१६ हृषीकेशतीर्थीयपाठविचारः

आचार्य वीरनारायण पाण्डुरङ्गी1

नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः।

जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः॥

अभ्रमं भङ्गरहितमजडं विमलं सदा।

आनन्दतीर्थमतुलं भजे तापत्रयापहम्॥

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते तस्मात्।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे।

श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥

ब्रह्मसूत्रभाष्ये हृषीकेशतीर्थीयपुस्तकगतपाठविचारोऽत्र क्रियते मध्वाचार्यैः प्रायः अष्टशतवर्षेभ्यः प्राक् ब्रह्मसूत्रभाष्यमरचि। तथा गीता-उपनिषदादीनां च भाष्याण्यरच्यन्त। तत्र च ब्रह्मसूत्रभाष्ये (ब्र.सू.

भा.) प्रथमतः त्रिविक्रमपण्डिताचार्यैः तत्त्वप्रदीपनाम्नी2 व्याख्या अकारीति 1. I am very much gratefull to Vidyavachaspati Bannanje Govindacharya for his suggestions; Prof. Tirumalacharya who gave valuable inputs for this artical; Prof. Haridasa Bhatta for his suggestions; Pandit Balagaru Ruchiracharya for his suggestions; Dr. A.V.Nagasampige who showed keen interest in this matter and arranged a lecture, in which a live debate was possible, on same topic in Poornaprajna Samshodhana Mandiram where he is Director; Prof.V.Venkataraja Sharma, Prof. V.Srivatsankacharya. Pandit G. Mahabaleshvara Bhat- ta, who readily gave their views on ‘गवाश्वयोः’; Pandit Srinivasa Vara- khedi for his suggestions; Dr.T.Ganesan who keenly suggested many things; and all the others for inspiration.

  1. अस्य तत्वप्रदीपः, तत्त्वप्रदीपिका, तत्त्वदीपिका, तत्त्वदीप इति वा व्यवहारः। ‘तत्त्व- प्रदीपाकृतिगोगणेन इति ( म. वि.१.४.)।

[[118]]

‘गुर्वाज्ञागौरवाट्टीकां कुर्वन्’ ‘ 1इत्यादिमध्वविजयादवगम्यते। तत्र पद्मनाभ

-तीर्थकृतापि टीकोपलभ्यत इदानीम्। परन्तु तस्याः प्राचीनताविषये विप्रतिपद्यन्ते2। तदनन्तरं च जयतीर्थैः तत्त्वप्रकाशिकानाम्नी टीका व्यरचि।

तस्याश्च बहवष्टिप्पण्ण्यः मुद्रिताः अमुद्रिताश्च इदानीं समुपलभ्यन्ते।

अस्य च सूत्रभाष्यस्य बहूनि संस्करणानि समुपलभ्यन्ते। एषु च प्रथमतया टि. आर्.कृष्णाचार्यैः कुम्भकोणे शतवर्षात्प्राक्, अनन्तरं राम- तत्त्वप्रकाशग्रन्थालयात् बेळगांवनगरे प्रायः शतवर्षात्प्राक्, अनन्तरम् उत्तरादिमठात् (१९६०), तथा बन्नजे गोविन्दाचार्यैः बेङ्गळूरु-उडुपीनगरयोः (१९६९-८०), बेङ्गळूरुनगरात् प्रभञ्जनाचार्यैः (१९९९) इति सर्वमूला- न्तर्गततया, तथा पृथक् च भाष्यदीपिकासहिततया चेन्नैनगरे शतवर्षात्प्राक्, तथा भावदीप-तत्त्वप्रकाशिकासहिततया धारवाडनगरे राघवेन्द्राचार्य पञ्चमुखिभिः (१९८१), तथा के.टि.पाण्डुरङ्गीमहाशयैः इदानीं च (१९९८-२००२) बहुभिष्टिप्पणीभिः टीकाभिश्च साकं मुद्रणानि कृतानि समुपलभ्यन्ते। अनुव्याख्यानस्य3 च पूर्वोक्तसर्वमूलसंस्करणानि विहाय 1. म.वि. १५-७२।

  1. ‘तथा हि नयचन्द्रिकायां नारायण पण्डिताचार्यैः द्विवारं सन्यायरत्नावलेरुल्लेखेऽपि न भाष्यटीकोल्लेखः दृश्यते। तथैव सुधायां ‘टीकाकृतः’ इति पद्मनाभतीर्थाः जयतीर्थैः उल्लिखिताः। तथापि तत्त्वप्रकाशिकायां यत्र कुत्रापि तदीयव्याख्याया उल्लेखाभावात् तेषां भाष्यटीकाकर्तृत्वे संशयः। तथैव व्यासतीर्थैः, राघवेन्द्रतीर्थादिभिः ‘टीकासु च यदस्पष्टं तच्च स्पष्टीकरिष्यते’ इति चन्द्रिकावाक्यव्याख्यानावसरे तदीयटीकाया अनुल्लेखाच्च तत्र संशीयते।

  2. अनुव्याख्यानम्, अनुभाष्यम् इति नामद्वयमप्यस्य दृश्यते। ‘कृत्वा भाष्यानुभाष्येऽहमपि’ इति न्यायविवरणे, ‘व्याख्यां करोम्यन्वपि चाहमेव’ इति अनुव्याख्याने च भगवत्पादैः निर्दिष्टत्वात्। तथा ‘तत्कृतां ब्रह्मसूत्राणामनुव्याख्यां यथामति’ इति तथा सूत्रानुभाष्य- पददीपनदीपरूपा’ इति च पद्मनाभतीर्थभट्टारकैः उक्तत्वात्। ‘स्वानन्दतीर्थः परतत्त्व- सूत्रभाष्यानुभाष्ये’ इति त्रिविक्रमपण्डिताचार्यैः उक्तत्वात्।

‘अनुव्याख्यानसंबन्धदीपिकां प्रारभामहे’ इति लिकुचशंकराचार्यः अनुव्याख्यान-

[[119]]

उत्तरादिमठात् पुनश्च सुधया साकं मुद्रणान्तरम् (१९८२) अस्ति। अत्र मुद्रितसुधायाम् अनुव्याख्यानस्य केचन पाठाः कुम्भकोणपाठापेक्षया भिन्नाः इति संदृश्यते सुधादर्शिभिर्विद्वद्भिः।

तत्र भाष्यपाठे टि.आर्.कृष्णाचार्यपुस्तकमेव सर्वेषामुत्तरेषां पुस्तकानां मूलम्। तत्र का मातृका उपायुज्यत इति न ज्ञायते। प्रायः कुम्भकोण- देशीयत्वात्तेषां तमिळदेशे उपलब्धमातृकाः उपयुक्ताः इत्याशङ्क्यते। रामतत्त्व- उत्तरादिमठपुस्तकयोरपि किं मूलमिति न ज्ञायते। प्रायः टि.आर्.

कृष्णाचार्यपुस्तकमेव मूलम्। बन्नञ्जे गोविन्दाचार्यपुस्तकस्य तु तैरेवोक्तरीत्या उडुपीस्थपलिमारुमठीया प्राचीना हषीकेशतीर्थलिखितत्वेन1 संप्रदायागता एका मातृका, हृषीकेशतीर्थीयानुसारिणी पलिमारुमठीया रघुवर्यतीर्थीया2, तथा पेजावरमठीया अन्या मातृका प्रतनतरा3, पलिमारुमठीयरघुरत्न- तीर्थलिखिता अन्या मातृका4, तथा सोदेमठीया अन्या मातृका5 अन्याश्च संबन्धदीपिकायाम्, ‘अनुव्याख्यासुधाम्भोधो गम्भीरे विहरन्ति ये’ इति नारायण- पण्डिताचार्यैः नयचन्द्रिकायाम्, इत्येवं भिन्नभिन्ननामभिः निर्दिष्टत्वात्। सुधायां च असकृत् अनुव्याख्याननाम्नः उल्लिखितत्वात्।

  1. ‘हृषीकेशतीर्थेन लिखितोऽयं ग्रन्थः’ इति ग्रन्थान्ते लिखितं दृश्यते इति गोविन्दाचार्याः।

  2. ७ द्र० गो. भूमिका संकीर्णग्रन्थानाम् (भा. ५. पृ.२.), भागवततात्पर्यस्य च।

रघुवर्यतीर्थीये एव स्पष्टतया हृषीकेशतीर्थलिखितपाठमवलम्ब्य लिखितम् इति उल्लेखो वर्तते इति। तथा विश्वाधिराजतीर्थलिखिते द्वादशस्तोत्रपुस्तके ‘अस्मद् गुरुभिः (विश्वपतितीर्थेः) मूलपाठो नोपलब्धः, तस्मान्मया स लिख्यते’ इत्युल्लेखो वर्तते इति च गोविन्दाचार्यैः मम सकाशे उक्तम्।

  1. ब्र.सू.भा.गो.पुस्तकम्.पृ.१४१,१७७। मुखेन उक्तं मम सकाशे यत्- सा मातृका पद्माकरालयरामेण लिखितम् इत्युल्लेखेन सहिता वर्तते। यद्यपि सा प्राचीना, तथापि न सर्वथा हृषीकेशतीर्थानुसारिणी। अत्र एव गीताभाष्ये अनुष्ठीय इति ईकारघटितपाठः अस्मिन्नेव पाठे लभ्यते, तत्र हृ.पाठस्य, रघुवर्यतीर्थपाठस्य चानुपलम्भात्।

  2. द्र० गो. भूमिका भागवततात्पर्यस्य।

  3. मुखेन उक्तम्, अन्यत्र नोल्लिखितम्।

[[120]]

बह्वयः मातृकाः उपयुक्ताः। तत्र हृषीकेशतीर्थलिखितत्वेन संप्रदाया गता एका मातृका इदानीमपि तत्र पलिमारुमठे वर्तते। पेजावरमठीया मातृका, अन्याश्च मातृकाः काः, तासां संख्या वा स्थितिर्वा न ज्ञायते। गोविन्दाचार्यैरपि सर्वत्र प्राचीनकोशे, प्राचीनकोशेषु, कोशान्तरे, कोशान्तरयोः इत्यादिना बढ्यः मातृकाः अनिर्दिष्टाकरं दर्शिताः। ताः काः, तासां स्थितिः का इत्यादेरज्ञातत्वात् तासां विषये किमपि निर्दिष्टं वक्तुं न शक्यते।

प्रभञ्जनाचार्यैः प्रकाशितस्य सर्वमूलान्तर्गतस्य सूत्रभाष्यसंस्करणस्य तैरुद्घोषितदिशा मातृकाद्वयमुपयुक्तम्। तत्रैका मातृका जयतीर्थगुरुभिः अक्षोभ्यतीर्थैः लिखिता, अन्या च मातृका तच्छिष्यैः लिखिता1 इति, तथा अन्याश्च बह्व्यः मातृकाः तदीयजयतीर्थमातृकाभाण्डागारे वर्तमानाः उपयुक्ताः, तथैव सर्वाण्यपि मुद्रितानि भाष्यपुस्तकानि पाठान्तरनिर्देशार्थमुपयुक्तानि इति च तैरुल्लिखितम्। परन्तु मया इदानींतनकूडलीक्षेत्रस्थाक्षोभ्यतीर्थमठाधिपती नां सकाशे विचारणे कृते अक्षोभ्यतीर्थीयत्वेन उद्घोषिता मातृका वस्तुतः अक्षोभ्यतीर्थैः न लिखिता, किन्तु राघवेन्द्रतीर्थसमकालिकैः अक्षोभ्यतीर्थपीठारूढैः बिच्चगत्ति रामचन्द्रतीर्थैः लिखिता इति ज्ञातम्। एवं च रामचन्द्रतीर्थानां कालः क्रि. श १६७० इति निश्चितत्वात्, तदीयमातृकायाः कालोऽपि स एवेति निश्चीयते। एतज्ज्ञात्वा च मया एतद्विषये अनुयुक्तैः प्रभञ्जनाचार्यैः अपि एतदभ्युपगम्य आगामिनि सर्वमूलतेलुगुसंस्करणे रामचन्द्रतीर्थलिखितत्वेनैव सा मातृका उल्लिख्यते इति प्रत्यज्ञायत। तथा प्रभञ्जनाचार्यैरुपयुक्तायाः अन्यस्याः मातृकायाः विषयेऽपि इदानींतनबाळिगारु अक्षोभ्यतीर्थपीठारूढैः रघुभूषणतीर्थैरुक्तम्- सा मातृका प्रायो द्विशतवर्षदेशीया तेषां मठे विद्यमाना, पूर्वं तैः इदानींतनपलिमारुमठाधीशानां विद्याधीशतीर्थानां हस्ते दत्ता, विद्याधीश- तीर्थसकाशाच्च प्रभञ्जनाचार्यहस्तं प्राप्ता सा इति। तस्मात्तदुपयुक्तं मातृकाद्वयमपि इदानीमुपलभ्यते। परन्तु तयोः प्राचीनतमत्वाभावात्, अनेकापपाठयुक्तत्वाच्च नातीव प्रामाणिकता युक्ता।

1॰ भूमिका पृ.१४. सर्वमूलग्रन्थाः, व्यासमध्वसेवाप्रतिष्ठानम्, बेङ्गळूरु.१९९९.

[[121]]

चेन्नैनगरात् प्रकाशितं भाष्यदीपिकायुक्तं भाष्यपुस्तकं1 तु कीदृश- मातृकामूलमिति न ज्ञायते। पञ्चमुखिप्रकाशितं भावदीपतत्त्वप्रकाशिकोपेतं पुस्तकं यद्यपि तद्भूमिकोक्तरीत्या अनेकमातृकाधारेण संशोधितम्, तथापि तत् कुम्भकोणपुस्तकं वा गोविन्दाचार्यपुस्तकं वा अनुसरति। तत्र विशिष्य उल्लेखार्हाः पाठभेदाः न सन्ति। पाण्डुरङ्गिप्रकाशितपुस्तकेऽपि तथैव।

दोर्भाग्यवशात् प्रायः सर्वेऽपि कन्नडभाषानुवादा अपि न समीचीनं पाठमाललम्बिरे।

तस्मात् गोविन्दाचार्यपुस्तक-प्रभञ्जनाचार्यपुस्तकयोरेव अत्र मुख्यतः पाठभेदोल्लेखित्वात् तदाधारेणैव विचारः प्रवर्तनीयः। तत्र प्रभञ्जनाचार्य- पुस्तकेऽपि महत्तराः पाठभेदाः न सन्तीति न तत्रापि मुख्यतो विचारः, किन्तु गोविन्दाचार्यपुस्तकमूल एवायं विचारः। अत्र च गोविन्दाचार्यप्रकाशितस्य हृषीकेशतीर्थीयानुसारिपाठस्य (हृ. पाठ), जयतीर्थविरचिततत्त्वप्रकाशिका दृतपाठस्य (ज.पाठ) च महान् भेदो वर्तते। कानिचन सूत्राणि हृ. पाठे न सन्ति2, कानिचन च अन्यथा पठितानि। भाष्येऽपि महानत्र भेदो विदृश्यते इति। अत्र च उभयोः पाठयोः समीचीनत्वाङ्गीकारे तयोः दृश्यमानस्य सूत्रभाव- अभावादिरूपस्य वैलक्षण्यस्य सूत्रपाठभेदस्य च नारायणावतारस्य भगवतः बादरायणस्य सूत्रकर्तुः अनेकविधसूत्रकृत्त्वे पर्यवसानप्रसङ्गेन भगवति दोषवत्त्वापादकत्वेन विचारणीयता। उभयोः पाठयोः दृश्यमानस्य भाष्यपाठभेदस्य च समीचीनताङ्गीकारे यद्यपि स एव दोषः, तथापि भाष्ये अनुव्याख्याने च पाठभेदास्सन्तीति प्राचीनव्याख्यास्वेव3 दृश्यते। तस्मान्नायं 1. ‘बेङ्गळूरुनगरात् प्रकाशितं तदन्यदेव यत् भाष्यदीपिकाप्रकाशनसमित्या प्रकाशितम्।

  1. ‘‘युक्तेश्च’ इति सूत्रं ज. पाठे ‘ज्ञोऽत एव’ इत्यधिकरणे वर्तते (२-३-१०-१८), परन्तु हृ. पाठे नास्ति, तद्वाक्यं भाष्यत्वेन पठ्यते (द्र० गो.टि. पृ.९७)। तथा ‘दर्शनात्’ इति प्र. पाठः (३-२-१७-३३), ‘दर्शनात्तु’ इति हृ. पाठः। ‘आप्रायणात्’ इति प्र.पाठः (४-१-७-१२), ‘आप्रयाणात्’ इति हृ. पाठ इत्यादि परिशिष्टे द्रष्टव्यम्।

  2. अनुव्याख्याने ‘द्वौ भूतसर्गौ भूपात्र’ इति नयचन्द्रिकापाठः, ‘द्विविधो भूतसर्गोऽत्र’ इति अन्येषां पाठः। द्र० गो.टिप्पणी भाष्यपुस्तके पृ.१८२।

[[122]]

दोषावहः। तथापि सर्वेषां भाष्यपाठभेदानां समीचीनत्वाङ्गीकारे, तदनुसारेण सूत्रपाठेऽपि तथात्वप्रसङ्गेन तत्परिहाराय कः पाठः युक्ततर इति विचारणीयं विद्वद्भिः। यदि च सूत्रेषु पाठभेदास्सत्या इत्यङ्गीक्रियते तर्हि अद्वैतिनाम्, विशिष्टाद्वैतिनां चोपरि अपपाठकल्पनादिदोषापादनम् आनन्दतीर्थ- भगवत्पादानां टीकाकाराणां च अयुक्तं स्यात्, तथा च तथैव गीतादिष्वपि पाठभेदानां समीचीनत्वाङ्गीकारे तत्रापि दोषापादनं न युज्यते इति अवश्यविचारणीयता अस्य।

अत्रेदं विचारणीयम्। क्कचिदपि काले आचार्यहस्तलिखिता मातृका नावस्थानमलभत। प्रायश्शिष्यहस्तैरेव तैर्लेखितमिति मध्वविजयाद् अवगम्यते1। तत्र ‘सत्यतीर्थ इह भाष्यमालिखत्’ इत्युक्ता मातृकैव अतिप्राचीना इति निश्चप्रचमपि इदानीं तस्याः स्थितिः का इति केनापि न ज्ञायते। परन्तु पलिमारुमठे हृषीकेशतीर्थलिखितत्वेन परंपराप्राप्ता मातृका सुरक्षिततया2 पूज्यते, यां चोपयुयुजिरे गोविन्दाचार्याः। उत्तरादिमठेऽपि पूजार्थमुपयुक्ता अतीव प्राचीना एका मातृका वर्तते, या च आचार्यैः पद्मनाभतीर्थानां सकाशे दत्ता, परन्तु निरन्तरसंचारेण तस्याः अतीव अन्तिमा दशा दृश्यते, कानिचन चूर्णान्येव दृश्यन्ते, नैव च पठितुं शक्यते इति इदानींतनोत्तरादिमठाधीशैः सत्यात्मतीर्थैः मम सकाशे उक्तम्। उडुपीनगरे अष्टसु मठेषु प्राचीनाः बहवः मातृकाः संरक्षिताः वर्तन्ते। परन्तु कियती तेषां प्राचीनता इति विचारणीयम्। एतासां साहाय्येन पाठनिर्धारणं शक्यते।

तथापि पाठभेदनिर्धारणे अतीवोपयुक्ताः व्याख्या एव। तत्र भाष्यपाठ- 1 ‘सत्यतीर्थ इह भाष्यमालिखत्’ (९-१३), ‘चतुरश्चतुरश्शिष्यान् लीलयाऽलेखयत्खलु’ (१५-८९), ‘स्थैर्यार्थं सपदि स लेखयांबभूव’ (१६.४५) इति मध्वविजये। प्रायः आचार्यकाले एव भाष्यस्य बह्वयः मातृकाः तैस्तैर्विद्वद्भिः उपायुज्यन्त इति ‘क्षणदासु विचक्षणस्स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम्’ (१३-६७) इत्यादिमध्वविजयाद् अवगम्यते।

  1. परन्तु तस्याः तालपत्रमय्याः मातृकायाः इदानींतनपद्धत्यनुसारं संरक्षणार्थं तैलादिलेपनेन इदानीं स्थितिः अतीव क्षीणा वर्तते इति कर्णपरंपरया ज्ञायते।

[[123]]

निर्धारणे 1तत्त्वप्रदीपिका, पद्मनाभतीर्थविरचितत्वेन प्रख्याता सत्तर्क- दीपावळी, तत्त्वप्रकाशिका, तस्याः टिप्पण्ण्यः, वेदगर्भनारायाणाचार्यकृत भाष्यार्थमञ्जरी च अत्र उपयोक्तुं शक्यन्ते। अनुव्याख्यानपाठनर्धारणे च सन्यायरत्नावळी, नयचन्द्रिका, सुधा, सुधाटिप्पण्ण्यश्च उपयुज्यन्ते। तथा इदानीं शतद्वयवर्षप्राक्कालिकी जगन्नाथतीर्थवरचिता भाष्यदीपिका अपि बहून् पाठभेदानुल्लिखन्ती तन्निर्धारणे साहाय्यकमाचरेत्।

अत्र सुधादृतपाठः सु. पाठः, जयतीर्थादृतपाठः ज. पाठः, हृषीकेश- तीर्थादृतः पाठः हृ. पाठः, वेदगर्भनारायणाचार्यादृतः वे.पाठः, प्रभञ्जनाचार्य- प्रकाशितपुस्तकस्थः अक्षोभ्यतीर्धीयत्वेनोक्तः पाठस्तु वस्तुतः रामचन्द्र- तीर्थीयत्वात् रा.पाठः, कुम्भकोणनगरमुद्रितसर्वमूलपुस्तकानुसारिभाष्य

  • पाठः अनुव्याख्यानपाठश्च प्र.पाठः इति चिह्निताः।

अत्र च गोविन्दाचार्यैः प्रायः पञ्चाशद्वर्षाणि निरन्तरमिदमेव शृणुमो यद् प्रचलितपाठः सुधादृतपाठश्च बहुदोषयुक्तत्वात् अग्राह्यः, किन्तु प्राचीन- मातृकानुसारी तत्त्वप्रदीपानुसारी च हृ. पाठ एव स्वीकार्य इति। सत्यमेव प्र.

पाठे बहुदोषास्सन्तीति, ये च कालक्रमेण सर्वत्रापि मातृकापरम्परायाम् अवश्यभाविनः, ये च दोषाः सूक्ष्मतया टीकाटिप्पण्ण्यादिदर्शिभिः विद्वद्भिः परिहतुं शक्यन्ते एव। परन्तु सर्वेषामपपाठानां मार्जने न क्षमाः टीकाः 1. एते पद्मनाभतीर्थाः अस्मत्पूर्वजाः आचार्याणां साक्षाच्छिष्याः सन्न्यायरत्नावळी-सत्तर्क- दीपावळीति ग्रन्थद्वयकर्तारः। तत्त्वप्रदीपिकाराः त्रिविक्रपण्डिताचार्याः आचार्याणां साक्षाच्छिष्याः। नयचन्द्रिकाकर्तारः नारायणपण्डिताचार्याः आचार्याणां साक्षाच्छिष्यत्रि विक्रपण्डिताचार्यशिष्याः। नयचन्द्रिकायां नारायणपण्डिताचायैः ‘सन्न्यायरत्नावलयः सन्न्यायामृतबिन्दवः। श्रीमत्तत्त्वप्रदीपाश्च सन्तु नश्शरणप्रदाः॥’ इति उल्लिखितः सन्न्यायामृतबिन्दुपदोक्तः ग्रन्थः कः इति न ज्ञायते। या कापि प्राचीनटीका स्याद्वा। अथ वा लिकुचशंकराचार्यकृता न्यायविवरणसंबन्धदीपिका तथोक्ता स्यात्। सुधाकर्तारस्तु अक्षोभ्यतीर्थशिष्याः तत्त्वप्रकाशिकाकर्तारश्च। वेदगर्भनारायणाचार्यास्तु रघूत्तमतीर्थपरमगु रुरघुनाथतीर्थानां शिष्याः प्रायः सार्धचतुश्शतवर्षप्राक्कालिकाः।

[[124]]

टिप्पण्ण्यश्च प्रायष्टिप्पणीनां टीकाव्याख्यानपरत्वात्, टीकानां च सुधादीनां प्रतिपदव्याख्यानरूपत्वाभावात्। वेदगर्भीया टीकैव प्रतिपदव्याख्यारूपा वर्तते इति कृत्वा सात्रोपयुज्यते। परन्तु हृषीकेशतीर्थीयपाठस्य कियता अंशेन ग्राह्यत्वमित्यत्रैव विप्रतिपत्तिः। अनेकत्र तत्त्वप्रदीपिकादृतपाठापेक्षया भिन्नत्वात्1, बहुत्र जयतीर्थीयटीकादृतपाठापेक्षया भिन्नत्वात्। जयतीर्थैः अष्टादशानाम् आचार्यकृतग्रन्थानां टीकाः रचिताः। तत्र तैः कीदृशः पाठ आदृतः सः न त्यक्तुं शक्यते, स अवश्यं मूलपाठत्वेनैव स्वीक्रियते। अन्येषां ग्रन्थानां विषये अस्तु वा हृ. पाठस्यादरः, कथमंत्र, यत्र प्राचीनमूलकोशाधृत- जयतीर्थीयटीकाव्याख्यानसंप्रदायः जागरूकः।

तत्र सूक्ष्मतया विचार्यमाणे सति, सूत्रभाष्ये दृश्यमानाः पाठाः केचन हृ.

पाठानुवर्तिनः दृश्यन्ते, तथापि न सर्वांशेन हृ.पाठानुवर्ती प्र. पाठः। यतः सूत्रभाष्ये तत्त्वप्रकाशिकायाः प्रतिपदव्याख्यारूपत्वाभावात् बहुत्र टीकादृतः पाठः क इति न निश्चीयते। परन्तु अनुव्याख्याने सुधायाः प्रतिपदव्याख्या- रूपत्वात् तत्र अनुव्याख्यानपाठः कः इति प्रायः सर्वत्र ज्ञायते एव। तत्र गोविन्दाचार्यैः यत्र यत्र अनुव्याख्याने प्र.पाठस्य हृ.पाठस्य च वैलक्षण्यं वर्तते अत्र तत्सर्वं निर्दिष्टम्। तेषां स्थलानां, तत्र सुधादृतपाठस्य च परीक्षणे सुधासंमताः हृ.पाठाः प्रतिशतम् अष्टादशैव भवन्ति। अन्यत्र प्रतिशतं विंशतिस्थलेषु न निर्णेतुं शक्यते, अन्यत्र च प्रतिशतम् अष्टषष्टिस्थलेषु सुधायाः पाठाः हृ.

पाठापेक्षया भिन्नाः दृश्यन्ते2। तथैव सूत्रभाष्येऽपि अनेकत्र तत्त्वप्रकाशिकादृतपाठाः हृ. पाठापेक्षया भिन्नाः दृश्यन्ते। तस्मात् ‘तदनेन येऽत्र एतादृशपाठभेदा उल्लिखिताः हृषीकेशतीर्थजयतीर्थयोः, हृषीकेशतीर्थपण्डिताचार्ययोर्वा, 1. तत्संख्याः भाष्ये प्रथमाध्यायप्रथमपादे दर्शिताः अत्र । अनुव्याख्याने सर्वे अपि सुधाविरुद्धाः पाठाः प्रदर्शिताः परिशिष्टे।

  1. द्र० परिशिष्टम्। अनुव्याख्याने आहत्य २८० हृ. पाठभिन्नेषु प्र. पाठेषु सुधासंमतपाठाः ५०, अनिर्णीताः पाठाः ८५, प्रायः अन्ये पाठाः केवलं पदयांः पूर्वापरीभावादयः, च-तु- हि-शब्दभेदाः इत्यादिरेव।

[[125]]

वस्तुतस्तत्र पाठभेद एव नास्ति, स्वकपोलकल्पितबालिश तर्कमूलोऽयं भेद इति सर्वे व्याख्याता व्याख्याता’ इति गोविन्दाचार्यवचनं1 विद्वदुपेक्षामर्हति इति अतिरोहितमेव एतत्पठितॄणाम्।

किंच जयतीर्थैः आचार्यरचितेषु विभिन्नेषु ग्रन्थेषु प्रायः पञ्चदशसु स्थलेषु पाठभेदाः निर्दिष्टाः। यत्र च पाठभेदाः सन्ति ते तैरुल्लिखिताः। ते च समग्रे अनुव्याख्याने षट्, गीताभाष्ये पञ्च, गीतातात्पर्ये एकः, विष्णुतत्त्वनिर्णये एकः, प्रमाणलक्षणे एकः, इति केवलं पञ्चदशैव2। एतेन संशीयते केवलं जयतीर्थकाले तावन्त एव पाठभेदाः आसन्, कालक्रमेण च परिवृद्धा इति।

जयतीर्थैः अनुव्याख्यानादौ अल्पतरा अपि पाठभेदा उल्लिखिताः। यदि च इतोऽप्यधिकतया तत्र पाठभेदा अभविष्यन् नूनमेव तैः उदलेखिष्यन्त ।

नोल्लिखिताः, तस्मान्नासन्निति। तत्र च आहत्य पञ्चदशपाठेषु नव पाठाः हृ.

पाठे दृश्यन्ते।

किंच अनेकत्र हृ. पाठस्यायुक्तता वर्तते इति स्वयं गोविन्दाचार्यैः3, तथा हयवदनपुराणिकमहाशयैः4, बाळगारु रुचिराचार्यैश्च5 प्रदर्शितम्। किंच हृषीकेशतीर्थीयेऽपि कानिचन पत्राणि गलितानि6। गीताभाष्यं नोपलब्धम्, ऋग्भाष्यं कर्मनिर्णयापराख्यः खण्डार्थनिर्णयश्च तथा। भागवततात्पर्यं तथा।

कृष्णामृतमहार्णव-तन्त्रसारसंग्रह-यतिप्रणवकल्प-जयन्तीनिर्णय- 1. एतस्य निबन्धस्य विषये तैः लिखिते पत्रे।

  1. द्र० परिशिष्टे।

  2. द्र० सूत्रभाष्ये गोविन्दाचार्यटिप्पणी। तत्र तत्र मूलकोशे स्खलनसंभावना दर्शिता। यथा पृ. ७, १०, २२,३८, ५४,७७,१०४,१२९, १३५, १५२, १६०, १६२, १६४,१७४, १७६, १८०, २१४, २१५, २१७, २२२, २२५, २२७।

  3. द्र० हयवदनपुराणिकानाम् अप्रकाशितं पत्रम् एतद्विषये। तैः बहुत्र स्थलेषु कथं हृ.

पाठोऽयुक्त इति कर्मनिर्णयादिषु दर्शितम्।

5 द्र गीताभाष्ये प्रमेयदीपिकासहिते तत्प्रकाशिते (२००२) पृ. ४८५-६।

6 हृषीकेशतीर्थीये कुत्र कुत्र पत्रं गलितमिति स्पष्टतया न ज्ञायते। तथापि गो. टिप्पणीभिः क्कचित् स्थलेषु तथा ज्ञायते। यथा सू. भाष्ये १३५, १६२, १९१,२२७ एतेषु पृष्ठेषु।

[[126]]

न्यासपद्धति-तिथिनिर्णायाख्याश्चाचारग्रन्था नोपलब्धाः। तत्र तैः अन्य- मातृकाधारेण पाठनिर्णयः कृतः। तत्र कथं मूलपाठनिर्णयः इति विचारणीयम्।

तथा अनेकत्र हृ. पाठे भिन्नपाठता दृश्यते। ‘प्रमाणं निर्णयाय स्युः’ इति अनुव्याख्याने पठितमेव वाक्यं ‘प्रमाणनिर्णयाय स्युः’ इति कथालक्षणे पठ्यते। तथा ‘आदनासः’ इति अनुव्याख्याने (पृ.१७६), ‘आदग्ध्नासः’ इति पठ्यते बहद्भाष्ये (पृ. २६५)। वकार- बकारयोश्चायं भेदः स्फुटतरः, ‘हरेरनुव्रताः’ इत्यनुव्याख्याने (पृ.२०४), ‘हरेरनुब्रताः’ इति बृहद्भाष्ये (पृ. २६०), छान्दोग्यभाष्ये च (पृ.३४१)। अत एव वकार - बकारयोः भेदोऽत्र न परिगणितः, यथा ‘बाह्यं बाहकमित्यपि ‘ इति अनुव्याख्याने (पृ.

९), तथा लकार-ळकारयोरपि, मात्रयापि अर्थभेदाकरणात्।

किंच अत्र प्रदर्शयिष्यमाणरीत्या प्रायः अनेकत्र स्थलेषु हृ. पाठः तत्त्वप्रदीपादृतपाठापेक्षया भिन्नो वर्तते, ततोऽप्यधिकस्थले जयतीर्थादृत- पाठापेक्षया भिद्यते इति यत्र प्राचीनटीकासाहाय्येन तदादृतपाठो निश्चेतुं शक्यते, तत्र प्राचीनमूलकोशाधृतटीकादृतपाठभिन्नत्वात् टीकानुयायिनां जयतीर्थादृतपाठ एव ग्राह्यः। यत्र तु प्र. पाठे अयुक्तता वर्तते इति निश्चितं भवेत्, तत्र प्र. पाठत्यागस्यावश्यकत्वेऽपि अन्यत्र हृ. पाठ एव मूलपाठ इत्युद्घोषणं निरर्थकमेव, जयतीर्थादृतपाठस्यापि मूलकोशाधृतत्वेन मूलपाठत्वात्।

तत्र तत्त्वप्रकाशिका तत्त्वप्रदीपिकानुवर्तिनी स्थलद्वये त्रिविक्रम- पण्डिताचार्यान् संप्रदायवित्त्वेन उल्लिखति। यथा ‘अत एव प्राणः’ इति सूत्रे, ‘धृतेश्च महिम्नः..’ इति च सूत्रे1। तत्र च तत्त्वप्रदीपिकां विहाय अन्यः व्याख्यासंप्रदायः नास्ति सूत्रभाष्ये, पद्मनाभतीर्थीयग्रन्थस्य संदेहग्रस्तत्वात्।

तस्मात् तत्त्वप्रकाशिकायाः तत्त्वप्रदीपिकापूरकत्वेन तदनुकूलत्वात् प्रायः तदीयविषयाः तत्त्वप्रदीपस्थाननुकुर्वन्ति। अत एव यत्र तत्त्वप्रकाशिका दीर्घं 1. ब्र.सू. १-१-९-२२, १-३-५-१६।

[[127]]

भाष्यस्थं श्रुतिवाक्यमुपादत्ते तद्वाक्यं श्रुतिस्थत्वेन तत्त्वप्रदीपानुमतमेवेति अनुमीयते1।

  1. तत्र तत्त्वप्रकाशिकायाः तत्त्वप्रदीपस्य च क्कचित्स्थले विरोधाभासपरिहारस्तु एवम् यथा ‘अत एव प्राणः’ इत्यत्र श्रीलक्ष्मीभेदनिरूपणप्रसङ्गे टीकायां ‘वक्षःस्थलाश्रिता श्रीः इति संप्रदायविदः’ इत्युक्तेऽपि तत्र तत्त्वप्रदीपानुरोधेन ‘वक्षसि लक्षणभूता लक्ष्मीः, अङ्काश्रिता श्रीरिति संप्रदार्थावदः’ इति भाव्यम्, अन्यथा टीकावाक्यस्यैव अपूर्णत्वापत्तिः। श्री लक्ष्म्योः भेदस्य वक्तुमुद्यतटीकायां केवलं श्रिय एवं स्वरूपकथनात्। तत्र उल्लिखितसंप्रदायविदोऽपि तत्त्वप्रदीपकारा एवेति च स्पष्टम्। तस्मात् नास्ति तत्त्वप्रदीप- तत्त्वप्रकाशिकयोर्विरोध इति विभावनीयम्। परन्तु सर्वत्र व्याख्यासु ‘वक्षःस्थलाश्रिता श्रीः इति संप्रदायविदः’ इति वाक्यस्यैव व्याख्यानं वर्तते। तदेतत् विचारणीयं पुरतः।

एवं स्थितौ तत्त्वप्रदीपतत्त्वप्रकाशिकयोरवलोकनेन बहुत्र भाष्योदाहतश्रुतिवाक्यानि दीर्घानि दृश्यन्ते, यानि हृ. पाठे ह्नस्वानि दृश्यन्ते। तत्त्वप्रकाशिकायां दीर्घस्य पाठस्य व्याख्यानं यथा ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्टम्’ इति प्र. पाठः । हृ. पाठे तु ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्’ इतिपर्यन्तमेव पठ्यते। उत्तरः सर्वोऽपि भागो न पठ्यते। अत्र तत्त्वप्रकाशिकायां ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति पर्यन्तमपि श्रुतिः व्याख्याता, समित्पाणिः इत्यादिश्चोत्तरभागो न व्याख्यातः। ‘नास्त्यकृतः कृतेन।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति श्रुतिभागस्य व्याख्यानरूपा त.प्र.एवम् - ‘स च मोक्षादितरत्र निर्विण्णो विज्ञानार्थं गुरुमेवाभिगच्छेत्। यस्मान्नित्यपुमर्थो मोक्षः कर्मादिना न सिध्यति तस्मादित्यर्थः। अत्रापि विज्ञानपदेनोत्तमाधिकारित्वं सूचितम्’ इति। अत्र च टीकायां स्पष्टतया भाष्योदाहता श्रुतिपङ्क्तिः व्याख्याता दृश्यते। तदुत्तरश्च ‘समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इति भागः टीकायां न व्याख्यातः इति स नास्ति भाष्ये, परन्तु ‘अत्रापि विज्ञानपदेनोत्तमाधिकारित्वं सूचितम्’ इति टीकया ‘विज्ञानार्थम्’ इत्यादिपदानि भाष्ये वर्तन्ते इति तु स्पष्टमेव। यतः ‘अत्रात्मनीत्युक्त्या मध्यमाधिकारित्वं सूचितम्’ इति पूर्वटीकायां भाष्यस्थात्मनि पदेन मध्यमाधिकारित्वसूचनस्य पूर्वत्र व्याख्याततया, तत्सहपठताया एतट्टीकाया अपि भाष्यस्थ विज्ञानार्थम्’ इति पदव्याख्यानरूपताया वाच्यत्वात्। तदेवं पूर्णा श्रुतिः हृ. पाठे नास्ति, ज. पाठे तु वर्तते।

भाष्येऽविद्यमानमपि पदं प्रकृतार्थसमर्थनाय टीकायां व्याख्यातम् इति गोविन्दाचार्यपक्षस्तु ‘अत्रापि विज्ञानपदेनोत्तमाधिकारित्वं सूचितम्’ इति टीकया अपहस्तितः। न हि भाष्येऽपठितेन विज्ञानपदेनोत्तमाधिकारित्वं सूचयितुं शक्यते।

[[128]]

तस्मात् जयतीर्थादृतः मूलपाठः, तदीयमूलकोशश्च अन्य एव, हृ. पाठस्तु तेषां न मूलपाठः इति निर्णीयते। हृ. पाठोऽपि साक्षादाचार्यशिष्यलिखितत्वात् प्रमाणमेव। तथापि न सः जयतीर्थानां संमतः पाठः इति परिशिष्टावलोकनं न स्पष्टम्। तत्र हृ.पाठ- ज.पाठयोः तादृशपाठभेदानां कारणम् आचार्यैरेव कालान्तर अन्यथा अन्यथा प्रसङ्गानुसारेण व्याख्यानमेव भवेत्। सर्वथा न ‘आत्मनीत्युक्त्या’ इति पूर्वटीकाया इव अत्रापि भाष्यस्थविज्ञानपदेन तत्सूचितम् इत्येव तदर्थः ग्राह्यः इति पूर्वमेवोक्तत्वात्। भाष्येऽपठितेनापि श्रुतिस्थेन तत्सूचनं चेत् बहवोऽर्थाः भाष्येऽपठितैः श्रुतिस्थैः पदैः सूचिता भवेयुः किं विज्ञानपदेन उत्तमाधिकारित्वमात्रम् इत्यादिप्रश्न-समाधानाक्षमतया परास्तम्।

तत्त्वप्रदीप-हृ.पाठयोः पाठभेद एव नास्तीति गोविन्दाचार्यवचनं तु भेदाभाव- प्रदर्शनेन विना साहसिकं स्पष्टतया व्याख्यायन्ते वचनानि तत्त्वप्रदीपे, न तानि भाष्यस्थानि किन्तु प्रकृतार्थसमर्थनाय तत्त्वप्रदीपकारैरेव व्याख्यातानि इति वचनस्य नास्त्यूहं विना अन्यन्मूलम्।

 अथ चिन्त्येत। ‘स्वाप्ययात्’ इति सूत्रे ‘पूर्णमदः पूर्णमिदम्’ इत्येव हृ. पाठः।

समग्रः श्लोकस्तु तत्त्वप्रकाशिकायां तत्त्वप्रदीपे च व्याख्यातः। तथापि नायं तत्त्वप्रदीपसंमतः पाठः। यदि संपूर्ण वाक्यं भाष्ये उदाहृतं भवेत् तर्हि तत्त्वप्रदीपे पुनः तस्य समग्रश्लोकस्य पठनं व्यर्थमापद्येत इति। तस्मात् भाष्ये आदिभाग एवोपात्तः, तत्त्वप्रदीपे तु व्याख्या- सौकर्यायैव समग्रोऽपि भागो उपात्तः, व्याख्यातश्च। तस्मात् तत्त्वप्रदीग-हृ.पाठयोः पाठभेद एव नास्तीति।

तत्रेदं प्रतिचिन्त्यते। यद ‘पूर्णमदः पूर्णमिदम्’ इत्येतावदेव भाष्यम्, न तु पूर्णं, तदा भाष्यस्य उद्देश्यमेव न सिध्येत्। ‘स्वाप्ययात्’ इति सूत्रव्याख्यानाय खलु प्रवृर्त्तमिदं भाष्यं स्वाप्ययप्रदर्शनाय ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ इति श्रुतिवचनं यदि नोपादद्यात् तर्हि व्यर्थमेव भविष्यति। अयं चाचार्यक्रमः सर्वत्रापि दृश्यते, यः यद्यपि लघु भाष्यम्, तथापि यावत्प्रतिपादयितुमिष्टं तत्प्रतिपादनाय तावन्तं श्रुतिभागमुपादत्ते इति।

तत्त्वप्रदीपे तु भाष्योपात्तस्यापि श्रुतिभागस्य पुनरुपादानम् अनेकत्र दृश्यते। यथा ‘अतश्चायनेऽपि दक्षिणे’ इति सूत्रे (४-२-९-२१) भाष्य उपात्तोऽपि ‘महर्लोकादिगन्तारः’ इति श्लोकः पुनः पठितः। तथा ‘तन्निर्धारणार्थनियमस्तदृष्टेः..’ इति सूत्रे (३-३-२५- ४३) ‘श्रुत्वा मत्वा’ इत्यादिनातर्कवचनं च। तस्मात् तत्त्वप्रदीपशैली एव सा इति निश्चयेन नानेन तस्य भाष्यस्थत्वबाधः।

[[129]]

तेषामर्थभेदकारणता। ये च अर्थभदकारिणः पाठभेदाः सूत्रेषु वा भाष्ये वा तेषां तु निर्णयः कर्तुं शक्यते एव।

ज.पाठ-हृ.पाठयोः विप्रतिपत्तिस्थानानि कानिचनैव भवन्ति। यथा अनुव्याख्याने आहत्य २८० हृ. पाठभिन्नेषु प्र.पाठेषु सुधासंमतपाठाः ५०, अनिर्णीताः पाठाः ८५, प्रायः अन्ये १४५ पाठाः केवलं पदयोः पूर्वा- परीभावादयः, च-तु-हि-शब्दभेदाः इत्यादिरेव। तस्मात् वस्तुतः तत्र सु.

पाठ-हृ.पाठयोर्विरोधो नास्ति। केवलं क्कचित् सूत्रपाठे, अन्यत्र च क्कचित् विरोधो वर्तते। तत्र विरोधशान्तिप्रकारः एवं चिन्त्यते। तद्यथा ‘भेद एव गवाश्वयोः’ ‘ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः’ इति अनुव्याख्याने प्र.पाठः।

अत्र च सुधायाः मुद्रितपाठे एवम् ‘गवश्वयोरिति प्रमादपाठः। मूलकोशेष्व- दर्शनात्’ इति।

अत्र च शेषवाक्यर्थचन्द्रिकानाम्नी सुधाव्याख्या एवम् गवाश्वयोरिति। न च ‘गवाश्वप्रभृतीनि’ च इति सूत्रे ‘प्रभृतीनि’ इति शब्दरूपापेक्षनपुंसकनिर्दे शानुरोधेन गणपाठे यादृशानि शब्दरूपाणि पठितानि तादृशानां साधुत्व- मात्रस्यात्र विधानात् गणे च गवाश्वप्रभृतीनां शब्दरूपाणां कृतावङादेशानां कृतैकवद्भावानामेव च पठितत्वेन गवाश्वमित्येव भाष्यतट्टीकयोर्वक्तव्यत्वात् गवाश्वयोरित्यकृतैकवद्भावप्रयोगः कथमिति वाच्यम्। गणपाठे पठितशब्द- रूपाणां कृतैकवद्भावत्वस्य प्रायिकत्वेन, कृतावङादेशत्ववत्तस्यानियततया तथाप्रयोगसंभवात्। अत एव अथासत्यपि सामान्ये स्यादपोहस्य कल्पना।

गवाश्वयोरयं कस्मादगोपोहो न कल्यते॥1 1. श्लो वा अपाोहवादे श्लो.७६ । परन्तु इदानीम् मुद्रितव्याख्यासु (न्यायरत्नाकरे शर्करिकायां च ) तादृशं समर्थनं नोपलभ्यते। काशिकायां तथा समर्थनाभावेऽपि द्विवारं गवाश्वयोः इति शब्दप्रयोगो दृश्यते (श्लो, ६९, ७६ अडयारस्थमातृकायाः मम सकाशे विद्यमानप्रतिकृतौ)।

[[130]]

इत्यपोहवादश्लोकवार्तिकस्थप्रयोगस्तट्टीकाकृता तस्य प्रायिकत्वाभ्युप- गमेन समाहितः इति द्रष्टव्यम्1।

अत्र हृ. पाठे ‘ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः’ इति पाठः। अत्र च पादटिप्पण्ण्यां गोविन्दाचार्यैः एवं लिखितम् यद्यपि सुधायां ‘गवश्वयोरिति प्रमादपाठः। मूलकोशेष्वदर्शनात्’ इति पठ्यते। तदनुसारेण च ‘गवाश्वयोः’ इत्येव मूलपाठ इति प्रतीयते। किन्तु श्रीहषीकेशतीर्थीये मृलकोशे अधोक्षजतीथयसंप्रदायानुसारिणि पेजावरमठीये प्रतनतरे च मूलकोशे, तदन्येषु च सर्वेषु कोशेषु ‘गवश्वयोः’ इत्येव पठ्यते। न क्कापि ‘गवाश्वयोः’ इति। तेन चायमेव मूलपाठ इति निश्चीयते। तदनुसारेण च ‘गवाश्वयोरिति 1.‘शे. वा. चन्द्रिकायाः शेषस्त्वेवम् यद्वा गाैश्चाश्वश्च इति गवाश्वशब्दद्वन्द्वस्य कृतावङादेशस्य कृतैकवद्भावस्य साधुताया अनेन विधानात् तादृशद्वन्द्वपक्षे गवाश्वयोरित्यस्यानुपपत्ति- प्रसक्तावपि गवाश्वं च गवाश्वं च गवाश्वे इति गवाश्वशब्दद्वन्द्वस्य अनेन तथाऽसाधुत्वाविधानात् घटयोरितिवत् गवाश्वयोरिति निर्देशस्योपपन्नत्वात्। गवश्वयोरिति पाठस्य प्रमादागततत्वे युक्तिमाह- मूलकोशेष्विति। उपलक्षणं चैतत्। ‘अवङ् स्फोटायनस्य’ इति यदा अवङ् न प्रवर्तते, तदा ‘एङः पदान्तादति’ इति पूर्वरूपप्रसङ्गेन पशुद्वन्द्वविभाषया गोऽश्वस्य गोऽश्वयोः इत्येव, ‘सर्वत्र विभाषा गोः’ इति प्रकृतिभावपक्षे गोअश्वस्य, गोअश्वयोः इत्येव प्रयोगप्रसङ्गेन अवादेशमाश्रित्य तथा पाठस्यासंभवदुक्तिकत्वादित्यपि द्रष्टव्यम्। – इति व्याख्यातम्।

श्रीनिवासतीर्थीयनाम्नि सुधाव्याख्याने • ननु कथं प्रामादिकत्वम्। गो अश्व इति स्थिते ओकारस्यावादेशे गव् अश्व गवश्व इति भविष्यतीति चेत् सत्यम्। विशेष विधानपर्यालोचनया एतत्पाठस्य प्रामादिकत्वम्। तथा हि ‘अवङ् स्फोटायनस्य’ (अचि परे गोः अवङ् वा स्यात्) गो अग्रं गवाग्रम् इति दर्शनात्। प्रकृतेऽपि गो अश्व इति स्थिते अचि परे गोरवङादेशे ङकारलोपे गव अश्व इति जाते अकः सवणंदीर्घे ‘गवाश्व’ इति रूपसिद्धिः। न च गोः अवङादेशस्य विकल्पविधानात् गवश्वमित्यपि भविष्यतीति कथं प्रामादिकत्वमिति वाच्यम्। स्वमते विकल्पत्वेऽपि स्फोटायनमते तु तस्य नित्यत्वमेवेति न दोषः इति व्याख्यातम्। परिमळनाम्नि सुधाव्याख्याने एवम् – यथाश्रुतमूलानुवादेन वा मुले तु व्यत्ययो बहुलम् इति समाधिः प्रागुक्तो ज्ञेय इति भावः गवाश्वप्रभृतीनि च इत्येकवद्भावमनाश्रित्य (वा?) गवाश्वयोरित्युक्तम्। इति व्याख्यातम्।

[[131]]

प्रमादपाठः। मूलकोशेष्वदर्शनात्’ इत्येव सुधापाठः संभाव्यते। क्कचिच्च मुद्रिते पुस्तके तथैव पाठो दृश्यते।

ननु तर्हि कथं ‘गवश्वयोः’ इति। ‘गवाश्वप्रभृतीनि’ इति किल पाणिनिरभाणीत्। मैवम्। नायं ‘गवाश्वप्रभृतीनि’ इति सूत्रस्य विषयः यद् ‘गवाश्वयोः’ इति। यतस्तत्रैकवद्भावोऽभिमतः। तथा हि पतञ्जलिः- ‘गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम्। गवाश्वम्, गवाविकम्, गवैडकम्’ इति। कैयटोऽप्याह - ‘गणे यादृशाः पठितास्तादृशानामेवेदं कार्यमेकवद्भावलक्षणं भवति’ इति, ‘एतेन गणपाठरूपं विवक्षितमित्युक्तं भवति’ इति च। यदि चात्र विभाषा स्यात् तदा ‘अवङ् स्फोटायनस्य’ इत्यननैव रूपसिद्धौ ‘गवाश्वप्रभृतीनि’ इति पुनर्योगकरणमेव व्यथं स्यात्।

तेन पाणिनिमतानुसारेण ‘गवाश्वयोः’ इति द्विवचनं दुरुपपादमेव।

नन्वस्तु। तावता ‘गवश्वयोः’ इति कथम्? । गवय इति यथा तथा तद्वत् सेत्स्यति। गां सादृश्येनायते इति हि नैरुक्ताः निर्वदन्ति । गामञ्चतीति गवचि इत्यपि। ‘एङः पदान्तादति’ इति पूर्वरूपमपोद्य यथा तत्राव् भवति तद्वदत्रापि।

ननु का गमनिका। व्याकरणान्तरमिति ब्रूमः। तथा हि सारस्वतं व्याकरणं ‘गवादेरवर्णागमोऽक्षादौ वक्तव्यः। गवाक्षश्च गवेन्द्रश्च गवाग्रं च गवाजिनम्।

स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः॥’ इति। एतेन ज्ञायतेऽक्षेन्द्राग्राजिनेष्वेव अवर्णागमो भवति, नाश्वादाविति। तेनैतद्रीत्या ‘गवश्वयोः’ इत्येव भवति, न ‘गवाश्वयोः’ इति। अक्षौहिणी इत्यत्राप्यवर्णागममनभ्यनुजानता भगवता आचार्येण तात्पर्यनिर्णयादौ सर्वत्र अक्षोहिणी इत्येवासकृत् प्रायुज्यत इत्यप्यत्र स्मर्तव्यम् - इति गोविन्दाचार्यैः प्रतिपादितम्।

परन्तु तन्न समीचीनम्। तथा हि सारस्वतव्याकरणरीत्यापि ‘गवाश्वौ’ इत्येव रूपम्। तत्रैतत्कारणम्‘इतरेतरयोगे द्विवचनम्’ इति सारस्वतं वचनम् (का.सं. सी. पृ. २४९)। तथा अन्यत्रापि सारस्वते ‘यत्र द्वित्वं बहुत्वं च

[[132]]

स द्वन्द्व इतरेतरः। समाहारः स विज्ञेयः यत्रैकत्वं नपुंसकम्॥’ इति (हृ.

सं.सी.पृ.८०)। तस्मात् यत्र समाहारद्वन्द्वः तत्रैव एकवद्भावो भवति। यत्र तु इतरेतरद्वन्द्वः तत्र द्वित्वं वा बहुत्वं वा अभिमतम्। अत्र च ‘गवाश्वयोः’ इत्यस्य इतरेतरयोगद्वन्द्वत्वात् द्विवचनमेव सारस्वतव्याकरणरीत्या ।

पाणिनिरीत्यापि अत्र द्विवचनमेवेति उपरिष्टाद्वर्तमानश्रीवत्साङ्काचार्यलेखेन ज्ञायते।

किंच सारस्वतव्याकरणे यद्यपि ‘गवादेरवर्णागमोऽक्षादौ वक्तव्यः।

गवाक्षश्च गवेन्द्रश्च गवाग्रं च गवाजिनम्। स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः॥’ इत्युक्तं, तथापि गवाक्षादिपदानामुपसंख्यानत्वात् गवाश्व- पदेऽपि अवर्णागमो भवत्येव1। तथा हि तत्र प्रसादव्याख्या (का.सं. सी. पृ.

४३) - वस्तुतस्तु वक्तव्यत्वात् वाशब्दाद्वा गवाक्षः गवेन्द्रः इत्यत्र नित्यम्।

गवेशः गवीशः इत्यत्र वा (विकल्पेन इत्यर्थः)। गोऽग्रे, गोऽजिनम् इत्यत्र न, किन्तु ‘एदोतोऽतः’ इति अवर्णलोपः। गोअग्रं, गोअजिनम् इति प्रकृतिभावोऽपि। प्रौढ इत्यत्र अवर्णागमस्य बहिरङ्गेणापि प्रथमं सन्धिविधान

-सामर्थ्यात् नित्यत्वाच्च। प्रौढः, प्रौढिः। भारौहः। स्वैरम्। स्वैरिणी।

अक्षौहिणीत्यादयः प्रयोगतोऽनुगन्तव्याः इति। तेन यद् गोविन्दाचार्यैरुक्तं सारस्वतव्याकरणे गवाग्रादिषु क्कचिदेव अवर्णागमः न तु गवाश्वादौ, तेन ‘गवश्वयोः’ इति रूपसिद्धिरिति तत् सारस्वतव्याकरणानवगममूलकमिति निश्चीयते2।

  1. अवर्णागमः इति न अवर्णरूप आगमः, किन्तु अवर्णस्य आगमः। स्वैरम् इत्यादिषु ऐकारागदर्शनात्। तथा गवाश्वयोः इत्यत्र अकारागमः।

  2. अत्रेदमवधेयम्। सारस्वतव्याकरणभूमिकायां यद्यपि तत् व्याकरणं क्रि.श.पञ्चमशताब्दीयेन अनुभूतिस्वरूपाचार्येण रचितमिति लिखितम्, तथापि तत्र मम संशय एव। अस्य च व्याकरणस्य संस्करणद्वयं वर्तते। प्रथमं काशीसंस्कृतसिरीस् १११, अपरं हरिदास- संस्कृतसिरीस् ४ इति। तत्राद्ये चन्द्रकीर्ति-प्रसादनामकं व्याख्याद्वयं मनोरमाटिप्पणी च न्यवेश्यन्त। अपरस्मिन् तु लघुपुस्तके केवलं मूलं लघुटिप्पणी लघुहिन्दी अनुवादश्च वर्तेते।

द्वितीयपुस्तकावलोकनेन तु गवाक्षादिपदानामुपलक्षणता न ज्ञातुं शक्यते, तस्मात्

[[133]]

किं च अत्रैव वैयाकरणमूर्धन्यानां वेंकटराजशर्मणां श्रीवत्साङ्काचार्याणां महाबलेश्वरभट्टानां च अभिप्रायः परिशिष्टे निवेशितः। तत्र च आद्यद्वये ‘गवाश्वयोः’ इति प्रयोगस्य साधुतैव समर्थिता। अन्त्ये च यद्यपि नास्य साधुत्वं समर्थितं, तथापि आद्यद्वयप्रदर्शितरीत्या तत्साधुत्वं शक्यनिश्चयमेव।

गोविन्दाचार्याशयविषये तु अन्त्येऽपि स्पष्टमेव।

तस्मात् वस्तुतः अनुव्याख्याने ‘गवाश्वयोः’ इत्येव पाठः, ‘गवश्वयोः’ इति तु पाठः प्रमादगलितः इति।

क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ‘क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्’ (१-३-९-३५) इति प्र.

पाठः । ‘क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्’ इति हृ. पाठः। तत्त्वप्रदीपे तु सूत्रप्रतीकग्रहणे ‘क्षत्रियत्वगतेः’ इत्येव वर्तते। परन्तु हृ.पाठेऽपि ‘क्षत्रियत्वा वगतेश्च’ इति भाष्यवचनात् भवति सन्देहः। सूत्रानुसारिणा हि भाष्येण भाव्यम्। तत्त्वप्रकाशिकायां न स्पष्टम्।

एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ‘एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः’ (२-१-४-१३) इति प्र.

पाठः। ‘एतेन शिष्टाऽपरिग्रहा अपि व्याख्याताः’ इति हृ.पाठः । अत्र मायावादिभिः ‘शिष्टापरिग्रहाः’ इति पाठमङ्गीकृत्य शिष्टैः अपरिग्रहः न परिगृहीताः इति व्याख्यानं कृतम्। तच्च अनुव्याख्याने सुधायां च निरस्तम्।

तत्र यदि ‘शिष्टा अपरिग्रहाः’ इत्येव सूत्रपाठः जयतीर्थाभिमतः स्यात् तदा ‘शिष्टापरिग्रहाः’ इत्यपपाठकल्पनं मायावादिनामुपरि आरोपितं भवेत्।

न चैवम्। तस्मात् ‘शिष्टाऽ परिग्रहाः’ इत्येव सूत्रपाठः। तदर्थश्च शिष्टाः अपरिग्रहाश्च इति। अनया च परम्परया प्र. पाठः प्रारब्धो भवेत् इत्यनुमीयते।

तदवलोकनपूर्वकं गोविन्द।चार्याणामेतल्लेखनं स्यादिति मन्ये। परन्तु सारस्वतव्याकरणे ‘प्राचुर्यविकारप्राधान्यादिषु मयट्प्रत्ययो भवति’ इति अन्नमयादिशब्दानामाचार्य कृतव्याख्यासमर्थनं दृश्यते।

[[134]]

‘युक्तेश्च’ ‘युक्तेश्च’ इति सूत्रं ज. पाठे ‘ज्ञोऽत एव’ इत्यधिकरणे सूत्रत्वेनोपात्तम् (२-३-१०-१८)। परन्तु हृ. पाठे अन्यत्र कोशेषु च ‘युक्तेश्च’ इत्येतद्वाक्यं भाष्यत्वेन पठ्यते (द्र० गो.टि. पृ.९७)। तत्त्वप्रदीपिका चात्र बहुलं संवदते। ‘अविनष्टा एवोत्पद्यन्ते1 इति विरुद्धमिति न मन्तव्यमित्याह युक्तेश्च इति। तामेव युक्तिं प्रकटयत्युत्तरभाष्येण। शरीरसंयोगापेक्षया उत्पत्तिर्युज्यत इत्यर्थः’ इति तद्ग्रन्थात्। तत्त्वप्रकाशिकायां तु ‘नन्वनादिनित्यस्य जीवस्य उत्पत्तिः श्रुतावपि कथं युज्यते? नित्यत्वमभ्युपेत्य उत्पत्तिवचनस्य, वन्ध्यात्वमभ्युपगम्य मातृत्ववचनेन साम्यात् इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे युक्तेश्च।’ इति स्पष्टमेव सूत्रत्वं तदभिमतं दृश्यते।

अयमत्र समाधानप्रकारः। सूत्रमेवेदं ‘युक्तेश्च’ इति। सूत्रत्वादेव आचार्यस्य ‘नित्यस्यापि हि जीवस्थोपाध्यपेक्षयोत्पत्तिर्युज्यते’ इति तद्विवरणमुपपद्यते। अन्यथा तु ‘युक्तेश्च’ इति पदमत्र भाष्ये व्यर्थमापद्येत।

‘नित्यस्यापि हि…. युज्यते’ इत्यनेनैव युक्तिप्रदर्शनसंभवेन ‘युक्तेश्च’ इत्यस्य वैयथ्यात्।

आचार्यस्यैवेयं शैली यत् सूत्रोक्तस्य भाष्येण विवरणम्। यथा ‘युक्तेः शब्दान्तराच्च’ (२-१-६-१९) इति सूत्रस्य ‘साधनानां साधनत्वं यदात्माधीनमिष्यते। तदा साधनसंपत्तिरैश्वर्यद्योतिका भवेत्॥ इत्यादेः साधनान्तरेणापि सृष्टिर्युक्ता । अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ इति शब्दान्तराच्च’ इति व्याख्यानम्। न हि तत्रत्यभाष्यशैल्याः अत्रत्य- भाष्यशैल्याश्च मात्रयापि विशेषोऽनुभूयते। उभयत्रापि युक्तेः इत्यस्य भाष्ये व्याख्यादर्शनात्।

1 पूर्वम् उडुपीनगरमुद्रिते तत्त्वप्रदीपपुस्तके तु बहुत्र बोल्ड् (लिपिपीनत्व) चिह्नम् उपयुक्तं, तत्तु तत्त्वप्रदीपिकायाः बहुत्र भाष्यगर्भत्वात् तत्सूचनार्थम्। के.टि. पाण्डुरङ्गीमुद्रिते तु पुस्तके तन्नास्ति।

[[135]]

कथं तर्हि तत्त्वप्रदीपिका। इत्थम्। ‘अविनष्टा एवोत्पद्यन्ते विरुद्धमिति न मन्तव्यमित्याह - युक्तेश्च इति। तामेव युक्तिं प्रकटयत्युत्तरभाष्येण’ इति खलु तद्ग्रन्थस्य वचनविन्यासः। न हि तत्त्वप्रदीपिका सूत्रव्याख्यानरूपा, किन्तु भाष्यव्याख्यानरूपा। तथा च ‘न मन्तव्यमित्याह- युक्तेश्च’ इत्येतेन वाक्येन ‘युक्तेश्च’ इत्येतद्वाक्यावतरणिकादानपरतया प्रतीयमानेन ‘युक्तेश्च’ इत्यस्य भाष्यत्वशङ्का भवेत्। अनन्तरं च ‘तामेव युक्तिं प्रकटयत्युत्तरभाष्येण’ इत्यनेन च सा शङ्का उपोद्बलिता भवति।

परन्तु तत्त्वप्रदीपिकायां बहुलमेतादृशं दृष्टं तस्याः सूत्रावतरणिकादान- रूपत्वम्। यथा ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ (२-३-१-५) इति सूत्रे ‘अनित्यानीत्युक्तत्वात् प्राणश्रद्धयोः प्रलयेऽपि परावरप्रतिभानाद्भागश एवोद्भवाभिधानम्। आकाशे त्वव्याकृतस्य प्रदेशशब्दितस्यानादित्वात् उत्पत्तिमन्ति चानुत्पत्तिमन्ति च इति कथम् इत्यत आह -स्याच्चैकस्य ब्रह्मशब्दवत् इति’ इति तत्त्वप्रदीपिकायाः ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ इति सूत्रव्याख्यानपरता इव दृश्यते। परन्तु तद्वस्तुतः तत्सूत्रस्य अवतरणिकादानम्, सूत्रभाष्यस्य बहुत्र सूत्राक्षरसंबद्धतया सूत्रमपि स्वस्मिन्नन्तर्भावयतः भाष्यस्य अवतरणिकादानं च। न तु वस्तुतः सूत्रव्याख्यानपरता1। तस्मात् ‘न मन्तव्यमित्याह - युक्तेश्च’ इति पूर्ववाक्यस्य भाष्यावतरणिकापरत्वेन सूत्र- व्याख्यानपरत्वप्रयुक्तसंशायकत्वे निरस्ते, तदुत्तरस्य ‘तामेव युक्तिं प्रकटयत्युत्तरभाष्येण’ इति वाक्यस्यापि संशायकता स्वयमेव निरस्ता 1. भाष्यस्य सूत्राक्षरसंबद्धतायाश्च बहुत्र उदाहरणानि भवन्ति। यथा ‘शास्त्रयोनित्वात्’ इति सूत्रे यद्यपि इदानीम् ‘अनुमानतोऽन्ये न कल्पनीयाः। शास्त्रयोनित्वात्। नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं सांपराये औपनिषदः पुरुषः इत्यादिश्रुतिभ्यः’ इति पठ्यते। तथापि अत्र ‘अनुमानतोऽन्ये न कल्पनीयाः। नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं सांपराये औपनिषदः पुरुषः इत्यादिश्रुतिभ्यः शास्त्रयोनित्वात्’ इत्यन्वयः। ‘इत्यादिश्रुतिभ्यः शास्त्रयोनित्वात्’ इति खलु भाष्यस्य सूत्राक्षरेण अन्वयः। एवं तत्त्वप्रदीपे प्रथमस्य द्वितीये ‘विवक्षितगुणोपपत्तेश्च’ इति सूत्रभाष्यव्याख्याने प्रसिद्धार्थत्वात्सूत्रभाष्ययोरेकीभावः’ इत्युक्तम्। एवं सर्वत्र भाष्ये।

[[136]]

भवति। न हि ‘उत्तरभाष्येण’ इत्येतावन्मात्रेण पूर्वस्थस्य सर्वस्य वाक्यस्य सूत्रत्वं शङ्कार्हं भवेत्। एवमेव बहुत्र तत्त्वप्रदीपिकायाः सूत्रावतरणिकादानं दृश्यते। यथा ‘प्रतिज्ञाहानि॰….’ (२-३-१-६), ‘यावद्विकारं तु….

‘(२-३-१-७) इत्यादौ।

किञ्च अत्र ‘उत्तरभाष्येण’ इत्यस्य सिद्धान्तभाष्येण इत्यर्थः। तथा च प्रयुक्तं तत्त्वप्रदीपिकायां ‘चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः’ इति सूत्रे (३-१-१०) ‘न यज्ञादिकृतो यज्ञादिफलं गमनागमनम्। चरणशब्दस्य यज्ञाद्यति- रिक्तविषयत्वात्। तत्र प्रमाणमाह-आचार इति पूर्ववादी। उत्तरभाष्यस्या- यमर्थ… इत्यादि।

अनेकत्र चैतादृशं दृष्टं तत्त्वप्रदीपिकायां यथा ‘तदापीतेः संसारव्यपदेत्त्- शात्’ (४-२-६-८) सूत्रे ‘नैतावता साम्यमिति संबन्धभाष्येण’ इति।

तथा ‘ आकाशस्तल्लिङ्गात्’ (१-१-८-२२) इति सूत्रे अनेन संगति भाष्येण संशयबीजसूचनपरोऽपि…’ इत्यादि।

अत्र च ‘उत्तरभाष्येण’ इत्यस्य संगतिरेवं - यद्यपि ‘युक्तेश्च’ इत्येतत् न पृथगधिकरणम् इति न तत्र पृथक्पूर्वपक्षप्रसङ्गः। तथापि प्रत्येकसूत्रीयपूर्वपक्षः सर्वत्राविशिष्टः। तं च सूचयति त्रिविक्रमाचार्यः ‘अविनष्टा एवोत्पद्यन्ते इति विरुद्धमिति न मन्तव्यमित्याह- युक्तेश्च इति’। यद्यपि अस्मिन् सूत्रे न पृथक्पूर्वपक्षो दृश्यते। तथापि पूर्वसूत्रीयभाष्ये ‘अविनष्टा एवोत्पद्यन्ते’ इत्यनेन तं सूचयति। अनन्तरं च तादृशपूर्वपक्षं निरसितुं सूत्रं ‘युक्तेश्च’ इति।

तस्य च विवरणं सिद्धान्तभाष्येण इत्याह ‘तामेव युक्तिं प्रकटयत्युत्तरभाष्येण’ इति। तस्मादत्र ‘उत्तरभाष्येण’ इत्येतदन्यार्थे प्रयुक्तं पदं स्वीकृत्य अन्यार्थे उपयोगः न समीचीन इति विभावनीयम्।

तस्मात् नात्र तत्त्वप्रदीपिकासंवादः। हृ. मातृकायाश्च अनेकत्र स्खलि- तत्वेन निश्चितत्वात् अत्रापि स्खलितत्वाङ्गीकारो युक्त एव।

[[137]]

किंच न्यायविवरणसूचितमिदं सूत्रम्। तथा हि ‘न चानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः। इदं सर्वमसृजत इति सर्वस्मिन् संगृहीतत्वात्। परा- धीनविशेषवत्त्वेऽप्यनादित्वस्याविरोधात्’ इति न्यायववरणम्। अत्र चान्तिा- मेन वाक्येन ‘युक्तेश्च’ सूत्रोक्ता युक्तिः विव्रियते।

यद्यपि शांकर-रामानुजभाष्ययोः नेदं सूत्रमस्ति। तथापि बहुत्र तद्विसं- वादस्योपलम्भात् नात्र तत्संवादाभावो दोषः। एवं सर्वत्रापि ऊह्यम्1।

तत्र जयतीर्थैः स्थलद्वये मूलकोशोल्लेखः कृतो दृश्यते। तस्मात् तदीयसू- त्रत्वनिश्चयस्य मूलकोशमूलकतया नाप्रामाण्यशङ्का। न हि आचार्यस्यान- न्तरं चत्वारिंशत्संवत्सरेष्वेव2 सूत्रान्तरप्रक्षेपावकाशः।

‘स्मरणाच्च’ ‘स्मरणाच्च’ इति सूत्रं (३-१-१३-२३) हृ.पाठे भाष्यत्वेन पठ्यते।

जयतीर्थैस्तु सूत्रत्वेन पठ्यते। ‘तृतीये शब्दावरोधः संशोकजस्य’ इति पूर्वु- सूत्रस्य ‘तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्ति- स्मरणाच्च। महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाधरम्। श्रवणेनैव मूर्च्छादिर- धरस्य यतो भवेत्। तस्मान्न विस्तरेणैतत्कथ्यते राजसत्तम। इति कौर्मे’ इति भाष्यस्य हृ. पाठः। अत्र अन्तिमवाक्ये ‘संशोकजमोहप्राप्तिः’ इति विच्छि - द्य पठित्वा अनन्तरं च ‘स्मरणाच्च’ इति सूत्रं पठित्वा तद्व्याख्यानतया ‘महातमः’ इति स्मृतिः व्याख्यायते जयतीर्थैः।

  1. शाङ्कर-रामानुज-मध्यभाष्येषु सूत्रादिक्रमस्य विषये द्र० श्रीभाष्यश्रुतप्रकाशिकायाः वीरराघवाचार्याणां भूमिका पृ.३०-३२, १९६७।

  2. बि. एन्. के. शर्मविरचिते द्वैतवेदान्तेतिहासे। पृ. २४५, १९८३ अत्र पुस्तके आचार्याणां कालः १२३८-१३१७। जयतीर्थपीठाधिपत्यकालः १३६५-८८ इति निर्दिष्टम्।

तस्मात् १३१७ वर्षात् अनन्तरं जयतीर्थोत्पत्तिकालं (गरीयसा पक्षेण १३४५ वर्षम्) यावत् तयोर्व्यवधानम्। जयतीर्थपीठाधिपत्यकालपर्यन्तं व्यवधानस्वीकारेऽपि चत्वारिंश- द्वर्षाण्येव व्यवधानं भवति ।१२००-१२६७ इत्येव अाचार्यकाल इति पक्षेऽपि शतं वर्षाणामेव अवधानं न महत्।

[[138]]

अत्र गोविन्दाचार्यैः अन्यत् किमपि गमकं न प्रदर्शितम् अस्य वाक्यस्य असूत्रत्वे। तथापि अत्रैवं शङ्काबीजानि।

‘स्मरणाच्च’ इत्यस्य पृथक्सूत्रत्वे ‘तृतीये शब्दावरोधः संशोकजस्य’ इति सूत्रे श्रुतिवाक्यस्य वा स्मृतिवाक्यस्य वा युक्तेर्वा अनुदाहरणेन कथमिदं भाष्यं श्रुत्यादिविहीनमिति शङ्का भवेत्। तत्परिहाराय च ‘स्मरणाच्च’ इत्यत्र उदाहता कौर्मस्मृतिः अस्मिन्नेव सूत्रे भवेत् इत्यपि शङ्का भवेत्। यत आचार्यस्येयं शैली या सूत्रस्य श्रुत्यादिमूलकत्वेन सूत्रितार्थे श्रुतिस्मृतियुक्ति- संवादिताप्रदर्शनमिति। यद्यत्र श्रुत्यादिकं नास्ति तत्र चान्यत् किमपि योजनीयमिति शङ्का भवति। तथा अत्रापि।

किंच तत्त्वप्रदीपिकायां सर्वेषामपि सूत्राणां कण्ठतो ग्रहणं कृतम्, नात्र ‘स्मरणाच्च’ सूत्रस्य कण्ठतो ग्रहणं तत्र दृश्यते, किन्तु मूर्च्छादिपदव्याख्यानमेव दृश्यते इति ‘स्मरणाच्च’ इत्यस्य सूत्रत्वे शङ्का भवति।

तथापि आचार्यैः अनेकत्र स्वोक्तार्थे श्रुत्याद्यनुदाहरणमपि दृष्टम्। यथा ‘न वा विशेषात्’ (३-३-१३२२) इति सूत्रभाष्ये किमपि श्रुत्यादिकं नास्ति। किन्तु ‘दर्शयति च’ इत्युत्तरसूत्रेणैव तद्दर्शितम्। तथा ‘असार्वत्रिकी’ (३-४-२-१०) इत्यत्र किमपि नास्ति। तदुत्तरस्मिन् ‘विभागश्शतवत्’ इत्यत्रैव श्रुत्यादिकं दर्शितम्। तथा ‘आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते’ (३-४-७-४६) सूत्रे किमपि नास्ति। तथा बहुत्र1 श्रुत्याद्यनुदाहरणं दृश्यते। परन्तु तेषु स्थलेषु युक्तयः उक्ताः।

तदेवं ‘तृतीये..’ इति सूत्रे प्रथमतः स्वाभिमतमर्थमुक्त्वा अनन्तरसूत्रेण स्मृतिप्रदर्शनमिति नास्ति श्रुत्याद्यनुदाहरणदोषः।

किंच तत्त्वप्रदीपिकायां ‘तृतीये तमसि श्रुतमात्र एव तच्छब्दानुसारेण संशोकजस्य अत्यन्त दुःखोद्भूतस्य मोहस्य अवरोधः प्राप्तिः’ इति व्याख्यानात् 1. यथा पञ्चमुखिपुस्तके तृतीयाध्याये पृ.१३५, १४९, १६८, १७७, १९९, १९४, २०७, २०९, २१८, २१९, २५८,२८०,२८, ३२२ इत्यादिषु ।

[[139]]

‘प्राप्तिः’ इत्येव भाष्यं निश्चीयते, न तु ‘प्राप्तिस्मरणाच्च’ इति।

तत्त्वप्रदीपिकायामपि केषांचित् सूत्राणां तद्भाष्याणां च विवरणमेव नास्ति। यथा ‘अग्न्यादिगतिश्रुतेः….’ (३-१-४), ‘स्मर्यतेऽपि च लोके’ (३-१-१५-२०)। तथा अन्यत्र बहुषु स्थलेषु। क्कचिच्च सूत्रव्याख्याने कृतेऽपि तत्र सूत्रं कण्ठरवेणागृहीत्वा तत्रत्यानां केषांचित्पदानां व्याख्यानं दृश्यते। यथा ‘दर्शनात्’ (३-२-१६-३३) इत्यत्र। तत्र च सूत्रं न कण्ठतः उपात्तम्, परन्तु ‘अदृष्टत्वम्’ इत्यादीनां भाष्यस्थपदानां व्याख्यानं दृश्यते।

तस्मात् तत्त्वप्रदीपिकायां सूत्रस्य कण्ठतोऽनुपादानं न अस्य सूत्रत्वप्रतिक्षेपे कारणं भवति। किन्तु मूलकोशानुसारेण जयतीर्थैः अस्य सूत्रत्वेन परिगणनात् हृ. पाठेऽपि ‘संशोकजमोहप्राप्तिः’ इति विच्छिद्य पठित्वा अनन्तरं च ‘स्मरणाच्च’ इति सूत्रतया पठनीयम्।

अन्यमतीयभाष्यकारैः अस्यानुपादानमपि न दोष इत्युक्तमेव पुरस्तात्।

‘दर्शनात्’ ‘दर्शनात्’ इति प्र.पाठः (३-२-१६?-३३), ‘दर्शनात्तु’ इति हृ.

पाठः। परन्तु ‘दर्शनात्तु’ इत्येव सूत्रम्। वाक्यार्थमुक्तावल्यां ‘तुरवधारणे’ इति व्याख्यानात्।

‘अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ‘ ‘अन्यथात्वं च शब्दादिति चेन्नाविशेषात्’ (३-३-२-७) इति यद्यपि सूत्रस्य मुद्रितः प्र. पाठः। चशब्दो नास्ति हृ. पाठे। तथापि कुत्रापि तस्य व्याख्यानाभावात् नात्र गोविन्दाचार्यदर्शितदिशा पाठभेदावसरः।

‘प्रदानवदेव हि तदुक्तम्’ ‘प्रदानवदेव हि तदुक्तम्’ (३-३-२६-४४) इति प्र.पाठः। हिशब्दो नास्ति हृ.पाठे। ‘प्रदानवदेव तदुक्तम्’ इत्येव सूत्रपाठः सुधायां

[[140]]

तत्त्वप्रकाशिकायां च हिशब्दस्य व्याख्यानाभावात्। प्रत्युत कुम्भकोण मुद्रितानुव्याख्याने मुद्रितसुधायां शे. वा. चन्द्रिकायां च हिशब्दादर्शनाञ्च।

वाक्यार्थमुक्तावल्यां हिशब्दाव्याख्यानाच्च। तस्मात् हृ. पाठः जयतीर्थसंमतः।

‘शब्दश्चातोऽकामचारे’ ‘शब्दश्चातोऽकामचारे’ (३-४-४-३१) इति मुद्रितः प्र. पाठः।

‘शब्दश्चातोऽ कामकारे’ इति हृ. पाठः। परन्तु सर्वत्र व्याख्यासु चकारघटित एव पाठो व्याख्यातः, नात्र किमपि विरुद्धं गमकं पश्यामः। यद्यपि ‘कामकारेण चैके’ (३-४-४-१५) इति सूत्रे ककारघटितः पाठः। तथापि तत्र स्पष्टं ‘कामकारः कामितकरणम्’ इति तत्त्वप्रदीपिकायां व्याख्यानात् तथात्वाङ्गीकारेऽपि नात्र स्पष्टं तथावगम्यते। ‘न कामचरितं चरेत्’ इति श्रुत्यनुसाराच्च।

‘आ प्रायणात्तत्रापि हि दृष्टम्’ ‘आ प्रायणात्तत्रापि हि दृष्टम्’ इति ज. पाठः (४-१-७-१२), ‘आ प्रयाणात्’ इति हृ.पाठः। ‘प्रायणान्तमोकारमभिध्यायीत’ इति श्रुत्यनुसारेण ‘प्रायणात्’ इति भाव्यमिति भाव्यते। तत्त्वप्रदीपे ‘यावन्नारायणं प्रति प्रयाणात्मको मोक्षः’ इति दर्शनेऽपि तस्यार्थप्रदर्शनपरत्वोपपत्तेः न विरोधः।

अथ वा तत्त्वप्रदीपिकानुसारेण ‘प्रयाणात्’ इति सूत्रपाठेऽपि न विरोधः।

जयतीर्थैः ‘प्रायणात्’ इत्यनुदाहरणात्। शांकररामानुजभाष्ययोः ‘प्रायणात्’ इति दर्शनस्य विनिगमकत्वं तु नास्ति।

‘तदपीतेः संसारव्यपदेशात्’ ‘तदपीतेः संसारव्यपदेशात्’ (४-२-६-८) इति प्र. पाठः। ‘तदापीतेः संसारव्यपदेशात्’ इति हृ. पाठः। अत्र तत्त्वप्रदीपे ‘आ समन्ताद् अपीतिः आपीतिः’ इति आपीतिशब्दो व्याख्यातः। तत्त्वप्रकाशिकायां न स्पष्टम्।

परन्तु न तेन ‘तदापीतेः’ इति पाठः तत्त्वप्रकाशिकाविरुद्ध इति वक्तुं शक्यते।

[[141]]

‘तदिति’ इति प्रतीकग्रहणेऽपि ‘तदापीतेः’ इत्यनेन विरोधाभावात्। अत एव वाक्यार्थविवरणनाम्नि व्याख्याने ‘सूत्रे तदापीतेः इति आ अपीतेः इति पदच्छेदः। तस्यां सम्यगपीतिमत इत्यर्थः’ इति तदर्थवर्णनं दृश्यते। परन्तु अन्यव्याख्यानेषु भावदीपादिषु ‘तदपीतेः’ इति पाठो दृश्यते। वाक्यार्थ- मुक्तावल्यां तु प्राचीनभाष्यव्याख्यातृमते तदापीते’ इति सप्तमी इति अन्यत्र निरूपितम् इत्युक्तम्। तत्कथम् इति न ज्ञायते।

‘अतश्चायनेऽपि हि दक्षिणे’ ‘अतश्चायनेऽपि हि दक्षिणे’ (४-२-९-२१) इति प्र पाठः। हिशब्दो नास्ति हृ. पाठे। परन्तु तत्त्वप्रदीपिकायां हिशब्दो दृश्यते। अन्यत्र विसंवादविषयेषु स्थलेषु तत्त्वप्रदीपिकायां प्र.पाठापेक्षया विलक्षणपाठदर्शनेऽपि अत्र प्र. पाठसंमतपाठदर्शनेन प्र. पाठ एव तत्त्वप्रदीपाभिमत इति चिन्त्यते।

नापि तत्त्वप्रकाशिकायां हिशब्दव्याख्या दृश्यते। तस्मात् हृ. पाठे हिशब्दः प्रमादेन त्यक्त इति संभाव्यते।

ब्रह्मसूत्रभाष्ये प्रथमाध्याये प्रथमपादे पाठभेदविचारः अत्र प्र.पाठः प्रचलितपाठः । हृ.पाठः हृषीकेशतीर्थीयः। रा.पाठः राम-चन्द्रतीर्थीयः (पूर्वमयमेव अक्षोभ्यतीर्थीयपाठत्वेन निर्दिष्ट आसीत्।)।

वे. पाठः वेदगर्भनारायणाचार्यधृतः। अत्र प्रभञ्जनाचार्यप्रकाशितं सर्व- मूलान्तर्गतं सूत्रभाष्यपुस्तकं गृहीत्वा एव भाष्यपृष्ठाङ्काः निरूपिताः सन्ति।

भावदीपस्य पृष्ठाङ्काः आर्.एस्.पञ्चमुखिप्रकाशितपुस्तकस्य। अन्यटिप्पणी- कृतां पृष्ठाङ्काः के. टि. पाण्डुरङ्गीप्रकाशितपुस्तकस्य। बृहदारण्यकादि- ग्रन्थपृष्ठाङ्काः गोविन्दाचार्यप्रकाशितपुस्तकस्य।

अत्र तु अस्मत्सृहद्भिः रुचिराचार्यैः पुनः काश्चन सूचनाः दत्ताः एतद्विषये।

तदनुसारेण क्कचित्परिवर्तनं कृतम्। क्कचिच्च विप्रतिपत्तिरपि प्रदर्शिताऽधस्ता टिप्पण्ण्याम्। तेभ्यः कार्तज्ज्ञ्यमावेदयामि।

[[142]]

१. पृ. ४ ‘ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः’ इति प्र. रा.वे.

पाठाः। परन्तु हृ. पाठः ‘क्रीडते परमेश्वरः’ इति। अत्र कैरपि व्याख्यातृभिः किमपि नोक्तमिति’ ‘परमेश्वरः’ इति पाठस्साधुरिति चिन्त्यते। अथ वा उभयमपि समीचीनम्।

  1. पृ.5. कश्चाथश्च तयोर्विद्वन्कथमुत्तमता तयोः’ इति प्र. रा.वे. पाठाः।

हृ.पाठस्तु ‘कश्चार्थस्तु’ इति। प्र पाठे चकारवैयर्थ्यात् हृ.पाठः समीचीन इति चिन्त्यते। सर्वदर्शनसंग्रहेऽपि ‘कश्चार्थस्तु’ इत्येव दृश्यते। भाष्यदीपिका- यामपि तुशब्दघटितः क्काचित्कः पाठः उद्धृतः।

३. पृ.६ अधमश्शमादिसंयुक्तो मध्यमस्समुदाहृतः’ इति प्र.रा.वे.

पाठाः। ‘मध्यमस्स उदाहृतः’ हृ. पाठः। उत्तरत्र उत्तमाधिकारिलक्षणेऽपि तच्छब्दश्रवणात् अयमेव समीचीनो भाति। टीकायां न स्पष्टम्।

४. पृ.६ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्। नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इति प्र.रा.वे. पाठः। हृ.पाठे तु ‘नास्त्यकृतः’ ‘ब्रह्मनिष्ठम्’ इत्यन्तं नास्ति।

अत्र टीकाकुद्धिः सर्वस्यापि वाक्यस्य व्याख्यानकरणात् प्र.पाठस्स्वीकार्य एव। `समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इति भागस्तु जयतीर्थरव्याख्यातत्वात् नास्ति।

5.पृ. ६ ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति प्र.रा.वे पाठाः। हृ.पाठे तु ‘तस्येष’ इत्युत्तरार्धं न पठ्यते। टीकायाम् उत्तरार्धमपि व्याख्यातमिव दृश्यते। तस्मात्तदेव ग्राह्यम्। तत्त्वप्रदीपेऽपि उत्तरभागो व्याख्यातः।

६. पृ.६ इत्यादिश्रुतिभ्यश्च’ इति प्र. रा. वे. पाठाः। हृ. पाठे ‘इत्यादिश्रुतिश्च’ इति। भावदीपे तु ‘एतेन भाष्ये इत्यादिश्रुतिभिश्च इत्यस्य अधिकारश्चोक्त इति पूर्वेणान्वयः सूचितः’ इति व्याख्यातम्।

[[143]]

७. पृ.६. ‘स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता’ इति प्र.रा.वे.

पाठाः। ‘तन्त्र’ इति स्थाने ‘तत्र’ इति पठ्यते हृ. पाठे। परन्तु टीकायां ‘तन्त्रं पञ्चरात्रादि इति तन्त्रशब्द एवादृतः। हृ. पाठे प्रमादेन नकारो गलितः स्यात्। प्रथमतः अन्त्यजानां नामज्ञानाधिकारकथनम्, अनन्तरं सच्छूद्रादीनां पञ्चरात्राद्यधिकारकथनम् अनन्तरं त्रैवर्णिकानां वेदाधिकारकथनम् इति हि क्रमः। न तु स्त्रीशूद्रादीनामपि वेदाधिकारपरं तत्, सन्दर्भानानुगुण्यात्।

वेदाधिकारस्याप्रसक्तेश्च, उत्तरत्र त्रैवर्णिकानां वेदोक्त इत्यनेन हि वेदाधिकारः प्रस्तुतः, न तु ततः पूर्वतनवाक्ये । तस्मात् तत्र इति पाठमवलम्ब्य तस्यार्थकथनं न समीचीनतां भजते। ‘अधिकारता’ इति वे .पाठः अर्शआद्यजन्तत्व- स्वीकारात्।

8.पृ. ७. ‘न तु ग्रन्थपुरः सर’ इति प्र. रा. पाठौ। हृ. पाठे ‘न च ग्रन्थ’’ इति। वे पाठे ‘न हि ग्रन्थ’’ इति। प्र. रा. पाठौ प्रामादिकौ इति संभाव्यते। तुशब्दद्वयस्यास्वारस्यात्। हृ.वे.पाठयोरन्यतरो ग्राह्यः।

९. पृ. ७. ‘बृहत्संहितायाम्’ इति प्र. पाठः। रा. हृ. पाठयोस्तु ‘ब्रह्मसंहितायाम्’ इति पठ्यते। तत्र किमपि निश्चेतुं न शक्यते।

तादृशसंहिताया इदानीमनुपलभ्यमानत्वात्। परन्तु ‘बृहद्ब्रह्मसंहिता’ इति इत्येका संहिता संहितानामसु डेनियल् स्मिथ् महाशयेन स्वीयग्रन्थे निर्दिष्टा वर्तते। तदनुसारेण उभयमपि समीचीनं भवेत्। यथा तथा वास्तु, ग्रन्थोऽयं पञ्चरात्रान्तर्गतः।

१०. पृ.८. आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति समग्रं पठ्यते प्र. रा. पाठयोः। हृ.पाठे तु ‘द्रष्टव्यः’ इतिपर्यन्तम्।

टीकायां तु समग्रं वाक्यं व्याख्यातमिव दृश्यते। तस्मात्तत् ग्राह्यमेव।

तत्त्वप्रदीपेऽपि श्रोतव्य इत्यंशः उदाहतः।

११ पृ.८ ‘यमन्तः समुद्र कवयोऽवयन्ति यदक्षरे परमे प्रजाः। यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’ इति समग्रं पठ्यते प्र.

[[144]]

रा.वे पाठेषु। हृ.पाठे तु अवयन्ति’ पर्यन्तमेव। तथैव वाक्यार्थमञ्जर्यां टीकाव्याख्यायाम् ‘अवयन्ति इति पर्यन्तमेव भाष्यपाठः’ इत्युक्तम्। तथा टोकायां उत्तरभाग न व्याख्यातः। तस्मात् प्र. रा. वे पाठाः न ग्राह्याः।

१२ पृ. ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति समग्रं पठ्यते प्र. रा.वे. पाठेषु। हृ. पाठ ‘तदेवर्तं तदु सत्यमाहुः’ इति न पठ्यते।

टीकायामपि न व्याख्यातः पूर्वभागः। तस्मात् प्र.रा वे पाठाः न ग्राह्याः।

१३. पृ.९ ‘भाल्लवेयश्रुतिः’ इति प्र.रा.वे. पाठाः। ‘भाल्लवेयश्रुतेः’ इति हृ. पाठः । हृ. पाठ एव ग्राह्यः, तत्र हेत्वाकाङ्क्षासत्वात्।

१४. पृ ९ ‘यो देवानां नामधा एक एव तं संप्रश्नं भुवना यन्त्यन्या’ इति प्र. रा. वे पाठाः। ‘तं संप्रश्नम्’ इत्याद्युत्तरभागः हृ. पाठे नास्ति।

वाक्यार्थमञ्जर्यामपि ‘तं संप्रश्नम्’ इत्यादि भाष्ये नास्तीत्युक्तम्। नापि टीकायां व्याख्यातम्। हृ. पाठ एव ग्राह्यः।

१५. पृ. ९ ‘इत्येवशब्दान्नान्येषां सर्वनामता’ इति प्र. रा. पाठौ। ‘इति चैवशब्दात् न चान्येषां सर्वनामता’ इति हृ. पाठः। अत्र ‘इति चैवशब्दात्’ इति युक्तमेव1। पूर्वमेव अन्यत्र नामानि न सन्ति, जगतः उत्पत्तिमत्त्वात् इत्युक्तत्वेन, तत्समुच्चायकत्वात्। परन्तु ‘न चान्येषाम्’ इत्यत्र चशब्दकृत्यं न भासते।

१६. पृ.९ ‘अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः।

इति विष्णोर्हि लिङ्गम्’ इति प्र.रा.वे.पाठाः। हृ. पाठे तु ‘अजस्य नाभो इति तस्य हि लिङ्गम्’ इति। अत्र श्रुतिः समग्रतया टीकायां न व्याख्याता2।

अजस्येति प्रतीकधारणस्यैव कृतत्वात्। विष्णोः इति पदस्य स्थाने ‘तस्य’ इति पाठस्तु प्राचीनपाठत्वात् ग्राह्यः। नात्र किमपि विनिगमकम्।

1 नानेन इत्येवशब्दात् इति प्र. पाठस्यायुक्तता प्रतिपाद्यते, किन्तु अयोगव्यवच्छेद एव।

2 समग्रतया टाकायां श्रुतिव्याख्यानाभावात् ‘पद्मनाभत्वलिङ्गादयं विष्णुरेव इति टीकावाक्य- पर्यालोचनयापि नैतच्छ्रुतिग्रहणं पूर्णतया भाष्ये सिध्यति ।

[[145]]

१७.पृ.९ ‘न च प्रसिद्धार्थं विनान्योऽर्थो युज्यते’ इति प्र. रा.वे. पाठाः।

न च प्रसिद्धार्थं विना अन्यो युज्यते’ इति हृ. पाठः। टीकायां तत्त्वप्रदीपे च तथैव पाठः।

१८. पृ. ९ परो दिवा पर एना पृथिव्या इति समाख्या’ इत्येतावन्मात्रमेव प्र. रा.वे. पाठेषु पठ्यते। हृ. पाठे ‘इति च समाख्या’’ चशब्दमात्रमधिकम्।

परन्तु टीकायां तत्त्वप्रदीपे च ‘एतावती महिना संबभूव’ इत्यंशोऽपि व्याख्यातः। नात्र विनिगमकम्।

१९. पृ. ९ `यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति प्र.रा.वे.पाठाः। हृ.पाठे ‘तं ब्रह्माणम्’ इत्याद्यंशः नास्ति। परन्तु टीकायां व्याख्यातः। उपात्तश्च तत्त्वप्रदीपे।

२०. पृ.९ प्रसिद्धत्वात्सूचितत्वाच्चास्यार्थस्य’ इति प्र. रा. पाठौ।

हृ.पाठे ‘अस्य’ इत्यंशो नास्ति। वेदगर्भीये न स्पष्टम्। हृ.

पाठस्साधुस्संभाव्यते। टीकायामपि ‘अर्थस्य’ इत्येव पाठः।

२१. पृ. ९ ‘न चेतरग्रन्थविरोधः ‘ इति प्र. रा. वे. पाठाः। ‘न चेतरग्रन्थैर्विरोधः’ इति हृ. पाठः। तत्त्वप्रदीपे तथा।

२२. पृ.११ ‘यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति।

यत्प्रयन्त्यभसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति’ इति समग्रं पठ्यते प्र.

रा.वे. पाठेषु। हृ. पाठे ‘भूतानि जायन्ते’ इति पर्यन्तमेव पाठः। परन्तु सर्वोऽप्यंशः टीकायां व्याख्यातः। उपात्तश्च तत्त्वप्रदीपे। तथा तत्त्वप्रदीपे ‘यो नः पिता’ इति ऋच इव अपरस्यापि ऋग्द्वयस्य व्याख्यानं दृश्यते।

तदपि भाष्यान्तर्गतं वा संदिह्यते। अथ वा भाष्यार्थोपपादनाय व्याख्यातं भवेत्। नैतावता तत्त्वप्रदीपतत्त्वप्रकाशिकयोर्विरोधः।

२३. पृ. ११ ‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं सांपराये’ इति प्र. रा. वे. पाठाः। ‘बृहन्तम्’ इत्यन्तमेव पठ्यते हृ. पाठे। परन्तु टीकायां

[[146]]

तत्त्वप्रदीपिकायां च व्याख्यातः स भागः।

२४.पृ.११ ‘इत्यादिश्रुतिभ्यः’ इति प्र. रा. पाठौ। ‘इत्यादिश्रुतिः’ इति हृ. पाठे । तत्त्वप्रदीपानुगुणः हृ. पाठः। ‘शास्त्रयोनित्वे प्रमाणमाह-नेत्यादि’ इत्यवतारितत्वात्। नात्र विनिगमकम्।

२५. पृ.१२ ‘महाकौर्मे’ इति प्र. पाठः। ‘कौर्मे’ इति हृ. पाठे समीचीनम्। रा. पाठः कीदृशः इति न ज्ञायते। पञ्चमुखिपुस्तकमुद्रणरूपत्वा त्तस्य पुस्तकस्य। पञ्चमुखिपुस्तकं हृ. पाठ-प्र. पाठाभ्यां संकीर्णम्।

२६. पृ.१२ ‘शक्यत्वाच्चानुमानानाम्’ इति रा. पाठः न साधुरिव भाति। ‘अनुमानाम्’ इति प्र.हृ. पाठौ।

२७. पृ.१३ ‘विकल्प्योऽपोह्य इत्यहम्’ इति प्र. रा. वे. पाठाः।

‘विकल्प्यापोह्य इत्यहम्’ इति हृ. पाठः। सः तत्त्वप्रदीपादृतः। टीकायां तु किमिति स्पष्टतया न ज्ञायते। ‘विकल्प्यापोह्यः’ इति पाठस्तु टीकाया अविरुद्ध एव। तत्त्वप्रदीपानुसारित्वात् टीकायाः। नात्र किमपि विनिगमकम्।

२८. पृ.१४ ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ इति पूर्णं पठ्यते प्र. रा.वे. पाठेषु। हृ. पाठे ‘निवर्तन्ते’ इतिपर्यन्तमेव। तथैव तत्त्वप्रदीपे। टीकायामपि न व्याख्यातः उत्तरभागः।

२९. पृ.१४ ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ इति समग्रं पठ्यते प्र. रा.वे. पाठेषु। हृ.पाठे तु ‘अस्पर्शम्’ इति पर्यन्तमेव।

तत्त्वप्रदीपे तु नोपात्ता, न व्याख्याता च इयं श्रुतिः। टीकायां तु ‘अशब्दमित्यादेः’ इति प्रतीकं गृह्यते। आदिपदेन कियत्पर्यन्तं ग्राह्यमिति न निश्चीयते।

३०. पृ.१४ ‘येन वागभ्युद्यते’ इति प्र. रा. वे. पाठेषु वर्तते । हृ. पाठे नास्ति। एतत्पूर्वतनभागोऽपि टीकायां न व्याख्यातः, नापि तत्त्वप्रदीपे।

३१. पृ.१४ ‘येन श्रोत्रमिदं श्रुतम्’ इति प्र.रा.वे.पाठेषु दृश्यते। हृ.

[[147]]

पाठे नास्ति। टीकायामेतत्पूर्वतनभागस्तु उपात्तः। नायमुपात्तः। तत्त्वप्रदीपे सर्वोऽपि भागः नोपात्तः।

३२. पृ.१४ ‘इत्यादेर्न’ इति प्र पाठः। ‘इत्यादिभिर्न’ इति हृ. रा.

पाठौ। परन्तु भावदीपे ‘इत्यादिभिर्न तच्छब्दगोचरमिति भाष्यं व्यनक्ति यत इति।’ इति व्याख्यानात् तथा ‘भाष्ये बहुवचनोक्तावपि प्रत्येकं साधकत्वद्योतनाय श्रुतेरित्येकवचनोक्तिः’ इति वचनाच्च इत्यादिभिर्न इति पाठः सर्वसंमत इति भाति।

३३. पृ.१४ ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ इति पूर्णं पठ्यते प्र.रा.वे.पाठेषु। हृ.पाठे ‘तपांसि सर्वाणि’ इत्यादि उत्तरार्धं नास्ति। परन्तु टीकायां तत्त्वप्रदीपे च व्याख्यातस्स भागः।

३४.पृ.१५ ‘वेदान्तकृद्वेदविदेव चाहम्’ इति पठ्यते प्र. रा.वे. पाठेषु।

न तु हृ. पाठे । टीकायां तु एतत्पूर्वभागस्य सूचनया उपात्तत्वेऽपि अयं भागः नोपात्तः। प्रकृतानुपयुक्तश्च। वाच्यत्वस्यैव प्रसक्तेः।

३५. पृ.१५ ‘इत्यादिश्रुतिस्मृतिभिश्च’ इति प्र. रा. पाठयोः । हृ. पाठे ‘इत्यादिभ्यश्च’ इत्येव पठ्यते। नात्र विनिगमकम्।

३६. पृ.१५ ‘पश्यन्तोऽपि न पश्यन्ति’ इति प्र. रा.वे. पाठाः। हृ. पाठे ‘पश्यन्ति’ स्थाने ‘जानन्ति’ इति। हृ. पाठः ग्राह्यः। अर्थस्वारस्यं विना न विनिगमकम्। पश्यन्तोऽपि न जानन्ति इत्यस्य चक्षुः व्यापारयन्तोऽपि न ज्ञानाश्रया भवन्ति इत्यर्थः।अथवा न निर्णयः।

३७.पृ.१५ ‘सोऽनात्मेति सतां मतम्’ इति प्र. रा.वे. पाठाः। ‘मतम्’ इति स्थाने ‘मतः’ इति पठ्यते हृ. पाठे। नात्र विनिगमकम्।

३८. पृ.१६ सन्दोहे गहने प्रविष्टः’ इति प्र. रा. वे. पाठाः। ‘सन्दोघे’ इति हृ. पाठे। तत्त्वप्रदीपातपाठभिन्नः सः, सन्दोहपदस्य तत्र व्याख्यानात्1।

1 तथा प्रविष्टो गहने देहमध्ये संदोहनामनि’ इति बृहद्भाष्यानुसारेण संदोहे’ इत्येव समीचीनमिति रुचिराचार्योक्तिः। परन्तु गो मुद्रिते बृ. उ. भा. पुस्तके संदेहनामनि’ इति

[[148]]

परन्तु ‘संदोघः कार्यकारणसंघातः’ इत्यपि तत्त्वप्रदीपिकायां दृश्यते। गुर्वर्थ- दीपिकायां ‘सन्दोघे’ इति वर्तते। परन्तु गोविन्दाचार्यप्रकाशित बृहदारण्यक- पुस्तके ‘सन्दोहे’ इति वर्तते। विचार्यमेतत्। अत्र भाष्यस्य मूलपाठः कः इति न ज्ञातुं शक्यते। यद्यपि आचार्यैः शाखान्तरीयवचनसङ्ग्रहाय बहुत्र शाखान्तरवचनमिश्रितानि प्रसिद्धशाखीयवचनानि उदाहृतानि। तथापि प्रबलेऽत्र आचार्यसाक्षाच्छिष्यव्याख्याने जाग्रति कथं ‘संदोघे’ इति पाठानुसरणम्?। न हि पण्डिताचार्यैरत्र तादृशं लिङ्गं दर्शितम्, येन शाखान्तरस्थमिदं वचनमिति चिन्तयामः। अनेकत्र च पण्डिताचार्यैः तादृशं लिङ्गं दर्शितम्। नात्र तथा। तत्कथम् ?।

३९. पृ.१६ ‘सोपचारोऽभिधीयते’ इति प्र. रा. पाठौ। ‘सोपचारः प्रयुज्यते’ हृ. पाठः समीचीनो भाति। वेदगर्भीये न स्पष्टम्। ‘सोपचारः प्रयुज्यते’ इति कोशेष्वपि दृश्यते इति रुचिराचार्योक्तिः।

४०.पृ.१६ ‘वाचो विमुञ्चथ’ इति प्र. रा. वे. पाठाः। ‘वाचो मुञ्चथ’ इति हृ. पाठः। टीकायां तत्त्वप्रदीपे च न स्पष्टम्। प्राचीनः पाठः क इत्यन्वेषणीयम्। सन्यायरत्नावल्यां सुधायां च ‘विमुञ्चथ’ इत्येव।

शांकरभाष्ये भामत्यां च ‘विमुञ्चथ’ इत्येव पठ्यते। यथा शां. भाष्ये द्यभ्वादिसूत्रे ‘यच्चेतत् अन्या वाचो मुञ्चथेति वाग्विमोचनम्’ इति, भामती च ‘यश्च वाचो विमुञ्चथ इति वाग्विमोकः’ इति च1। तथैव रङ्गरामानुजीये उपनिषद्भाष्ये तत्कृतविषयवाक्यदीपिकायां च पाठो लभ्यते। श्रीकण्ठादि- भाष्येषु कथमिति द्रष्टव्यम्।

४१.पृ.१७ ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते इति प्र.रा.वे. पाठेषु।

हृ. पाठे तु नास्ति। तत्त्वप्रदीपादृतपाठापेक्षया टीकादृतपाठापेक्षया च भिन्नः सः। तत्रैतस्य व्याख्यातत्वात्2।

पठ्यते (बृ. उ.भा.६-४-४३, पृ.३४५)। तत्र प्र पाठः ‘संदोह (घ) नामनि’ इति।

कंसे घवर्णो निवेशितः।

  1. ‘द्युभ्वाद्यायतनं स्वशब्दात्’ (१-३-९) इति सूत्रे पृ. २७३ निर्णयसागरपुस्तके।

  2. द्र० पूर्वमेवास्य विषये लिखितम् ।

[[149]]

४२.पृ.१७ ‘विलापयति’ इति प्र. रा.वे. पाठाः। ‘विलाययति’ इति हृ. पाठः। टीकायां तत्त्वप्रदीपे च न स्पष्टम्। ‘इदं शरीरं भूतेषु विलापयति केशवः’ इति बृ. उ. भाष्ये (पृ.३४०)। तथैव तदभिध्यानादेव तु तल्लिङ्गात्सः’ इति सूत्रे (२-३-७-१३) स ब्रह्मणा विसृजति स रुद्रेण विलापयति’ इति प्र. पाठः। हृ.पाठे तु तत्रापि ‘विलाययति’ इति पाठः।

परन्तु ‘नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः’ (२-३-९-१७) इति सूत्रे ‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्व विसृजति विलापयति प्रस्थापयति..’ इत्यादिः प्र पाठः। तत्र ‘विलाप्य’ इति हृ.

पाठेऽपि पठ्यते। परन्तु ‘विलापयति’ इति तु न पठ्यते, तत्पदमेव नास्ति।

तस्मात् विलापर्यात इति पाठः अनुगतो दृश्यते।

४३.पृ.१७ ‘इति स्वस्यैव’ इति प्र.रा.वे.पाठाः। ‘इत्यादि स्वस्येव’ हपाठः स्वीकार्यः। अर्थभेदस्तु नास्त्येव।

४४. पृ.१७ न हि गौणात्मनि निर्दोषस्य लयः’ इति प्र. रा. पाठौ। ‘न हि निर्दोषस्य गौणात्मनि लयः’ इति हृ. पाठः तत्त्वप्रदीपसम्मतः। टीकायां न स्पष्टम्।

४५. पृ.१८ ‘प्रायेणान्यत्र प्रसिद्धानाम्’ इति प्र. रा. पाठयोः। ‘प्रायेण’ इति नास्ति हृ. पाठे। तत्त्वप्रदीपेऽपि नास्ति। टीकायाः तत्त्वप्रदीपानुसारित्वात् ज. पाठेऽपि नास्तीत्यूह्यते। टीकायां पूर्वमेव एकवारं ‘प्रायेण इत्यस्य कृत्यं दर्शयित्वा ‘पुनः एतत्पादप्रतिपाद्यं दर्शयति- प्रायेण इति’ इति अवतरणिका- दानेनापि नात्र प्रायेण इत्यस्य द्विवारं प्रयोगः टीकासंमतो भासते। एकस्यैव आवृत्त्या व्याख्यानसंभवात्।

४६. पृ.१८ ‘तच्च ब्रह्म’ इति प्र. रा. पाठयोः। ‘तच्च’ इति हृ. पाठे।

तथैव वेदगर्भीयेऽपि।

४७. पृ.१८ ‘अवयवमात्रस्य ज्ञेयता’ इति प्र. रा.वे. पाठाः। ‘ज्ञेयता’ स्थाने ‘जिज्ञास्यता’ इति वाक्यार्थमुक्तावल्यां पठ्यते। टीकायां किमिति न स्पष्टम् । तत्त्वप्रदीपे ‘ज्ञेयता’ इत्येवादृतमिव प्रतीयते।

[[150]]

४८. पृ.१८ ‘इत्यत आह- आनन्दमयोऽभ्यासात्’ इति प्र. रा. वे.

पाठेषु। परन्तु गुर्वर्थदीपिकायां ‘स्वमूलभाष्यसंपुष्टिकायां पृथक्सूत्रपाठाभावात् संगत्यर्थमुदाहृतेत्युक्तम्1। यत्र तु पृथक्सूत्रपाठोऽप्यस्ति तत्र तूदाहृतप्रतिज्ञा- भागमित्येव वाक्यं द्रष्टव्यम्’ इति लिखितम्। परन्तु तत्त्वप्रदीपे पृथक् सूत्रपाठोऽपि वर्तते। तदनुसारेण टीकायामपि स्यादेव। तथा हृ. पाठेऽपि।

४९. पृ .१८ एवमन्येषामपि’ इति प्र. रा. पाठौ। हृ. पाठे ‘एवमन्येषाम्’ इत्येव पठ्यते। तथैव वे पाठः। तत्त्वप्रदीपे तु अतः एव अन्यदेवतानां च इत्युक्तम्। एवमिन्द्रबृहस्पत्यादीनामपि इति टीकायाम्।

५०.पृ.१८ बृह जातिजीवकमलासनशब्दराशिषु’ इति प्र. रा.वे.

पाठाः। हृ. पाठे ‘बृह’ इति नास्ति। तत्त्वप्रदीपादृतपाठापेक्षया टीकादृत- पाठापेक्षया च भिन्नः सः। तत्र तस्योपादानात्।

५१. पृ.१९ न विकारित्वमविरोधश्च’ इति प्र. रा. वे पाठेषु। ‘न विकारत्वर्मावरोधश्च’ हृ. पाठः तत्त्वप्रदीपसम्मतः। ‘नान्नमयादीनां विकारत्वम्’ इति तदुक्तेः। तदनुसारेण टीकायामपि तथैव पाठस्संभाव्यते।

न विकारित्वमर्थोऽपि तु प्राचुर्यमेवेति निश्चीयते इति टीकायां विकारित्वशब्दप्रयोगेन तथैव पाठस्संदिह्येतापि। तथैव जगतस्त्वविकारत्व उक्तन्यायेन साधिते’ इत्यादिसुधायामपि अविकारत्वपदमेव पठितम्।

५२.पृ.२० मन्त्रवर्णलक्षितं परमेव ब्रह्म’ प्र. रा. पाठी। ‘मन्त्रवर्ण- लक्षितमेव ब्रह्म’ इति ह पाठः टीकादृतपाठापेक्षया भिन्नः। तत्र स्पष्टं परशब्दोपादानात्। तत्त्वप्रदीपपाठस्तु न स्पष्टः।

५३. पृ. २० ‘सन्दोहो वासुदेवकः। नारायणोऽथ सन्दोहः इत्युभयत्र सन्दोहशब्दः पठ्यते प्र.रा.वे. पाठेषु। हृ. पाठे ‘सन्देहः’ इत्युभयत्रापि।

भावदीपे ‘सन्दोहः’ इत्येवोपात्तः। टीकायां किमपि न निश्चीयते।

  1. कस्तर्हि इत्याशक्य संगत्यर्थमुदाहृतसूत्रप्रतिज्ञाभागं व्याचष्टे- तदेवेति। इति टीकाया व्याख्यानमेतत् ।

[[151]]

५४. पृ. २० इति सूचयित्वा’ इति प्र. रा. वे. पाठाः। ते टीकानुगुणाः, सूचना संक्षिप्योक्तिः’ इति व्याख्याकृतः। हृ. पाठे ‘इति सूत्रयित्वा’ इति।

५५. पृ. २१ अथ सोऽभयं गतो भवति’ इति प्र. रा. वे. पाठाः। हृ.

पाठे तु तन्नास्ति। तत्त्वप्रदीपादृतपाठापेक्षया टीकादृतपाठापेक्षया च भिन्नः सः। तत्र तस्य व्याख्यातत्वात्।

५६. पृ. २१ ‘इत्यादिश्रुतिविरोधः’ इति प्र. रा. पाठौ। हृ. पाठे तु ‘इत्यादिविरोधः’ इति। वेदगर्भायेऽपि तथैव दृश्यते।

५७. पृ. २१ ‘यतो जगत्स्थाननिरोधसंभवः’ इति पठ्यते प्र.रा.वे.

पाठेषु। हृ. पाठे नास्ति। तत्त्वप्रदीपटीकादृतपाठापेक्षया भिन्नः सः। तत्र तस्य व्याख्यानात्।

५८. पृ.२१ ‘निस्सङ्गेनापि कर्मणा’ इति पठ्यते प्र. रा. वे पाठेषु। हृ.

पाठे तु न । तत्त्वप्रदीपे संपूर्णतया उपात्तोऽपि अयं भागः न व्याख्यातः।

नापि टीकायां व्याख्यातः। हृ. पाठ एव श्रेयान्।

५९. पृ.२१ ‘जुष्टं यदा पश्यत्यन्यमीशम्’ इत्यादि पठ्यते प्र.रा.वे.

पाठेषु। ‘अन्यमीशम्’ इत्यादिरेव हृ. पाठे पठ्यते। सः तत्त्वप्रदीप- टीकादृतपाठापेक्षया भिन्नः। तत्र तस्य व्याख्यानात्।

६०. पृ.२२ ‘सर्वान्तर्यामिक : ‘ इति प्र. रा.वे. पाठाः। ‘सर्वान्तर्यामकः’ इति हृ. पाठः।

६१. पृ.२२ ‘प्रमादात्मकत्वाद्बन्धस्य’ इति प्र. रा.वे. पाठाः।

‘प्रमादात्मकत्वाच्च बन्धस्य’ इति हृ. पाठः तत्त्वप्रदीपादृतपाठापेक्षया भिन्नः।

६२. पृ. २३ ‘सोऽश्नुते सर्वान्कामान्’ इति प्र. रा. वे पाठाः । हृ. पाठे तु नास्ति। तत् टीकाविरुद्धम्।

[[152]]

६३.पृ.२३ ‘अन्तस्समुद्रे’ इति प्र. रा. वे. पाठाः । हृ. पाठे अन्तः’ इति नास्ति। तत्त्वप्रदीपे तदुपादानात्, टीकायां व्याख्यानाच्च तत्त्वप्रदीप- टीकादृतपाठापेक्षया भिन्नः सः ।

६४. पृ.२४ ‘ब्रह्मान्वविन्दद्दश होतारमर्णे इति प्र. रा. वे. पाठेषु । हृ.

पाठे नास्ति। तत् विरुद्धम्। टीकायां व्याख्यानात्, तत्त्वप्रदीप उपादानाच्च।

६५. पृ. २४ विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’ इति प्र. रा. वे.

पाठेषु । हृ. पाठे नास्ति । तत्त्वप्रदीप टीकापाठापेक्षया भिन्नः सः। तत्र एतस्य व्याख्यानात्।

६६. पृ. २४ इति चतुर्वेदशिखायाम्’ इति प्र. रा. पाठौ। ‘इति च चतुर्वेदशिखायाम्’ इति हृ. पाठ ग्राह्यः।

६७. पृ. २४. तथा भेदव्यपदेशाच्चान्य’ इति सूत्रे भाष्ये देवानां हृदयं ब्र ह्मान्वविन्ददित्यादिभेदव्यपदेशात्’ इतीदानीं पठ्यते। परन्तु भाष्यस्वारस्यात् ‘देवानां हृदयं ब्रह्मान्वविन्दन् इत्यादि इत्येव पाठेन भाव्यम् इति भाति।

‘भेदव्यपदेशात्’ इत्यंशो व्यर्थः। ‘इत्यादि’ इति भाष्यस्य ‘भेदव्यपदेशात्’ इति सौत्रपदेनान्वयसंभवात्। तथैव बहुत्र भाष्याच्च।

६८. पृ.२४ इत्याकाशस्यानन्दमयत्वे’ इति प्र. रा. वे. पाठाः।

‘इत्याकाशस्यानन्दत्वे’ इति हृ. पाठे। न किमपि निश्चीयते।

६९. पृ. २५ ‘परो मात्रया तन्वा वृधान’ इत्येवान्मात्रमेव पठ्यते प्र.

रा. वे पाठेषु। ‘न ते महित्वमन्वश्नुवन्ति’ इति सर्वोऽपि भागः पठ्यते हृ.

पाठे। नात्र विनिगमकम्।

७०. पृ.२५ तस्यैव हि तल्लिङ्गम्’ इति प्र. रा. पाठौ ‘तस्य हि तल्लिङ्गम्’ इति हृ. पाठे।

७१. पृ.२५ इति ब्राह्म’ इति प्र. रा. पाठौ। ‘इति च ब्राह्मे’ इति हृ.

पाठे।

[[153]]

७२.पृ.२७ गायति त्रायति च’ इति प्र. रा. पाठौ। ‘गार्यात च त्रायति च’ इति हृ. पाठे। ‘त्रायते चेति पाठान्तरम्’ इति वेदगर्भीयम्। तत्त्व- प्रदीपानुगुणः हृ. पाठो दृश्यते। टीकायां न स्पष्टम्। अडयार् मातृकास्थवे.

पाठोऽपि तत्त्वप्रदीपानुगुणः।

७३.पृ.२७ ‘देवाभिधो ह्यसौ। सर्वलोकाभिधो ह्येषः’ इति प्र. रा.वे.

पाठाः। उभयत्र हिशब्दस्थाने अपिशब्दः हृ. पाठे समीचीनो भाति।

७४. पृ. २७ ‘पाद इति’ इति प्र. रा. पाठौ। ‘पाद इति च’ इति च शब्दोऽधिकः हृ. पाठे । नात्र विनिगमकम्।

७५. पृ. २७ ‘इतिवद्भिन्नं च’ प्र. पाठः। ‘इतिवद्भिन्नं च शब्दात्’ इति रा. पाठः प्रामादिक इव भाति।

७६.पृ.२८ ‘विष्णुत्वं न विद्यते’ इति हृ. रा. पाठो। ‘विष्णुत्वं न युज्यते’ इति वे पाठः। भावदीपेऽपि तथा। वे. पाठः अर्थानुगुणः शब्दानुगुणश्च।

७७. पृ. २९ ‘सर्वशास्तृत्वहेतुतः’ इति प्र. रा. वे. पाठाः।

‘सर्वशास्तृत्वतो हरिः’ इति हृ. पाठः। ‘शास्तृत्वतः ‘ इति भावदीपे प्रतीकं गृह्यते। तदनुसारेण सर्वशास्तृत्वतो हरिः’ इत्येव युक्तः इति भाति।

७८. पृ. २९ ‘इति पाद्मे’ प्र. रा. पाठौ। ‘इति च पाद्मे’ इति हृ. पाठः।

७९.पृ.३० ‘इति ब्रह्माण्डे’ प्र. रा. पाठौ। ‘इति च ब्रह्माण्डे’ इति हृ.

पाठः।

तदेवं प्रत्येकशः विचारितेषु पाठभेदेषु एतन्निश्चीयते हृषीकेशतीर्थीय एव वा रामचन्द्रतीर्थीय एव वा न सर्वात्मना मूलपाठ इति। हृ. पाठः अनेकत्र टीकादृतपाठापेक्षया भिन्नः। सप्तदशवारं तत्त्वप्रदीपादृतपाठापेक्षया भिन्नश्च।

अत्र निर्दिष्टसंख्यानुसारेण ५,१०,१८, १९, २२, २३, ३३,३८,

[[154]]

४१,५०, ५५,५७,५९,६१, ६३,६४, ६५ इत्येतत्संख्याकाः पाठाः तत्त्वप्रदीपादृतपाठापेक्षया भिन्नाः हृ. पाठे दृश्यन्ते। यद्यपि हृ.पाठः अनेकत्र तत्त्वप्रदीपानुगुण एव। तथापि अनुगुणपाठवत् भिन्नपाठोऽपि बहुत्र दृश्यते।

एवं स्थिते कथं तत्त्वप्रदीप-टीकादृतपाठापेक्षया भिन्नपाठस्य मूलपाठता ? एवमपि यदि हृ. पाठस्य मूलपाठता, तर्हि मूलपाठद्वयं भवेत्। त्रिविक्रम- पण्डिताचार्यैः आचार्याज्ञया टीकाकरणात्, अवश्यं भगवत्पादसम्मततया वाच्यत्वात्। सर्वत्र च तत्त्वप्रकाशिका तत्त्वप्रदीपमनुसरति। क्कचञ्च ‘इति संप्रदायविदः’ इति त्रिविक्रमार्यानुल्लिखति च। नातः टीकायामस्ति दोष- संभावनालेशोऽपि। तथा हृषीकेशतीर्थानामपि आचार्यशिष्यत्वात् तत्पाठः आचार्यसंमतः अवश्यं भवेत्। क्कचिच्च विरोधः प्रामादिको भवेत्। तस्मात् मूलपाठद्वयमङ्गीकरणीयं विद्वद्भिः। यथा च अनेकत्र गोविन्दाचार्यैः स्वकीयपादटिप्पणीषु दर्शितम्।

एवमेव अक्षोभ्यतीर्थीयत्वेन प्रचारम् इदानीमेव प्राप्तः वस्तुतः रामचन्द्रतीर्थीयः पाठस्तु प्रचलित पाठस्यैव शाखाविशेषः। अनेकत्र टीकाननुगुणत्वात्। अनेकत्र प्रामादिकत्वाच्च। पूर्वोक्तरीत्या नापि तस्य पाठस्य अक्षोभ्यतीर्थलिखितत्वे प्रमाणम्।

उपसंहारः तदेवं ज. पाठ-हपाठयोरविरोधसंपादनसंभवात् मूलपाठद्वयं प्राचीन- कालादारभ्य आसीत् इत्यवश्यमङ्गीकर्तव्यम्। तदेवं संकीर्णबुद्धीनाम् अस्माकमाचार्य एवं शरणमित्युपरम्यते। नैतत् परावधीरणया लिखितम्, किन्तु श्रद्धाजाड्यात्। तथोक्तं टीकाकृद्भिः- ‘न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया न मात्सर्यावेशान्न च चपलतादोषवशतः।

परं श्रद्धाजाड्यादकृषि कृतिराचार्यवचसि

[[155]]

स्खलन्नप्येतस्माज्जगति न हि निन्द्योऽस्मि विदुषाम्॥’ इति।

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते तस्मात्।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे।

श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥

१. परिशिष्टम् प्र.हृ. पाठयोः सूत्रपाठभेदाः १. ‘क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्’ (१-३-९-३५) इति प्र.पाठः। ‘क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्’ इति हृ.पाठः। परन्तु हृ.

पाठेऽपि ‘क्षत्रियत्वावगतेश्च’ इति भाष्यस्य सूत्राननुसारित्वप्रसङ्गः।

सूत्रानुसारिणा हि भाष्येण भाव्यम्।

२. ‘एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः’ (२-१-४-१३) इति प्र पाठः। एतेन शिष्टाऽ परिग्रहा अपि व्याख्याताः’ इति हृ. पाठः।

३. ‘युक्तेश्च’ इति सूत्रं ज. पाठे ‘ज्ञोऽत एव’ इत्यधिकरणे वर्तते (२- ३-१०-१८)। परन्तु हृ. पाठे नास्ति, तद्वाक्यं भाष्यत्वेन पठ्यते (द्र० गो.टि. पृ.९७)।

४. ‘स्मरणाच्च’ इति सूत्रं ज. पाठे (३-१-१३-२३) । हृ. पाठे नास्ति। भाष्यत्वेन पठ्यते।

५. तथा ‘दर्शनात्’ इति ज. पाठः (३-२-१७-३३), ‘दर्शनात्तु’ इति हृ. पाठः।

६. ‘अन्यथात्वं च शब्दादिति चेन्नाविशेषात्’ (३-३-२-७) इति यद्यपि सूत्रस्य मुद्रितः प्र पाठः। चशब्दो नास्ति हृ. पाठे। तथापि कुत्रापि तस्य व्याख्यानाभावात् नात्र गोविन्दाचार्यदर्शिर्तादशा पाठभेदावसरः।

[[156]]

७. ‘प्रदानवदेव हि तदुक्तम्’ (३-३-२६-४४) इति प्र पाठः। हिशब्दो नास्ति हृ. पाठे।

८. ‘शब्दश्चातोऽकामचारे’ (३-४-४-३१) इति मुद्रितः प्र पाठः।

‘शब्दश्चातोऽकामकारे’ इति हृ. पाठः।

९. ‘आप्रायणात्’ इति ज. पाठः (४-१-७-१२), ‘आप्रयाणात्’ इति हृ. पाठः।

१०. ‘समना चासृत्युक्रमादमृतत्वं चानुपोष्य’ (४-२-६-७) इति प्र.

पाठः। हृ. पाठे तु ‘समना’ इति पदं ‘समानाम्’ इति पठ्यते। मुद्रणदोषो भवेत्। न कापि टिप्पणी दृश्यते।

११. ‘तदपीतेः संसारव्यपदेशात्’ (४-२-६-८) इति ज. पाठः।

तदापीतेः संसारव्यपदेशात्’ इति हृ. पाठः।

१२. ‘अतश्चायनेऽपि हि दक्षिणे’ (४-२-९-२१) इति प्र पाठः। हि शब्दो नास्ति हृ. पाठे।

२. परिशिष्टम् जयतीर्थग्रन्थेषु उल्लिखिताः पाठभेदाः स्वग्रन्थेषु जयतीर्थेरुल्लिखिताः पाठभेदाः प्रायः हृ. पाठे उपलभ्यन्ते।

तत्र हृ. पाठस्य पृष्ठसंख्या निर्दिष्टा। आहत्य पञ्चदशपाठभेदेषु नव तत्र लभ्यन्ते।

ते अनुव्याख्यानन्यायसुधायां षड् यथा १. ‘एतमेव तथा सन्तं शतर्चीत्यादिनामभिः। आचक्षत इति ह्यत्र सन्तमित्यवधारणा॥’ सुधा ‘अवधारणेति क्कचित्पाठः’ (सु. १९१८) (‘अवधारणात्’ इति हृ. पाठः, पृ.५३)।

२. ‘ऐक्यप्रतीत्यभावेन भेद एवं गवाश्वयोः। स एवेति प्रतीतो हि विशेषो

[[157]]

नाम भण्यते॥’ सुधा ‘गवश्वयोरिति प्रमादपाठः। मूलकोशेष्वदर्शनात्।’ (सु. ४६९०) (‘गवश्वयोः’ इति हृ. पाठः, पृ.१४१) ३. ‘कर्मक्षयस्तथोत्क्रान्तिमार्गो भोगश्चतुष्टयम्। फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः॥’ सुधा ‘क्कचित्पाठः प्रोक्तमित्युदितमिति च। तत्र यथास्थान एव इतिशब्दः। आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं। द्वितीये तु विपर्ययेण।’ (सु. ५४३९) (अत्र परं हृ. पाठेऽपि एवमेव पठ्यते (२००) क्काचित्कः पाठः हृ. पाठे नास्ति।) ४. शिरः कराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम्।

यथेतिपूर्वा अनुमाश्च जोवस्वरूपमङ्गादिकमावयन्ति॥’ सुधा आवयन्तीति करणे कर्तृत्वोपचारः। आपयन्तीति क्कचित्पाठः’ (सु.५६०५)। (‘अङ्गादियुगापयन्ति’ इति हृ. पाठः, पृ. २०४) ५. ‘व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम्।

विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरोधहेतवः॥’ सुधा ‘विपक्ष

-सम्प्राप्तिविरुद्धहेतव इति क्कचित्पाठः। तत्र सम्प्राप्तिशब्दः करणसाधनः’ (सु.५६१९)। (‘संप्राप्तिविरुद्धहेतवः’ इति हृ.पाठः, पृ. २०५)।

६.केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया।

सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम्॥

उभाभ्यां साधनं चैव दूषणं वादजल्पयोः।

सद्भिरागम एवैकः प्रयोज्योऽभीष्टसाधकः॥’ ‘ सुधा ‘क्कचित्सतामेवेत्यादिसाधंश्लोको वादजल्पयोरित्यतः परं पठितः।

तत एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः।’ (अत्र एवं क्काचित्कः पाठः हृ. पाठे नास्ति। स च क्काचित्कपाठः टीकोल्लिखितप्रकारेण सन्न्यायरत्नावल्यां लभ्यते।)

[[158]]

गीताभाष्यप्रमेयदीपिकायां पञ्च यथा- १. ‘कामः स्वल्पः कादाचित्कोऽपि इति मूलपाठः’ (६.२४, पृ.२९६1)। (हृ. पाठेऽपि मूलपाठवदेव वर्तते पृ.६९)।

२. ‘क्कचित्पाठो मद्भावं मद्वद्भावम् इति’ (८.५, पृ. ३५०)। (मद्भावं मद्वद्भावम्’ इति हृ.पाठः, पृ.८२)।

३. ‘अत्रात्मकमिति पाठः’ 2(८.५, पृ. ३५०)। (हृ. पाठेऽपि ‘आत्मकम्’ इत्येव वर्तते, पृ.८२)।

४. ‘भाष्ये पुराणे च अनुष्ठायेत्याकारस्थाने क्कचिदीकारो लेखकदोषेण पतितः, मूलकोशेष्वदर्शनात्’ (८.२८, पृ. ३६८)। (ईकारघटितः पाठः हृ. पाठे, पृ.८७-८८)।

५. ‘कर्म हेतु इति क्कचित्पाठः’ (१८.१६3, पृ.५६७)। (‘कर्म हेतु’ इति पाठः हृ. पाठे पृ.१५३)।

तत्त्वनिर्णयटीकायाम् एकत्र यथा- तत्त्वनिर्णयटीका ‘इतः परं प्रत्यक्षानुमानसिद्धत्वे च इत्यतः पूर्वं वाक्यद्वयं.

मूलकोशेष्वदर्शनात्प्रक्षिप्तमत्याहुः। तथापि गङ्गाजलानुप्रविष्टक्षुद्रनदीजलस् येव तस्याप्युपादेयत्वात् तद्व्याख्यानं क्रियते।’ (प्र.परिच्छेदे, पृ.३२३4)।

(अत्र तु मूलकोशेष्वदर्शनात् ‘विमतं सकर्तृकं कार्यत्वात्’ इत्यादिवाक्यद्वयं प्रक्षिप्तमति निश्चये सत्यपि व्याख्यानं जयतीर्थानामभिमतम्। एतेनैव हेतुना पद्मनाभतीर्थविचितटीकायां तद्व्याख्यानं वर्तते। वाक्यद्वयस्यापि व्याख्यानं 1. रुचिराचार्यमुद्रितपुस्तकस्य पृष्ठसंख्या।

  1. ‘आत्मकम्’ इति मूलपाठः इति वा क्कचित्पाठः इति वा कोऽस्यार्थः कः इति न ज्ञायते।

परन्तु रुचिराचार्यमुद्रितायां प्रमेयदीपिकायां आत्मिकाम् इति पाठो दृश्यते।

  1. गोपुस्तकरीत्या 18.15.

  2. एतत्तु मध्वराद्धान्तसंवर्धकसभाप्रकाशितपुस्तकस्य पृष्ठसंख्या। गो पुस्तकस्य तु भाग. ५.पृ.६।

[[159]]

नारायणपण्डिताचार्यकृतायां टीकायां नास्ति। नारायणपण्डिताचार्याभि- प्रायमेव1 जयतीर्था अनुवदन्तीति ऊह्यते। अथ वा स्वगुरूणामक्षोभ्यतीर्थानाम्, अन्यथा सुधायामिव तन्मतं केचित् इत्येवानूदितं स्यात्। परन्तु हृ.पाठे आदिमम् एकं वाक्यं लभ्यते। पाठकाले आचार्यैः अनुमानस्य नियत- प्रामाण्याभावसाधनसंदर्भ प्रसङ्गात् विमतं सकर्तृकं कार्यत्वात् इत्याद्यनुमानस्य दूषणमेवं कर्तुं शक्यते इत्युक्तमेव कैश्चिच्छिष्येः ग्रन्थस्थतया व्याख्यातम्, कैश्चिच्च ग्रन्थस्थतामनभ्युपगम्य प्रासङ्गिकतया तत्त्यक्तं भवेत् इति।

अत्रेदमवधेयम्- जयतीर्थैः पद्मनाभतीर्थपाठः संप्रदायश्च बहुत्रादृतोऽपि अनेकत्र अन्यः पन्थाः अनुसृतः। सुधायाम् अनेकवारं टीकाकृतां2 पद्मनाभ- तीर्थानां पक्षः प्रकारान्तरेण व्याख्यातः, यथा वादो जल्पो वितण्डा इति अनुव्याख्यानव्याख्यावसरे च टीकाकृतां क्काचित्कपाठावलम्बनं च निरूपितम्।

तथापि नास्ति प्राचीनटीका-नवीनटीकयोः विरोधः। प्रायः तदनुसारेण प्रवृत्तत्वात्। जयतीर्थैश्च उल्लिखितः मूलकोशश्च अन्य एव आसीत्, यः पद्मनाभतीर्थोपयुक्तादन्यः।

तत्त्वनिर्णयटीकायां च ‘मूलकोशेष्वदर्शनात् प्रक्षिप्तमित्याहुः’ इति मूल- कोशेष्वदर्शनं न पराभिप्रेतमनूद्यते, किन्तु मूलकोशेष्वदर्शनं स्वस्याप्यभि- मतमेव, किन्तु तत्र प्रक्षिप्ततया अव्याख्यातव्यत्वमेव पराभिप्रेतम् अनूद्यते।

अन्यत्र सुधायामपि मूलकोशोल्लेखात्।

प्रमाणलक्षणटीकायां द्वयं यथा- 1. इदमत्रावधेयम्। सुधायामपि स्थलद्वये जिज्ञासाधिकरणे समुदायाधिकरणे च केचित् इत्यनुवदन्ति जयतीर्थाः। ते च केचित् नारायणपण्डिताचार्याः एव पद्मनाभतीथांनां टीकाकारत्वेन जयतीर्थरुल्लेखात्। अन्यस्य च टीकाकर्तुरभावात्।

  1. अत्रेदमवधेयम्। जयतीर्थैः यत्र कुत्रापि स्वकीयानां व्याख्याग्रन्यानां केवलं टीका इति नाम न सूचितम्। केवलं व्याख्या इति, पञ्चिका इति, विवरणम् इति, विषमपदवाक्यार्थविवरणम् इति वा नामनिर्देशः कृतः।

[[160]]

१. ‘अशेषगुरुमीशेशम्’ (प्र.ल)। ‘सर्वज्ञं गुरुमिति पाठे सार्वज्ञ्यं गुरुत्वस्योपपादकम्’ (पृ.१1) २. ‘योगिज्ञानमृजूनामनादिनित्यम्’ (प्र.ल)। ‘योगिज्ञान इति पाठे ज्ञानमिति शेषः’ (पृ.२३) (हृ.पाठे एवम्)।

गीतातात्पर्यन्यायदीपिकायाम् एकं यथा- यथा ‘कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता।

विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता॥ इति पैङ्गिश्रुतेः कार्यते ह्यवशः इत्यत्र अवशो विष्णुवशः।’ (गी. ता. ३.५-८, गो.पु.पृ. ३९-४०) न्यायदीपिका-‘श्रुतिरिति कुत्रचित्पाठः।’2 ३. परिशिष्टम् ‘गवाश्वयोः’ इति प्रयोगविषये वैयाकरणानामाशयः प्रो.वि.वेंकटराजशर्मणामाशयः3 “गवाश्वयोः’ इत्यपि प्रयोगः पाणिन्यनुसारेण साधूकर्तुं शक्यते। तथा हि अधिकरणैतावत्त्वे च’ इति सूत्रेण समासघटकपदार्थद्रव्यसंख्यावगमे एकवद्भावो निषिध्यते। दश दन्तोष्ठाः इत्युदाहरणम्। एवमत्रापि द्वयोरिति प्रकरणबलादध्याहाराद्वा लभ्यते इति ‘गवाश्वयोः’ इति साध्वेव।

  1. एतत्तु मध्वराद्धान्तसंवर्धकसभाप्रकाशितपुस्तकस्य पृष्टसंख्या।

  2. ‘श्रुतिरिति क्कचित्पाठः’ इत्यतः पूर्वम् एतत् पठ्यते- ‘कायंत इत्यत्र स्वतन्त्र-कर्तुरन्यस्य अप्रतीतेः प्रकृतिगुणानामेव स्वतन्त्रकतुर्त् यमच्ु यत ेइत्यन्यथाप्रतीतिनिरासायाह-कतर्त्ृ वमिति॥

अत्र गुणानां विकारकर्तृत्वमेवोच्यते। न तु स्वतन्त्रकर्तृत्वम्। अवश इति विष्णोः स्वतन्त्रत्वोक्तेः। अवशपदेन स्वानधीनत्वं गृतीत्वा गुणानां स्वतन्त्रकर्तृत्वमेव कि न गृह्यत इति चेन्न। ‘कर्तृत्वम् इति श्रुतिविरोधादिति भावः ।’ 3. प्रो.वि.वेंकटराजशर्मा, तिरुवनन्तपुरस्थसंस्कृतमहाविद्यालयस्य पूर्वप्रधानाचार्याः। ततश्च एकोल् प्रांकायिस् डे एक्स्ट्रोम् ओरियण्ट् संस्थायां संमानितप्राध्यापकाः आसन्।

[[161]]

‘गवश्वयोः’ इति मूलपाठो न युक्तः। अवङादीनाम् (‘एङः पदान्तादति’, ‘सर्वत्र विभाषा गोः’, ‘अवङ् स्फोटायनस्य’ इत्येतेषाम् अवादेशबाधकत्वात्।

न हि पदान्तादेकाराद् ओकाराद्वा अकारे परे ‘एचोऽयवायावः’ इत्यनेन अवादेशः क्कापि दृश्यते।

गवयादिः अव्युत्पन्नं प्रातिपदिकम्। यथाकथंचित् तत्र तदङ्गीकारेऽपि प्रसिद्धे गवाश्वादिशब्दे तत्कल्पनस्य अन्याय्यत्वात् तन्न युक्तम्।

सारस्वतव्याकरणेन अवर्णागमाभावेऽपि अव् इत्यादेशो न भवति।

‘एङः पदान्तादति’ इति पूर्वरूपेण बाधात्। तथा च गोऽश्वयोः इत्येव स्यात्।

सारस्वतव्याकरणेन गवाश्वमिति रूपाभावे ‘गवाश्वप्रभृतीनि’ इति सूत्रकारनिर्देशोऽसंगतस्स्यात्। पाणिनेः अवङेव सारस्वतव्याकरणे अवर्णागमः1।

किं च सारस्वतव्याकरणे एवं सति गवैडकम्, गवाविकम् इत्यादिषु द्वन्द्वेषु किं भवति ? ।

शं. वा. चं. व्याख्योक्तरीत्या गवाश्वं च गवाश्वं च गवाश्वे। तयोः गवाश्वयोः इति रूपसंभवेऽपि तत्र अर्थसंगतिश्चिन्त्या।

यदि च विभाषात्वाद् अवङ् न भवति, तदा गोऽश्वयोः इति वा, गोअश्वयोः इति वा भवेत्, न तु गवाश्वयोः इति, यथा ‘अपशवो वा’ इति वेदे ‘गोअश्वाः’ इति2।

  1. अवर्णागमः इति न अवरूप आगमः, किन्तु अवर्णस्य आगम स्वैरम् इत्यादिषु एकारागमदर्शनात्।

  2. पूर्वरूपपक्षे गोऽश्वम्, गाऽश्वा इति। एतनु लघुशन्देन्दुशेखरे व भूतानि इति सूत्र दृश्यते।

(द्वितीयभागे पृ.१३५)।

[[162]]

प्रो. वि. श्रीवत्साङ्काचार्याणामाशयः1 यदा ‘गवाश्वम्’ इति रूपं विवक्षितम् तदानीमेव तस्य शब्दस्वरूपस्य तथैव ‘गवाश्वप्रभृतीनि च’ (२४-११) इति गणे पाठमभ्युपगम्य तस्य साधुत्वं सूत्रेणाभ्युपगतम्। यथा तु स्फोटायनस्य मतेन ‘गो अग्रम्’ इत्यत्र ‘गोअग्रम्’, ‘गवाग्रम्’ इति अवङादेशविकल्पविधानात् रूपद्वयम्, तद्वत् अत्रापि ‘गोः अचि परे अवङ् वा स्यात्’ इत्याश्रित्य गो अश्व इति द्वित्वविशिष्टयोः द्विवचनेनैव निरूप्यत्वेनाभीष्टयोः विवक्षा तदानी द्विवचनं निराबाधम्। पाक्षिकेऽवङि, सवर्णदीर्घे, द्वित्वे विवक्षिते द्विवचनस्य सामञ्जस्यात्। ‘अधिकरणैतावत्त्वं च ‘ इति सूत्रेण इयत्तानिर्धारणे एकवद्भावप्रतिषेधात्।

‘गवाश्वप्रभृतीनि च’ (२-४-११) इति गणे ये गवाश्वम् इत्यादयः शब्दाः पठिताः, ते गवां च अश्वानां च समाहारः इति वृत्तिमाश्रित्य प्रत्येक व्यक्तिबहुत्वे विवक्षिते एव, वृत्तिबलादेकवद्भावेन पठिताः इत्यवधेयम्। प्रकृते तु गोव्यक्तेः, अश्वव्यक्तेश्च एकस्या एव प्रत्येकं विवक्षणात्, समुदिते द्विवचनं निराबाधमेव। ‘अभिधानलक्षणाः कृतद्धितसमासान्ताः’ इति व्यवस्था- श्रयणात्, कुमारिलप्रभृतिभिः सर्वसंमतैः शिष्टैः ‘गवाश्वयोः’ इत्यस्याभि- हितत्वात् नात्रासाधुत्वं शङ्कनोयम्। यत्र समाहारद्वन्द्वः तत्रैव ‘स नपुंसकम्’ इति प्रारभ्य ‘गवाश्वप्रभृतीनि च ‘ इति सूत्रम्। तस्मात् समाहारद्वन्द्व एव एकवद्भावः, न तु इतरेतरद्वन्द्वे।

‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति परिभाषया सर्वस्यापि द्वन्द्वस्य ‘सर्वः प्लुता विकल्प्यते’ इत्यत्रेव पाक्षिकत्वादपि प्रयोगोऽयं साधुः।

‘एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः, सह वा निवृत्तिः’ इत्यभिधाय 1. प्रो. वि. श्रीवत्साङ्काचार्याः मद्रपुरीयकलाशालायाः प्राक्तनमुख्याचार्याः। तदानीं पाण्डिचेरि फ्रेञ्च् इन्स्टिट्यूट् संस्थायां समानितप्राध्यापका आसन् I

[[163]]

‘क्कचिदेकदेशोऽप्यनुवर्तते’ इत्यत्रेव, अत्र ‘क्कचित्’ इत्यनुक्त्वा ‘सर्वो द्वन्द्वः’ इति सर्वशब्दश्रवणात् सर्वेषामपि द्वन्द्वानां1 ग्रहणादपि अस्य प्रयोगस्य साधुत्वमवश्यमेष्टव्यम्। अन्यथा ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः’ इत्युक्त्वा ‘उभयगतिरिह क्कचिद्भवति’ इति यथा निर्दिष्टम् तथा अत्रापि ‘क्कचित्’ इत्युक्तं स्यात्। न चोक्तम्। तेन ज्ञायते .. यः कोऽपि द्वन्द्वः विभाषया एकवद्भावं लभते, पक्षं यथाप्राप्तं वचने इति। महाविभाषया यथा वा समास-विग्रहवाक्ययोः पाक्षिकत्वम्, एवं महाविभाषया यथा वा तद्धितप्रत्ययानां वैकल्पिकत्वात् पक्षे तदर्थवाक्यसाधुत्वम्, तथा अत्रापि इति निष्कर्षः।

‘येषां च विरोधः शाश्वतिकः’ (२-४-९) इति सूत्रे ‘चकारः पुनः अस्यैव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनाम् अनेन नित्यम् एकवद्भावो भवति अश्वमहिषम्, श्वसृगालम्, काकोलूकम्’ इति काशिका।

तेन ज्ञायते यत्र पशुद्वन्द्वे शाश्वतिकविरोधो न तत्र नित्यम् एकवद्भावः, अपि तु पाक्षिकः इति। तेनाप्यत्र ‘गवाश्वयोः’ इति रूपं साध्वेव। न हि अश्वमहिषयोरिव गोः अश्वस्य च शाश्वतिको मिथो विरोधः।

‘गवाश्वप्रभृतीनि कृतैकवद्भावानि गणे पठ्यन्ते। तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भावः इति दर्शयन्नाह - गवाश्वादीनि इति’ इति न्यासस्य, ‘गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ्यन्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भावः इत्याह- गवाश्वप्रभृतीनि इति’ इति पदमञ्जर्याश्च सम्यगध्ययने, एकवद्भावविधायकं, नियामकं वा नेदं सूत्रम्, अपि तु गवाश्वम् इति इत्येकवद्भावघटितप्रयोगाणां साधुत्वान्वाख्यानपरम् इति ज्ञायते।

  1. समाहारद्वन्द्वानां तत्रापि येन केनापि सूत्रेण उत्सर्गरूपेण अपवादरूपेण बाधकबाधकरूपेण वा प्रवृत्तानां सर्वेषामपि द्वन्द्वानां ग्रहणार्थमत्र परिभाषायां सर्वशब्दग्रहणम् इति व्यक्तं वैयाकरणनिकाये।

[[164]]

तेनापि द्विवचनोपपत्तिरभ्यूहितुं शक्या1।

‘गवाश्वयोः’ इति सुधाप्रयोगः साधुरेव हि।

पञ्चात्र कारणानीति श्रीवत्साङ्केन दर्शितम्॥

विद्वद्वर्याणां जि.महाबलेश्वरभट्टानामाशयः2 ‘गवाश्वम्’ इति शब्दविषये प्रस्तूयते किंचित्। तथा हि- गौश्च अश्वश्च अनयोः समाहारः गवाश्वम्। गावश्च अश्वाश्च एतेषां समाहारः गवाश्वम्।

‘गवाश्वप्रभृतीनि च’ (२-४-११) इति सूत्रेण एकवद्भावः। ‘यथोच्चरितं द्वन्द्ववृत्तम्’ इति सूत्रेऽस्मिन् विद्यमानं वार्तिकम्। द्वन्द्वप्रयुक्तमिदं कार्यं गणे यथोच्चारितशब्दविषयम् इति वार्तिकस्यार्थः। अस्मिन् वार्तिके कैयटोऽप्याह

  • ‘गणे यादृशाः कृतावङः पठिताः द्वन्द्वास्तादृशानामेवेदं कार्यमेकवद्भावलक्षणं भवतीत्यर्थः। यदा त्ववङ् नास्ति विकल्पितत्वात् तदा पशुद्वन्द्वे विभाषा भवति, गोऽश्वं गोऽश्वाः इति। एतेन गणपाठरूपं विवक्षितमित्युक्तं भवति’ इति।

अत्र कृतावङः निर्देशात् ‘गवाश्वम्’ इत्येव, न तु गवाश्वौ इति।

अवङभावपक्षे तु ‘विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु…’ (२-४-१२) इति सूत्रेण एकवद्भावस्य विकल्पितत्वात् गोऽश्वम् इति गोऽश्वौ इति च पूर्वरूपे रूपद्वयं भवति। ‘सर्वत्र विभाषा गोः’ (६-३-३२२) इति प्रकृतिभावपक्षे गोअश्वम्, गोअश्वौ इति च भवति रूपद्वयम्। एवं च गवाश्वम्, गोऽश्वम्, गोअश्वम्, गोऽश्वौ, गोअश्वौ, गोऽश्वाः, गोअश्वाः इति च रूपाणि भवन्ति3।

  1. केचिदेतद्धेतुं नाङ्गीकुर्युः तथापि हेतुरेवायम्।

  2. विद्वान् जि.महाबलभट्टाः। बेङ्गलूरुनगरस्थचामराजेन्द्रसर्वकारीयसंस्कृतकलाशालायां निवृत्तव्याकरणाध्यापकाः। तेषां १४-१२-०२ दिनीयं पत्रम् । ।

  3. यथाक्रमं द्वित्वे बहुत्वे च विवक्षिते।

[[165]]

प्रेषिते पत्रे १४३ पृष्ठे1 “गवाश्वयोः इति प्र पाठः’ इत्यारभ्य ‘अत्र स्मर्तव्यम्’ इत्यन्ता टिप्पणी अस्फुटा। ‘ननु तर्हि कथम्’ इत्यारभ्य ‘दुरुपपादमेव’ इत्यन्तो भागो नावगतः। तत्र कैयटस्य पङ्क्तीनामुद्धरणेऽपि दोषः कृतः। ‘कृतावङः’ इति पदस्य, ‘यदा त्ववङ् नास्ति….’ इत्यादिवाक्यस्य च त्यागः कृतः। अतः उद्धृतपङ्क्तिभ्यः कैयटस्य आशयो न ज्ञायते। (कैयटपङ्क्तयः मया उपरि लिखिताः)। सारस्वतव्याकरणमुद्धृतं टिप्पण्ण्याम्। किन्तु कैयट आह ‘नियतकालाश्च स्मृतयो व्यवसायहेतवः।

मुनित्रयमतेनाद्यत्वे साध्वसाधुप्रविभागः’ इति। अतः अष्टाध्याय्यनुगृहीतानामेव शब्दानां साधुत्वमद्यत्वे इति वैयाकरणानां समयः।

अनुव्याख्यानपाठभेदाः अनुव्याख्याने सुधायां व्याख्यासु च विचारितासु आहत्य २८० प्र.

पाठेषु हृ.संमतपाठाः ५०, विमताः ८५ उपलभ्यन्ते। ग्रन्थगौरवभिया नात्रोपात्ताः।

प्रथमाध्याये 8 द्वितीयाध्याये 13 तृतीयाध्याये 22 चतुर्थाध्याये 7 आहत्य संमतपाठाः 40 आहत्य विमतपाठाः 85 तेन नात्र महान् विरोध इति सिद्धति।


1 एतत्तु पृष्ठं गोविन्दाचार्याटप्पणीसहितसूत्रभाष्यपुस्तकस्य ।

[[166]]

उपयुक्तग्रन्थसूची अनुव्याख्यानम् - १. द्र० सर्वमूलग्रन्थाः १.

२. संपादकः टि. आर्. कृष्णाचार्यः कुम्भकोणम् १९००.

काशिका श्लोकवार्तिकव्याख्या, अपोहवादभागव्याख्या अमुद्रिता, अड्यार्मातृकागारस्था, मत्समीपे विद्यमाना प्रतिकृतिः.

गीतातात्पर्यम् १. सर्वमूलग्रन्थाः १.

गीताभाष्यम् १.(प्रमेयदीपिकासहितम्) संपादकः बाळगारु रुचिराचार्यः, आचार्यविद्याधिष्ठानम्, बेङ्गळूरु. २००२. २. द्र० सर्वमूलग्रन्थाः १.

तत्त्वप्रदीपः १.ब्रह्मसूत्रभाष्यम् तत्त्वप्रदीपिकया सहितम्, अखिलभारतमाध्व- महामण्डलम्, उडुपी, १९५८.

२. ब्रह्मसूत्रभाष्यम् ४.

नयचन्द्रिका नारायणपण्डिताचार्यकृता अनुव्याख्यानटीका, संपादकः सवणूरु गोविन्दराव्, धारवाड १९३७.

न्यायदीपिका द्र० गीतातात्पर्यम् २.

न्यायरत्नाकरः द्र० श्लोकवार्तिकम् न्यायविवरणम् रघूत्तमतीर्थकृतभावबोधसमेतम्, उडुपी, १९१७.

[[167]]

न्यायसुधा (षट्टिप्पण्ण्युपेता) श्रीमदुत्तरादिमठः बेङ्गळूरु, १९८२.

प्रमाणलक्षणम् (टीकया अनेकटिप्पणीभिश्च युतः) मध्वराद्धान्तसंवर्धकसभा, चेन्ने १९६९ प्रमेयदीपिका द्र० गीताभाष्यम् बृहदारण्यकभाष्यम् द्र० सर्वमूलग्रन्थाः १.

ब्रह्मसूत्रभाष्यम् १. द्र० सर्वमूलग्रन्थाः १. (गोविन्दाचार्यसंपादितम् ) २. द्र० सर्वमूलग्रन्थाः २. ( प्रभञ्जनाचार्यसंपादितम्) ३. (टीका-भावदीपसंवलितम्) संपादकः आर.एस पञ्चमुखी, विद्यासागर आर्. एस्. पञ्चमुखी इण्डालाजिकल् रिसर्च् सेण्टर्, नवदेहली, १९९४.

४. (टीकात्रय-सप्तटिप्पण्ण्यादिबहुव्याख्याभिर्युतम्) संपादकः के टि.

पाण्डुरङ्गी, द्वेतवेदान्ताध्ययनसंशोधनप्रतिष्ठानम्, बेङ्गळूरु १९९८-२००२.

ब्रह्मसूत्रभाष्यार्थमञ्जरी (वेदगर्भनारायणाचार्यरचिता) द्वेतवेदान्ताध्ययन- संशोधनप्रतिष्ठानम्, बेङ्गळूरु ब्रह्मसूत्ररामानुजभाष्यम् (श्रुतप्रकाशिकासहितम्) संपादकः वीरराघवाचार्यः, उभयवेदान्तग्रन्थमाला, चेन्ने १९६७.

भागवततात्पर्यम् द्र० द्र० सर्वमूलग्रन्थाः १.

मध्वविजयः मूलमात्रम्, संपादकः टि. आर् कृष्णाचार्यः, कुम्भकोणम्, १९०१.

महाभारततात्पर्यनिर्णयः द्र० सर्वमूलग्रन्थाः १.

[[168]]

लघुशब्देन्दुशेखरः नागेशभट्टकृतः चन्द्रकलाव्याख्योपेतः, काशी- संस्कृत-सिरीस् ५.

विष्णुतत्त्वनिर्णयः (टीकया अनेकटिप्पणीभिश्च युतः) मध्वराद्धान्तसंवर्धकसभा, चेन्ने १९६९.

शर्करिका द्र० श्लोकवार्तिकम् श्लोकवार्तिकम् १. न्यायरत्नाकरसहितम्, संपादकः द्वारिकादास शास्त्री, प्राच्यभारती- सिरीस् १०, वाराणसी, १९७८ २. शर्करिकासहितम्, संपादकः कुन्हन् राजा, मद्रपुरीयविश्वविद्यालयसं स्कृतसिरीस् १७, मद्रपुरी, १९४६ सन्न्यायरत्नावळी पद्मनाभतीर्थकृता अनुव्याख्यानटीका, संपादकः सवणूरु गोविन्दराव् पूना १९३७.

सर्वमूलग्रन्थाः १. संपादकः बन्नञ्जे गोविन्दाचार्यः अखिलभारतमाध्यमहामण्डलम्, उडुपी बेङ्गळूरु, (पञ्च संपुटेषु) १९६९-१९८०.

२. संपादकः व्या.प्रभञ्जनाचार्यः व्यासमध्वसेवाप्रतिष्ठानम् बेङ्गळूरु १९९९.

सारस्वतव्याकरणम् १. हरिदाससंस्कृतग्रन्थमाला ४ वाराणसी.

२. ( प्रसाद-चन्द्रकीर्तिव्याख्यायुतम्) काशीसंस्कृतसिरीस् १११, वाराणसी. -


[[169]]