२१ निर्ण्णयभावचन्द्रिका

डा.श्रीहरिः.रा . वाळ्वेकर्

॥श्रीमद्-हनुमद्-भीम-मध्वान्तर्गतश्रीलक्ष्मीहयग्रीवः प्रसीदतु॥

इतः सप्ताष्टभ्यः संवत्सरेभ्यः पूर्वं बहुश्रुत अनतिपरिचितः कश्चन ग्रन्थ- दानव्याजेन काञ्चन ग्रन्थान् मह्यं सम्प्रददे ‘न ममे’त्युक्तिपूर्वम्। प्रतिग्रही चाहं दात्र आशीरुद्गीर्य सम्प्रार्थ्य च भगवन्तं सकुतूहलमपश्यंस्तान् ग्रन्थान्।

तेष्वन्यतरौ आस्ताम्। यौ भारेण दुरूढौ, बहिःप्राचीनताळपत्रनिभौ।

आन्तरत अर्वाचीनपत्रात्मानौ। महाभारतस्य तत्तात्पर्यनिर्णयस्य च निर्णयौ। इमौ च पश्यंपश्यंतयो रक्षाकवचान्त अद्राक्षमदृष्टपूर्वं पूरुषमध्येतॄणाम् अध्यापकानां च स्फूर्तिमन्तं श्वेतकेशं दोर्दण्डधृतपुस्तकाङ्कं तर्जनीमध्यमाहित- लेखनीकम् एकान्तमधिवसन्तं शुभ्रकञ्चुलिकामन्तं निहितकर्णनासोपचक्षुष्मन्तं सन्तम्। यस्य च नाम आचार्य्यगोविन्द इति स्वयं प्रचकाशयामास।

‘इमामाचार्यगोविन्दः प्रमृष्टार्थां व्यरीरचन्’इति ‘आचार्यगोविन्दकृते महाभारततात्पर्यनिर्णयस्य’ इति च।

आचार्यकुलाधीशाः विविधदर्शनाब्धिपारङ्गताः आचार्यकुलाधीशानामेतेषां विविधदर्शनाब्धिपारङ्गततां च तद्रचित- ग्रन्थावलोकनतः शक्यतेऽद्यपि बोद्धुं तत्वज्ञानिभी रसिकैः निर्मस्तरैः सद्भिः।

विषयेऽस्मिन् नैषधीयोक्तिं स्मरामि ;- अधीतिबोधाचरणप्रचारणैः दशाश्चतस्रः प्रणयन्नुपाधिभिः।

चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दश स्वयम्॥ इति।

उक्तिरियं समन्वेति। इत्थम्- अयं आचार्यगोविन्दः, अधीतिबोधा- चरणप्रचारणैः- अधीतिः अध्ययनं, बोधः अर्थावबोधः, आचरणं

[[216]]

कर्माचरणं, प्रचारणं अध्यापनं तैः,उपाधिभिः एतैश्चतुष्प्रकारैः, चतस्रः दशाः चतुरवस्थाः, प्रणयन् कुर्वन्, चतुर्दशसु विद्यासु चतुर्दशत्वं कुतः कृतवान् चतुर्दशत्वेन गणितेषु विद्यासु चतुर्दशत्वं केन हेतुना चकार,स्वयं न वेद्मि नाहं जाने!॥

कविमूर्धन्यः श्रीहर्षः श्लोकेऽस्मिन् नलस्याद्भुतगुणमवर्णयत्। सिद्धश्चतु- र्दशत्वधर्मः स्वत एव चतुर्दशसु विद्यासु। अस्य च न हेतुर्भवितुमर्हति पिष्टपेषणसमो यःकश्चन। किन्तु चतुस्रो दशाः[ अवस्थाः अधीत्याद्युपाधयः] यासां तासां भावः चतुर्दशत्वमिति निरुक्तितो दृष्टो हेतुरिति।

प्रकृतेऽचार्यगोविन्दोऽपि चतुर्दशसु विद्यासु स्वयं निष्णातः। ता इमा विद्या आचार्यकृतैः अध्ययन-अर्थावबोधन-तदुक्ताचरण-अध्यापनैः चतुर्भिः प्रकारैः चतुर्दशतामापुः। न पुनःचतुरधिका दशेत्यर्थतः।

यद्यपि क्षत्रियोऽध्यापनात्मनि प्रचारणे नाधिक्रियते। तथापि धनादि- दानतः विप्रद्वाराध्यापयति स्मेति भावेन श्रीहर्षः कविपुङ्गवःनलनृपतिं तुष्टाव इति। अत्र तु विद्वत्तल्लजः पदवाक्यप्रमाणपारावारः विप्रकुलवरः पडुमन्नूरु- नारायणात्मा वै पुत्र नामा सम्बभूव इति। ईदृशोऽयं विप्रवरकुलप्रसूतो नूनं अध्यापनेऽधिक्रियते।

कास्ता विद्याः- पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ इति याज्ञ्यवल्ये।

मनुरब्रवीत्- अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः।

धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ इति।

निर्णयभावचन्द्रिकाविशेषकिसलयमात्रम्।

अथ चोन्मील्य चक्षूषी भूमिकामधिगच्छाम॥

[[217]]

भगवान् व्यासः भगवानाचार्यमध्वश्च नायकौ भुव्यवतीर्णौ। अथ ह वै द्वापरान्ते कृष्णावतारात्प्राक् कृष्णद्वैपायनः, चतुःसहस्रे त्रिशतोत्तरे गते संवत्सराणां तु कलौ आचार्यमध्वोऽवतेरतुः।कलिस्तु खलः खळनायकः कलहप्रेमा स्वाकार्यं यथाकालं विदधाति। कार्यं चेदं तस्य तमोदूणाशम्।

येन खलु तत्वज्ञानसूर्यःमेघछन्न इव दुर्दिनमनुभवति अनुभविता अनुभविष्यति च तदातदा। अथ सज्जनमनोनिरूढपदं तत् हलाहलमिव व्यापि। तद्वै ध्वंसमनायि झञ्झानिल इव प्राणनामास्पदाभ्यां व्यासमध्वाभ्यां देवनेतृभ्यां नियतगुरुशिष्याभ्यां यथाकालम्। प्राबोधि चैताभ्यामेव विबुधमनःकुमुदानि ज्ञानपीयूषस्यन्दिभिः स्वकीयवाचोयुक्तिभिः। इति तु पल्लवितमेतद्भूमिकायाः।

इयं च भूमिकारमणी विगतत्रस्ता सुबद्धप्रासास्वकीयपादविन्यासतश्च काव्यास्वादनरसिकमनांसि नूनं प्रकर्षति।

किञ्च इतिहाससमधिजिगीषून् समधिगताञ्च समुद्बोधयति सुदृढयति च।

अपि च नूनं स्ववचोविक्षेपविक्रमेण बन्नञ्जेआचार्यगोविन्दः बाणं भारविं वा स्मृतिपथङ्गमयति। अनितरसाधरणप्रतिभं बन्नञ्जेमहोमहिमानं सरळहृदयं विरळसंशोधकमिति नैके विद्वन्मूर्धन्या प्रजगुः प्रजगन्ति च सम्प्रत्यपि।

‘दशप्रमतिः’ नवोऽर्थः दशभिर्गुणैःप्रमिता मतिःयस्येति। दश गुणाः – भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिःस्थितिः।योगः प्राणः बलं चैव वृकोदर इतिस्मृतः।

एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः॥ इति।

भूगोलविवरणम् – अण्डमिदं चतुसृष्वपि दिक्षु ऊर्ध्वमधश्च आ केन्द्रबिन्दोः मेरुपर्वतात् पञ्चविंशत्कोटियोजनमिति प्रमाणतः कीर्तयाम्बभूव। हैममयस्य मध्यबिन्दोः मेरुनाम्नः पर्वतस्य परितः सप्तद्वीपाः सप्तसमुद्राश्च सन्ति। तत्र सप्तमः द्वीपः पुष्करः, सप्तमःसमुद्रःस्वादूदः। ततः प्रथम-जम्बूद्वीप-प्रथम- लवणसमुद्रान्त- मानम्।

[[218]]

  1. पुष्करद्वीपस्य स्वादूदस्य च योजनानि 64,00,000 +64,00,000 1,28,00,000 6. शाकद्वीपस्य क्षीरोदस्य च योजनानि 32,00,000+32,00,000 64,00,000 5. क्रौञ्चद्वीपस्य दधिमण्डोदस्य च योजनानि 16,00,000 + 16,00,000 32,00,000 4. कुशद्वीपस्य सार्पिषसमुद्रस्य च योजनानि 8,00,000+8,00,000 16,00,000 3. शाल्मलद्वीपस्य सुरोदस्य च योजनानि 4,00,000+ 4,00,000 8,00,000 2. प्लक्षद्वीपस्य इक्षुसमुद्रस्य च योजनानि 2,00,000+2,00,000 4,00,000 1.जम्बूद्वीपस्य लवणोदस्यच योजनानि 50,000 + 1,00,000 1,50,000 {आहत्य 2,53,50,000 योजनानि ॥} + स्वादूदाध्यर्द्धपरिमाणं वाज्रलेपिकं हैमं स्थलम् – 96,00,000 योजनानि।

एवञ्च मेरुमध्यादन्तं सहत्य लोकनामकं एतदेव 3,49,50,000 योजनानि। एतत्सर्वं लोकनाम विदुः।

[[219]]

लोकालोकपर्वतप्रदेशस्तु - 50,50,000 योजनानि। लोकमानात् द्विगुणं 3,49,50,000×2 अन्धतमसम् -6,99,00,000 योजनानि। ततोऽपि द्विगुणं 6,99, 00, 000×2 घनोदकम् - 13,98,00,000 योजनानि।

अ. 3,49,50,000+ आ. 50,50,000+ इ. 6,99,00,000+ ई. 13,98,00,000 संहत्य 24.97,00,000 योजनानि। तदन्ते भगवतः विष्णोर्धाम वदन्ति।तच्च लक्षत्रययोजनमितम्।+3,00,000।

पञ्चविंशत्कोटियोजनानि 250,000,000 मेरुपर्वतात् ब्रह्माण्डस्य मानम्।

श्रीमान् बन्नञ्जेगोविन्दाचार्यः प्राणसूत्रप्रणेता वैयाकरणनवीनसूत्रप्रबन्धा चाचार्यः। वेदस्य च उपनिषदश्च व्याख्याता, साक्षात्परम्परायां वेदप्रवचनाचार्य इति प्रथित- यशस्कः। अनेन च छन्दांसि मीमांसितानि, अलङ्काराणि स्वीयया वाचा अलङ्कृतानि, बन्धाश्च सुष्टुबद्धाः,। अहो यत् सम्पादितं मान्येन धन्येन श्रीशीलेन आचार्यगोविन्दपण्डितराजेन वैदुष्यं निर्णयभावचन्द्रिकातः स्फटिकमणिरिव प्रस्फुरति। नूनं शाङ्करोक्तेर्निदर्शनमेतदिति मे भाति– यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणात् रक्तनीलाद्युपाधिभिरविविक्तमिव भवति। प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटीकःस्वाच्छेन शौक्ल्येन च स्वेन रूपेणाभिनिष्पद्यत इति ॥

वीरनारायणार्येण सन्दिष्टो श्रीहरिस्सुधीः।

चक्रे प्रबन्धममुना प्रीयतां कमलालयः॥


[[220]]