१५ सर्वमूलग्रन्थसम्पादनम्

डा. ए.वि. नागसम्पिगे

विद्वद्धौरेयैः बन्नञ्जेपदोपाह्वैः गोविन्दाचार्यैः श्रीमदानन्दतीर्थभगवत्पादा चार्योपदिष्टाः ग्रन्थाः सम्यक् शोधिताः। यद्यपि भगवत्पादाचार्यैः न किमपि लिखितम्। तच्छिष्यप्रवरैः पलिमारुमठाधीशैः श्रीमद्धृषीकेशतीर्थ- श्रीमच्चरणैः भगवत्पादमुखनिःसृतः उपदेशामृतः ग्रथितः (लिपिबद्धीकृतः) तथैव श्रीमद्भिः सत्यतीर्थश्रीमच्चरणैः ब्रह्मसूत्रभाष्यं लिखितमित्यपि मध्वविजये श्रूयते।

पदवाक्यप्रमाणपारावारपारीणानां श्रीमतां श्रीमज्जयतीर्थमुनीन्द्राणां काल एव सर्वमूलग्रन्थाः नैकैः विलिखिता उपलभ्यमाना आसन्निति तदीयपाठभेद- सूचनपरवाक्यावलोकनेन विज्ञायते। हृषीकेशतीर्थश्रीमच्चरणैः तुळुलिपि- निबद्धा इयं मातृका अद्यापि पलिमारुमठे विलसति।

अष्टादशशतके श्रीमदुत्तरादिमठाधीशाः श्रीमत्सत्यधर्मतीर्थश्रीमच्चरणाः श्रीकृष्णदर्शनार्थं रजतपीठपुरमागत्य श्रीकृष्णदर्शनं विधाय मातृकामिमाम् अवलोकयामासुरिति तदीयग्रन्थादेवावगम्यते। इयञ्च मातृका श्रीमदानन्द- तीर्थभगवत्पादाचार्यविनेयप्रवरैर्विलिखिता कालबलेन गलिता च। अधुना भागवततात्पर्यनिर्णयात्मको भागः हृषीकेशतीर्थीयमूलकोशे नोपलभ्यते; तथाऽपि पेजावरमठगतेन प्राचीनकोशेन, पलिमारुमठीय-रघुरत्नतीर्थयति- लिखितकोशान्तरेण च पाठनिर्णयः गोविन्दाचार्यैः कृतः। तथैव आचारप्रस्थाने सदाचारस्मृतिमपहाय अपरे ग्रन्थाः अधुना हृषीकेशतीर्थीयकोशे नोपलभ्यन्ते। पलिमारुमठाधीशैः रघुवर्यतीर्थैः लिखितकोशानुसारेण पाठनिर्णयः गोविन्दाचार्यैर्व्यधायि।

सर्वमूलसंशोधनाप्रसङ्गे एतावत्कालपर्यन्तं विदुषामज्ञातौ भगवत्पादा- चार्यप्रणीतौ ग्रन्थप्रवरौ न्यासपद्धति-तिथिनिर्णयनामानौ इदंप्रथमतया संशोध्यात्र निवेशितौ इति महतः प्रमोदस्य विषयः। गोविन्दाचार्यास्तु भगवत्पादाचार्येषु विद्यमानया श्रद्धया इमां मातृकामवलोक्य विदुषामध्ययनार्थं

[[104]]

अयं ग्रन्थः प्रदेय इति अहोरात्रं तदवलोकनेन आदौ लिपिबद्धमकार्षुः।

अनन्तरं श्रीपद्मनाभतीर्थभट्टारक-नरहरितीर्थ-त्रिविक्रमपण्डिताचार्य- नारायणपण्डिताचार्य-वामनपण्डिताचार्यप्रभृतिभिः भगवत्पादाचार्योपसदैः विनिर्मितां प्राचीनां व्याख्यां समवलोक्य पाठशोधने महान्तं यत्नमकार्षुः।

नैतदतिरोहितं विदुषां यत् अष्टशतमानात् प्राग् विलिखिता मातृका तत्रतत्र अस्पष्टा-त्रुटिता-क्रिमिदष्टा च भवतीति। मातृकाया अध्ययनमेव यदा दुष्करं; किमु शोधनम् !। एतादृशप्रसङ्गे श्रीगोविन्दाचार्या असाधारणेन वेद-वेदाङ्ग-व्याकरण-वेदान्तशास्त्रवैदुष्येण नितान्तया श्रद्धया च १९६५- १९८० पर्यन्तं प्रायः पञ्चदशवत्सरपर्यन्तं एकाकी सन् शोधकर्मणि व्यापृता आसन् इति विषय-विषजलाशयमग्नैः सम्भावयितुमपि न शक्यते।

मया तु तैः शोधिताः सर्वमूलग्रन्थाः न सामस्त्येन पठिताः। तत्रतत्र ईषदेव अपठमहम्। तत्रानुभूताः गुणाः दोषाश्च यथामति विदुषां पुरत उपस्थाप्यन्ते। तत्र पञ्चमे सम्पुटे विष्णुतत्त्वविनिर्णये बन्नञ्जेगोविन्दाचार्यैः मातृकाशोधनसन्दर्भे पद्मनाभतीर्थभट्टारकविरचिता प्राचीनटीका तथैव नारायणपण्डितैर्ग्रथिता तत्त्वमञ्जर्यभिधा प्राचीनटीकाऽपि समवलोकिता।

विदुषां विद्यावैशद्याय तत्रतत्र उल्लिखिता।

यथा- ‘सदागमैकविज्ञेयम्’ इत्यत्र तदीयैरेव वाक्यैः नारायण- पण्डिताचार्याणाम् आशयः सङ्गृहितः- ‘सदागमा निर्द्दोषागमाः। दोषाः त्वज्ञानमूलत्वादयः। सदागमैरेकविज्ञेयं प्रधानविज्ञेयम्। यद्यपि सदागमैः कर्मदेवतादिकमपि विज्ञेयम्; तथाऽपि तत्र महातात्पर्याभावान्नारायण एव मुख्यज्ञेय इत्यर्थः। अथवा सर्वचेतनाचेतनेभ्य एकत्वेन मुख्यत्वेन ज्ञेयम्।

एकशब्दः प्रधानेऽपि प्रसिद्धः- ‘एकः प्रधान उद्दिष्टः’ इति। अथवा, सदागमेनैकेनैव विज्ञेयम्; नतु दुरागमेन। नापि सदागमाननुगृहीतप्रत्यक्षानु मानाभ्याम्। तयोराभासत्वनियमात्‘ इति।

उत्तरत्र ‘साम्पराये इति’ श्रुतिगतस्य पदस्य ‘सम्पराये’ इत्यपि प्राचीन-

[[105]]

कोशपाठः विद्यमान उल्लिखितः, व्याख्यानावसरे त्रिविक्रमपण्डिताचार्याणां ‘सम्यक् परस्मिन् नयनम्’ इति व्याख्यानमुल्लिखितम्।

तथैवोत्तरत्र ‘अपौरुषेयवाक्याङ्गीकारे न किञ्चित् कल्प्यम्’ इति भगवत्पादीयवचनम्। तत्र पादटिप्पण्यां प्राचीनटीकाकाराणां पद्मनाभ- भट्टारकाणां व्याख्या समुल्लिखिता(पृ-१२)। एवमान्तं प्राचीनटीकायाः उल्लेखः कृतः विदुषां तोषदायको भवति।

प्राक्तनग्रन्थेषु मूलपाठः अनवधानेन अन्यथैव मुद्रितः। परन्तु स पाठः नातीव समीचीनः। अत्र मुद्रितानि भगवत्पादाचार्यवचनानि- ‘प्रत्यक्षा- नुमानसिद्धत्वे च भेदस्य तद्विरोधादेव अप्रामाण्यमभेदागमस्य। तेनाभेदागमस्य प्रामाण्याभावे नानुवादकत्वं भेदवाक्यानाम्। नहि बलवतोऽनुवादकत्वम्।

दार्ढ्यहेतुत्वात्‘। (मा-रा-सं, सभा- उडुपि-पृ-३४१) अत्र गोविन्दाचार्याः ‘तेनाभेदागमस्य प्रामाण्याभावे नानुवादकत्वमिति मुद्रितः पाठः प्रामादिक एव तेनाभेदागमस्याप्रामाण्याभावे इति हि पठनीयम्’(पृ-१६) इति स्वाशयमाविष्कुवन्ति। अयमत्र प्रसङ्गः- अद्वैतवादिनः वदन्ति- जीवेश्वरभेदः प्रत्यक्षसिद्ध एव। अभेदस्तु न प्रत्यक्षादि प्रमाणसिद्धः। अपि तु वेदैकसमधिगम्यः। अत एव वेदोक्तस्य अद्वैतस्य अपूर्वता। भेदस्य तु प्रत्यक्षसिद्धत्वेन तत्प्रतिपादकानामागमानां प्रत्यक्षसिद्ध- भेदानुवादकत्वेन न प्रामाण्यमित्युक्तम्। तत्रोक्तं भगवत्पादाचार्यैः- नहि जीवपरमात्मानौ प्रत्यक्षानुमानवेद्यौ इति पूर्वमुक्तम्। यदि जीवेश्वरभेदः प्रत्यक्षानुमानसिद्ध इत्युच्यते अद्वैतवादिभिः, तर्हि प्रत्यक्षानुमानसिद्धस्य भेदस्य निराचिकीर्षया प्रवृत्तस्य अद्वैतवाक्यस्य प्रत्यक्षविरोधादेव अप्रामाण्यम् दुष्परिहरम्। भेदवाक्यानामनुवादकत्वं प्रतिपादयता भेदस्य प्रत्यक्षानुमानसिद्धत्वमङ्गीकरणीयमेव। असिद्धस्यानवदितुमशक्यत्वात्।

एवञ्च भेदस्य प्रत्यक्षानुमानसिद्धत्वे तद्विरोधादेवाभेदागमस्याप्रामाण्यं सुदृढम्। अतः भेदागमानुवादकत्वव्युत्पादनं अभेदागमाप्रामाण्यमेव

[[106]]

निश्चाययतीति व्यर्थोऽयं प्रयासः। अत्रैवमाशङ्क्येत- प्रत्यक्षं हि सम्भावितदोषं दुर्बलम्। अपौरुषेयस्तु आगमः पुरुषदोषनिबन्धनदोषाभावादेव स्वत एव प्रमाणम्। तस्मात् नागमसिद्धोऽभेदः प्रत्यक्षविरोधेन त्याज्य इति।

अत्रोच्यते- भेदवाक्यस्यापि वेदत्वादेव प्रबलत्वात् प्रत्यक्षादिप्रतिपन्ने भेदे सन्देहेऽपि तत्र प्रक्रान्तानां भेदवाक्यानां निश्शङ्कप्रतिपत्तिहेतुत्वेन भेदप्रतिपादकत्वेऽपि नानुवादकत्वम्। अपिच प्रत्यक्षादिप्राप्तस्य अनुवादे दार्ढ्यहेतुत्वमेव भवति न त्वप्रामाण्यमिति निश्चप्रचम्।

अस्मिन् प्रसङ्गे तेनाभेदागमस्य प्रामाण्याभावे च नानुवादकत्वमिति पाठस्वीकारे अभेदागमस्य प्रामाण्याभावे भेदवाक्यं नानुवादकमित्यत्र हेतुहेतुमावः न स्फुटं प्रतीयते। उत्तरवाक्यं चासङ्गतं प्रतीयते। तस्मात् तेन अभेदागमस्याप्रामाण्याभावे नानुवादकत्वमिति पाठ एव समीचीनः।(पृ-१६) तथैव ‘यतः स रूपतश्चान्यो ……..’ इति श्लोकोेल्लेखसन्दर्भे पाठभेदाः सुष्ठूल्लिखिताः। ‘सम्बद्धः स्यादसंहितः’ इति पद्मनाभतीर्थभट्टारकपाठः।

‘सम्बन्धः स्यादसंहितः‘ इति पण्डिताचार्यसम्मतः पाठः। पुराणश्लोके विद्यमानः पाठभेदः सर्वोऽपि प्रामाणिक एवेति सम्यगुपपादितम् (पृ-२७)।

तत्रैव उत्तरत्र ‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः’ इति श्रुतिवचनमुल्लिख्य पद्मनाभभट्टारक-पण्डिताचार्यव्याख्यानुरोधेन ‘तदक्षरे‘ इति पाठ एव समीचीन इति सुष्ठूपपादितम्। यदक्षर इति क्कचित् श्रुतिपाठ- सम्भवेऽपि ‘त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि‘ इत्यत्रेव प्रामादिकता निरूपिता। (पृ-४१) तत्त्वसङ्ख्यानग्रन्थे भगवत्पादीयं वचनम्- ‘नित्याऽनित्यविभागेन द्विधैवाचेतनं मतम्। नित्याः वेदाः, पुराणाद्याः कालः प्रकृतिरेव च। नित्याऽनित्यं त्रिधा प्रोक्तम्’ इति। यद्यप्यत्र ‘त्रिधैवाचेतनं मतम्’ इति मूलपाठः श्रीमज्जयतीर्थश्रीमच्चरणैरादृत उपलभ्यते। तथाऽपि ‘द्विधैवाचेतनं मतम्’ इति पाठः गोविन्दाचार्यैरादृतः। त्रिधैव इत्यपि पाठः स्वीकर्तुं शक्यत इत्युक्तम्।

द्विधैव इति पाठे भरः दर्शितः। ‘नित्यानित्यं त्रिधा प्रोक्तम्’ इति

[[107]]

भगवत्पादीयमुत्तरवाक्यमेव ‘द्विधैवाचेतनं मतम्’ इति पाठं विरुणद्धि। या चात्र टिप्पणी गोविन्दाचार्यैः प्रदत्ता सा अंशिरूपेण नित्यत्वम् अंशरूपेण अनित्यत्वं च स्वीकृत्योपपादिता। अपि च तत्रैव पादटिप्पण्यां वेद-काल- प्रकृतीनां नित्यत्वे समानेऽपि त्रैविध्यं कथमित्याशङ्क्य तदुपपादनावसरे ‘वेदाः पुराणाद्या इत्याकाशस्तद्गुणश्शब्दश्च गृह्यते। तदिदं कूटस्थमविकारि नित्यम्।

नह्याकाश अंशतोऽपि जायते न च विक्रियते’ इति पादटिप्पणी दृश्यते।

वस्तुतस्तु तत्त्वसङ्ख्याने तत्त्वविवेकानुसारेण द्विधैवाचेतनमिति वक्तुं शक्यत्वेऽपि भगवत्पादाचार्यैः त्रिधैवेत्युक्तिः, स्वरूपत एवनित्यत्व- प्रकारविशिष्टानां वेद-वर्णाव्याकृताकाशानां सङ्ग्रहार्थम्। अन्यथा कूटस्थ- नित्यानां तेषां स्वरूपपरिचयः न वै भवेत्। वेद-वर्णाव्याकृताकाशानां प्रकारान्तरेणाऽपि अनित्यत्वं(नित्यानित्यत्वम्) कालप्रकृत्यादीनामिव नोपपादयितुं शक्यते। एवं तेषां स्वरूपप्रज्ज्ञापनार्थमेव भगवत्पादाचार्यैः नित्याः वेदाः उपलक्षणया वर्णाव्याकृताकाशे चगृहीते। तस्मादत्र तत्त्व- सङ्ख्याने ‘त्रिधैवाचेतनं मतम्’ इति पाठस्वीकार एव साधीयानिति भाति।

श्रीहृषीकेशश्रीमच्चरणविलिखिते कोशे भगवत्पादाचार्यैः उल्लिखितत्त्वेन सम्भावितौ द्वौ श्लोकौ गोविन्दाचार्यैः उल्लिखितौ। हृद्यौ च इमौ श्लोकौ विद्वद्भिः आम्रेडितव्यौ- चञ्चलोऽयं समानेयो मनोमीनो हरिस्थले।

विषयोदकसञ्चारी सुयत्नबळिशाहृतः ॥

प्रादेशमात्रं तत्वार्थे जयार्थेऽरत्निमात्रकम्।

ख्यातिपूजार्थिनो हस्तमात्रं पत्रमुदाहृतम्’इति ॥ (पृ- ६२) तथैव १६७ पृष्ठे विद्यमानौ इमौ श्लोकावप्यनुसन्धेयौ- श्रुत्वा तद्दिनमारभ्य दशाहमशुचिर्भवेत्।

पितरौ तु मृतौ स्यातां दूरस्थोऽपि च पुत्रकः॥

[[108]]

अधुनाऽनुष्ठानेऽयं प्रकारः नास्ति।

अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्।

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति॥ ज्ञातिविषयमेतत्।

तृतीये सम्पुटे पुराणप्रस्थाने- पार्थिवाद् दारुणो धूमस्तस्मादग्निस्त्रयीमयः।

तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम्’ ॥ १.२.२५ अत्र गोविन्दाचार्यैः विलिखिता पादट्टिप्पणी विदुषामतीव मनस्तुष्टिदा भवतीत्यत्र न सन्देहगन्धः। ‘पार्थिवात् काष्ठादान्तरिक्ष्यः मेघात्मा धूमस्ततोऽपि स्वर्ग्योऽग्निस्त्रयीमय उत्तमः। एवमूर्ध्वगतिहेतुत्वात्तमसो रज एव उत्तमं रजसोऽपि सत्त्वमिति। ‘यद्यपि धूमेनाऽव्रियते वह्निः। तथाऽपि मेघरूपधूमः दीपाच्छादकदारुफलकवत् प्रतिबन्धको न भवति विरलावयवत्वेन सूर्यचन्द्राद्याच्छादकत्वाभावात्। तेन दारुणः सकाशादुत्तमः’ इति प्राचीन- टीकायामर्थान्तरमप्युक्तम्। दृष्टान्ते दार्ष्टान्तिके चाभिमानिविवक्षया चेदमुत्तमत्वं बोध्यम्’।

अभिमानिविवक्षया परिग्रहणे च पृथिव्यभिमानी शनिः पञ्चविंशति- कक्ष्यास्थः। धूमाभिमानी पर्जन्यः विंशकक्ष्यास्थः। अग्निः पञ्चदशकक्ष्यास्थ इति तारतम्यमवधेयम्। तद्वदिह तमोऽभिमानिनः रुद्राद् रजोमानी चतुर्मुखः श्रेष्ठः। ततः सत्वाभिमानी विष्णुरुत्कृष्ट इति ज्ञेयम्।

प्रथमस्कन्धे तृतीयेऽध्याये भगवतः विष्णोः नैकानि अवताररूपाणि उपदिष्टानि। तत्र कौमाररूपं किमिति न ज्ञायते। भगवत्पादाचार्या अयं चतुर्मुखसूनुभिन्न इति ब्राह्मवचनेन अप्रतिपत्तिविप्रतिपत्ती निराचक्रुः। अत्र गोविन्दाचार्या अनेन भगवत्पादीयव्याख्यानेन ‘कौमारं चतुस्सनरूपम्’ इति वदन्तः निरस्ता इति, अत्र नैकेषां श्लोकानां परकीयैः कृतामपव्याख्यामुल्लिख्य भगवत्पादाचार्यकृतव्याख्यानेन तेषां निरासः भवतीति निरूपितवन्तः।

[[109]]

अष्टमस्कन्धे एकोनविंशेऽध्याये ‘यद्यप्यसावधर्मेण’ इति श्लोकव्याख्या- नावसरे भगवत्पादीयं भाष्यवचनं सूत्रप्रायमिति मन्वानाः गोविन्दाचार्याः नैकधा नैकविधशङ्कापरिहारपरतया महत्या प्रतिभया व्याचक्रुरिति अतिरोहितं विदुषाम्। विद्वत्तल्लजाः, गोविन्दाचार्यकृतपादटिप्पण्याः समवलोकनेन मुदमाप्नुयुरिति तदीयान्येव वाक्यानि पुरत उपस्थापयामि- यद्यप्यसावधर्मेण मां बध्नीयादनागसम्।

तथाऽप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्॥(भागवतम्) बलिरप्यसुरावेशात् स्तुवन्नपि जनार्दनम्।

आक्षिपत्यन्तरा क्कापि प्रह्लादो नित्यभक्तिमान्॥

इति ब्रह्माण्डे(तात्पर्यम्)।

‘ननु बलिर्विष्णुभक्तः। स कथं तस्मिन् भीतिं वैरं च पश्यति- ‘भीतं ब्रह्मतनुं रिपुम्’ इति ? आह- बलिरप्यसुरावेशात्। यद्यपीदं तात्पर्यवचनं नैतच्छ्लोकमात्रव्याख्यानाय प्रवृत्तम्। किन्तु आदशमाध्यायादेकविंशपर्यन्तम् अध्यायनिकायगतप्रमेयविवरणम्। अत एवैतदन्ते प्राचीनकोशेष्वध्याय- पूर्तिर्न पठ्यते। तथाहि- बलिर्देवैः सह युद्धं चकारेति दशमे चतुर्दशे चाध्याये श्रूयते। तत्कथं विष्णुभक्तो विष्णुभक्तैः सह युद्धं चकार? आह- बलिरप्यसुरावेशात्। तेनाध्यायद्वयं व्याख्यातम्।

दशम एव चाध्याये बल्यादीन् दैत्यान् वञ्चयित्वा विष्णुर्देवानमृतं पाययामासेत्युच्यते, ‘येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः‘ इत्येकादशे रुद्रवचनं च। तत् कथं विष्णुः स्वभक्ताय नामृतं ददौ ? आह- बलिरप्यसुरावेशात्। तदेवमध्यायद्वयं व्याख्यातम्।

द्वादशे चाध्याये बलेर्बन्धः श्रूयते- ‘योऽसौ भगवता बद्धः सुतले पुनः‘(१४) इति। यदि प्रीतः कथं बबन्ध? नहि बन्धः प्रीतिलिङ्गम्। अत एव चतुर्दशे- ‘बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत। भूतेश्वरः कृपणवल्लब्धार्थो

[[110]]

ऽपि बबन्ध तम्’ इति परीक्षिदप्याक्षिपतीव। नह्यनागसो बन्धनं युक्तमिति।

आह- बलिरप्यसुरावेशात्। एतेनासुरावेशफलं बन्धनमित्यध्याय-द्वयं विवृतम्। एतेनैव ‘बबन्ध वारुणैः पाशैर्बलिं सुतेऽहनि क्रतोः‘(२०-२६) इति गरुडकृतं बलिबन्धनं च व्याख्यातम्।

तथा चतुर्दशेऽध्याये ‘प्रह्लादमामन्त्र्य नमश्चकार‘(१४-७) इति प्रह्लादानुमत एव बलिर्देवान् जिगायेति श्रूयते। किं प्रह्लादोऽप्यसुरावेशात् स्वपौत्रस्य देवविजयमन्वमन्यत ? नेत्याह- प्रह्लादो नित्यभक्तिमान्। नहि नित्यभक्तस्य प्रह्लादस्य देवविजयोऽभिमतः। किन्तु बलेरसुरावेशं भाविनं च भगवत्सङ्कल्पं विज्ञाय तूष्णीम्भाव एवानुमतिर्नाम। तथा, विंशेऽध्याये- ‘तथाऽहमप्यात्म- रिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः‘(४५) इति प्रह्लादवदहमपि रिपोरपि तव पादपद्मं प्रपद्य इति बलिराह। किं तर्हि प्रह्लादोऽपि नरसिंहं रिपुमेव मन्यमानो भयादेव शरणमियाय ? नेत्याह- प्रह्लादो नित्यभक्तिमान्। किं तर्हि विष्णुमहिमानं जानन्नपि बलिस्तं रिपुत्वेन गणयति ? आह- बलिरप्यसुरावेशात् स्तुवन्नपि जनार्दनम्। आक्षिप्यन्तरा क्कापि। तथाहि भगवतैव स्फुटमुक्तं विंशाध्यायान्ते- ‘तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः। दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति‘(७१) इति। तदेतदपि ब्रह्माण्डवचनेन समाख्यातं भगवत्पादेन। तदेवं बलिसम्बद्धं कथाजातमेकेनैव श्लोकेन व्याचख्यावित्यपूर्वं कौशलं गुरुतमाग्रण्योे भगवतो भाष्यकारस्य’ इति। अत्र गोविन्दाचार्यप्रदत्ता पादटिप्पणी सर्वेषां मोदावहा भवति।

श्रीभागवते एकादशस्कन्धे एकादशेऽध्याये- ‘सत्यस्य ते स्वदृश आत्मनः.. विमोहितधियः‘(११.७.१७) इति श्लोकव्याख्यानावसरे भगवत्पादीयं वचनम्- ‘ब्रह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम्’ इति। अत्र मूलश्लोके ब्रह्मपदवाच्यानाम् ऋजूनां शतगणप्रवेशात्प्राक् अपरोक्षज्ञानाभावः मोह अभिहितः। रीत्यन्तरेण मोह उपपादितः ‘अंशरूपेषु ज्ञानवर्जनम्’ इति। अत्र ब्रह्मपदेन वायुः तत्पत्नी च गृह्येते। तयोः मूलरूपे यावद्ज्ञानं

[[111]]

तस्य अवताररूपेषु वर्जनं ज्ञानह्नास इति गोविन्दाचार्याः व्याचक्षते। तथाहि तद्वचनानि- ‘अथ ब्रह्मा वायुः। तस्य भारत्याश्च अंशरूपेषु अवतारेषु मूलरूपे यावत् तावतो ज्ञानस्य वर्जनं ज्ञानह्नास इति यावत्। स एव च तस्य तस्याश्च मोहो नाम। भारत्या सह ब्रह्मणो वायोरिति वा। हनुमदादिषु वाय्ववतारेषु विप्रकन्यादिषु भारत्यवतारेषु च मूलरूपापेक्षया किञ्चिदिव ज्ञानह्नासो विद्यत इत्यर्थः’।(भा.ता. सम्पुट-३, पृ- ६४३) ज्ञानह्नासपदेन य अर्थः आपाततः प्रतीयते स एव गोविन्दाचार्यैः विवृतः।

स तु न समीचीन इति भाति। यतो हि पण्डिताचार्याः मूलरूप इव अवताररूपेष्वपि ज्ञानसौशील्यादयो गुणाः परिदृश्यन्त इति व्याख्यातवन्तः।

मूलरूप इव अवताररूपेऽपि ज्ञानह्नासाभावः अनेन विज्ञेयः। तथाहि पण्डिताचार्यवचनानि- ‘तत्त्वविद्याचार्यवर्याणां मूलरूप इव सर्वरूपेष्वपि सौबल्यसालक्षण्य- सौशील्यादिगुणाः परिदृश्यमाना दृश्यन्ते’। भगवती श्रुतिरपि एतमेवार्थमाह- ‘बट् तत् दर्शतमित्थमेव निहितम्’ इति। सर्वज्ञकल्पाः श्रीमट्टीकाकृत्पादाचार्याः व्याचचक्षिरे- ‘कीदृशं तस्य मूलरूपम्, कथं भूतानि च तानि मूलरूपाणि इत्यत उक्तम्- बडित्यादि ॥ यस्य तन्मूलरूपं बट्- बलात्मकं, दर्शतं ज्ञानरूपं च। न केवलं मूलरूपमेवं किन्तु यस्य अवतारेषु निहितं मूलरूपमित्थमेव’ इति।

देवानां तु नृजातानाम् अल्पं व्यक्तं भवेद्बलम्।

इच्छया व्यक्ततां यान्ति वायोः, अन्येषु तच्च न ॥

इति महाभारततात्पर्यनिर्णयवचनानुरोधेन वाय्वतिरिक्तानां गरुडशेषादि- देवानां मूलरूपे यावद्ज्ञानं यावती शक्तिः तदवताररूपे नास्ति। कालबलात् पितृ-मातृदोषतः स्वकर्मतो वा अभिभवश्रवणात्। तथाहि ‘गुणाश्च कालात् पितृमातृदोषतः स्वकर्मतो वा अभिभवं प्रयान्ति’ इति। वायोस्तु मूलरूप इव अवताररूपेऽपि ज्ञानशक्त्यादयो गुणाः विद्यन्त एव परन्तु ते न स्वेच्छया व्यज्यन्ते। हरिप्रीतये विद्यमाना अपि ज्ञानादयो गुणाः अवताररूपेषु

[[112]]

स्वेच्छया न सम्यग् आविष्क्रियन्ते। एतेन मूलरूप इव अवताररूपमपि वायोः पूर्णमेव न तत्र अवतारेषु ज्ञानह्नासः विद्यत इति विज्ञेयम् ॥

सम्पुटम्-१ गीताभाष्यं-गीतातात्पर्यसहितानि भगवत्पादाचार्यप्रणीतव्याख्याचतुष्ट योपेेतानि ब्रह्मसूत्राणि चेति आहत्य षड् ग्रन्थाः प्रथमसम्पुटे गोविन्दाचार्यैः मुद्रापिताः। यदहं अस्मिन् विषये विलेखितुमुद्यतः तदा विद्वतल्लजेन डा.

वीरनारायणाचार्य पाण्डुरङ्गी महोदयेन विलिखितां ‘अनुव्याख्यानब्रह्मसूत्र भाष्ययोः पाठभेदविचारः’ इति शोधपत्रिकाम् अपठम्। अत्र च संशोधनदृष्ट्या नैके अपूर्वाः विषयाः विद्वद्वर्येण वीरनारायणाचार्येण निरूपिताः विद्यन्ते।

एतस्याध्ययनेनैव विद्वांसः कृतिनो भवेयुः। नेतः अधिकं वक्तव्यमस्ति।

तथापि द्वित्रा विषयाः मया प्रस्तूयन्ते- १. गोविन्दाचार्यैः व्याख्यानेषु प्रवचनेषु च हृषीकेशतीर्थीयसर्वमूलपाठः त्रिविक्रमपण्डिताचार्यधृतः ब्रह्मसूत्रभाष्यपाठश्च समीचीनः। श्रीमज्जयतीर्थ- श्रीमच्चरणैः धृतः मूलपाठः नातीव शुद्धः इति तत्रतत्र गोविन्दाचार्यैः व्याहृतम्।

अत्र चिन्तनीयम्- भगवत्पादाचार्याणां शताधिकाः शिष्याः तदानीमासन्निति ‘शतसङ्ख्याः शतसङ्ख्यमन्वगच्छन्‘ इति मध्वविजयवचनेनावगम्यते। तेषु नैके विद्वांसः यतयो वा सर्वमूलग्रन्थान् लिखितवन्तस्स्युः। तदानीं क्कचन पाठभेदः अनवधानात् भवत्येव। परन्तु हृषीकेशतीर्थीयपाठे तत्त्वप्रदीपा- चार्योपदर्शितपाठे च भेदः तत्रतत्र विद्यत एव इति वीरनारायणाचार्येण सदृष्टान्तं प्रतिपादितम्। कुत्रचित् टीकापाठः हृषीकेशतीर्थीयसंवादी विद्यते।

क्कचित् हृषीकेशतीर्थीयपाठे दोषाः सन्तीति गोविन्दाचार्याः स्वयमङ्गीचक्रुः।

तथैव विद्वद्धौरेयाः श्रीहयवदनपुराणिकमहाभागाः विद्वत्तजाः बाळगारु श्रीरुचिराचार्याश्च हृषीकेशतीर्थीयपाठे दोषानादर्शिवन्तः। श्रीमज्जयतीर्थ- पूज्यचरणैः आचार्यरचितेषु विभिन्नग्रन्थेषु चतुर्दशसु स्थलेषु पाठभेदाः निर्दिष्टाः। यथा अनुव्याख्याने षट्, गीताभाष्ये पञ्च, गीतातात्पर्ये एकः,

[[113]]

विष्णुतत्त्वविनिर्णये एकः, प्रमाणलक्षणे एकः इति आहत्य चतुर्दश एव।

विस्तारः वीरनारायणाचार्यशोधप्रबन्ध एव द्रष्टव्यः। अपि च गोविन्दाचार्याः सुधाचार्यधृतः ‘भेद एव गवाश्वयोः’ इति पाठः न समीचीनः। हृषीकेश- तीर्थीयकोशानुसारेण ‘भेद एव गवश्वयोः’ इत्येव मूलपाठः। तस्मात् ‘गवाश्वयोरिति प्रमादपाठः मूलकोशेष्वदर्शनात्’ इति सुधापाठस्सम्भाव्यते इत्युक्तम्। तत्र वीरनारायणाचार्येण व्याकरणशास्त्रे अद्वितीयपरिश्रमिणां श्रीवत्साङ्काचार्याणां प्रो. वेङ्कटराजशर्मणां, प्रो. महाबलेश्वरभट्टानां च आशयविशेषः प्रकाशितः। यत्र श्रीजयतीर्थीयपाठस्यैव साधुत्वं समर्थितम्।

तत्त्वप्रदीपग्रन्थः श्रीमट्टीकाकारैः परमादरेणावलोकित इत्यत्र न सन्देह- गन्धः। एतत् तत्त्वप्रकाशिकाभावदीपव्याख्याध्ययनशीलानां विदुषां नातिरोहितम्। गोविन्दाचार्यैः तत्त्वप्रदीपशोधनं प्रकाशनञ्च २०१६ वत्सरे विहितम्। तत्र स्वोपज्ञं व्याख्यानञ्च योजितम्। तदीयव्याख्याने तेषां शास्त्रे विद्यमानः असाधारणः श्रमः विशिष्य वेदाङ्गादिषु विद्यमानं पाटवञ्च विदुषां मोदावहं भवति। तत्र विद्यमानाः द्वित्राः विषयाः प्रस्तूयन्ते- जन्माधिकरणे- नवतिदेवानां निरूपणावसरे तत्त्वप्रदीपे ‘भृगुश्चैवानि- रुद्धश्च’ इति पाठापेक्षया ‘विधुश्चैवानिरुद्धश्च’ इति पाठस्वीकार एव साधीयानिति निपुणतरं प्रपञ्चितम्। (पृ-१७८) प्राणाधिकरणे- बन्नञ्जेगोविन्दाचार्यैः ‘अङ्कं श्रिता श्रीः वक्षसि लक्षणभूता लक्ष्मीः’ इति तत्त्वप्रदीपपाठः उल्लिखितः। श्रीमट्टीकाकृत्पादास्तु ‘वक्षःस्थला- श्रिता श्रीरिति सम्प्रदायविदः‘ इति वदन्ति। आपाततः तत्त्वप्रदीपकाराणां टीकाकाराणां च विरोध इव प्रतीयते। अविरोधोपपादनप्रकारः ज्ञानिभिः प्रदर्शित एव। टीकाकाराणां व्याख्यानन्तु बहुप्रमाणोपेतमिति विदुषां नातिरोहितम्। तथाहि श्रीभागवते- १. ‘वक्षसि लक्षितं श्रिया’ (२.९.१६), २. ‘स्वस्याः श्रियः सजगतो जनको जनन्याः वक्षोऽधिवासमकरोत्‘ (८.८.२४), ३. ‘को नाम

[[114]]

विष्ण्वनुपजीवक आस यस्य नित्याश्रयादभिहितापि रमा सदा श्रीः’ इति महाभारततात्पर्यनिर्णये(१५.५) श्रियः हृदयाश्रितत्वमुक्तम्। समर्थितं च एतत् श्रीमद्वादिराजपूज्यचरणैः। तात्पर्यनिर्णये ‘मेङ्कगायाः श्रियोऽहम्’ इत्यत्र(२०.७२) श्रीपदेनोक्ता पूर्वप्रकृता यज्ञनाम्नी। एवञ्च बहुप्रमाणसत्वात् टीकाकारीयं व्याख्यानं समीचीनमित्येव वक्तव्यम्। विवक्षाभेदेन ‘अङ्कं श्रीवत्सचिह्नमाश्रिता श्रीः’ इति सैव हृदयस्था सर्वलक्षणसम्पन्ना लक्ष्मीः इत्यर्थकरणे न विरोधगन्धः। एवञ्च सर्वत्राऽपि व्याख्यातृषु अविरोधसम्पादनं चन्द्रिकाचार्याद्युपदिष्टदिशा विज्ञेयम्।

प्रथमसूत्रपाठभेदनिरूपणप्रस्तावे गोविन्दाचार्याः ‘अथातो ब्रह्मजिज्ञासा’ इत्येव सूत्रपाठः न्यायविवरणे, तत्त्वप्रदीपे, हृषीकेशतीथीर्ये, सन्न्यायरत्ना- वल्यां च दृष्टः। (पृ-२५४) तस्मात् प्रतिसूत्रमाद्यन्तयोः ओङ्कारोच्चारणम् अशास्त्रीयम् असाम्प्रदायिकं च इति व्याहरन्ति। तथाहि तद्वचनानि- ‘पृथगुच्चारणमपि प्रथमसूत्र एव नोत्तरसूत्रेष्वपि। ‘स्रवत्यनोङ्कृतं ब्रह्म’ इति वचनस्य ग्रन्थारम्भमात्रविषयत्वात्। अत एव सम्प्रदायविदो हृषीकेश- तीर्थादयोऽपि अनोङ्कृतान्येवोत्तरसूत्राणि लिलिखुः। सम्प्रदायप्रदस्य भगवत्पादस्य श्रीमुखादेव हि ते साक्षाद् विदितसम्प्रदायाः। तस्मादशास्त्री योऽयमनार्यसम्मतश्च सम्प्रदायः, यत् प्रतिसूत्रमाद्यन्तयोरोङ्कारेण सम्पुटीकरणं नाम। अत एव सूत्रेणैकवाक्यतया भाष्यं पपाठ। तद् यथा- ‘तद्धेतुव्यपदेशाच्च, को ह्येवान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यादिति‘ इति।

अन्ते पठने कारणं तु तत्रैवोक्तम्- एवं स्थितेऽप्यहो बभ्रमुुरेव पण्डितम्मन्याः प्रतिसूत्रमोङ्कारमाम्रेडयन्तः‘ इति।(पृ-४३५) गोविन्दाचार्याणामाशयः भगवत्पादाचार्य-प्राचीनटीकाकाराद्याशय- विरुद्ध इति विदुषामतिरोहितम्। तथाहि भाष्य-टीकावचनानि- १. तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते।

सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥

[[115]]

इति श्रीभगवत्पादाचार्यैः श्रीमदनुव्याख्याने आदिमसूत्रस्य ताराथमूलत्वं कण्ठत एव प्रतिपादितम्। पृथगुच्चारणं तु उत्तरत्रानुगतिसूचनार्थमिति ज्ञापयितुं ‘सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः’ इत्युक्तम्। एवं सन्न्याय- रत्नावलिरपि तथा वदति- ओंकारस्तु स्रवत्यनोङ्कृतं ब्रह्म इत्यादि वचनात् प्रत्यधिकरणावर्तमानत्वात्पृथगुच्चरितो वेदितव्यः’ इति।

२. श्रीमन्तः नारायणपण्डिताचार्याः ‘सर्वत्र शब्दतोऽपि अनुगतत्वात् ओंकारः पृथगेव उच्चार्यते। नाथशब्दवत् सूत्रे निबद्धः‘ इति वदन्तः द्वितीयादिसूत्रेषु ओंकारस्य अनुगतिमङ्गीचक्रुः।

३. ‘तारश्चाथश्च(ताराथौ) तयोः मूलत्वं क्रमेणादित्वम्।(श्रीसुधा- पृ- १३५) आदौ प्रयुक्तावोङ्काराथशब्दाविति यावत्‘।

४. एवं ‘प्राप्ते सूत्रयामास भगवानाचार्यः- ॐ अथातो ब्रह्मजिज्ञासा इति’।(श्रीसुधा-पृ-१७५) ५. ‘यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ’।(श्रीसुधा-पृ-१७८) ६. ‘ब्रह्मशब्दात् विषयसिद्धावपि ओमित्युक्तिः न केवलं ब्रह्मशब्दात् विषयसिद्धिः, ‘ओमित्येतदक्षरं उद्गीथं उपासीत‘ इत्यादौ गुणपूर्णार्थोङ्कारादपि इति युक्त्यन्तरसूचनाय‘।(तन्त्रदीपिका- पृ-५) ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात्।

तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः ॥ इति।

भाष्योदाहृतस्मृतौ अथातःशब्दतुल्यतया आद्यसूत्रावयवतायाः उक्तत्वात् अनुव्याख्याने- ‘तत्र ताराथमूलत्वम्’इत्यथशब्दतुल्यतयोङ्कारस्याद्यसूत्रावय वत्वोक्तिः युक्ता। एवं च सन्न्यायरत्नावली ‘स्रवतीत्यादि श्रुतिप्रापित- साधारणोङ्कारविषया। सुधा तु स्मृतिप्रापिताऽसाधारणोङ्कारविषयेति द्रष्टव्यम्’। (तात्पर्यचन्द्रिका- १/१/१; पृ- १०८)

[[116]]

एवञ्च भगवत्पादाचार्यादारभ्य सर्वे टीकाटिप्पणीकाराः ओङ्कारस्य सम्पुटीकरणं प्रतिसूत्रं सम्यगेव प्रत्यपीपदन्। एवमपि अयमनार्यसम्प्रदायः, भ्रममूलसम्प्रदायः इत्यादि व्याहरणं दोषैकदृक्त्वं विद्योतयति।

एवं गोविन्दाचार्यैः शोधितेषु सर्वमूलसम्पुटेषु गुणाः दोषाश्च दोषज्ञानां प्रतीयन्त इति नातीव वक्तव्यमिति उपरामो विस्तरात्।


[[117]]