२० निर्णयभावचन्द्रिकोपेत: महाभारततात्पर्यनिर्णय:

प्रो.एम्. नारायणाचार्यः

महाभारतम् ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान्नरायणः पुनर्ज्ञानप्रतिष्ठापनाय द्वापरान्ते व्यासत्वेनावततारेति शास्त्रसिद्धो विषयः। तेन निबद्धमिदं महाभारतं नामेतिहासग्रन्थः पञ्चमवेद इति वेद्यते उपनिषद्वाण्या। तथा हि- वर्ण- समुदायात्मको वेदस्तावदपौरुषेयः। अपौरुषेयवेदार्थनिर्णयकानि सूत्राणि ग्रथितानि भगवता बादरायणेन। न मन्दबुद्धीनां तैरेव वेदार्थज्ञानं सुशकमिती तिहासपुराणान्यप्यारचितानि। सत्सु शिक्षा-व्याकरण-कोश-निघण्ट्वादिषु कुतो न सुशकं वेदार्थज्ञानम्? जानन्त्येव भाषातत्त्वविशारदाः एकं पदं नैकेऽर्था इति। कुत्र को वा अर्थ इति कस्तावन्निश्चिनुयात् सर्वज्ञं विना ?पौरुषेये तावत् तत्प्रणेतुरभिप्रायेण शक्यतेऽर्थमवगन्तुम्। न तु वेदे।

प्रणेत्रभावात्। तदर्थमेव सर्वज्ञेन भगवता प्रणीतानि इतिहासपुराणानि सुकृतिनामुपकाराय। अतो हि वेदप्रामाण्यवादिभिस्सर्वैरपि मुमुक्षुभिः वेदार्थनिर्णयाय सूत्रेतिहासपुराणादीन्यनुसर्तव्यान्येव। अन्यथान्यथार्थम् अनुसन्दधानाः कथं वा ते संसारसागरमुत्तरेयुः? अतः समुदघोषि भगवता ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति। इतिहास इति पञ्चरात्र- मूलरामायण-महाभारतान्युच्यन्ते। तत्रापि महाभारतं नामेतिहासग्रन्थः निर्णेयग्रन्थेषूत्कृष्टं पदमावहतीत्याह तत्प्रबन्धा भगवान् बादरायणः साक्षान्नारायणः। यथा – भारतं सर्ववेदाश्च तुलामारोपिताः पुरा।

देवैर्ब्रह्मादिभिः सर्वैः ऋषिभिश्च समन्वितैः।

व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ॥(ब्रह्माण्डपुराणे) महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते।

[[206]]

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। (म.भा.१.३००)’ यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्॥ (म.भा.आदि ५.५०) भाषादिवैविध्यमाश्रित्य निबद्धमिदं महाभारतमपि नैकार्थयुतं स्वभावत एव दुर्ग्रहमथच गच्छता कालेन प्रक्षेपाद्यासुरीशक्त्या च निबद्धमप्यनिबद्धम् इवाभूत्। तेन वेदार्थनिर्णायकमिदं महाभारतमपि निर्णयसापेक्षीकृतम्।

महाभारततात्पर्यनिर्णयः वेदोपनिषदाद्यर्थप्रकाशनाय प्रायतन्त बहवो भाष्यप्रबन्धनेन। वेदभाष्य- कारैस्तु नाश्रावि वेदव्यासवचनं ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’इति।

अन्यैः प्रस्थानत्रयभाष्यकारैस्तु श्रुत्वाप्यर्धमेवाग्राहि। अतः महाभारतान्तर्गतां भगवद्गीतामेवालञ्चक्रुः स्वीयभाष्यैः। तैस्तूपनिषद्भाष्येषु वेदार्थनिर्णायके ब्रह्मसूत्रभाष्ये वा क्कचिदेवोपाकृतानीतिहास- पुराणवचनानि स्वल्पान्येव। न तावता लक्षाधिकग्रन्थात्मकैरितिहासपुराणैर्वेदोपबृंहणं नाम समसाधि।

संसाधयामासु मध्वभाष्याणिवेदोपबृंहणम्। ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि’ति बादरायणभणितिमनुपालयन्नाचार्यो मध्वः न केवलं श्रुतिसूत्रोपनिषदादिभाष्येषु वेदव्यासाभिमतार्थप्रकाशनाय इतिहासपुराण- गतानि व्यासवचनान्युल्लिलेख, प्रबबन्ध चसमस्तेतिहासपुराणार्थनिर्णयपथ प्रदर्शनाय भागवततात्पर्य-महाभारतात्पर्यनिर्णयान्।

महाभारततात्पर्यनिर्णयस्य प्रासङ्गिकता महिमाच आचार्यमध्वस्य महाभारततात्पर्यनिर्णयः न केवलम् इतिहासपुराण- कथासङ्ग्रहः। परं निर्णायकः शोधग्रन्थः समेषामितिहासपुराणानाम्। सति विरोधे हि निर्णयस्य प्रसक्तिः। किन्निमित्तोऽयं विरोधः ? भिन्नकर्तृके सति स्याद्विरोधः एककर्तृकेऽपि बुद्धिदोषनिमित्तम् वा। इतिहासपुराणानां कर्ता एक एव भगवान् बादरायणः। अतो नास्ति भिन्नकर्तृकता। न वा साक्षान्नारायणावतारस्य तस्य सर्वज्ञस्य बुद्धिदोषप्रसक्तिः। कारणं विना

[[207]]

कार्योदयस्तु न लोके नवा शास्त्रे सिद्धः। परं दरीदृश्यन्ते विरोधाः, असङ्गतयः, व्यत्यासादयः एकस्यैव प्रसङ्गस्यान्यथान्यथा निरूपणादीनि इतिहासपुराणेषु।

किमत्र कारणमित्येवास्ति निर्णयस्य प्रसक्तिः। यदि विरोधादयः प्रत्यक्षसिद्धाः तर्हि तान्यप्रमाणान्येव इति नास्ति निर्णयप्रसक्तिरिति न मन्तव्यम्।

सर्वज्ञप्रणीतत्वात्तेषाम्। तर्हि का गतिः विरोधादीनाम् ? तां गतिं निरूपयितुमेव निर्णयःप्रसक्तः।विरोधादयः क्कचिदापाततः क्कचिच्च वास्तवा अपि सकारणका भवन्ति। ‘अत्रोदिता याश्च कथाः समस्ताः वेदेतिहासादिविनिर्णयोक्ताः’ इत्याह भगवानाचार्यः स्वयं ग्रन्थावसाने। आह च नवमेऽध्याये ‘इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च।

भारताच्चैव वेदेभ्यो महारामायणादपि ॥ १२५ ॥

परस्परविरोधस्य हानान्निर्णीय तत्वतः।

युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः ॥ १२६ ॥

बहुकल्पानुसारेण मयेयं सत्कथोदिता।

नैकग्रन्थाश्रयात्तस्मान्नाशङ्क्याऽत्र विरुद्धता ॥ १२७ ॥

क्कचिन्मोहायासुराणां व्यत्यासःप्रतिलोमता।

उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया ॥ १२८ ॥

एवञ्च वक्ष्यमाणेषु नैवाशङ्क्या विरुद्धता।

सर्वकल्पसमश्चायं पारम्पर्यक्रमः सदा ॥ १२९ ॥……’ इत्यादिवचनैः रामकथानिर्णयान्ते नवमेऽध्याये उक्तस्य रामकथा- निर्णयस्य वक्ष्यमाणस्य भारतादिकथानिर्णयस्य च प्रामाणिकत्वं प्रददर्श भगवत्पादः। 1उदितं च नारायणपण्डिताचार्येण श्रीमध्वविजये ‘इतिहासपुराणाब्धेर्भवच्चित्ताद्रिलोळितात्।

जातां भारततात्पर्यसुधां कः सन्न सेवते’ ॥ (१५.७६) 1 निर्णयभावचन्द्रिका - भूमिका पृ.सं ५०

[[208]]

पाराशर्यः परतत्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य।

व्यक्तं वक्तुं नियुक्ति स्म साक्षादेनं धन्यं भुवने मन्यमानः॥

(१०.२५) अस्य पण्डितैरपि दुरवगाहस्य निरन्तरमननीयतां चाऽह योगदीपिकायाम्1 द्विजो गुर्वर्चकः शुद्धचरणो नित्यकर्मकृत्।

सायम्प्रातः समिद्धोमी भैक्षान्नादः श्रुतीः पठेत्।

श्रीमद्भारततात्पर्यनिर्णयाद्यं समभ्यसेत् ॥ (१.८-९) ‘यत्र रामकथाप्रस्तावः, तदा मूलरामायणे, वाल्मीकिरामायणे, भारते, पुराणेषु च निरूपिता यायाः कथास्तासां सर्वासामविरोधेन समन्वितोः अर्थोऽत्र समार्थ्यत। आपाततः परस्परं विप्रतीपतया प्रतीयमानानाम्, अथचासङ्गततया प्रतीयमानानां प्रमेयाणामैकार्थ्यबोधनेन समन्वयप्रकारश्च प्रकट्यक्रियत। एवं कृष्णकथायाम्, पाण्डवकथायामपि’2॥

ईदृशस्य महाभारततात्पर्यनिर्णयस्य अस्त्यध्ययनपरम्परा। अस्ति च व्याख्यानपरम्परा माध्वलोके। न ताभ्यां प्रासारि मध्वालोकः। सोऽधुना प्रसरीसरीति निर्णयभावचन्द्रिकया।

आचार्य्यगोविन्दविरचिता निर्णयभावचन्द्रिका – भगवत्पादस्तु स्वीयनिर्णयमार्गप्रदर्शनपूर्वकं विरोधाद्युपशमनैः निर्णिनाय कथाः। तथापि कुत्र कः विरोधः का वा संशीतिः तत्परिहरणेऽनुसृतः मार्गः क इति तु दुरवबोध एवावशिष्ट आसीत् यावन्निर्णयभावचन्द्रिकाप्रबन्धनम्।

यदि निर्णयभावचन्द्रिकां नाग्रन्थिष्यत् गोविन्दाचार्यः तर्हि नावभोत्स्यत लोकः निर्णयमार्गं विरोधादिकं तत्परिहारं वा। अभविष्यच्च प्रणीतोऽप्यप्रणीत इव महाभारततात्पर्यनिर्णयः। दैवादग्रथ्नान्निर्णयभावचन्द्रिकां गोविन्दा चार्यः। निर्णयभावचन्द्रिकायाः उद्देश्यं, वैशिष्ट्यं, व्याप्तिः, फलञ्च ये 1. निर्णयभावचन्द्रिका - भूमिका पृ.सं ५०2. निर्णयभावचन्द्रिका - भूमिका पृ.सं ५०

[[209]]

जिज्ञासन्ति तेषां सुविस्तरा टीकाकृद्ग्रथिता भूमिकैव शरणम्। परिशुद्धपाठे आग्रहवता, सम्पादकेन व्याख्यात्रा चगोविन्दाचार्येण एवमगादि भूमिकायाम्

  • ‘सम्पादकेन संशोधकेन च वोढव्या धूरपि वधूरिव यत्नेन पालनीया भवति’ इति।अक्षरशः स्वयमपालयत् स तां धुरम् वधूमिव इतिभूमिकायां प्रत्यपादयत्। निर्णयभावचन्द्रिकायाः तदितरैः महाभारततात्पर्यनिर्णयव्या ख्यानैः तौलनिकाध्ययनेन प्रतिभासमाना विशेषा एते भवन्ति।

१.महाभारततात्पर्यनिर्णयानुसारम् इतिहास-पुराणानामध्ययनक्रमः।

२.महाभारततात्पर्यनिर्णयाभिप्रेतः शुद्धपाठः।

३.महाभारततात्पर्यनिर्णयाभिव्यक्तः भाषाभेदेनार्थनिर्णयः कथानिर्णयश्च।

४.महाभारततात्पर्यनिर्णयाभिव्यक्ताः व्यत्यासादिभेदेनार्थनिर्णयः कथा निर्णयश्च।

५. महाभारततात्पर्यनिर्णयसूचिता पदसिद्धिः वाक्यशुद्धिश्च।

अत्र तावदेते दृष्टान्तास्सन्ति - न सर्वत्र कल्पभेदेन विरोधादिपरिहरो युक्तः सामान्यमिदं तन्त्रं यत् इतिहासपुराणादिषु यत्र क्कापि कथासु विरोध- व्यत्यासादयः दृश्यन्ते तत्र कल्पभेदेन विरुद्धयोरपि व्यत्यासेन पठितयोरपि कथयोः प्रामाण्यमाकलयन्ति विद्वांसः। परन्तु नैतद्युक्तमित्याह भगवत्पादः

  • ‘ऋते तु पाण्डवकथां कार्ष्णं रामायणं तथा’ (भाग.ता. ४-१-३३)इति वाराहवचनेन न भारत-भागवत-रामायणकथासु कल्पभेदेन विरोधादिपरिहारो युक्तः। यद्यप्युक्तं भगवत्पादैः बहुकल्पानुसारेण मयेयं सत्कथोदिता इति।

अन्यत्र पुराणकथास्वेवायं क्रम आदरणीय इति तदभिप्रायः। तर्हि का गतिः विरुद्धव्यत्यस्तवचनानामिति शङ्कायाः समाधानमुक्तं तत्रैव - मोहायैतेषु भिन्नता इति। एतेषु - रामायण-भारतादिकथासु यदि कथानिरूपणे भिन्नता

[[210]]

दृश्यते सा दुर्जनमोहायैव इति ज्ञेयम्। सज्जनास्तु 1भाषाज्ञानेन, व्यत्यासादि- भेदज्ञानेन वा विरोधादीन् परिहृत्य यथार्थमवगच्छन्ति। तदत्र निर्णयभाव- चन्द्रिकायां 2भगवत्पादोक्तभाषाभेदपुरस्सरं व्यत्यासादिसप्तभेदप्रदर्शनपूर्वकं च तत्र तत्र विरोधादिपरिहारक्रमः प्रादर्शि निर्णयभावचन्द्रिकाकारेण।

नैतावता अपपाठादिकमपि भाषाभेदेन वा व्यत्यासादिना वा समर्थनीयमिति मन्तव्यम्। स्वयमुक्तं भगवत्पादैः ‘क्कचिद्ग्रन्थान् प्रक्षिपन्ति क्कचिदन्तरितानपि कुर्युः क्कचिच्च व्यत्यासम्..’ इत्यादि। एतदपि स्पष्टमभिव्यक्तं निर्णयभाव- चन्द्रिकायाम्। एवं महाभारततात्पर्यनिर्णयव्याख्यायां निर्णयभावचन्द्रिकायां व्याख्यात्रा तत्र तत्र भाषाभेदेन, व्यत्यासादीना वा कथं विरोधादयः परिहरणीया इति, क्क वा अपपाठादिनिरसनेन मूलपाठश्चिन्तनीय इति स्पष्टं व्याख्यायि।

3असङ्गतःपाठः सत्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे।

साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ॥

चत्वारस्तु नरव्याघ्राः बले शक्रोपमा भुवि।

उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ॥

बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।

चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः4 ॥

अन्योन्यानन्तरबलाः परस्परजयैषिणः। इत्ययं महाभारतस्य दाक्षिणात्यः पाठः। अयमत्र कथाप्रसङ्गः - महाभारते विराटपर्वणि कीचक- 1.भाषात्रयं न जानाति रीतीनां शतमेव च।पुराणार्थं वदन् याति नरकं नात्र संशयः ॥

2.म.भा.ता नि.२- १२० तः १२३ तथा निर्णयभावचन्द्रिका - पृ.सं. ८६ तः ८८ (निर्णयभावचन्द्रिकायाः ८६, ८७ पुटयोः ८१ भाषाः प्रदर्शिताः।) 3.निर्णयभावचन्द्रिकायाः भूमिका- पु.सं. ६४-६५ 4.वि.प. ३२- १७ तः १९

[[211]]

वधकथानिरूपणसन्दर्भे दुर्योधनं गूढचारः कश्चित्समागत्य गन्धर्वेण केनचिन्निहतः कीचक’ इति तस्मै निवेदयामास। परन्तुः कीचकवधवार्तां श्रुत्वा दुर्योधनः कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां तत्र स्थितिं सम्भावयामास। कथं स चिन्तयामासेत्यत्रैतानि वचनानि भवन्ति महाभारते। उत्तरभारतीयपाठे दुर्योधनस्य मौनमेवोत्तरम् । दाक्षिण- भारतीयपाठे तु एवमस्ति- असङ्गतोऽयं पाठः। बलदेवादयः ‘अन्योन्यान- न्तरबलाः’ इत्युच्यते। अथ ‘समप्राणबलाः’ इति च। तथा भीमादपि बलदेवो बलीयानिति स्पष्टं परस्परविरोधः। ‘नरव्याघ्राः’ इति ‘प्राणिना- मुत्तमाः’ इति च पुनरुक्तता। ‘बले शक्रोपमाः’ इति ‘तेषां नास्ति कश्चिद् बले समः’ इति विप्रतिषिद्धमिव। ‘परस्परजयैषिणः’ इति व्यर्थमपार्थञ्च।

एवं दोषभूयिष्ठः पाठ इति सामान्यजनोऽपि जानाति। नायं दुष्टः पाठः व्यत्यासादिभेदेन वा भाषाभेदेन वा कल्पभेदेन वा समर्थनीयो भवति।

अयमत्र समीचीनः पाठः - सत्वे बाहुबलेधैर्ये प्राणे शारीरसम्भवे।

साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ॥

चत्वारः प्राणिनां शेष्ठाः सम्पूर्णबलपौरुषाः।

भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ॥

चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः।

अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः ॥1 अयमतिशुद्धः पाठः प्राचीनः भगवत्पादोद्धृतः। नाक्काप्यसङ्गतिरिति रमणीयोऽयं पाठः। एवं शताधिकस्थलेषु निर्णयभावचन्द्रिकाकारेण स्वव्याख्यायां भगवत्पादनिर्णयानुसारं पाठशुद्धिः कथाशुद्धिश्च सम्पादिता।

इतिहासपुराणेषु द्योतमानाः काश्चन अन्यैरचिन्तिताः असङ्गतयः भूमिकायामपि ‘काश्चन समस्याः’ (निर्णयभावचन्द्रिकायाः भूमिका - 1.म.ता.नि.२-१६३ तः १६६

[[212]]

पु.सं. ६६ तः ७७ ) इत्युपशीर्षके सपरिहारं समुल्लिखिताः निर्णयभाव- चन्द्रिकाकृता इत्येतदेवालं प्रकटयति तत्प्रतिभाप्रभां सकलशास्त्रपरिनिष्ठाम्।

भाषाभेदेन कथानिर्णयः तत्त्वनिर्णयश्च महाभारततात्पर्यनिर्णये प्रथमाध्याये भगवत्पादैः व्यासप्रणीतलक्षणग्रन्थ माश्रित्योक्तमिदम् -‘भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः। उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना॥१२०॥ …….दर्शनान्तर- सिद्धं च गुह्यभाषाऽन्यथा भवेत्’॥१२३॥ इमानि भगवत्पादवचानानि सर्वैरपि व्याख्याकारैः यथामूलं सामान्यत एव व्याख्यातानि। किन्तु ऐदम्प्राथम्येन निर्णयभावचन्द्रिकाकारेण कास्ता भाषाः, काश्च 1एकाशीति- विधाः पुराणभाषाः2, क्कवा कया भाषया कथां निर्णिनाय भगवत्पादः, इत्यादिकं तत्र तत्र प्रदर्शितमित्यस्ति महद्वैशिष्ट्यं निर्णयभावचन्द्रिकायाः।

स्कान्दवचनं व्यत्यासेन वा गुह्यभाषया वा प्रवृत्तम् श्रीमद्रामायणे एकोनसप्ततितमे सप्ततितमे चाध्याये देवान्तक- नरान्तकयोः वधः प्रस्तुतः। तत्र वालिपुत्रेण हतः नरान्तकः हनुमता च देवान्तक इतिकथा श्रूयते। परन्तु स्कान्दपुराणे ‘सुग्रीवेण हतौ युद्धे देवान्तक- नरान्तकौ’ (ब्र.खं.से.मा. ४४-३६) द्वयोर्विरोधस्तु स्पष्टः। अत एवोक्तं भगवत्पादैः रामायणकथानिर्णयभागे (म.भा.ता.नि.८-३७तः ५१) ‘युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ…….. इत्यादिना वालिपुत्रेणैव हतो नरान्तकः देवान्तकस्तु मारुतिना इति। कथमनेन विरोधः परिहृत इति निर्णयभावचन्द्रिकया निरूप्यते - ‘सुग्रीवेण हतौ युद्धे देवान्तकनरान्तकौ’ इति स्कान्दवचनमपि पुंव्यत्यासेन गुह्यभाषानिबद्धमिति गदितप्रायाभिप्रायम्।

  1. निर्णयभावचन्द्रिका - प्रथमाध्यायः, पु.सं. ८६, ८७ 2. गुह्यदर्शनभाषे च भाषा चैव समाधिका। तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः।

गुह्यदर्शनसञ्ज्ञा च गुह्यगुह्या तथाऽपरा। एवमादिक्रमेणैव त्वेकाशीतिविभेदतः। भाषाः .. इति भागवततात्पर्यनिणये - ११-२१-४०

[[213]]

सुग्रीवप्रेरितेनाङ्गदेन हनुमता च हताविति। ‘अथोवाच महातेजाः सुग्रीवो वानराधिपः। कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्। गच्छ त्वं राक्षसं वीरो योऽसौ तुरगमास्थितः। क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय’ (यु.का.

६९.७१-२ ) इति हि वाल्मीकीये। लोकसिद्धश्चायं व्यवहारः - सैनिके जयिनि राजा जयतीत्याचक्षते। सुन्दरग्रीवेणाङ्गदेन हनुमता चेत्येकयोक्त्योभ यनिर्देशश्चायम्’। (नि.भा.च. पुट.सं. २३६) अत्र श्रीमद्रामायण-स्कान्दपुराणयोः विरोधः एव न ज्ञातः अस्माभिः।

कथन्तर्हि तत्परिहारज्ञानं कथं वा भाषादिभेदज्ञानं स्यादस्माकम्। तदत्र निर्णयभावचन्द्रिकाकारैः सर्वं युक्तियुक्तमाविष्कृतम् भाष्यकाराभिप्रेतम्।

एवं बहुषु स्थलेषु भगवत्पादैः कुतो वा निर्णयः कृत इति, कथं विरोधः, तत्परिहारश्च दर्शित इतितात्पर्यनिर्णयस्य महत्वं प्रत्येकं श्लोकस्य व्याख्याने आविष्कुर्वन्ति निर्णयभावचन्द्रिकाकाराः। विना भगवत्पादानुग्रहं दुश्शकमीदृशं व्याख्यानम्।

अस्मिन्नेव सन्दर्भे निर्णयभावचन्द्रिकाकारैः एतदपि प्रादर्शि – यत्, ‘पुंव्यत्यासेन गुह्यभाषादिना च कथानिरूपणं पुराणेष्विव रामायणेऽपि समानमिति सूचयन्नाह – युद्धोन्मत्तश्च1। अयं महोदरापरनामा युद्धोन्मत्तो नीलेन हत इति प्रचलितेनानन्वितेन रामायणपाठेन प्रतीयते। तथा हिप्रचलितं पद्यं – 2महोदरं शैलेन नीलो जघान मूर्ध्नि इति प्रस्तुत्य - ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ॥ विपोथितो भूमितले गतासुः पपात … (यु.का. ७०-३२) इति। अत्र महाद्विपेनेति नातीव सङ्गतम्।

  1. युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ।

प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना ॥ म.भा.ता.नि. ८.५४ 2. ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्।

ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि।

ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ॥

विपोथितो भूमितले गतासुः पपात …

[[214]]

यथाकथं चोपपादनीयम्। तेन ज्ञायतेऽन्यादृशो मूलपाठ आसीदिति।

‘महोदरो गन्धवहात्मजेन’ ‘महोदरो वातगणाधिपेन’ इत्यादिः प्राचीन- पाठः स्यात्। अथ च मत्तो महापार्श्वापरनामा त्वृषभाख्येन पञ्चप्राणेष्वेकेन कपिना हत इति रामायणे1। पुंव्यत्यासोऽयम्। अत्रर्षभ इति प्राणर्षभो हनुमानेवोच्यत इति भगवत्पादाशयः। तत्र हेर्तुं च सूचयति - पार्वतीवरदर्पितौ।

कथं पार्वतीवररक्षितं रक्षः अग्न्यंशो नीलो वा मरुद्गणेष्वेक ऋषभो वा हन्यात्? न हि रुद्रादवरः कोऽपि तं हन्तुं प्रभवेदिति भावः। एतेन ‘अतिकायो लक्ष्मणेन हतश्च त्रिशिरास्तथा’ (स्का.पु.ब्र.खं.से.मा. ४४.३४) इति स्कान्दवचनञ्चोक्तार्थम् – रामानुजेन लक्ष्मणेन अतिकायः, लक्षणवता हनुमता त्रिशिरा इति। अहो चमत्कृतिर्गुह्यभाषायाः।2 एवम् एकत्रैव निर्णयभावचन्द्रिकाकारैः आचार्यैः गोविन्दपण्डितैः रामायणे पाठशुद्धिः प्रादर्शि, पुंव्यत्यासश्चाविरकारि गुह्यभाषया च स्कान्द- वचनविरोधपरिहारप्रकारोऽपि प्राकाशि।

महाभारततात्पर्यनिर्णयस्य प्रतिश्लोकमप्यनेकाकूतिगर्भितमिति निर्णय- भावचन्द्रिकाध्ययनेनैव ज्ञातुं शक्यत इति तत्कर्तारः बन्नञ्जे गोविन्दाचार्याः विश्वमान्याः विद्यामान्यमान्याः। विशिष्टा चात्यपूर्वेयं व्याख्याऽस्माभिः प्राप्तेति धन्या वयमिति भावये।


1.अथर्षभः समुत्पत्य वानरो रावणानुजम् मत्तानीकमुपागम्य ……… स सम्प्राप्य चिरात्संज्ञामृषभो वानरर्षभः। क्रुद्धो विस्फुरमाणोष्ठो महापार्श्वमुदैक्षत। …… यु.

का.७०.५६ तः ५८ 2. नि.भा.च. पुट.सं २३७-२३८

[[215]]