१७ गोविन्दसम्पादनपद्धतिः

वि. विजयसिंहाचार्य तोटन्तिल्लयः

भागवतापरनामकसात्वतसंहितावक्ता शुकमहर्षिर्महीयते ब्रह्मरात इति।

श्रोता च परीक्षिदुच्यते विष्णुरात इति। तथैव आचार्यगोविन्दो मम गुरुर्भक्त्या स्मर्यते मध्वरातः इति।

अखिलभारतमाध्वमहामण्डलप्रकाशनाख्यसंस्थया विंशतिमशतकस्य षष्ठे षष्ठान्ते च‘सर्वमूलग्रन्थाः’ प्राकाश्यं नीताः। प्रथमसम्पुटे प्रस्थान- त्रयीसम्बद्धानि मध्वभाष्याणि वर्तन्ते। द्वितीयेसम्पुटे महाभारतभाष्यभूते द्वे मध्वग्रथने वर्तेते। तृतीयसम्पुटे पुराणप्रस्थाननाम्नि भागवततात्पर्यनिर्णयः गुरुटिप्पणीसंवलितो वर्तते। चतुर्थेसम्पुटे श्रुतिप्रस्थाननाम्ना टीकाकल्पटिपण्या सहितौ ऋग्भाष्यखण्डार्थनिर्णयौ वर्तेते। पञ्चमे च सङ्कीर्णग्रन्थाः इत्युपशीर्षिकया युताः मध्वग्रन्थाः प्रकरणाचारतन्त्रस्तोत्रसम्बन्धिनो भान्ति।

एतेषां ग्रन्थानां सम्पादनकाले या घटना आसन् ताः सर्वा हृद्येव स्मरन् किञ्चिदेव वक्तुकामोऽस्मि। गोविन्दीयसम्पादनपद्धतिविमर्शने परमा- सक्तोऽहमिति सप्रश्रयं निवेदयेयम्।

ग्रन्थविमर्शनसन्दर्भे ग्रन्थकारस्य सम्पादकस्य वयोवस्थादिकं ज्ञायते चेद्वरम्। व्यासवाल्मीकिभाष्यकारान् विहायेतरेषां समेषां ग्रन्थकर्तॄणां भावविज्ञान एतत्सहकारि भवति।

गोविन्दाचार्यः विंशे वयसि वादरत्नावळीं विष्णुदासरचितां आङ्ग्ल पुरोवाक्संहितां सम्पादयामास। तदनन्तरं वामनपण्डिताचार्यरचितामानन्दमा लामपि। तत्रत्याष्टिप्पण्य एवावेदयन्ति विविधसमयवैशारद्यम्। परमपूज्यानां पुरुषायुषं जीवित्वा हरिचरणं परिगतानां पुत्तिकामठाधीशानां सुधीन्द्रतीर्थश्रीपादानां शतमनोत्सवस्मरणाङ्गतया तत्वप्रदीपस्त्रिविक्रमपण्डि ताचार्यग्रथितः अखिलभारतमाध्वमहामण्डलद्वारा प्रकाशितः। तत्रापि

[[170]]

गोविन्दाचार्य एव संशोधनादिधुरन्धर आसीत्। एवमेव स्वपण्डितोप्रभूषणो युवैव गोविन्दाचार्यो दिष्टेन हृषीकेशतीर्थीयताळपत्रेषु गतं सर्वमूलपाठं जगति प्रकाशयितुं यशःकायै पेजावरस्वामिभिर्नियुक्तः।

स्वस्य सर्वमूलसम्पादनमधिकृत्य स्वीयायां तत्वप्रदीपटिप्पण्यां स्वयमेवोवाच। तस्योक्तिरविकलमुद्घ्रियते बुबोधयिषूणां कृते - ‘भगवत्पादकृतानां सर्वमूलग्रन्थानां शुद्धप्रायः पाठ आचार्यगोविन्दो- पज्ञमाविष्करणीय इति नियतिः। अत एव मूलपाठं स्वयं जानन्तोऽपि जयतीर्थव्यासतीर्थादयः तौळवमण्डले च वादिराजतीर्थादयः नाविश्चक्रुः।

प्रत्युत प्रचलितमेव पाठमाश्रित्य व्याचक्रुः। तदिदं देवगुह्यं यल्लिकुच- वंशोपक्रममेव मूलपाठोपलब्धिरिति सम्प्रति मूलपाठोपलब्धिश्च लिकुच- कुलसम्भवात् तदात्वे पलिमारुमठाधीशात् श्रीरघुवल्लभतीर्थादेव उपाक्रम्यतेति विचित्रं विस्मयावहं च विधिनियतिरहस्यमिदम्’1 इदमेव गोविन्दवचनं पर्याप्तं तद्भावाविष्करणे। पूर्वाचार्यावमन्ता गोविन्दाचार्य इति तदीयं सर्वं गुणगणं तिरस्कुर्वतां सतां कृत इदमुद्धरणमुत्तरायते।

कीर्तिशेषाणां गोविन्दानुरागवतां पेजावरस्वमिनां श्रीविश्वेशतीर्थश्रीपादानां पञ्चमे पर्यायमहोत्सवे प्रवृत्ते तत्वप्रदीपटिप्पणीलोकार्पणसन्दर्भे प्रह्लादाचार्यैः (सम्प्रति श्रीविद्याश्रीशतीर्थनाम्ना व्यासराजसंस्थानाधीशाः) वचनमिदमेव उदलिख्यत।

प्रथमसम्पुटे प्रस्थानत्रयी खलु वर्तते। तत्र गीताप्रस्थाने गोविन्दटिप्पण्यः न सन्ति। गीताभाष्यं हृषीकेशतीर्थकोशे नोपलभ्यते। गीतातात्पर्यनिर्णयस्तु उपलभ्यते। परिशिष्टे विद्यमानटिप्पणी सर्वमेतदावेदयति।

गीताभाष्यगीतातात्पर्ययोः प्राचीनकोशेषु श्रीहृषीकेशतीर्थादिभिर्निबद्ध 1.पुटसंख्या- ३६१

[[171]]

लिपिषु परिदृश्यमानः प्रतनः पाठोऽत्र मुद्रितः। ततः प्रचलिताः पाठाः पूर्वत्र ग्रन्थे मुद्रिताः। ततः परम् उपनिषत्प्रस्थान सूत्रप्रस्थानयोः प्राचीन पाठ एव ग्रन्थे मुद्रितः, पाठान्तराणि च टिप्पण्यां परिदर्शितानीत्यवगन्तव्यम्। यद्यपि हृषीकेशतीर्थीये गीताभाष्यं नोपलभ्यते। तेन चात्र साक्षादाचार्यपाठपरम्परा दुःसम्पद्या। तथापीतरप्रतनतरपाठावलम्बननेन यथासम्भवं यथोपलब्धि चप्राचीनपाठनिर्णयोऽत्राक्रियत। तत्सम्बद्धं च टिप्पण्यादिकमत्र संयोजितमिति विभावनीयम् ॥

गीताभाष्याध्ययने गुरुभिः प्रेरितोऽहं माध्वगीताभाष्यतात्पर्ययोः प्राचीनपाठधारणां कर्तुमप्रभव परिशिष्टे प्राचीनपाठमुद्रणौचितीमपृच्छम्।

सस्मितं गुरुभिरेवं समाहितम्- ‘तात! मुद्रणकाले सम्पादकोऽहं रूप्यपीठे आसम्। मुद्रराक्षसविद्रावणकर्मणि नियुक्ता बेङ्गळूरुनगरे। सम्पृक्तिर्नाति- सुलभा आसीत्। वारिकान्तार रामाचार्याख्यस्य साक्षात्त्रिविक्रमपण्डिता- चार्यान्तेवासिनो गीताभाष्यं मुद्रणाय सूत्रप्रस्थानस्य प्रेषणानन्तरमुपलब्धः।

अत अगत्या परिशिष्टे मुद्रणमभूत्। अथ च गीताप्रस्थानसङ्गता मम टिप्पण्यः किमिति न मुद्रणमुखमैक्षन्तेति कारणान्तरमस्ति’ इति।

उपनिषत्प्रस्थानगतानां सूत्रप्रस्थानगतानां च टिप्पणीनां कृते किञ्चिदावेदनीयं वर्तते। हृषीकेशतीर्थीये कोशे उपनिषद्भाष्यमात्रं दृश्यते।

नोपनिषदां मूलपाठः। भाष्यं च माध्वं न प्रतिप्रतीककम्। वामनपण्डितटीकाऽपि नोपलब्धासीत्तदानीम्। अत एव यथाप्रचलितपाठं मुद्रिता आसन्नुपनिषदः।

भाष्यं च हृषीकेशीयकोशानुगुणम्। भाष्याणामुपनिषदां च नातीव संश्लेषो दृश्यत एतस्मादेव निदानात्। उपनिषद्भाष्यसङ्गताः सर्वाष्टीका वीक्षिता विमृष्टाश्च। यथासन्दर्भं टिप्पण्यामधस्तादुदलेखिषत।

मुद्रणानन्तरं मनसा मन्थनेन नैके परिष्कारा उपनिषदर्थसम्बद्धा पाठसम्बद्धा उदभूवन्। केचनांशाः ध्वनिमुद्रिकायामुपलभ्यन्ते। केचनांशा अनन्तरकालीनेषु गोविन्दीयटीकाटिप्पणीग्रन्थेषु दृष्यन्ते। वेद-वैदिकेषु गाढं

[[172]]

चिन्तयतां विचारा मूलाधारं विना परिष्कारमर्हन्त्येव। गीतातात्पर्यसम्बद्ध- न्यायदीपिकाख्यजयतीर्थटीकासङ्गता सत्यनाथीयटिप्पणी महत्तरं साक्ष्यं वहत्यत्र ॥

कठवाक्यमेवं भवति- अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्कधस्थः प्रजानन्- इति अस्य पदस्य भाष्यं नास्ति। अतः पाठविषया टिप्पणी गोविन्दीया भवति ‘क्कथस्थ इत्यर्थः। क्कथनतीक्ष्णे नरकेस्थितः थकारस्थानेऽतिशयार्थे तृतीयवर्णो धकारः। अधा ते विष्णो इतिवदित्यादि प्राचीनटीका। व्यास तीर्थप्रभृतयोऽर्वाक्तनटीकाकाराः सर्वेऽपि ‘क्काधस्थः’ इति पठित्वा अधस्थः क्केति व्याचक्षते। वरदतीर्थीये तु च्छन्दसमभावमाश्रित्य धस्थः अधस्थः नरकाद्यदोदेशस्थित इति व्याख्यातम्। ‘अतः क्कधस्थ इत्येव पाठः’ इति विश्वाधीश्वरतीर्थाः’ (पॄ. सं. ४७८ स. सं) अनन्तरं वामनपण्डितटीकामुद्रणसन्दर्भे बहुकोशदर्शितात् ‘क्कधस्थ’ इत्येव पाठस्य साधुत्वं दृढमभवत्। अथर्वणोपनिषद्भाष्यवाक्यमेवं भवति।

‘पृथक्पृथक् तु त्रेतायां यजन्ते देवतागणाः’ इति देवतागणान् इति प्र.

पाठः। गणानिति स्वरसप्रतीतिः। तथाऽपि पुरातन कोशेषु सर्वत्रापि ‘गणाः’ इत्येव पठ्यते इदमिह चैवं घटनीयम्। गणाः सङ्गपतिता जनाः देवताः पृथक् पृथग् यजन्ते। प्राज्ञास्तु यथा कृते तथा हरिमेवेति। टिप्पणीयं वामनतीर्थीय- मुद्रणसमये प्रचलितपाठग्रहे कारणमसूसुचत्।

षट्प्रश्नोपनिषदि प्रथमप्रश्ने प्रथमखण्डे ऋगुदहारि, ‘तदेतदृचाऽभ्युक्तम्’ इति ‘विश्वरूपं करिणम्’ इति ऋक् (पृ.सं. ५२०) वामनपण्डिताचार्यादिभिः प्राचीनैः ‘विश्वरूपं हरिणम्’ इति पाठ उपात्तः। अतः स एव पुरस्कृतः।

[[173]]

माण्डूकोपनिषदि चरमभागे चतुर्थः श्लोकः ‘अपूर्वोऽनन्तरोऽबाधोऽनपरः प्रणवोऽव्ययः इति। तत्रहि माध्वं भाष्यम्- अपूर्वः कारणाभावान्नाशाभावादनन्तरः।

परधीनस्थित्यभावादनपर उदाहृतः ॥

हृशीकेषतीर्थीयकोशस्थपाठे गोविन्दटिप्पणी भवति ‘प्राचीनकोशेषु’ नाशाभावादनन्तकः। परधीनस्थित्यभावादनन्तर उदाहृतः इति पठ्यते।

अर्थौचित्यं तु चिन्त्यम्। (पृ. स. ५२१) गोविन्दाचार्याणां मनसि हृषीकेशतीर्थीयं प्रमादेन लिखितं स्यात्।

‘अनपरः इत्यस्य पदस्य व्याख्यानस्याभावात् इति।प्राचीनकोशे खलु अनन्तरः इति शब्दो व्याख्यायत इति च। वामनपण्डितार्यव्याख्यानाध्ययना नन्तरं स्फुटतया ज्ञातम्- ‘तत्र अनपरः’ इति शब्दव्याख्यानं नास्ति ‘अपूर्वोऽनन्तरोऽबाधो नपरः’ इति वर्तत’ इति। तथा हि वामनपण्डिताचार्यो वक्ति’ तस्मात् परः प्रणवश्च नास्ति इति।

तदनुसारं माध्वभाष्यपाठः हृषीकेशतीर्थसम्मत एवं भवति।

अपूर्वः कारणाभावान्नाशाभावादनन्तकः।

पराधीनस्थित्यभावादनन्तर उदाहृतः॥

यत्र वामनपण्डितचार्योऽत्यन्तं संवदते। तथाच ‘अनन्तर’ शब्दस्यैव अर्थद्वयम्। मध्वः ‘अनपरः’ इति प्रतीकं न जग्राह। नाऽपि व्याचख्यौ।

‘नपरः’ इत्यत्र कूरनारायणादीनां प्राचीनानामपि संवादोऽपि भवति।

‘अनपरः’ इति प्रतीकग्राहं व्याख्यायतः शङ्कराचार्य राघवेन्द्रतीर्थप्रभृतयः किं भ्रान्ताः? तत्र माण्डूकोपनिषद्भाष्य वामनपण्डितटीकायां लसन्ती गोविन्दटिप्पणी समाधत्ते- तदेतदविकलमुद्धरणम्।

‘अनपरः’ इति इच्छन्तोऽपि ग्राह्या एव।

तथा हि श्रूयते- ‘तदेतत् ब्रह्मपूर्वमनपरमनन्तमबाह्यम्’ (बृ.उ. ४-५-

[[174]]

१९) इति मधुब्राह्मणे ‘नैवास्मात् पूर्वकं किञ्चिन्नैवास्मादपरं तथा। सर्वस्माद् बाह्यतश्चासौ सर्वस्मादन्तरस्था’ इति च बृहद्भाष्ये हयग्रीवसंहितावचनम्।

हृषीकेशतीर्थकोशे न प्रमाद अभूदिति फलितोर्थः। पदपाठस्य पौरुषेयत्वं दृढं वदावदेन गोविन्दाचार्येण ‘अनपरः’ इत्यस्य व्याख्यानान्तरमप्यूरीकृतम्।

तलवकारे ‘नाहं मन्ये सुवेदेति’ इति पाठः स्वीकृतः पूर्वम्। ‘नाहमन्ये सुवेदेति’ पाठः स्वीकृतः वामनटीकानुसारम्।

एषा दिक्। सर्वदा पाठशुद्धावर्थशुद्धौ च जागर्ति स्म तन्मनः। मन्थनं वर्तदेवाऽसीत्।

सूत्रप्रस्थानं हृषीकेशकोशे वर्तते। तदनुसारं रघुवर्यतीर्थोऽप्यलिखत्।

– दशप्रमतिराण्मुदे।

‘मूलकोशावलम्बेन रघुवर्योऽलिखद्यतिः’ इति। तदेवं कोशद्वय- समावलोकनेन सह सूत्रप्रस्थानं मुद्रणमुखमैक्षत। दिष्ट्या सूत्र-प्रकरण- भारतप्रस्थानादिकं गुरुसन्निधाने हृषीकेश-रघुवर्यतीर्थकोशावलम्बं चिन्तितम्। अहो प्राचीनाचीर्णपुण्योच्चयो मामीदृशी कार्ये न्ययुङ्क्त।

स्मारंस्मारं धन्यतामनुभवन्नस्मि। रघुवर्यतीर्थीयं गुरूणां गृहे संवत्सरदशक- चतुष्टयं तावदासीत्। गुरूणां देहत्यागानन्तरं पलिमारुमठे वर्तते। इदानीमपि कोशौ हृषीकेशरघुवर्यतीर्थीयौ पलिमारुमठे सदृशौ विराजेते।

मुद्रणविन्यासः भाष्यम्, अनुभाष्यम्, न्यायविवरणमिति सङ्गत्याऽपि यथा समीचीनः स्यात् तथा वर्तते। सूत्राणां बहुमुखत्वमनायासेन यथा भवेत्तथा। गीता- सम्बद्धमपि व्याख्यानद्वयमनेनैव विन्यासेन विराजते। यद्येवं पूर्वमेव मुद्रणमभविष्यत्तदा करपात्रि स्वामिनां अस्माकं परमाचार्येषु विद्यामान्यतीर्थेषु कृतं पूर्वाचार्यविरुद्धभाषणारोपणमेव नाभविष्यत्। अपसिद्धान्तापलापनिरसने सर्वमतस्था अपि सज्जना सहकारायिताः सहचक्रुरिति स्वमतनिष्ठाया अपि

[[175]]

सत्यप्रेम ज्याय आसीत्, तेषां जीवनदीक्षाऽपि तत्प्रसङ्गवेदितेति सन्तुष्यते।

गुरुभिः पेजावरमठाधीशैः सुधापाठ प्रसङ्गे श्रावित एष उदन्तः। अथाऽपि गीताप्रस्थानगतत्रयोदशाध्याय चरमभागपारायणसमये यद्येवमभविष्यत् तदा तन्नाभविष्यदिति लॄङ् निबद्धभावो हासः मनसि लसति।

सूत्रप्रस्थानं प्रचलितप्राचीनपाठैः सह प्राचीनार्वाचीन टीका-टिप्पणी- विमर्शेनाऽपि सहितं अध्येतृणामत्युपयुक्तं वर्तते।

सूत्रप्रस्थानस्य सप्तमपत्रेऽनुव्याख्याने षट्षष्टितमे श्लोके ‘कामतो विधि- रुद्रादिपददात्र्या स्वयं श्रिया’ इति पाठः। अधस्थटिप्पणी एवं भवति ‘दातास्वयंश्रिया’ इति प्राचीनकोशेषु पठ्यते। स्खलितमिति संभाव्यते।

अदितिश्रुतौ ‘स यद्यदेव’ इति पुल्लिङ्गेन परामर्शवत् ‘पुंभ्यः शक्तिमती नारी पुंशब्देनैव भण्यते’ इति व्याख्येयम्।

सूत्रप्रस्थानटिप्पण्या हृषीकेश-पद्मनाभतीर्थानां त्रिविक्रम-नारायण- वामनशङ्करकव्यादीनां प्राचाम् पाठसंवादादेर्बोधो भवत्यध्येतॄणाम्।

सप्तविंशतितमे पत्रे ‘घर्मा समन्ता त्रिवृतम्’ इति वेदपदपाठविमर्शो भवति। तथाहि तट्टिप्पणी ‘समन्ता त्रिवृतम्’ इत्येव प्राचीनकोशसम्मतः वेदसप्रदाय सम्मतश्च पाठः। तथा हि तत्वदीपिका च ‘समन्तौ पूर्णौ’ इति।

ननु तर्हि कथं ‘समन्ताद् विद्यमानौ’ इति गुर्वर्थदीपिका सङ्गम्येत पदपाठ विरोधादिति।इत्थंसमाधेयम्- समन्ता इति वा भवति पदपाठः। समन्तादिति वा भवतु। उभयथाऽपि संहितायां ‘समन्तात् त्रिवृतं’ इति द्वितकारोत्तररेफः पाठो भवतीति प्रातिशाख्ये स्थितम्। तद् यथा ‘आ त्वा’ इति स्थिते ‘आत् त्वा’ इति पठन्ति। तस्मात् समन्ता इति समन्तादिति द्वेधा च व्याख्यानं भवति। ननु तर्हि कथं पदपाठः ? अयोगव्यवच्छेद एवाऽयम्। नान्योग- व्यवच्छेदः। अत एव ज्योतिरधिकरणे ‘वि मे मनश्चरति दूर आधीः’ इत्यत्र पदपाठरीत्या दूर-आधीरित्येकपद्येऽपि दूरे विचरतीति विभज्य व्याख्यातं तत्वप्रकाशिकायाम्। अत एव च ‘पुरुष एवेदं सर्वं’ इत्यत्र ‘पुरुषः’ इति

[[176]]

पदपाठेऽपि पुरुषे सर्वं प्रतिष्ठितमिति सप्तम्यन्ततया व्याचक्षते।

तृतीयाध्याये द्वितीयपादेऽनुभाष्ये मध्ववचनं भवति।

‘ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः’ इति ‘परन्तु जयतीर्थटीकायां गवश्वयोः इति प्रमादपाठः। मूलकोशेष्वदर्शनात्’ इति वर्तते। तत्र गोविन्द- टीप्पणी भवति हृषीकेशतीर्थीये मूलकोशे अधोक्षजतीर्थीयसम्प्रदायानु- सारिणी पेजावरमठीये प्रतनतरे च मूलकोशे, तदन्येषु च सर्वेषु कोशेषु गवश्वयोः इत्येव पठ्यते। न क्काऽपि गवाश्वयोः इति।

(इतः परं गोविन्दटिप्प्णी गवाश्वयोरिति गवश्वयोरिति पाठयोर्द्वयोरपि अपाणिनीयत्वं साधयति। पिपठिषवः प्रार्थयन्ते। तत्रैव स्थान आस्वादन्तु इति) गोविन्दटिप्पणी ‘गवश्वयोः’ इति पाठमङ्गीकृत्य प्रवर्तते। तथाहि- नन्वस्तु तावता गवश्वयोरिति कथम्? गवय इति यथा तथा तद्वत् सेत्स्यति। गां सादृश्येनायत इति हि नैरुक्ता निर्वदन्ति। गामञ्चतीति गवचीत्यपि।…

ननु तत्र का गमनिका? व्याकरणान्तरमिति ब्रूमः। तथाहि सारस्वतं व्याकरणम्- गवादेरवर्णागमोऽक्षादौ वक्तव्यः। ‘गवक्षश्च गवेन्द्रश्च गवाग्रं च गवाजिनम्। स्वैरमक्षोहिणी प्रैढ एते प्रोक्ता गवादयः’ इति। एतेन ज्ञायतेऽक् षेद्राग्राजिनेष्वेवावर्णागमो भवति नाश्वादाविति। तेनैतद्रीत्या ‘गवश्वयोः’ इत्येव भवति। - इति।

गुरूनपृच्छमहम्। ‘गवश्वयोः’ इति पाठस्य साधुत्वसमर्थने प्रयास ईदृगपोहानुमा कुतः अनुसृतः। तदस्योल्लेख एव पर्याप्त आसीत्। किमर्थमेवं कृतम्।

गुरुरुवाच सस्मितम् - अयि पोत। क्कचिदपोह ऊहस्य सहकारी।

व्यतिरेकश्च क्कचिदन्वयस्य। एवं सूत्रप्रस्थानसम्पादनक्रमे अंशाः केचन

[[177]]

उल्लिखिताः अान्तं सूत्रप्रस्थानसम्पादनक्रमचिन्तनेन। प्रस्थानत्रयी सम्बद्ध- माध्वभाष्यप्रकाशने काश्चनास्पष्टता आसन्। अत एव पुरोवाक् गोविन्दीया नास्ति। परन्तु क्रमेण टिप्पण्या गात्रवृद्धिर्दृश्यते।

द्वितीयसम्पुटे महाभारतसम्बद्धौ माध्वौ ग्रन्थौ प्राकाश्यं नीतौ।

महाभारततात्पर्यनिर्णयः यमकभारतापरनाम महाभारततात्पर्यं च।

सम्पुटेऽस्मिन् सम्पादकीयमिति नाम्ना गोविन्दवाणी दृश्यते। क्रैस्ताब्दस्तदानीं १९७१ इति सङ्ख्या निर्दिष्टा। विंशतिमशतमानस्य सप्तमे दशके तदानीं विद्यामान्यतीर्थश्रीपादानां पर्यायमहोत्सव आसीत्। आध्यक्ष्याच्च विद्यामान्य श्रीपादानां प्रास्ताविकं वचोवृन्दं विलसति। यत्र गदग नगरस्य नारायणराव् महाभागस्योल्लेखो दृश्यते। ‘तथा एतन्मुद्रणकर्मणि निखिलमार्थिकभारं निरूढवतः श्रीमतः के. नारायण राव् महाशयस्य निस्तुलो भगवत्पाद- सेवायामादरभरो नितरामस्मानावर्जयति’ इत्यादि।

इतिहासप्रस्थानगतानां टिप्पणीनां कृते न किञ्चिदपि वदामि। विद्वांसौ तदधिकृत्य वदतः। लेखनगुच्छे निर्णयभावचन्द्रिका, कृष्णचन्द्रिका च वर्ण्यते। परन्त्वहं गदगवासिनो नारायणस्य दातुर्जीवने सर्वमूलसम्पुटमुद्रणस म्बद्धमुदन्तं वक्तुकामोऽस्मि। नारायण नामा श्रीमान् गदगनगरगण्यः मूलतस्तौळवः। उद्यमार्थं गदगस्थो बभूव। स्वं वित्तं सर्वमूलसम्पुट प्रकाशनार्थमर्पयितुं निर्दधार। विश्वेशतीर्थपूज्यचरणानां प्रेरणया भगवत्प्रीत्यर्थम्। प्रथमसम्पुटप्रकाशनं च अभूत्। द्वितीयसम्पुटसम्बद्धं संशोधनादिकं प्रचलदासीत्। नारायणमहोदयजीवने महानाघातः सञ्जातः।

तस्य आपणं कार्यालयः सार्धं सर्वसम्पदा भस्मीबभूव। प्रासादस्थः वीथीं प्राप। धनसमृद्धो निर्धनो बभूव।

तदीयां निःस्वतां दृष्ट्वा मुद्रणादिकं सावकाशतया प्राचलत्। विद्वत्सु सहकारिषु निरुत्साह उत्पन्नाः। संशोधनेऽनुत्पन्ननिरुत्साहोऽप्याचार्य- गोविन्दः मुद्रणादिषु विलम्बमाशिश्राय।

[[178]]

षण्मासाभ्यन्तरे कार्यान्तरवशात् श्रीमान् नारायणो रजतपीठपुरम् आजगाम। रथवीथ्यांआचार्यगोविन्दमदृश्यत। मिलित्वा कुशलप्रश्नानन्तरं विलम्बकारणमपृच्छत्। आचार्यगोविन्दः निःस्वतां कारणमब्रुवन् किमप्यन्यदुवाच। नारायणस्तं ज्ञात्वा प्रोवाच - ‘मम दारिद्र्यं समाजहित प्रतिबन्धकं मा भूत्। इतोऽप्याधमर्ण्यं वहेयम्। मन्निःस्वतानिमित्तविलम्बो मा भूत्’ इति। तद्भृतिं दृष्ट्वा द्वितीयसम्पुटकार्यशेषं समाप्य मुद्रणार्थं प्रेषयामास। मुद्रणसमये गदगनारायणमहोदयस्य पौर्विक्या समाजसेवया दातृत्वेन च तुष्टा च आसन्, ते सर्वे धनं सङ्गृह्य, तद्वाणिज्यभवनं भस्मीभूतम् पुनर्निर्माय तस्मिन्नेव नवीने भवने तं सन्मान्य तस्मा उपायनत्वेन समार्पयन्।

अहो देवपरीक्षा। अहो नारायणस्य सेवादीक्षा। अहो दातृत्वमहिमा।

उदन्तस्यास्य साक्षीतया नारायणदौहित्रम् अद्याऽप्यस्मन्मध्ये विलसति।

तृतीयसम्पुटे पुराणप्रस्थाननाम्ना भागवततात्पर्यनिर्णयः सटिप्पणीकः प्रकाशितः। यट्टिप्पण्या उपबृंहणेन टीकानिर्मातव्या इति गुरोर्मनसि इच्छा आसीत्। प्रयत्नेन तां तत्याज। ‘भागवतस्य प्रतिश्लोकव्याख्याने ममेच्छा आसीत्। परन्तु अन्तःस्थस्य कस्यचिच्चोदनया तमिच्छां जुह्वन्नस्मि नृसिंहाग्नौ’ इति वदन्नासीत्।

चतुर्थसम्पुटे श्रुतिप्रस्थाननाम्ना मध्वग्रन्थौ द्वौ दृश्यते। ऋग्भाष्यं खण्डार्थनिर्णयश्चेति। द्वितीयः ग्रन्थः गोविन्दटीकासंयुतः वर्षत्रयपूर्वं प्रकाशितः। अयं च ग्रन्थः स्वाध्याययज्ञस्य चरमे घट्टे स्थित इव।

पञ्चमे सम्पुटे ‘सङ्कीर्णग्रन्थाः’ इति नाम्ना प्रकरणग्रन्था आचारबोधक- ग्रन्थाः स्तोत्राणि च प्राकाशिषत। प्रकरणविभागे नव प्रकरणानि भवन्ति।

तत्र विष्णुतत्वनिर्णयः प्राचीनटीकाभ्याम् गोविन्दटिप्पण्या च संवलितो मुद्रणं प्राप्स्यति। वादः तथैवोर्वरितः। दूषणत्रयं कालान्तरे गोविन्दीयया टिप्पण्या संवलितं वर्तते। तत्वसङ्ख्यानतत्वविवेकौ वादमानलक्षणे च टिप्पणीं विना वर्तन्ते। प्रमाणलक्षणं गुरुमुखादेव श्रुतमिति मम भागधेयम्।

[[179]]

आचारप्रस्थानं नाम द्वितीयो विभागः। तत्रत्यौ कृष्णामृतमहार्णवतन्त्र सारसङ्ग्रहौ मूलमात्रप्रकटनात्पूर्वमेवाचार्यगोविन्देन षोडशे वयसि कन्नड- भाषायाम् अनूदितावास्ताम्। तदैव भागशः हृषीकेशतीर्थीयं समवलोक्य नखस्तुतिरेकपद्यात्मिका वर्तत इति प्रसङ्गतः उदलेखि। सर्वे निनिन्दुः।

काणियूरुमठाधीशा अन्वर्थनामानः श्रीविद्यासमुद्रतीर्थश्रीचरणाः तत्र संवदन्त अकथयन्। ‘मयाऽपि हृषीकेशतीर्थीयमवलोकितम्। तत्र ‘पान्त्वस्मान्’ इत्येकमेव पद्यं वर्तते। य अनूदन्ति तेभ्यः उपदिष्टम्। न ते कुर्वन्ति इति। स प्रसङ्गो वायुस्तुतिव्याख्याभूमिकायां विस्तारेणोक्तः। बुबोधयिषवः तत्रैव ग्रन्थे प्रवृत्ता भवन्त्विति निवेद्यते। विद्यासमुद्रतीर्थानुग्रहं स्वस्मिन् वृत्तमनेकैः उदन्तैः कथयति स्म आचार्य अस्मासु।

जयन्तीकल्पः कालान्तरे विस्तृतया टिप्पण्या संयोजितः। ओं तत् सत् प्रणवकल्पोऽपि। जयन्तीकल्प-ओंतत्सत्प्रणवकल्पौ रघुवर्यकोशे गुरुभिः सह परिशीलितौ। तदानीं मयोक्तं ‘अयि गुरो, केचन पण्डितंमन्यमाना अनृजवो रघुवर्यलिखितताळपत्रात्मकः कोश एव नास्ति, गोविन्दकल्पना- विलासप्रभावं कोशस्य वदन्ति। किमर्थं तदुपेक्ष्यते। भण्यतामत्र वर्तते इति।

‘गुरुणा सहासमुक्तम्’ नाहं वदेयम् कालान्तरे रघुवर्यीयमिदं स्वस्थानं प्राप्स्यति। तदानीं सर्वं विदितं भविष्यति इति। तिथिनिर्णयाख्यः माध्वग्रन्थः नरसिंहोपाध्यायाख्यस्य ज्योतिर्विदाग्रण्यस्य सहकारेण विस्तृतया टिप्पण्या सहोपलभ्यते।

स्तोत्रविभागे वर्तमानानि स्तोत्राणि सर्वाणि कन्नडभाषायामनूदितानि।

कन्नडाभिज्ञा मध्वस्तोत्रच्छायेयमिति सन्तुष्य स्वीकुर्वन्ति। कन्नड- संस्कृतोभयाभिज्ञा भाषाद्वयस्याद्भुतम् साङ्गत्यं दृष्ट्वा नितरां सन्तुष्यन्ति।

द्विगुणस्तेषामानन्दः। एवं गोविन्दसम्पादनपद्धतिं किञ्चिदेव परिचाययदिदं लेखनं मध्वकृष्णयोः पादकमले समर्प्यते।

॥ श्री कृष्णार्पणमस्तु ॥

[[180]]