१८ आचार्यगोविन्दकृता ‘तत्वचन्द्रिका’ - एकः परिचयः

प्रो. अ. हरिदास भट्टः

का नाम तत्वचन्द्रिका – भगवता बादरायणेन वेदार्थनिर्णायकयुक्ति ग्रथनार्थं ब्रह्मसूत्राणि प्रणीतानि। वैदिकाः सर्वे सिद्धान्ताः एतानि सूत्राण्येव अवलम्ब्य प्रवर्तन्ते। आचार्यमध्वोऽपि एतदेवाह- तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः। इति।

अन्यैरन्यथा व्याख्यातानीमानि सूत्राणि, आचार्यमध्वः सूत्रकारस्य भगवतः व्यासस्यैवाज्ञया सम्यग् व्याचख्यौ। एवं हि व्यासः आज्ञापयामास आचार्यवर्यम् – कुरु सूत्रभाष्यमविलम्बितं व्रजेः ॥ (म.वि 8-46) तदेवं सूत्रकाराज्ञया विरचितं माध्वभाष्यं सूत्रकर्तुः सम्मतमित्यत्र नास्ति संशीतिलेशः। सोऽयं भगवान् भाष्यकारः स्वोपज्ञं भाष्यं स्वयं ‘भाष्यं चात्यर्थविस्तरम् बहुज्ञा एव जानन्ति’ इति निर्वर्णयामास। तदेतत् पण्डितैः दुर्निरूपवचनं ब्रह्मसूत्रगणभाष्यं व्याख्यातुं स्वयमाचार्यः स्वान्तेवासिनं, प्रथितयशसं, विपश्चितामपश्चिमं श्रीत्रिविक्रमपण्डिताचार्यमादिदेश।

आदेशमेनमनुसृत्य पण्डिताचार्यः भाष्यस्य तत्वप्रदीपाख्यां दुष्करां टीकां निर्ममे। एवमिति स्वयमुज्जुघोष स्वग्रन्थे तत्वप्रदीपे पण्डिताचार्यः आज्ञाबलादकृषि लेशत एष तेषाम्। इति।

तत्वप्रदीपस्यास्य अनितरसाधारण्यं वैशिष्ट्यं आचार्यगोविन्दः पीठिकायामेवं प्राशंसत- ‘यदि पण्डिताचार्यः तत्वप्रदीपं न प्राणेष्यत वञ्चित एवाभविष्यत् समग्रोऽपि जिज्ञासुलोकोऽनयाऽपूर्वचिन्तनया’। ‘येनैवाधीतेन माध्वो माध्वो भवति’ इति च तेषामेष उद्घोषः।

[[181]]

अाचार्यस्य प्रियतमोऽयं ग्रन्थः अध्ययनपरम्परायां लुप्तः। बन्नञ्जे गोविन्दाचार्येण यतयः, विद्वांसश्च एतस्य पठन पाठनार्थमयाचिषत। ते च प्रत्यूचुः – ‘दुरधिगमोऽयं ग्रन्थः। व्याख्यापि नास्ति। कथं पठामः?’ इति।

तदर्थं तत्वप्रदीपं व्याख्यातुकामः बन्नञ्जे आचार्यः ‘तत्वचन्द्रिकां’ व्याख्यां जग्रन्थ। व्याख्यानिर्मितिनिमित्तं निरूपयन्नेव गोविन्दाचार्यः विज्ञापयति- अयि विपश्चितः, व्याख्येयं निहिता तत्रभवतां हस्ते। अथ विहाय कैतव- कथनं प्रारभ्यतां तत्वप्रदीपप्रवचनम्। सेयमाचार्यगोविन्दोपज्ञा तत्वचन्द्रिका।

नोपेक्षामर्हति पीठिका तत्वचन्द्रिकाव्याख्यात्राचार्येणादौ विस्तृतः पीठिकाभागः निबद्धः।

अवश्यमिदमध्येतव्यम्। तत्वप्रदीपस्य कर्तुः लिकुचसूरेः श्रीमदानन्दतीर्थ- भगवत्पादविषयेऽसाधारणीं भक्तिं श्रद्धाञ्च प्रादुश्चकार गोविन्दाचार्यः पीठिकायाम्। पण्डिताचार्यस्य मुखे नृत्यति सरस्वती स्वगुरुवर्णनावसरे तदेवाह पठिकायाम्- ‘कविकुलतिलकोऽयं गद्यरचनायां वाक्पतिराजति यदा स्वगुरुतमस्य मध्वस्य स्मरति’।

  1. तत्वप्रदीपस्य वैशिष्ट्यं नैकधा प्रत्यपीपददत्र गोविन्दाचार्यः। तत्रैकं- मन्त्राणाम् अपि च भाष्यवचनानामपूर्वमर्थं प्रकाशयति पण्डिताचार्यः।

जन्माधिकरणे ‘चतुर्भिः साकम्..’ इति श्रुत्यर्थः स्वोपज्ञः प्रकाशितः तत्वप्रदीपिकायाम्। ईक्षत्यधिकरणे ‘न चाशब्दत्वमितरसिद्धम्’ इति भाष्यवाक्यं चतुष्पदं चतुर्धा व्याख्यातम् ।

  1. श्रीरिति विष्णुवक्षःस्थितं रूपम्, लक्ष्मीरित्यङ्कस्थं रूपम्’ इति सम्प्रदायविदां कथनम्। पण्डिताचार्यस्तु अपरथा वर्णयति ‘अङ्कं श्रिता श्रीः वक्षसि लक्षणभूता लक्ष्मीरिति’ तदियं भणितिः शाखान्तरपाठसमन्वयार्थं पण्डिताचार्यस्य, इत्युपवर्णयति गोविन्दाचार्यः।

[[182]]

3.दैवीमीमांसा या मध्यममीमांसा सेयं लुप्तप्राया। तस्याः पूर्वोत्तरसूत्राणि बादरायणेनोपनिबद्धानि। कर्ता तु सूत्राणां व्यासशिष्यः पैलः शेषश्च। किं तत् व्यासग्रथितं सूत्रं ? ‘ स विष्णुराह हीत्यन्ते’ इत्यनुव्याख्यानम्। ‘स विष्णुराह हि’ ‘तं ब्रह्मेत्याचक्षते’ इति सूत्रद्वयेन विष्णुः ब्रह्मेत्युदितम्’ इति च सुधा। आभ्यां दैवीमीमांसायाः उपान्त्यं सूत्रं ‘स विष्णुराह हि’ इति विज्ञायते। पण्डिताचार्यः सूत्रमेवं पपाठ- ‘विष्णुरेव हि तच्छ्रुतेः’ इति।

अत्राह गोविन्दाचार्यः ‘लिकुचपण्डितैः एते सूत्रे यदि स्वग्रन्थे नोदाहरिष्येतां नावेदिष्यतैव प्रायः शुद्धसूत्रपाठः जिज्ञासुलोकस्य’ इति।

पीठिकायामाचार्यगोविन्दः ‘पाठमीमांसायां’ उपनिबबन्ध। नानधीत्यै तद् गन्तव्यमग्रे। अत्राहाचार्यः- ‘सत्यतीर्थः प्रथमलेखकः, न केवलम् प्रथमश्रोता च। ततो गोदावरीतीरे द्वितीयश्रोता पद्मनाभतीर्थः। तेनापि लिखितो भाष्यपाठः तदात्वे स्यादपि। किन्तु सर्वथा नोपलब्धः। तस्मात् अद्याप्युपलब्धः गलितप्रायोऽपि प्राचीनतमः पाठो हृषीकेशलिखित एवेति खलु विस्तरेण प्रचार्यमाणः पाठः प्रचुरप्रक्षेपः। पाश्चात्यानि व्याख्यानानि मूलपाठाननुसारिणीति भगवत्पादभावनिर्णये न पर्याप्तानीव।

गोविन्दाचार्यः सूत्रभाष्ये अपपाठस्योदाहरणत्वेन-‘भेदान्नेति चेद् एकस्यामपि’(3.3.2) इति सूत्रभाष्यमुपस्थापयति। अत्र प्रचलितः भाष्य- पाठः एकस्यामपि शाखायां ‘आत्मेत्येवोपासीत’, कं ब्रह्म खं ‘ब्रह्म’ इत्यादि भेद दर्शनात्’ इत्यस्ति। अनयोः प्रथमं बृहदारण्यके यजुःशाखायां पठ्यते।

द्वितीयं पुनः सामशाखायां छान्दोग्ये पठ्यते। तदिदं उपहसत्याचार्याः – ‘विस्मयावहमिदं यदेकस्यामपि शाखायामिति प्रत्यज्ञायि।

दृष्टान्तत्वेन शाखाद्वयगतं वचनद्वयमुदाहारि’ इति।

परन्तु इदमिहानुसन्धेयम्। जयमुनिकृतटीकायां वा व्याख्यांतरेषु वा नैतदेवं व्याख्यायि। अतः सम्भाव्यते लेखकप्रमादोऽयमिति। बृहदारण्यकगतं प्रथमवाक्यं पठित्वा तत्रैव सप्तमाध्यायगतं ॐ खं ब्रह्म खं पुराणं इति पठितव्ये

[[183]]

महाप्राणस्थाने (ख) अल्पप्राणं (क) अशक्त्या परिवर्त्य प्रबुद्धसंस्कारेण ब्रह्मशब्दः अज्ञेन योजितः। नात्र व्याख्यातारः प्रमाद्यन्ति।

इदमिह पर्यालोचनीयम् यत् पीठिकाभागे गोविन्दाचार्यः ब्रह्मसूत्राणां संख्याविषये पर्यालोचयति। ‘युक्तेश्च (2.3-19)’ ‘स्मरणाच्च (3.1.23) इति सूत्रद्वयं प्रक्षिप्तम्। तस्मात् प्रचलितपाठानुसारेण आहत्य सूत्रसख्याः 564 नैव भवितुमर्हति। तत्वप्रदीपानुसारेण 562 संख्यान्येव सूत्राणीति।

एवं ग्रन्थारम्भे स्वोपज्ञान्, विदुषां प्रज्ञोन्मेषकान् कांश्चन विषयान्निरूप्य अन्ते सप्रश्रयं विज्ञापयति गोविन्दाचार्यः।

‘न मे कोऽपि मठीय आवेशः। नापि कुत्रचिद्दुरभिमानः। न मे कश्चिद्रागः, क्कचिद्वेषः इति रागद्वेषकलिलं मनः। नापि घट्टादुपरेष्वपरागः। अपरेष्वनुरागः।

….नाहं दोषैकदृक्। किन्तु दोषज्ञः संशोधकः। .. ततः सर्वेषां जयतीर्थ- व्यासतीर्थ-राघवेन्द्रतीर्थप्रभृतीनां पूर्वाचार्याणां क्षमाम् अभ्यर्थ्ययत् प्राचीन ग्रन्थसंशोधनेनापूर्वमधिगतं तत्सर्वं निर्भीतमिह निवेदितम्। दुराग्रहग्रस्ताः, सत्यनिर्णये निरादराः नात्र नासां न्यस्यन्तु इति निवेद्योपरम्यते।’ व्याख्यावैशिष्ट्यम् अपूर्वमिदं व्याख्यानं गोविन्दोपज्ञम्। साम्प्रदायिकव्याख्यानेभ्यः शैल्या साहित्येन च भिद्यते तत्वचन्द्रिका। सरलसुन्दरवेदान्तकाव्यमिदं व्याख्यानम्। आचार्यगोविन्दः प्रवचनचतुरः न गहनवेदान्तसरोगाहने दक्षः? इति मिथ्याप्रवादस्य अपवादतया विराजते तत्वचन्द्रिकाव्याख्यानम्। लघूनि वाक्यानि, विद्वत्पूर्णं विवरणं, नूतनाः शब्दाः बुधजनमनोरञ्जिका च शैली।

अपूर्वाश्च विषयाः। एतेषामपूर्वाणां गुणानां समावेशमत्र प्रतिपद्यामहे। ग्रन्थं व्याख्यास्यन्नाचार्यः क्कचित् अन्धानुकरणं प्रहसति। तद्यथा- ‘नारायणपदेनैव गुरुनाम चोवाच’ इति मूलं विवृण्वन्नाह – ननु गुरोर्नाम न गृह्णीयादित्याचक्षते ? सत्यमाचक्षते। किं तेन? तेनेदं विरुद्धं भवति नामग्रहणम्। न भवति, भिन्नविषयत्वात्। गुरोरसाधारणं नाम मुखतः गुरुं सम्बोधयितुं न गृह्णीयादिति

[[184]]

स्मृतिवचनार्थः। मुखतः सम्भाषणेऽपि ‘गुरो, आचार्य, भगवन्, इत्यादि साधारणं नाम गृह्णीयादेव।’ शब्दसाधुत्वपरिशीलनम् साधुशब्दप्रयोगेऽपि दत्तदृष्टिराचार्यः पण्डिताचार्यस्य अपाणिनीयान् प्रयोगान् छान्दसत्वेन समर्थयति। ‘सकरुणमभिष्टूय इति मूलकारस्य प्रयोगः। अत्राह गोविन्दाचार्यः- ननु कथमभिष्टूय? छान्दसोऽयं प्रयोगः।

अभिष्टुत्येत्यर्थः। तेन ‘यु-पुवो-दीर्घश्छन्दसि’ इत्यत्र ‘ष्टुञोऽपि’ इत्युपस्कर्तव्यम्। अन्यथा पाणिनेर्न्यूनता नाम दोषः स्यात्। तथाहि प्रयोगः भागवते –‘इत्थं पृथुमभिष्टूय पुरुषं’ (4.18.1) पण्डिताचार्योऽपि प्रयोगचतुरः महावैय्याकरणश्चेति संसाधयति तत्वचन्द्रिकाकारः- ‘व्यतींरवीविपत्’ इति मन्त्रं व्याख्यास्यन् लिकुचसूरिः ‘विप परिवर्तने’ इत्यपूर्वं धातुपाठमुल्लिखति। अत्राह गोविन्दाचार्यः धातु- पारायणिकैर्विस्मृतोऽयं धातुः। भाष्यकारः पण्डिताचार्योपज्ञं प्रकटयामास।

विपेश्चुरादेर्लिङि रूपम् ‘अवीपतत्’ इति। अर्वाञ्चः पण्डिताः विस्मृत- प्रतनधातुपाठाः ‘दु वेपृ कम्पने इति धातुं पठन्तः कथञ्चित् रूपं निर्वाहयन्ति।

अर्थस्तु न स्वरस इति स्फुटम्।

पाठपरिशोधनम् शुद्धपाठविषये बद्धादरः गोविन्दाचार्यः यथायथं व्याख्यानं कटाक्षी- करोति। स्वयमात्मानं क्कचिद्धन्यं मन्यतेऽस्मिन् विषये। यथाह- भगवत्पाद- कृतानां सर्वमूलग्रन्थानां शुद्धपाठ आचार्यगोविन्दोपज्ञमाविष्करणीय इति नियतिः। अत एव जानन्तोऽपि जयतीर्थ-व्यासतीर्थादयः तौळवमण्डले च वादिराजतीर्थादयश्च नाविश्चक्रुः। प्रत्युत प्रचलितमेव पाठमाश्रित्य व्याचक्रुः।

देवीमीमांसायाः उपान्त्यं सूत्रं ‘विष्णुरेव हि तच्छ्रुतेः’ इत्याह पण्डिताचार्यः।

भगवानाचार्यस्तु अनुव्याख्यायाम् :-

[[185]]

‘स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि’ ॥ इति निर्देशति। अत्र अनुव्याख्यानमूलपाठ एव ‘स विष्णुरेव हीत्यन्ते’ इत्येव कुतो न स्यात्? तथानुपलम्भात् मूलकोशेषु अपरिग्रहाच्च पद्मनाभतीर्थादिभिः। तर्हि ‘सविष्णुराह हि’ इत्येव सूत्रपाठोऽस्तु। तदपि न सम्भवति। तत्वप्रदीपिका विरोधादेेव। तर्हि कथं निर्णयः? अत्राह गोविन्दाचार्यः- ‘प्रायः सन्देह एव शरणम्। यत्र साक्षात् शिष्यावेव विवदेते तत्र कथङ्कारमहो वयं निर्विवादं निर्णयेम, अयमेव मूलपाठः नायमिति’।

पण्डिताचार्यटीकायामपि पाठशुद्धिं सम्भावयति तत्वचन्द्रिकाकारः।

‘चतुर्भिः साकं’ इति मन्त्रं व्याख्यास्यन्- नवतिसंख्याकान् देवान् पण्डिताचार्यः सप्रमाणं न्यरूपयत्। तदुल्लिखितप्रमाणे ‘भृृगुश्चैवानिरुद्धश्च’ इति पठ्यते। अत्रारुचिं सूचयति गोविन्दाचार्यः। अत्र भृगुः ऋषिगणपाठितः।

अष्टादशकक्षायां प्रविष्टानां सर्वदेवतानां परिगणनेऽपि चन्द्रस्यैकस्य परित्यागे कारणं नास्ति। अतः ‘विधुश्चैवानिरुद्धश्च’ इति टीकापाठः समुचितः इति।

इत्थं शुद्धपाठे बद्धादरः आचार्यः तत्र तत्र पाठपरिशोधनमपि करोति।

सूक्तव्याख्यानवैशिष्ट्यम् – वैदिकमन्त्राणां व्याख्याने गोविन्दाचार्यः स्मात्मानं विस्मरतीव भावाविष्टो भवति। सायणाचार्यं ‘सर्वासङ्गतीनामाकरः सायणः’ इति जगर्ह।

‘जन्माधिकरणे’ चतुर्भिः साकं नवतिं च नामभिः इति वैष्णवं सूक्तं पण्डिताचार्यः व्याचख्यौ। तत्र चतुर्भिः इति पदं वासुदेवादिरूपचतुष्टयपरमुप वर्णितम्। नवतिसंख्याकाश्च देवताः सप्रमाणं व्याख्याताः। तदिदं महद्योगदानमिति मन्यते गोविन्दाचार्यः-‘अहो एतदाविष्कारार्थमेव कृपाकूपारः भाष्यकारोऽमुं मन्त्रखण्डं स्वभाष्ये जग्रन्थेति। मन्त्रखण्डोऽयं भाष्ये नाग्रथिष्यथ, तत्वप्रदीपकृता च न व्याख्यास्यत, हन्त कदापि न व्यज्ञ्यास्यतापूर्वोऽयं मन्त्रार्थः। महतीयं करुणा भगवत्पादस्य।

आनन्दमयाधिकरणे अन्तिमं सूत्रं ‘अस्मिन्नस्य च तद्योगं शास्ति’ इति।

[[186]]

जीवब्रह्मभेदावेदकं इदं सूत्रम्। ‘सह ब्रह्मणा विपश्चिता इत्यादि’ इत्यत्र भाष्यम्।

तैत्तरीयश्रुतेः चतुर्थचरणोद्धारे निमित्तमाह गोविन्दाचार्यः- अत्र वेदपाठकाः ‘सर्वान् कामान् सह। ब्रह्मणा विपश्चिता’ इति पादं भिन्दन्ति। सह युगपत् कामानश्नुते’ इति चार्थं वर्णयन्ति। तदेतन्निरासाय भाष्यकारः सहशब्दं चतुर्थचरणे योजयामास। तदेवोचितमिति समर्थयति तत्वचन्द्रिकाकारः – ‘ननु साम्प्रदायिकपदपाठपरित्यागे का गमनिका? सम्प्रदायपरम्परैव हि वेदाध्ययने निर्णयिनी। अन्यथा सर्वत्र सम्प्रदायविच्छेदेनानवस्था स्यात्। ‘अयि सम्प्रदायशरण, साधु प्रशिशंसिषामस्ते सम्प्रदायशारण्यम्। किन्त्वसम्प्रदायं सम्प्रदायं मन्यमानो भ्रान्तोसि। ननु प्रियतत्ववाद, कथमथायमेव सम्प्रदायः नायमिति निरणैषीः। प्रतनानां सम्प्रदायानां वचनादित्येवैहि। अनेन ‘भाष्यं चात्यर्थगर्भितम्’ इति आचार्यवचनं सुष्ठु साधितम्।

‘नैषा तर्केण मतिरापनेया’ इति काठकमन्त्रे ‘आपनेया’ इति पदे ‘आ ‘अप’ इति विच्छिद्य ‘आनेया’ ‘अपनेया’ इति व्याख्यातं जयमुनिना।’ ‘नापनेतुं शक्या,न च तर्केण प्रापणीया’ इति व्याख्यातं तत्वप्रदीपकृता।

अत्र सूक्ष्मांशः अवेक्षितः गोविन्दाचार्येण- आ इति पृथक्कृत्वा व्याख्यानं ‘न+अपनेतुं शक्या’ इति। आ इत्यस्य सम्यगित्यर्थः। समस्तपदेन व्याख्यानं – ‘प्रापणीया’ इति ‘। ‘अपनेया’ इति छान्दसः ईकारस्यैकारः अतिशयार्थः। एवं श्रुत्यर्थनिरूपणे तत्वप्रदीपिकायां निगूढान् भावान् अाविश्चकार तत्वचन्द्रिककारः।

निपुणतरं व्याख्यानम् स्वतः दुर्गमार्था त्रैविक्रमाचार्या कृतिः। प्रायः भाष्यकारस्यशैलीमनुकरोति तत्वप्रदीपः। वाक्ययोः क्कचित् साङ्गत्यं न स्फुटं प्रतीयते। तत्र सुसङ्गतिमाह आचार्य गोविन्दः। तद्यथा – परकीयपादभेदव्यवस्थाविमर्शे तत्वप्रदीपवाक्यं – ‘उभयोरप्यस्पष्टब्रह्मलिङ्गत्वे पादभेदाभावप्रसङ्गात्। गत्यन्तरभावाच्च।

तन्नियमादृष्टेश्च इति। अत्र तत्वप्रदीपवाक्ये ‘गत्यन्तराभावात्’ इति वाक्यं

[[187]]

अवतारयन् सङ्गतिं स्फोरयति गोविन्दाचार्यः – ‘ननु चतुष्ट्वनिर्वाहार्थं किमपि अवान्तरं भेदकं कल्प्यते इत्यत आह- गत्यन्तराभावाच्चेति’॥ व्याख्याति- यदि गत्यन्तरमभविष्यत् तदा मायावादभाष्ये तत् स्वयमवदिष्यत्। नचोवाच।

तेन ज्ञायते भेदकान्तरंतस्य नाभिमतमिति। एतदुपरि आशङ्कामेवमुत्थापयति- ‘ननु व्याख्यानतो विशेषप्रतिपत्तिर्भवति। तथाहि गोविन्दानन्दः- ‘अस्पष्टब्रह्मलिङ्गसमन्वयः पादद्वये वक्ष्यते। प्रायेणोपास्य- ब्रह्मभेदात्पाद योरवान्तरभेद इति भावः’ इति। परिहसति- ‘अद्भुतं व्याख्यानं इति।

पुनराक्षिपति- ‘नन्वनगतभावो भवान्। अस्ति विवक्षाभेदेन ब्रह्मभेदः।

तथाह्यानन्दगिरीयम् ‘तत्र द्वितीय-तृतीयपादयोरवान्तरभेदस्तु सविशेष-निर्विशे- षार्थतया रूढियोगबहुलतया वेति भावः’ इति। तदेतन्निराह-तददृष्टेरिति ॥

द्युभ्वाद्यायतनत्वादि विशेषवत एव तृतीयेऽपि प्रतिपादनात्’। इत्यादि।

अत्र आचार्येण अद्वैतभाष्यं तद्व्याख्यानानि च परिशीलितानीति।

अहो अध्ययनसम्पन्नता। न केवलमेतावतद्। स्वयमेव आनन्दगिरिव्याख्यानं दूषयत्याचार्यः। अनेनेदं ज्ञायते- गोविन्दाचार्यः प्रमेयनिरूपणपरेषु उपनिषदादिष्वेव निष्णातः। न नवीनन्यायसरणिं विजानतीति केषाश्चन प्रवादः अविद्वद्वाद इति। आचार्यः तत्वचन्द्रिकायां प्रामाण्यस्वतस्त्ववादं, मीमांसकाभिमत-कार्यान्विताभिधानवादपरिशीलनञ्च सुस्पष्टं न्यरूरुपत्।

वेदापौरुषेयत्वसमर्थनावसरे च नैयायिकमतमवलम्ब्य एवं पर्यश्चकार- ‘प्रथमवक्ता हि कर्ता भवति। ननु भगवान् प्रथमवक्ता। कदा ? सृष्ट्यादौ।

कस्याः सृष्टेः? सर्वाऽपि हि सृष्टिः सृष्टिपूर्वा। तस्मान्न भगवान् प्रथमवक्ता।

सप्रागभावं प्रथमवक्तृत्त्वम्। ततो न वेदकर्ता ॥

बन्नञ्जे गोविन्दाचार्यः तत्वचन्द्रिकाप्रणयनेन दुर्ज्ञेयं तत्वप्रदीपं सुज्ञेयं व्याधात्। परन्तु प्रथमपादमात्रं व्याख्यातम्। पिपासामात्रमनेन समजनि। न शान्ता तृषा। तावता आचार्य एव दिवङ्गतः। प्रायः एतदर्थमपि तस्य पुनर्जनिर्भूयादिति सम्प्रार्थ्य विरम्यते ॥

[[188]]