१९ गोविन्दाचार्यकृता भागवततात्पर्यटिप्पणी

गोविन्ददासः शतावधानी उडुपि रामनाथाचार्यः

वेदैश्च सर्वैरहमेव वेद्यः इति श्रीकृष्णवचनं समस्तवेदवाच्यः श्रीकृष्णः इति घोषयति। वेदाः सर्वसमयिनां प्रमाणम्। इतिहासपुराणं पञ्चमो वेदानां वेदः इति छन्दोगानां श्रुतिः पुरणानि वेदनाम्ना प्रस्तौति। इतिहासः पुराणं च पञ्चमो वेद उच्यते इति स्कान्देऽपि पुराणं वेद इत्येव कथितम्। महापुराणानि चाष्टादश सन्ति। अष्टादशपुराणानां कर्ता सत्यवतीसुतः इति भगवान् व्यासर्षिः पुराणकर्ता श्रूयते।

वेदव्यासस्तु धर्मात्मा वेदशास्त्रविभागकृत्।

प्रोक्तवान् सर्वशास्त्राणि पुराणे पाण्डुनन्दन॥

इति वेदविभागकर्तैव पुराणकर्तेत्यत्र नास्ति संशीतिः।

‘अन्यान्युपपुराणानि मुनिभिः कथितानि तु’ इति गारुडे उपपुराणानां कर्तारः ऋषयः इति ज्ञायते।

पुरा पुराणमेवासीत् शतकोटिप्रविस्तरम्।

व्यासरूपमहं कृत्वा संहरामि युगे युगे॥

चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा।

तथाष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रकाश्यते।

अद्यापि देवलोकेऽस्मिन् शतकोटिप्रविस्तरम्।

इति मात्स्यवचनं स्पष्टीकरिष्यति व्यासवैभवम्।

‘पुराणमखिलं तात सर्वशास्त्रमयं स्मृतम्’ इति स्कान्दवचनं पुराणं सर्वशास्त्रेषु श्रेष्ठं सर्वशास्त्रोक्तविचारपूर्णम् इति वक्ति। विशेषतः वेदार्थविस्तारः पुराणसारः। यथोक्तं- विस्ताराय च वेदानां स्वयं नारायणः प्रभुः।

[[189]]

व्यासरूपेण कृतवान् पुराणनि महीतळे इति।

वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः॥

इति नारदीये च वेदाध्ययनमिव पुराणाध्ययनं अवश्यकरणीयमिति सूचितम्।

‘स्वाध्यायं श्रावयेत् पित्र्ये’ इति, पितृश्राद्धादिकाले ‘पुराणानि खिलानि च’ इति पुराणश्रावणं मनुना चोक्तम्। तदर्थं पुराणाध्ययनमासीत् वेदैः सह।

‘वेदं धर्मं पुराणं च….. गुरुर्ज्ञानं विनिर्दिशेत्’ इति उशनाः कथितवान्।

समूलमितिहासपुरणमिति शङ्कराचार्यः ब्रह्मसूत्रभाष्ये चोक्त्वा पुराणानां स्थानमाने प्रकटयति।

‘पुराणेषु च सर्वेषु श्रीमद्भागवतं परम्’ इति पाद्मवचनं भागवतपुराणस्य श्रैष्ठ्यं कथयति।

श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे।

शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः॥

इति स्कान्दे भागवताध्ययने प्राथम्यं कष्टसाध्यत्वं च दृश्यते इत्युक्तम्।

पादार्धश्लोकाध्ययने कियान् प्रयासः इति शङ्कायां गरुडवचनं चोदाहृतं मध्वाचार्यैः व्याख्यानारम्भे। तथाहि - अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः।

गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः।

पुराणानां साररूपः……………….॥’ इत्यादिकम्। कथमेतदिति कथमेषां च तादृशः सम्बन्धः इत्यत्र मध्वकृत श्रीमद्भागवततात्पर्यनिर्णयग्रन्थ एव शरणम्।

‘पुराणानामभिप्रायं व्यासो वेद नचापरः।

अहं वेद्मि विशेषेण व्यासादपि विधेरपि’इति

[[190]]

शिववाक्यं पाद्मे दरिदृश्यते। स शिवः व्यासप्रसादात् विधेः सकाशाच्च पुराणानि ज्ञातवानिति ज्ञायते।

भाविविधिरयं मध्वाचार्यः निर्णयग्रन्थमिमं चकार भागवततात्पर्यरूपम्।

भागवतव्याजेन सर्वपुराणानां निर्णयोऽयं ग्रन्थः। अन्यदेशगमने तत्रत्य- भाषापरिज्ञानमावश्यकम् नरस्य। अन्यथा व्यवहारे सौकर्यं न भवत्येव।

तथैव पुराणभाषात्रयपरिचयाभावे पुराणार्थो न सम्यग्भाति। भाषात्रयवेदिनः त्रय एते महात्मानः।

समाधिभाषा प्रथमा लौकिकीति तथापरा।

तृतीया परकीयेति शास्त्रभाषा त्रिधा स्मृता॥

इति भारद्वाजसंहितायां भाषात्रयविषये उक्तमपि तदस्पष्टतया न केनापि दृष्टिर्दत्ता। निर्णयेऽत्र स्पष्टप्रमाणमुक्तम्- गुह्यदर्शनभाषे च भाषा चैव समाधिका।

तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः॥

गुह्यदर्शनसंज्ञा च गुह्यगुह्या तथापरा।

एवमादिक्रमेणैव त्वेकाशीतिविभेदिताः॥ इति।

न केवलं भाषात्रयं किन्तु अवान्तरभेदेन मिश्ररूपेण एकाशीतिभाषाः भवन्तीति विवृतमत्र आचार्यैः। एवं यथार्थतया पुराणार्थसम्पादनाय भाषाः सर्वाः प्रकटीकृता अपि उदाहरणपूर्वकं सुस्पष्टा नाभूवन्।

भागवततात्पर्यनिर्णयग्रन्थसम्पादने दत्तादराः बन्नञ्जे गोविन्दाचार्याः अनेकेषु वाक्येषु टिप्पणीं संयोजितवन्तः। अत्रापि भाषाविषये अपूर्वमलिखन्।

दशाधिक-प्राचीनव्याख्यानानि समालोच्य बन्नञ्जे महोदयैः अस्य टिप्पणी विरचितेत्यत्र नातिशयोक्तिः। विशेषतः अनन्ततीर्थीयं यादवेन्द्रीयं च अप्रकटितमद्यापि समालोक्य अत्यधिकांशो निवेशित इति तैरेवोक्तं मह्यं पाठाध्यापनसन्दर्भे मूलपुस्तकदर्शनोत्सुकाय। टिप्पणीमिषेण भागवत- व्याख्यानं निर्णयभाष्यं च कृतम्।

[[191]]

सर्वे विमोहितधियः सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे।

सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः॥ इति हि भागवतम्(11.7.17) (१)अभगवत्स्वरूपत्वात् तनुभृत्त्वम्। बहिरर्थापेक्षैव च तेषां मोहः।

परमसुखसाधनादन्योऽर्थो बहिरर्थः।

(२)अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा।

इच्छा च क्रडयैवास्य न फाय यतो विभोः ॥

अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते।

ब्रह्मा निरभिमानत्वाच्छरीर्यप्यशरीरवान् ॥

नित्यानन्दोपयोग्यन्यकामस्योज्झितितः सदा।

बहिर्थविनिर्मुक्तस्तथाऽपि(३) तनुधारणात् ॥

अमूढो मूढ इतिवदुच्यते च सरस्वती। (४)रुद्राद्यास्तन्वभीमानाद् बहिरर्थयुजस्तथा ॥

(५)सर्वेषां ब्रह्मपदवीयोग्यनां पूर्वमेव तु।

अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते ॥

(६)ब्रह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम्।

ब्रह्मगायत्रिभावे तु नांशावतरणं क्कचित् ॥

(७)शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते।

आपरोक्ष्यण पारोक्ष्यात् पूर्णं ज्ञानं सदैव तु ॥

(८)शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत्।

‘क्कचित्क्कचित् सरस्वत्या अंशावतरणेष्विति’ इति शक्तिविवेके

[[192]]

अत्र श्रीमदाचार्यैः निर्णये शक्तिविवेकप्रमाणानि प्रदत्तानि। कथं ब्रह्मापि मोहवान् कथ्यते। आदिना वायुसरस्वत्यादीनां च मोहविषयः कीदृशः इति।

प्रसङ्गात् ऋज्वादीनां समाचाराः कथिताः। अत्र टिप्पणीषु बन्नञ्जेपण्डितैः बह्वंशाः प्रकटीकृताः। प्रमाणस्थपदानां विवरणं अनेकांशैराबद्धं वर्तते।

नैकशङ्कानिर्मूलनाय (P.no. 642,643,644) अत्र व्याख्यानान्तराणि नोपकुर्वन्ति।- (१)कोशेषु तु ‘भगवत्स्वरूपत्वात्’ इति पठ्यते। लिपिकृत्प्रमादः स्यात्। भगवत इव स्वं रूपं शरीरं येषां ते भगवत्स्वरूपाः। तद्भिन्नत्वात्।

भौतिकशरीरवत्त्वादित्यर्थः। अस्मिन्नर्थे ब्रह्मादय इति ब्रह्मणोऽपि ग्रहणम्। अथच भगवदर्थमेव स्वं रूपं शरीरं येषां ते भगवत्स्वरूपाः।

बाह्यार्थविधुरत्वात्। शरीराभिमानरहिताः। तद्भिन्नत्वात् शरीरा- भिमानित्वात् तनुभृतः। अस्मिन्नर्थे ब्रह्मादय इति रुद्राद्या एव गृह्यन्ते।

(२)तनुभृत इत्यस्य विवक्षभेदेनोक्तमर्थद्वयं प्रमाणतः समाख्यापयति- अशरीरः। भौतिकशरीररहितः। कुतः? पूर्णानन्दत्वतः। ज्ञानानन्दमय- शरीरत्वात्। सृष्ट्याद्यर्थं बाह्यानर्थानुपादित्सति क्कचित्। सा चेच्छा केवलं क्रीडार्थम्; न फलाय। तदुक्तम्- ‘न प्रयोजनवत्त्वात्’, लोकवत्तु लीलाकैवल्यम्’ इति। अस्मिन्नर्थे भगवानेक एवातनुभृदबहिरर्थभावश्च।

तदन्ये ब्राह्माद्याः सर्वेऽपि तनुभृतः। बरिरर्थभावाश्च। वस्तुतस्तु शरीराभिमान एव शरीरित्वं नाम। तेन ब्रह्माऽप्यतनुभृदेरेत्याह- ब्रह्मा ।

एवं स्वरूपानन्दा-विर्भावोपयोगि यच्छ्रवणमननादिकं तदन्य एवार्थो बहिरर्थ इत्युच्यते। नहि भगवदुपासनादिकं बाह्योऽर्थः। तस्माद् ब्रह्माऽपि बहिरर्थकामो न भवति।

(३)ननु मूले ब्रह्माद्या इति ब्रह्मणोऽपि ग्रहणपक्षे तनुभृत्त्वं बहिरर्थ- भावश्च कथञ्चिदुक्तरीत्या युज्येयाताम्। विमहितधिय इति तु कथम्? नहि जगत्स्रष्टा मूढः शक्यं वक्तुम्। आह- तथाऽपि तनुधारणात्। यतो लोके

[[193]]

शरीरित्वं मोहेन समानाधिकरणमेव दृष्टं, यः शरीरी स मूढो भवतीति तेन शरीरित्वसाम्यदुपचारतो मूढवदुज्यते। न वस्तुतो मोहवत्त्वात्। तथाच ब्रह्मणो मायया विमोहितत्वं नाम मोहजनक-मायोपादानकशरीरवत्त्वमेव, न मोहवत्त्वम्। उक्तन्यायः सरस्वत्यामपि समानः परशुक्लत्रयान्तर्भावाद् इत्याह- सरस्वती चेति। साऽपि अनभिमानादशरीरिण्येव। अबहिरर्थ- कामा, अमोहितधीश्च। यदि क्कचित् शरीरं बाह्यार्थकामो मोहश्च तस्या अप्युच्यन्ते तदुपचारादेव।

(४)रुद्रादीनां मुख्यत एवेदं सर्वं युज्यत इत्याऽह- रुद्राद्यास्तन्वभी- मानात्। तथाच रुद्राद्या न भवानिव मुख्यवक्तारः। यद्यपि ब्रह्मा मुख्य- वक्ता स्यादनभिमानात्। तथाऽपि तस्यापि प्राकृतशरीरबन्धोऽस्त्येव।

त्वमेक एव मायातीतः। अतस्त्वत्तोऽन्यं वक्तारं विबुधेष्वपि नानुपश्यामि इति मूलार्थः।

(५)इदानीं प्रसङ्गवशादपूर्वं किञ्चित् प्रमेयजातमाह- सर्वेषाम्।

ब्रह्मपदयोग्याः शतं ह्यृजवः। तेषां ब्रह्मपदप्राप्तेः शतजन्मतः पूर्वमपरोक्ष- ज्ञानम्। तदैव च शतगणप्रवेशः। ततः पूर्वं तु परोक्षज्ञानमेव तेषाम्। तेन तदानीं तेषामपरोक्षज्ञानाभावो मोहो नाम। नहि ज्ञानाभावमात्रम्।

तथाच ब्रह्मपदवीयोग्यानां सर्वेषां जीवानां शतगणप्रवेशात् पूर्वमेव तु अपरोक्षस्य ज्ञानस्याभाव एव मोह इति भण्यत इत्यन्वयः। पूर्वमेव अनादित एवेति वा।

(६)ब्रह्मण भारत्याश्च रीत्यन्तरेण मोहं घटयति- ब्रह्मणस्तु इति।

ब्रह्मणः अावेशावतारेषु सोमादिष्विति तावत्। तत्र ज्ञानाद्यभावः स्फुटः।

अथ ब्रह्मा वायुः। तस्य भारत्याश्च अंशरूपेषु अवतारेषु मूलरूपे यावत् तावतो ज्ञानस्य वर्जनं ज्ञानह्नास इति यावत्। स एव च तस्य तस्याश्च मोहो नाम। भारत्या सह ब्रह्मणो वायोरिति वा। हनुमदादिषु वाय्ववतारेषु विप्रकन्यादिषु भारत्यवतारेषु च मूलरूपापेक्षया किञ्चिदिव ज्ञानह्नासो

[[194]]

विद्यत इत्यर्थः। ब्रह्मत्वे तदपि नास्तीत्याह- ब्रह्मागायत्रिभावे। वायोः ब्रह्मभावे भारत्याश्च गायत्रीभावे नांशावतरणं, न तन्निमित्तो ज्ञानह्नासश्च।

‘नांशावतरणे क्कचित्’ इति क्कचित्पाठः प्रामादिकः सम्भाव्यते।

(७)ब्रह्मपदवीयोग्यानामपरोक्षज्ञानाभावो मोह इत्युक्तम्। तर्हि कदा तेषामपरोक्षज्ञानम्? आह- शतजन्मसु। शतजन्मसु मध्ये पूर्वं प्रथम- जन्मनि। पञ्चम्यर्थे वा सप्तमी। अपरोक्षज्ञानोत्तरं शततमे जन्मनि तेषां ब्रह्मभाव इति भावः। आपरोक्ष्येण ज्ञानोदय इत्यन्वयः। पारोक्ष्यात्तु सदैव स्वरूपत एव पूर्णं ज्ञानमिति।

(८)एवं सरस्वतीपदयोग्यानामृजुपत्नीनामपि ज्ञाने क्रमविशेषमाह- शत जन्मगतायाश्च। अपरोक्षानन्तरं भारतीभावात् पूर्वं यानि द्व्यूनानि शतजन्मानि तत्र गतायाः सरस्वत्याः सरश्वतीपदयोग्याया ऋजुस्त्रिया अंशावतरणेषु क्कचित् क्कचिदापरोक्ष्योज्झितिरपि भवेत्। अवतारेष्वावृतं भवत्यपरोक्षज्ञानं तासामिति। इतिशब्दं ऋजुज्ञानव्यवस्थोपसंहारमाह।

एवं बहुस्थळेषु निर्णयोदहृतप्रमाणवाक्येषु स्वतन्त्रतया बन्नञ्जेमहाचार्यैः टिप्पणी सम्योजिता।

मन्वन्तरप्रळयसङ्ख्या एवं मन्वन्तरप्रळयकालविषयनिर्णयेऽपि निर्णयप्रमाणानां निश्चयः कृतः।

मन्वन्तरप्रळयसङ्ख्या च त्रयोदशैवेति प्रथमतया टिप्पण्याम् उद्घोषितं गोविन्दाचार्यैः। अन्तिममनोः प्रळयः दिनप्रळय एवेति तत्र सप्रमाणम् निरूपितः। अवशिष्टाः विंशतिसहस्रसमाश्च कथं विभजनीयाश्चेति निर्णय- प्रमाणानुगुण्येन प्रदर्शितश्च टिप्पण्याम् (P.no.193,194,195)।

अपूर्वार्थप्रकटणे महान्तः प्रमाणमित्युक्त्वा महानात्मा च भवति गुरुराचार्यः।

एवं कालगणनाक्रमपट्टिका प्रदत्ता प्रमाणरीत्या (P.no. 188,189)।

भागवततात्पर्यटिप्पणी 3.12.8 (पृष्ठानि १८८-१८९)

[[195]]

‘द्वौ परमाणू मिळितौ अणुः द्यणुकः स्यात्। द्यणुकनामकास्ते त्रयो मिलिताः त्रसरेणुः त्र्यणुकः। परमा णुद्यणुुकावयोगिनामगोचरौ।

त्रसरेणुरस्त्वयोगिनामपि गोचरः। कुत्रेति चेत्, जाला र्करश्म्यवगतः।

गृहमित्यादिषु निर्मितं गवाक्षं जालम्। तद्द्वाराऽन्तर्गतोऽर्करश्मिः जालार्करश्मिः। तेनायगतः प्रकाशितः। स्वमाकाशमेवानुपतन् आकाश एवं वर्तमानः अगाद् दृष्टिपये प्राप्तोऽभूदित्यर्थः’ इत्यनन्ततीर्थाः।

नगात् इति च्छेदभ्रान्त्या नगात् पर्वतात् खमाकाशमुत्पतन्निति अर्थभ्रान्तिः सम्भाव्यते। तथा केषाञ्चन “खमेवानुपतन्न गाम्’ इति पाठभ्रान्तिश्र्च दृश्यते। तदुभयव्युदासार्थं भाष्यकारः अगादित्याह । अर्थस्तुः स्फुट एवेति न कथितः। अत्र लकारार्थोऽविवक्षितः। अगाद् गच्छतीत्येकोऽर्थः। इतः परं “दृष्टिविषयं प्राप्य ज्ञान इत्यर्थः’ इत्यधिकं मुद्रितपाठेषु पठ्यते स तु प्रक्षेप एव । कोशेषु क्काप्यदर्शनात् । असङ्गतत्वाच्च।

अगादित्यस्याप्यवग-त्यर्थकत्वे जालाकरश्म्यवगत इति पुनरुक्तेः । अत एव विजयध्वजीये यादपत्ये च अगाद् गत इत्येव व्याख्यातम्। अनन्ततीर्थीयं तु तात्पर्यकथनपरमित्यवगन्तव्यम्।

दश पञ्च पञ्चदश लघूनि मिळितानि नाडिका घटिका आम्नाता। ते घटिके द्वे संयुक्ते मुहूर्तः स्मृतः। षण्णाडिका यामः। सप्त, साधसप्तनाडिका वा याम इत्युच्यते। स यामः प्रहर इति नाम्ना चोच्यते। राशिभेदन्यूनातिरेक- सम्भवादयं विकल्पः। नृणां मनुष्याणां विवक्षयेयं यामादिकल्पना। न देवादिविवक्षया। तेषां यामादेरतिमहत्त्वात् इत्यनन्ततीर्थाः। यादुपत्यरीत्या प्रहर-यामयोर्भिनन्त्वमेव। यथाहि तद्व्याख्यानम्-षण्णाडिकाः प्रहरः दिवसस्य पञ्चमो भागः। सप्त वा सप्त वा नाडिका यामः दिवसस्य चतुर्थो भागः इति। विजयध्वजीयेऽप्येवमिति भाति-षण्णाडिकाः प्रहरः। सप्त- नाडिका यामः इति तद्वचनात्। श्रीधरादयः सर्वे व्याख्यातारः यामप्रहरौ समानार्थावित्येव व्याचक्षते। कोशकाराश्च सर्वे यामप्रहरौ समावित्येवामनन्ति।

[[196]]

तत्पक्षे घटिकासङ्गमनं कथमिति तु विचारणीयम्। तथाहि तत्पक्षे क्कचित् दिवसकाले षड् घटिको यामः। वृद्धौ सप्तघटिकः। तथाच ह्नसीयसि दिने चतुर्विंशतिर्घटिकाः भवन्ति। परिवृे त्वष्टाविंशतिः। इदं च वस्तुस्थितिविरुद्धम्।

ऊने दिवसेऽष्टाविंशतिः, वृद्धौ द्वात्रिंशद् घटिका इति हि वक्तव्यम्। तथाह्यत्र यादुपत्यवचनम्- कर्कसङ्क्रमणमारभ्य धनुःसङ्क्रमणपर्यन्तं नाडीनामूनात् क्रमेण न्यूनत्वात् धनुःसङ्क्रमणसमये यामस्य सप्तनाडीत्वम्। मकरसङ्क्रमणम्- अारभ्य मिथुनसङ्क्रमणपर्यन्तं नाडीनां क्रमेण अतिरेकादाधिक्यात् मिथुने अष्टनाडीत्वम्। मेषतुलयोः सार्धसप्तनाडीत्वमित्यादिविशेषसूचनाय वेति विकल्प इति भावः इति। गणनदृष्ट्या इदमतीव सुसङ्गतमिति भाति। मूले च प्रहरः षट् यामः सप्तेति यामप्रहरयोः स्वरसतो भेद एव प्रतीयते। तर्हि अनन्ततीर्थीयं गणितरीत्या कथं सङ्गमनीयमिति महान्तः प्रमाणम्।

अत्र श्रीधरादयस्तु रीत्यन्तरमाश्रयन्ति- पूवोक्तसन्ध्याकालं विहाय इयं परिगणना। तथाच षण्णाडिको याम इति पक्षे (६X४ २४) चतुर्विंशति- नाडिको दिवसः। नाडिकाद्वयं पूर्वा सन्ध्या, नाडिकाद्वयमुत्तरा सन्ध्या इत्याहत्य (२४+४ २८( अष्टाविंशतिर्घटिकाः दिनह्नासे। एवं सप्तनाडिको याम इति पक्षे (७X४ २८) अष्टाविंशतिर्घटिका दिनमानम्। नाडिका- चतुष्टयं पूर्वोत्तरसन्ध्यांश इत्याहत्य (२८+४ ३२) द्वात्रिंशद् घटिका दिनवृद्धाविति। अनेन विधानेन कथञ्चिद् गणितं सुसम्पन्नं भवेत्। अथापि कालपरिगणनसमये सन्ध्यांशत्यागस्य प्रयोजनाभावात्, कारणा-भावात्, यामाश्चत्वार श्चत्वार इत्युत्तरवचनविरोधाच्चेदं व्याख्यानं परेषामनुपा- देयमेव। वल्लभाचार्यस्तु एतं दोषं परिजिहीर्षुः रीत्यन्तरेण व्याचख्यौ- घटिकापेक्षया स्थूला नाडिका। वृद्धौ रात्रिर्दिनं वा, तस्य चतुर्थो भागः सप्त नाड्यात्मकः। ह्नासे तु षण्णाड्यात्मकः। एवमहोरात्रं द्विपञ्चाशन्नाडिका भवन्ति षष्टिनाडिका वा इति। इदमपि नाडकाघटिकयोविभेदे मानाभा- वादुपेक्ष्यम्। ते द्वे मुहूर्त इति मूल एव स्फुटं नाडिकाघटिकयोरेकत्वप्रतीतेश्च।

[[197]]

तथाचायं कालगणनाक्रमः-

  • १ परमाणुः        १६   सेकंडस्
    

१८२२५ २ परमाणू १ द्व्यणुकः ३२ सेकंडस् १८२२५ ३ द्व्यणुकाः १ त्र्यणुकः ३२ सेकंडस् ५०७५ ३ त्र्यणुकाः १ त्रुटिः ३२ सेकंडस् २०२५ ३ त्रुटयः १ वेधः ३२ सेकंडस् ६७५ ३ वेधाः १ लवः ३२ सेकंडस् २२५ ३ लवाः १ निमेषः ३२ सेकंडस् ७५ ३ निमेषाः १ क्षणः १ ७ सेकंडस् २५ ४ क्षण ाः १ काष्ठा ६ २५ सेकंडस् १५ काष्ठाः १ लघुः १ मिनट्स् ३६ सेकंडस् १५ लघूनि १ घटिका २४ मिनट्स् २ घटिके १ मुहूर्त ४८ मिनट्स् अत्र श्रीधरादयस्तु त्रुटित्रयं वेद इति पक्षं विहाय शतं त्रुटय एको वेधकाल

[[198]]

इति वदन्ति। तत्पक्षे परमाणुकालो नाम आङ्ग्लमानरीत्या 4/151875 सेकंड्स् भवन्ति। सूर्यप्रकाशस्य परमाणुप्रदेशातिक्रमणकालः परमाणुकाल इति च परमाणुकाललक्षणं ते वर्णयन्ति। तदिदं सर्वं भ्रान्तिविलास इति सम्प्रति विज्ञानिभिर्निर्णीतम्। तथाच सेकंडपरिमितकाले १,८६,००० क्रोश (मैल्) परिमितः, प्रकाशवेग इति सम्प्रत्यवगतम्। श्रीधरादिरीत्या सेकंड परिमितकाले ३७,९६८ 3/4 परमाणुपरिमितदैर्घ्यं प्रदेशमेव केवलं प्रकाशः प्रसरतीति। तस्मात् तत् तादृशं च सर्वमपव्याख्यानं तत्वबुभुत्सुभिरुपेक्षणीयम्।

परिमाणकोष्टकमप्यस्ति अत्र (P.no.190)।

तथाचैवं परिमाणकोष्ठकम्- ४ काकणिकाः १ गुञ्जा ४ कर्षाः १ पलम् ४ गुञ्जाः १ माषः ४ पलानि १ कुडवः ४ माषाः १ कर्षः ४ कुडवाः १ प्रस्थः सामान्यतः पलमिति तोलकत्रयमुच्यते। तथाच द्वादशार्धपलेन, षलेन, अष्टादशतोलकपरिमितेन ताम्रेण कलालाकृति घटीपात्रं यावत् प्रस्थजलं पूर्येत तवद्गात्रं निर्मेयम्। चतुर्माषपरिमितस्वर्णरचितया चतुरङ्गुलदीर्घया सूच्या अधस्ताद् वेदः करणीयः। ततस्तज्जलकटाहे निक्षेप्यम्। यावता च पूर्यते निमज्जति च पात्रं सा घटिका नाडी चेति।

विष्णुपुराणे पठ्यमाने एकस्मिन् श्लोके रीत्यन्तरेण परिमाणमुक्तम्- उन्मानेनाम्भतः सा तु पलान्यर्त्रयोदश।

हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः।

मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः इति।

अर्धेन योगे त्रयोदश, सा द्वादशेत्यर्थः इति व्याख्यानम्। तथाचैतत्पक्षे

[[199]]

न षट् पलं ताम्रपात्रं किन्तु सार्धद्वादशपलपरिमितमिति भेदः। अन्यत् समानम्।

दैवज्ञाः पुना रीत्यन्तरेण कथयन्ति। तद् यथा- शुल्बस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम्।

तदम्भसा षष्टिपलैः प्रपुर्य पात्रं घटार्धप्रतिमं घटी स्यात् ॥

सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गला स्यात्।

विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाऽम्बुभिस्तत् इति।

शुल्बं ताम्रम्। दिग्भिः पलैरिति दशभिः पलैः। षष्टिपलैरिति षष्टि- विघटिकाभिः। तथाचात्र पक्षे दशपलपरिमितं ताम्रपात्र-मिति भेदः। हेम- शलाका च न चतुर्माषपरिमिता किन्तु सत्र्यंशमाषत्रयनिर्मिता। कथमत्र विरोधसङ्गमनमिति विचि-कित्सकैर्विभावनीयम्। प्रदेशभेदे माषपला- दीनामन्यान्यपरिमाणेषु व्यवहारात् सर्वमपि कथञ्चित् सङ्गमनीयं स्यात्।

यथा चतुर्गुञ्जा पञ्चगुञ्जा वा माष इति। अत एव विष्णुपुराणेऽपि मागधेन प्रमाणेनेत्युक्तम्। अन्यत्र प्रस्थप्रमाणस्यान्यादृशत्वादित्यलम्।

एवमेव मन्वन्तरादिकालकोष्टकमपि दत्तमस्ति।

चतुर्युगसहस्रमितं हि ब्रह्मणोदिनम्। तत्र चतुर्दश मनव इति तत्काल- विभागे एकैकस्य महायुगनामेकसप्ततिः भुक्तिकालो भवति- १४) १०००(७१ ९८ २० १४ ६ ततश्च षड्युगचतुष्टयमवशिष्यते। तदपि मन्वन्तरेषु विभज्य योजनीयमिति दर्शयितुं साधिकेत्युक्तम्। अधिकसङ्ख्या तु भाष्ये स्फुटमुक्ता सार्धाष्टदशलक्षकमिति। तथाच गणितक्रमः - चतुर्युगस्य १२,००० वर्षाणि देवमानेन भवन्ति।

मानुषमानेन तु १२,०००x३६० ४२,२०,००० वर्षाणि भवन्ति। तस्य सप्तत्या गुणने-

[[200]]

४३,२०,००० x ७१ ३०,६७,२०,००० वर्षाणि। अयमधिकांशं विना मन्वन्तरकालः। तदुक्तं विष्णुपुराणे- त्रिंशत्कोट्यस्तु सम्पूर्णाः सङ्ख्याताः सङ्ख्यया द्विज। सप्तषष्टि स्तथाऽन्यानि नियुतानि महामुने।

विंशतिश्च सहस्राणि कालोऽयमधिकं विना इति। ततश्चाधिकस्य पूरणे ३०, ६७,२०,०००+१८,५०००० ३०,८५,७०,००० वर्षाणि आहत्य समग्रो मन्वन्तरकालः।

तथाऽपि कालः कश्चनावशिष्यते। तथाहि षड्युगचतुष्टयकालः

-१२,०००x६x ३६० २,५९,२०,०००वर्षाणि। तानि मन्वन्तरेषु विभज्य हि योजनीयानि। तत्र प्रतिमन्वन्तरं १८,५०,००० वर्षाणि योजनीयानीत्युक्तम्। आहत्य चतुदर्शसु मन्वन्तरेषु (१८,५०,००० x १४ ) २,५९,००,००० वर्षाणि भवन्ति। एवञ्च पुनरपि विंशतिः सहस्राणां कल्पकालेऽवशिष्यते। तथाहि- षयुगचतुष्टयस्य कालः २,५९,२०,०००तत्र मन्वन्तरेषु विभक्तः कालः २,५९,००,०००अवशिष्टः कल्पकालः २०,०००एतेषामवशिष्टानां कल्पवत्सराणां मन्वन्तरेष्वनन्तर्भावे कुत्रान्तर्भा इत्यत आह- सहस्रमित्यादि। शतानां चतुरुत्तरं सहस्रम्, चतुःशतोत्तरं सहस्र (१४००)मित्यर्थः। पञ्चोत्तरमथापिच। अथेति पक्षान्तरे। अथवा, शतानां पञ्चोत्तरं सहस्र(१५००)मिति यावत्। अवशिष्टः विंशतिसहस्रात्मकः कालः मन्वन्तराणां प्रळयकाल इति समग्रसङ्ख्यापूरणं भवति। विंशतिसहस्र- परिमितानां वर्षाणां चतुर्दशसु मन्वन्तरेषु कथं पुनर्विभागः? अत्र प्रायः सर्वेऽपि विभ्रान्ताः। तथाह्यत्र तात्पर्यदीपिका- प्रथममनुप्रळयकालः द्विसहस्रम्, द्व्यादिषर्यन्तं पञ्चशतोत्तरं सहस्रम्, अवशिष्टाष्टमन्वन्तर- प्रळयकालः शतानां चतुरुत्तरं सहस्रम् इति। तदिदमसङ्गतं भाति।

गणितविरोधात्। तथाहि तद्रीत्या गणने प्रथममनुप्रळयकालः २,०००

[[201]]

वर्षाणि; तदनन्तराणां पञ्चानामाहत्य (१५०० x ५ ) ७५०० वर्षाणि; अवशिष्टा-नामष्टानामाहत्य (१४०० x ८ )११,२०० वर्षाणि। तथाच समग्रो मनुप्रळयकालः (२०००+५००+११.००० )२०,७०० वर्षाणि भवन्ति। एतत्पक्षे अवशिष्टकल्पकालादप्युर्वरितानि वर्षाणि सप्तशतानि कुत आनेयानि? चतुदर्शमन्वन्तरावसाने महाप्रळयस्यैव प्रारम्भात् पुनः मनुप्रळयकालत्वेन १४०० वर्षाणां परिगणनानौचित्याच्च। कथञ्चित् तत्यागे पुनः सप्तशतानि वर्षाणां न्यूनानि भवन्तीति दुरुपपादमेव गणितरीत्या तद्व्याख्यानम्। एवं यादुपत्यमपि। तद्रीत्या हि- आद्येषु षु प्रथमे द्विसहस्रम्, द्वितीये पञ्चशतोत्तरं सहस्रम्, तृतीये चतुःशतोत्तरम्, शिष्टेषु त्रिषु त्रिशतोत्तरं सहस्रम्, अवशिष्टेष्वष्टसु पुनश्चतुःशतोत्तरं सहस्रमिति कालगणना। यद्यपि एतत्पक्षे आहत्य विंशतिसहस्राणि भवन्तीति गणितक्रमः सङ्गच्छते। तथाहि- आद्यमनुप्रळयकालः - २००द्वितीय - १५००तृतीय - १४०० चतुर्थादित्रिकस्य - ३९०० (१३००x३) अवशिष्टाष्टकस्य - ११,२०० (१४००x८) आहत्य - २०,०००अत्र त्रिशतोत्तरं शतं मूलानुक्तमधिकं निवेश्यत इत्यरुचिः। अयं गणितक्रमश्च मूलश्लोकान्न कथमपि प्रतीयते। यथाकथञ्चित् यत्किमपि गणितमाश्रित्य सङ्ख्यापूरणं तु न प्रीणयति चेतः। पूर्वव्याख्यानवदत्रापि चतुर्दशमन्वन्तर-प्रळयकालपरिगणनमसङ्गतम्।

अतस्तर्हि मूलश्लोकस्य कोऽर्थः? एवं सम्भाव्यते- चतुःशतोत्तरं सहस्रं मनुप्रळयकाल इत्येकः पक्षः। पक्षान्तरमप्यस्तीत्याह- पञ्चोत्तरमथापि चेति।

अथ, अथवा पञ्चशतोत्तरं सहस्रं प्रळयकाल इत्यपरः पक्षः। नचानयोः पक्षयोर्विरोधः। कल्पभेदेन व्यवस्थासम्भवात्। तथाचि क्कचित्कल्पे १४००

[[202]]

वर्षाणि मनुप्रळयः, क्कचिच्च १५०० वर्षाणीति। कल्पमध्ये च त्रयोदशैव अवान्तरप्रळयाः, न चतुर्दश। चतुर्दशस्य महाप्रळये गतत्वात् ( नन्वेवमपि न सङ्ख्यापूर्तिः। प्रथमपक्षे (१४००x१३ )१८,००० वर्षाण्येव सम्भूय भवन्ति। पक्षान्तरे च (१५०० x १३ )१९,५०० वर्षाणि। तत्कथं विंशतिसहस्रपूरणम्? आह- आद्येषु षु प्रथमे द्विसाहस्रं प्रथमे द्विसाहस्रं प्रकर्तितम् इति। १४००वर्षाणीति प्रथमपक्षे आद्येषु षु द्विसाहस्रं प्रकर्तितम्।

१५०० वर्षाणीति द्वितीयपक्षे प्रथमे द्विसाहस्रं प्रकर्तितम्। अयमर्थः।

मन्वन्तराणां षुषु विभक्तेषु प्रथमषं द्वितीयषट्कं अवशिष्टं द्वयमिति राशित्रयं भवति। एवं षविभागेन सम्पन्नेषु त्रिषु राशिषु य आद्याः फ्रथमसप्तमत्रयोदशाः तेषु द्विसाहस्रं प्रकर्तितम्। द्वितीयाच्छष्टपर्यन्तं अष्टमाद् द्वादशपर्यन्तं च चतुःशतोत्तवं सहस्रमेव। तृतीयराशाववशिष्टस्य चतुर्दशस्य महाप्रळय एवान्तर्भावान्न गणना। एवं सङ्ख्यापूर्तिर्भवतीति। तथाहि- प्रथमसप्तमत्रयोदशानां प्रळयकालः (२०००x३ ) ६००० अवशिष्टानां दशानां प्रळयकालः (१४००x१० )१४,०००तथाच समग्रः प्रळयकालः २०,०००पञ्चशतोत्तरं सहस्रमिति द्वितीयपक्षे सङ्ख्यापूरणक्रममाह- प्रथमे द्विसाहस्रं प्रकर्तितम् इति। तथाच क्रमः- प्रथमप्रळयकालः २००० अवशिष्टानां द्वादशानां प्रळयकालः (१५००x१२) १८,०००तथाच समग्रः प्रळयकालः २०,०००एवं सर्वं सुसम्पन्नं भवति। इतश्च महान्तः प्रमाणम्।

वेदमन्त्रेषु मन्त्रार्थेषु च निष्णाता गुरवः भागवतटिप्पण्यां च बहुत्र भागवतपुराणसूचितमन्त्रान् मन्त्रार्थान् प्रादुः।

‘उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः’ इत्यत्र (११.२१.०२८) ‘न

[[203]]

तं विदाथ’ इति मन्त्रपाठं पूर्णं दत्वा अस्यार्थमपि किञ्चिदाहुः।

पूर्वाचार्यव्याख्यानमप्यत्र दत्तवन्तः।

बदरपाण्डुवदनः एवं शब्दार्थविषये अपूर्वार्थतालोक्यते। बदरपाण्डुवदनः इत्यत्र बदर इत्यस्य चन्द्र इति निर्णयप्रमाणम्। तस्यार्थमुक्त्वाद्यापि बदरशब्दोऽपि अरब्बीभाषायां चन्द्रवाचकः प्रवर्तते इति टिप्पण्यां दत्त्वा गोविन्दाचार्याः देशकालव्यापिनो भवन्ति।

मानवो बदरः सिन्धुः शशिनस्तु त्रिनामकम्।

यो वेद मुच्यते रोगैर्विष्णुनाम्नेव संसृतेः॥

इति स्कान्दे’ इति निर्णयोक्तं पाठावसरे विवृतमाचार्यैः समीचीनतया। न नियोजितं टिप्पणीषु। नामत्रयसादृश्येन चन्द्रनामानीति। मनोभिमानित्वात् चन्द्रः मानवः मनोरोगं दूरीकरोति। बद स्थैर्ये इति धातुः। बदं रातीति ददातीति स्थिरतां मनसि निदधातीति चन्द्रः बदरः। तथा सिद्धिं करोतीति, सिद्धिं ददातीति, अन्तःसारं धत्ते इति वा सिन्धुरिति व्याख्याय रोगान्परिहृतवन्तः आचार्याः। साधनांशमपि प्रकाशितवन्तः एवमेवान्यत्र।

स्थालीपुलाकन्यायेन किञ्चिदिवाम्रेडितं मयात्रापि।

निर्णयादधिकमेव मुद्रितटिप्पणीदानीं वर्तते। सम्पादनवेळायाम् इतोऽप्यधिकं बन्नञ्जेमहाभागैः लिखितमासीत्। तन्मुद्रणायाधिकं भवतीति ग्रन्थप्रकाशकैरुक्तमिति बह्वंशाः विकलीकृताः मया इति बन्नञ्जे आचार्यैरेव उक्तम्। मे प्रदीयतामिति मया प्रार्थितम् तत् तदानीमेव दूरे क्षिप्तमित्य- वदन्नाचार्याः। यदा पुनर्मुद्रणावसरश्चेत् सर्वं दास्यामीति टिप्पण्यां इति तैरेव वारं वारमुक्तमद्यापि स्मरामि। जन्मान्तरेषु लभ्यानीति मन्ये।

न केवलमेवं पदार्थाद्यपूर्वविषयेषु आचार्यकौशलम्, किन्तु मध्वाचा- र्योदाहृतप्रमाणेषु प्रयोगेषु व्याकरणौचित्त्यं तत्र तत्र टिप्पण्यां सूचितमस्ति।

[[204]]

तथा छन्दोवैचित्र्यं च श्रुतिगीतासु प्रतिपादितमपूर्वम्। विशेषतः तत्र अन्यत्रापि भागवतपुराणपाठं तात्पर्यानुगुणं प्राचीनं प्रदाय अर्थविशेषं च प्रदर्शितवान्। शुद्धपाठः शुद्धचिन्तनमिति तेषामाशयः। वेदव्यासविरचितं एतत्पुराणम् आचार्यमध्वैर्निर्णीतम् एतादृशमिति सतात्पर्यं बन्नञ्जेगोविन्दाचार्यैः उद्घोषितम्। भागवततात्पर्यनिर्णयग्रन्थस्य अध्ययनाध्यापने शताधिक- वर्षात्पूर्वमेव नष्टे इति आचार्यैरुक्तं पाठनसन्दर्भे। गोविन्दाचार्याः द्विवारं निर्णयं पाठितवन्तः। प्रथमं मम कन्नडभाषायां, द्वितीयं अनिलाय संस्कृतभाषायाम्। तदा कृष्णराजोऽपि किञ्चिदिव पाठं गृहीतवानिति मया श्रुतम्। अध्यापनपरम्परायां अयं ग्रन्थो भवेदिति तेषामतीवाशासीत्। तेषां सङ्कल्पानुसारेणेति मन्ये इदानीं तत्र तत्र विरळतया श्रूयते निर्णयचिन्तनम्।

भागवतपुराणस्थप्रतिश्लोकं यावत् आचार्यमध्वकृततात्पर्यनिर्णयस्य सङ्गमनं भूयादित्याशासे। पूर्वापरसङ्गमनटिप्पणी बन्नञ्जेकृता उपकारिणी वर्तते।

शुद्धपाठः प्रचलतु। पूर्णबोधः प्रसीदतु। एष पन्थाः। एतद्ब्रह्म। एतत्कर्म।

एषा हि परमा गतिः॥श्रीः॥


[[205]]