ (पु. ३) इति परस्परं विरुन्धतामिवार्थानां समन्वय आचार्यस्य प्रागल्भ्यं को न वेत्ति।

सभायां सभायां तेन प्रपञ्चित एव सुग्रीवमालानिधायिनि संशयः। चन्द्रिकाम् अपठतामपि सुविदितमेवाचार्यस्य विष्णोःसहस्रनाम्नां निर्वचने पाण्डित्यम्।

मध्वाचार्याणां प्रयोगाः वैदिकीं भारतीं शिरसा कुर्वन्ति न तु लौकिकीमिति च सप्रमाणं वारं वारं प्रत्यपादि तेन। ग्रन्थेष्वव्ययोपसर्गविशेषणगणानाम् अर्थचिन्तनं प्रवर्तितवानप्याचर्यो संसदि तं विषयं विरलमेवाग्रहीत्। सुर- भारतीनिबद्ध एवायं विषयः शोभत इति सोदाहरणं तमत्र प्रस्तौमि।

[[221]]

महाभारतपुराणयोश्च वाग्भङ्गीं कवयो रसिकाश्च न प्रायो बहुमन्यन्ते।

‘चवैतुहि’ इत्यादयः वैयर्थ्यशङ्काकारिणः प्रयोगाः पादे पादे दरीदृश्यन्ते।

छन्दश्च्युतिप्रतिरोधमात्रफलानीमानि पदानीति केचित्। तात्पर्यनिर्णयोऽपि एवंविधैः मिथ्यादूषणैः चिरादाक्रान्त एव। अप्रबुद्धवादोऽयं आचार्येण समूलमुन्मूलितः। प्रतिवाक्यं प्रतिपदं चार्थविशेषं पुरस्कृत्यैव अव्ययादि निवेशयामासाचार्यमध्व इति गोविन्दाचार्यस्य मतम्। शास्त्रजातं चुलुकीकृतवतां निशितमतीनामेवेमे अर्था गोचरीभवन्तीति चन्द्रिकायां समर्थितम्। अकृतपरिश्रमा अर्थविशेषं न गृह्णन्ति चेन्न तच्छास्त्रकाराणां दूषणं-‘नोलूकेन विलोक्यते यदि दिवा सूर्यस्य किं दूषणम्’। अत एव चन्द्रिकायामुच्यते- ‘न हि महतां वचनेषु स्वरमात्रस्यापि वैयर्थ्यं वक्तुं साम्प्रतम्’ (पु. १०५) इति।

इदानीं सोदाहरणम् प्रस्तूयते। तात्पर्यनिर्णयस्य प्रथमाध्याये प्रमाणैः विष्णुपारम्यमुपपादयन् स्कान्दपुराणीयं वचनमिदमुदाजहाराचार्यमध्वः- स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम्।

शिवशास्त्रेऽपि तद्ग्राह्यं भगवच्छास्त्रयोगि यत्।

परमो विष्णुरेवैकः तज्ज्ञानं मोक्षसाधनम्॥(१.५२-५३) इति ‘परमो विष्णुरेवैक’ इति वाक्य एवकारो विष्णुभिन्नस्य न कस्यचन पारम्यमिति ज्ञापयति। किन्तु ‘स्कान्देऽपि’ इत्यपिः, शिवेनैव षण्मुखायैव इति द्विरुक्तः एवकारः, सादरं इति क्रियाविशेषणं च वैयर्थ्यगन्धमिव वहति।

गोविन्दाचार्यो युक्तिपुरस्सरं समर्थयति। स्कान्देऽपि इत्यत्रापिः कुतः?। ‘न केवलं वैष्णवे वाराहे, ब्राह्मे च ब्रह्माण्डे, शैवे च स्कान्दे’ इति। पूर्वं वैष्णवब्राह्मपुराणवचनैः विष्णुपारम्यं साधितम्। इदानीमापातप्रतीतितः शिवपराणामपि पुराणानां विष्णुसर्वोत्तमत्वमेव तात्पर्यमिति साध्यते। तद्भवतु नाम। एवकारद्वयं कुतः? तदेवं समाधीयते- ‘शिवेनैवेति वक्त्रानुकूल्यं, षण्मुखायैव इति श्रोत्रानुकूल्यं, सादरम् इति प्रसङ्गानुकूल्यम्’ (१.५२)।

आप्तत्वेन हि प्रामाण्यं सिद्ध्यति। किं नामाप्तत्वम्? उच्यते ह्यनुव्याख्याने

[[222]]

  • ‘वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता।’ इति (१.५२)। तत्कुतः स्कान्दपुराणीयेऽस्मिन् वचने श्रद्धध्मः? तदेवं समाधीयते-‘त्रयाणामप्यत्र अानुकूल्यम्। वक्तुः शिवस्य, श्रोतुः स्कन्दस्य, प्रसङ्गस्य च सादरमुक्तस्य।’ अतः श्रद्धातव्यम्। उच्यत आचार्येण ‘जानतैव जनकेनोक्तम्। जिज्ञासवे एव तनयायोक्तम्। ज्ञानं भवेदित्यादरेणैवोक्तम्’ इति। किं तेन? ‘न हि पिता पुत्रं प्रतितारयिषति’। नन्वेतदर्थवादमात्रमिति शङ्कायां– ‘सादरमिति नायमर्थवाद इत्याह’ (१.५२)। एवं पूर्णप्रज्ञप्रयोगेष्वव्ययान्यपि नवीनार्थान् प्रकाशयन्तीति प्रतिपादितम्।

तात्पर्यनिर्णयस्य रामायणकथाव्याख्यानेऽपि सूक्ष्मेक्षिका जरीजृम्भते गोविन्दाचार्यस्य। रावणानुजो विभीषणः रामं शरणं यावद्वव्राज तावदाशशङ्किरे वानराः- ‘गृहीतायुधोऽयं रावणादेशतोऽस्मान् हन्ते’ति।

हनुमांस्त्वेवं तर्कयाञ्चकार- रामरावणयोर्विक्रमदुराचारावभिसन्धाय शरणम् अायात इति। तात्पर्यनिर्णय आह- ‘ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः।

सर्वैश्च शत्रुसदनादपयात एष भ्रातास्य न ग्रहणयोग्य इति स्थिरोक्तः ॥’ (८.४) अत्र धर्मस्यावतारभूतो जाम्बवान् ब्रह्मात्मजः संज्ञितः। वाल्मीकीये रामायणे स विभीषणं निराचकार- ‘बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः।

अदेशकाले संप्राप्तः सर्वथा शङ्क्यतामयमि’ ति (६.११.३७)। रविजस्तु सूर्यावतारो सुग्रीवः। रामायणे तदुक्तयः सविस्तरं विद्यन्ते। ततश्च बलप्रणेता नीलः यदुक्तयो न क्कापि विद्यन्ते रामायणे। किमाचार्यमध्व एव ता निवेशयामास? अपि चास्य बलप्रणेतेति विशेषणं व्यर्थमिव भाति।

गोविन्दाचार्यः विवृणोति। यद्यपि रामायणे नीलस्य वचनं स्पष्टं न पठ्यते तथापि ध्वनिना सूचितम्। सुग्रीववचनानन्तरं रामायण इदं पठ्यते

[[223]]

‘एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः।

वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥’ (६.११.२१) गोविन्दाचार्य उपपादयति–श्लोकेऽस्मिन् वाहिनीपतिस्तु सेनापतिर्नील एव सूचितो न तु सुग्रीव इति। (८.४) अत एव आचार्यमध्वोऽप्यत्र बलप्रणेतारं नीलमेव सम्बोधयामास।

इतिहासपुराणेष्वेक एव प्रसङ्गो व्यक्तिभेदेन कालभेदेन वा वर्ण्यते।

अथवा पुराणस्यैकस्यार्थोऽन्येन प्रतिषिध्यते। एवं सति तत्त्वं कथं निश्चिनुमः? आपातप्रतीतत्वेन विरुन्धतामिवार्थानां परिहार आचार्यमध्वैः तात्पर्यनिर्णये कृतः। किन्तु इतिहासपुराणेष्वकृतश्रमाणां विरोधानप्यजानतामस्माकं तत्परिहारो दूर एव स्थितः। निर्णयभावचन्द्रिकायां तु विरोधा उद्भाव्य भारततात्पर्यनिर्णयोपदिष्टपथा परिह्नियन्ते।

कर्णार्जुनयोरन्तिमे सङ्ग्रामे देवासुरा अपि पक्षग्रहा बभुविरिति महाभारते श्रूयते। अस्मिन् सन्दर्भे भारते प्रमाद इव प्रतीयते। ‘प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम्। अब्रवीत्तु ततो राजन् पश्यतो वै स्वयम्भुवः’ (८.६३.४६) इति। प्रजापतिश्चतुर्मुखो ब्रह्मा। स्वयम्भूरपि ब्रह्मा। किमनेन पौनरुक्त्येन? तात्पर्यनिर्णये तु शिवः ब्रह्माणं सम्बोधयति।

पक्षग्रहास्तत्र सुरासुरास्तयो- रन्ये च जीवा गगनं समास्थिताः।

महान् विवादोऽप्यभवत्तयोः कृते तदा गिरीशोऽवददब्जयोनिम् ॥ इति। (२७.१६६) अत्र तु विरोधो नास्ति। शङ्करः चतुर्मुखमवददिति। आचार्यमध्वैर्दोषस्तु परिहृतः। किन्तु भारतकर्तुर्व्यासस्यैष एवाभिप्राय इति कथं निश्चिनुमः? अत्र गोविन्दाचार्यः समादधाति। ‘प्रजापतिरिति लिङ्गात्मा शिव उच्यते’ ( २७.१६६) इति।

[[224]]

कुरुक्षेत्रस्य सङ्ग्रामप्रसङ्गे भीष्मः कौरवसेनाधिपत्यं स्वीचकार। तदा कौरवसेनायां रथिमहारथिसङ्ख्यानमुच्चरन् कर्णं न गणयाञ्चकार। अधिक्षिप्तः कर्णः प्रतिजज्ञे- ‘भीष्मे जीवत्यहं न योत्स्य’ इति। भारते कर्णप्रतिज्ञैवं वर्ण्यते।

नाहं जीवति गाङ्गेये योत्स्ये राजन्न संशयः।

हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ॥ इति(५.१६५.२७) किन्तु तात्पर्यनिर्णये आचार्यमध्वैरेवमनूद्यते।

कर्ण्णोऽर्द्धरथ इत्युक्त्वा तावद्युद्धात् प्रयापितः।

यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते॥ (२५.३४) अत्र किञ्चिद्व्यत्यासो दृश्यते। भारते तु कर्णः स्पष्टं ‘यावज्जीवति गाङ्गेय’ इति भीष्मप्राणधारणपर्यन्तं प्रतिजज्ञे। तात्पर्यनिर्णये तु यावत् त्वं योत्स्यस इति भीष्मस्य युद्धपर्यन्तमेव प्रतिज्ञा। कथमेतत् परिहरणीयम् ? गोविन्दाचार्यः पन्थानं प्रदर्शयति।

‘अथच जीवत्येव भीष्मे कर्णो हि युयुधे।’ (२५.३४.५) अर्जुनेन शरौघैः पातितोऽपि स्वच्छन्दमृत्युर्भीष्मो जिजीव। कर्णोऽपि युयुधे।

द्रोणानन्तरं सेनापत्यं च स्वीचकार। तन्न प्रतिज्ञाभङ्गः। कर्ण एव प्रथममर्जुनेन यमसादनं प्रापितः। तदनन्तरं गाङ्गेयो युधिष्ठिरं प्रति राजधर्मं च बोधयामास।

अतो युध्यमाने भीष्मेऽहं न योत्स्य इत्येव कर्णप्रतिज्ञा। भवत्वेतत्।

भारतोक्तेः किमाशयः? ‘जीवति गाङ्गेय’ इति वचनस्य ‘युध्यमाने गाङ्गेये’ इत्यर्थः कथमनुसन्धातव्यः? निर्णयभावचन्द्रिकायामुच्यते। ‘शत्रुभिर्जितः जीवन्नपि न जीवत्येव’ (२५.३४.५) इति। एवं पौऩःपुन्येन गोविन्दाचार्य आचार्यमध्वस्य मूलानुसारित्वं विरोधपरिहारेषु कौशलं च प्रकटयति।

पाठशुद्धिविषयेऽप्याचार्यो दत्तावधान इति शतधा सिद्धमेव। तत्राप्युदा हरणं दीयते। तात्पर्यनिर्णयस्य सप्तदशेऽध्याये कर्णवध एवं वर्णितः।

[[225]]

अपराह्णेऽपराह्णस्य सूतजस्येन्द्रसूनुना।

छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः॥ (२७.१९०) अत्र केचित् ‘अपराह्णेऽपराह्णस्य सूर्यजस्येन्द्रसूनुना’ इति पठन्ति।

कोऽत्र शुद्धः पाठः? सूर्यजस्येति वा? सूतजस्येति वा? इन्द्रपुत्रः सूर्यपुत्रं हन्तीति संगच्छत इव। किन्तु आचार्यो महाभारतमुदाहृत्य सूतपुत्रस्येति पाठं समर्थयति- ‘अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष। छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ (८.६७.३३)’ अतः ग्रन्थग्रथने मध्वाचार्याः महाभारतमनुसस्रुः। तदास्ताम्। सूतजस्येत्येव पाठो युक्तः। अन्यः संशय उद्भाव्यते। महाभारते वा भवतु तात्पर्यनिर्णये वा। ‘सूतपुत्रस्य’ इति पाठः किम्प्रयोजनः? चन्द्रिकायामेवमुच्यते ‘न हि सूर्यांशस्येवास्य वर्तनमास।

असुरावेशात् केवलं दुर्योधनस्य स्तुतिपाठक इव जिजीवेति’। (२७.१९०) अतः सूर्यपुत्रेति न कर्णो निर्दिष्टः। तदपि भवतु नाम। प्रकृते सूतजेति संज्ञा किंप्रयोजना? अत आह। ‘सूतोऽपि हि स्तुतिपाठकेषु गण्यते– सूतमागधवन्दिनः’ इति (२७.१९०)। सर्वमपि ग्रन्थजातं परिशीलितवान् अाचार्यः बहून् नवनवोन्मेषशालिनोऽर्थान् आविश्चकार।

गोविन्दाचार्यस्य व्याख्यानं पठन्त्या ‘विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानामि’ति न्यायमविस्मरन्त्या तूष्णीं भाव्यं मया। तथापि आचार्यवचोभिरेव धैर्यमवलम्ब्य यथामति विषयोऽनूदितः। भूमिकायां आचार्याः ऊचुः- ‘नन्वपारे अन्तरिक्षे तार्क्ष्योऽपि डयते। अणुश्चाटकैरोऽपि डयते। चाटकैरः पुनरन्तःसदनं प्रविश्य गोपानसीविटङ्के वसति। अणुतरैः पादैरुत्प्लुत्योत्प्लुत्य सर्वमुदवसितं परिचित्य परिचरति यत्र न गरुत्मतोऽपि सञ्चारः।’ इति (पु. १०४)। यत्सत्यं आचार्यवचसां गतिर्न चाटकैरसदृशी।

न चापि गरुत्मत्सदृशी। सलीलमणिमानं गरिमाणं वा भजतः सुरसावदन- विगाहिनः समुद्रसमुल्लङ्घिनः भगवतो हनूमतः गतिरिव गोविन्दाचार्यस्य गतिः। चाटकैरसदृशो मे यत्नः विद्वद्भिरनुमन्तव्य इति याचमाना विरमामि।

[[226]]