१४ श्रीविष्णुसहस्रनामस्तोत्रस्य नामचन्द्रिकाव्याख्या

डा.स्वामी जपसिद्धानन्दः

बन्नञ्जे इत्युपाह्वयानां गोविन्दाचार्याणाम् अनेकाः कृतयः। वेदे वेदाङ्गेषु वेदान्तेषु न्यायव्याकरणादिशास्त्रेषु च व्युत्पन्नाः ते सुरसरस्वतीं सुदीर्घकालं समाराधयामासुः। व्यासङ्गे व्यापृतचित्तैः कृताः कृतयः अध्येतॄणाम् अध्यापकानां च उपकृतये भवन्ति। श्रीविष्णुसहस्रनामस्तोत्रस्य नामचन्द्रिका व्याख्यानं तत्र अन्यतमत्। अस्य व्याख्यानस्य संक्षेपतः सम्मर्शः अत्र विधित्सितः।

श्रीमन्महाभारते शतसाहस्र्यां संहितायाम् आनुशासनिके पर्वणि विद्यते भीष्म-युधिष्ठिर-संवादः। तत्र महात्मना भीष्मेण साक्षात् भगवतः वासुदेवस्य समक्षं श्रीविष्णोः दिव्यं नामसहस्रकं भक्तिभावम् उपारूढेण उज्जगे।

विलसति अविरला सहस्रनामपरम्परा पुराणादिषु। तथापि इदमेव स्तोत्रं मन्त्रत्वेन आद्रियते मनीषिभिः। चित्तशुद्धिद्वारा परमपुरुषार्थसाधनम् इदं स्तोत्रम् इहलोके अपि योगक्षेमाय कल्पते। वैद्यकीयपारम्परासु ज्वरादिनिवारणे प्रयुज्यते। उत्पातेषु अस्य पाठः शान्तिकरः इत्युच्यते। एवं च आध्यात्मिकस्य आधिभौतिकस्य आधिदैविकस्य च तापस्य उपशामकत्वेन प्रेक्षावतां नितराम् उपास्यमिदम् इत्यत्र नास्ति संशीतिः।

श्रीमच्छङ्करभगवत्पादप्रभृतयः जगद्गुरवः इदं श्रीविष्णुसहस्रनामस्तोत्रम् आदरेण व्याचख्युः। पथिप्रदर्शकान् तान् आचार्यान् अनुगम्य उपरिष्टाद् आगताः विद्वांसः तन्माहात्म्यम् उपागम्य तद्व्याख्याने आत्मानं व्यापारयामासुः। तत्रेयं विद्वत्तल्लजानां बन्नञ्जे-गोविन्दाचार्याणाम् अर्वाचीना नामचन्द्रिका व्याख्या। प्रत्येकं व्याचिख्यासुः स्वं स्वं दर्शनम् आस्थाय व्याकुरुते। श्रीशङ्करभगवत्पादानां विष्णुसहस्रनामस्तोत्रभाष्यम् अद्वैत- सिद्धान्तानुशायि। पराशरभट्टस्य श्रीभगवद्गुणदर्पणं विशिष्टाद्वैतानुसारि।

[[95]]

दिव्यस्तोत्रे अस्मिन् आदौ विशत्युत्तरशतं नामानि (‘विश्वम्’ इत्यतः ‘अमृतः’ इत्यन्तम्) चतुर्व्यूहात्मनः भगवतः परवासुदेवपराणि, ततः पञ्चविंशतिः (‘शाश्वतः स्थाणुः’ इत्यतः ‘भोक्ता’ इत्यन्तम्) सङ्कर्षण- प्रद्युम्नानिरुद्धव्यूहपराणि इति अभिप्रैति पराशरभट्टः। वरारोहः महातपाः इत्यनयोः नाम्नोः मध्ये भगवद्वूहस्य विस्तृतं निरूपणम् उपलभ्यते तद्व्याख्याने1। सत्यसन्धतीर्थस्य द्वैतमतानुगामि व्याख्या प्रसिद्धा।

नामचन्द्रिका अपि द्वैतवेदान्तानुयायिनी। द्वैतदर्शनपरत्वे अपि अस्यां सर्वसाधारण्येन स्वीकरणीयानि विद्यन्ते भूयांसि तत्त्वानि इति इयान् विशेषः।

भूमिकाम् आरभ्य आन्तम् अनुभूयते वैशिष्ट्यम् नामचन्द्रिका- व्याख्यायाः। उपक्रमे उपस्पृष्टाः विषयाः प्रत्याययन्ति प्रतिभां प्रणेतुः।

‘शब्दतः अर्थतश्च प्रमृष्टा भूमिका’ इति स्वयं प्रतिज्ञातं ग्रन्थकृता। एतर्हि निदर्शनमुद्रया बिन्दुशः उदीर्यन्ते अधस्ताद् कतिपयान्येव विशिष्टस्थलानि- 1.विष्णुसहस्रनामस्तोत्रस्य महत्त्वे चतुरः प्रधानहेतून् श्रीमध्वाचार्योक्तान् उल्लिख्य प्रसादयति मनः व्याख्याता आदावेव।

2.विश्वशब्देन उपक्रमस्य उपपादनमपि उपोद्बलयति प्रागल्भ्यं व्याख्यातुः। उपपत्तौ उपन्यस्तानि चत्वारि कारणानि सारतः यथा - • विष्णोः सर्वपदवाच्यत्वात् सर्वार्थकेन विश्वशब्देन समारम्भः समञ्जसः।

• विश्व-विष्णुशब्दौ विशधातोः निष्पद्येते - विशति इति विश्वम्, विशति इति विष्णुः इति। निर्वचनैक्यात् विष्णुपदव्याख्यानभूतेन विश्वशब्देन उपक्रमः उपपद्यते।

• उपासारहस्यं तृतीयो हेतुः। जाग्रदवस्थाप्रेरकः देवः अकारवाच्यः।

तस्य विश्वम् इति अन्यतमं नाम। विध्ननिवारकस्य विनायकस्य 1. पृ.११७

[[96]]

बिम्बरूपः सः। अतः विश्वनाम्नः प्रथमोपादाने निरन्तरायत्वं निरन्तरस्मरणम् इति फलद्वयं सिद्ध्यति।

• वाक्शुद्धिकरः वाग्दोषहरश्च परशुरामः स्तूयते विश्वपदेन। ‘विश्वरूपं हरिणं जातवेदसम्’ इति श्रुतेः। अभीष्टम् अतः तद्ग्रहणम् आदौ इति तुरीयं कारणम्।

3.विश्वम् इति क्लीबलिङ्गप्रयोगस्य औचित्ये प्रवर्तितः विचारश्च अवधेयः।

व्याख्यान्तरेषु ‘तदशिष्यं संज्ञाप्रमाणत्वात्’ इत्यादिना समाहितम्, अत्र तु स्त्रीपुन्दोषराहित्यात् भगवतः नपुंसकलिङ्गशब्देन निर्देशः युक्तः इत्युक्तम्।

अनुपदमेव पुंस्त्वविशिष्टस्य विष्णुशब्दस्य निवेशोऽपि श्रुत्या समर्थितः।

अन्यत्रापि नाम्नां लिङ्गव्यत्ययः ‘रूपं रूपं प्रतिरूपो बभूव’ इति कठश्रुत्या समुचितं समीक्षितः।

नामानि शतकेषु विभज्य व्याख्यातानि। यथावसरम् अवतारितानि शास्त्रान्तराणि व्याख्यायाः उपादेयत्वम् उपोद्बलयन्ति। अन्यत्र विरललभ्यानि शास्त्रवचांसि अत्र लब्धावसाराणि इत्येतदपि अन्यतमं वैशिष्ट्यम्।

4.विश्वम् इति प्रथमस्य नाम्नः विंशत्यधिकं शतम् अर्थाः प्रत्यपादिषत।

नान्यत्र इयान् व्याख्याविस्तरः दृश्यते।

5.असकृत् पठितस्य एकस्यैव नाम्नः अर्थः भिद्यते। भिद्यन्ते च तदर्थप्रकाशे दोषज्ञाः इत्यतः विपुलं सम्पद्यते व्याख्यानसाहित्यम्। तथाहि

  • पुरुषः, धाता, प्रणवः, दक्षः, सुखदः, यज्ञः, पुण्यः, चक्री इत्येत्प्रभृतीनि नामानि द्विः1 , विष्णुः, माधवः, अजः, अच्युतः, वसुः, सत्यः, वीरहा, 1. पुरुषः - १४, ४०७। धाता - ४३, ९५१। प्रणवः - ४१०,९५७। दक्षः - ४२४, ९१८। सुखदः - ४३१, ८९०। यज्ञः - ४४७, ९७१। पुण्यः - ६९१, ९२६। चक्री

  • ९०९, ९९५। इमाः नाम्नां संख्याः नामचन्द्रिकायां दर्शिताः संख्याः इति अवधेयम्।

शांकरभाष्ये, भगवद्गुणदर्पणे च विद्यते नाम्नां संख्याने भेदः।

[[97]]

वासुदेवः, वीरः इतीमानि त्रिः1 , श्रीमान्, प्राणदः इति चतुः 2 इत्येवं नामानि आवृत्त्या पठितानि प्रसङ्गेण वाच्यभेदानुरोधेन च। तथाहि अजः इत्यत्र व्याख्या-विशेषः अधः कोष्ठके अदर्शि उदाहरणविधया।

त्रिः पठितस्य अजः इत्यस्य व्याख्याविशेषाः श्लोकः तत्संख्या च शांकरभाष्यम् भगवद्गुणदर्पणम् नामचन्द्रिका अजः सर्वेश्वरः.॥

९५-तमं नाम न जायते इति अजः। तेषां स्वप्राप्तिपरि पन्थि सर्वं स्वयमेव क्षिपति इति अजः। अज गति क्षेपणयोः। अच्।

न कदापि जायते। अथापि अः अप्राकृतः सन् जायते।

अजे च ब्रह्मणि नित्य- सन्निहितः॥

अमृत्युः सर्वदृक्.।

अजो दुर्मर्षणः.॥

२०४-तमं नाम अजति गच्छति क्षिपति इति वा अजः स्तंभसंभवत्वेन इतरवत् न जायते इति अजः।

अन्येष्वपि दृश्यते इति डः। न जायते जनित्र्यां यत् अजः तस्मात् अनेक- जित् इति।

अजं ब्रह्माणम् अजति गच्छति इति अजः। अजति सर्वत्र गच्छति सर्वम् अवगच्छति इति अजः। अजति क्षिपति दुष्टान् तमसि इति अजः।

अज गति-क्षेपणयोः। मुक्ता न पुनः जायन्ते येन सः अजः।

अजेषु बस्तेषु स्थितश्च अयम्।

अकारवाच्यः सर्वजनकश्च॥

अजो महार्हः…॥

५२३-तमं नाम आत् विष्णोः अजायत इति कामः अजः।

अस्मिन् तत्त्वावसाने प्रणवप्रकृतिभूतअकार वाच्यतया स्मर्तव्यत्वात् अजः। अकारवाच्यतया जातः इति।

आत् स्वात्मतः एव स्वयं जायते। आनन्दत्वाद् इत्युक्तः इति वचनाद् आनन्दी सन् एव जायते। आनन्दित्वाद् एव जनयति विश्वम्।

आनन्दमयः जनकः। न विद्यते अतः अन्यः जनयिता। अत एव चायम् अधिकः जनकः।

अजान्तर्गतः तन्नामा॥

  1. विष्णुः- २, २५९, ६६१। माधवः- ७२,१६७, ७३९। अजः- ९५, २०४, ५२१।

अच्युतः-१००,३१९,५५६।वसुः-१०४,२७१,७००। सत्यः-१०६, २१२, ८७३।

वीरहा-१६६,७४५,९२९। वासुदेवः-३३३,६९९,७१३। वीरः-४०२, ६४७, ६६२।

  1. श्रीमान् - २२, १७८, २२१, ६१७। प्राणदः - ६५, ३२२, ४०९, ९५६।

[[98]]

विद्यते अस्य व्याख्यातुः प्रातिस्विकं महत्वम् अनल्पम्। अत्र व्याख्यायां प्रायेण स्वकीयं स्वतन्त्रं च चिन्तनं पदं कुरुते। पूर्वे विद्वांसः पारम्पर्यनेमिवृत्तयः परिलक्ष्यन्ते प्रायेण। अयं तु नामचन्द्रिकाकृद् आविष्कृत्य आत्मीयं पन्थानम् अर्थान् व्याचष्टे। तथाहि सन्धाता (२०१) इत्यत्र। कर्मफलैः पुरुषान् सन्धत्त इति सन्धाता इति शाङ्करी व्याख्या। रिपु-द्विप-निष्पेष-भीषणः अपि संधाता प्रणेयानां प्रह्लादप्रभृतीनां संश्लेषयिता इति पराशरभट्टकृते भगवद्गुणदर्पणे। गोविन्दाचार्येण तु इत्थम् अर्थः अकारि - यं कमपि, यत् किमपि, यत्रकुत्रगतम् अपि परस्परं सन्धत्ते इति सन्धाता।

कमपि पतित्वेन, कामपि पत्नीत्वेन, पितृत्वेन, मातृत्वेन, पुत्रत्वेन, सखित्वा- दिना च। कमपि धनेन, कमपि दारिद्र्येण, कमपि विद्यया, कमप्यविद्यया, कामपि रूपेण, कमपि सुखेन, कमपि दुःखेन, कमपि विनयेन, कमप्यहङ्कारेण, वर्णं वर्णेन, पदं पदेन, वाक्यं वाक्येन, वाच्यम् अर्थेन, अर्थं वाचा, भुवं दिवा, सर्वं सर्वेण सन्धत्ते। एवं सन्दधत् सम्यग् लोकान् धत्ते।

एवमेव, अक्षरः (४८३), गभस्तिनेमिः (४८८), चतुर्व्यूहः (७७०), चाणूरान्ध्रनिषूदनः (८२९) एतत्प्रभृतिषु च स्वोपज्ञं चिन्तनम् उपातिष्ठिपत्।

अर्थविस्तारे अपि विहितो यत्नः अविचिन्तितपूर्वान् अर्थान् व्याकुर्वन् स्फुटं प्रत्याययति वैशिष्ट्यम्। इमे अर्वाचीनाः व्याख्याप्रकाराः यद्यपि इतोऽप्यधिकं विचारम् आकाङ्क्षन्ति, तथाऽपि विद्वत्प्रयासोऽयं प्रशंसनीयः इत्येव प्रतीमः।

तथाहि आशशंसिरे श्रीमद्विवेकानन्दस्वामिचरणाः वेदानां साम्प्रतिकानि भाष्याणि विधेयानि इति। स्तोत्रस्य शास्त्रीयव्याख्यानेन तदाशंसा कियता प्रमाणेन साफल्यम् अगात् इति प्रतीयते।

6.निरुक्तस्य शैली अत्र अनुसृता इत्येतदपि अनितरसाधारणं वैशिष्ट्यम् अस्याः व्याख्यायाः। नान्यत्र स्तोत्राणाम् अर्थानुसन्धाने नैरुक्तानां पन्थाः आश्रितः पर्यलक्षि। ‘वर्णसाम्येन निर्ब्रूयादिति प्राचां मताश्रया। निरुक्ति- प्रक्रिया सेयं नैव व्याकरणाश्रया॥’ इति स्वयम् ऊरीचकार वैशिष्ट्यं

[[99]]

व्याख्याता। अध्येतृसौकर्यार्थं कानिचन स्थालानि अत्रोदाहृतानि। तथा हि

  • अप्रमेयः (३२६), शरभः (३५७), पेशलः (९१७), दक्षिणः (९१९) इत्येतत्प्रभृतिषु नामसु निरुक्तशैली सुस्फुटा।

7.नाम्नां व्याख्यागतविशेषे उदाहरणद्वयम् अधः कोष्ठके न्यरूपि।

8.नाम्नां व्याख्याविशेषगतस्य स्वारस्य उदाहरणद्वयम् क्रम.सं शब्दः श्लोकसंख्या च शांकरभाष्यम् भगवद्गुणदर्पणम् नामचन्द्रिका 1 रुद्रः। रुद्रो बहुशिरा …॥ ११४-तमं नाम 1.संहारकाले प्रजाः संहरन् रोदयति इति रुद्रः।

2.रुदं राति ददाति इति वा।

3.रुः दुःखं दुःख- कारणं वा, द्रावयति इति वा रुद्रः।

4.रोदनात् द्रावणाद् वापि रुद्रः इत्युच्यते।

एवं विधरूपविविध

-चेष्टितद्रुतहृदयान् सानन्दबाष्पान् कुर्वन् रोदयति इति रुद्रः।‘रोदेर्णि लुक् च’ इति (उणादि) रक्प्रत्यये णिलोपश्च।

1.रुक् दुःखं संसारो वा।

रुजं द्रावयति इति रुद्रः।

2.असतः रोदयति इति रुद्रः।

3.रुद्रे गतश्च रुद्रः।

4.वेदरुते रतश्च।

2 कपिलः। ८९९-तमं नाम। ‘सनात्सनातन तमः कपिलः…॥

बडवानलस्य कपिलः वर्णः इति तद्रूपी कपिलः।

किंरूपः? मध्यस्थ- नीलतोयदविद्युल्लेखो ज्ज्वलवर्णः कपिलः कपिः सुखपानात्, सर्ये स्थित्वा जलपानाद् वा, लाति च भक्तानिति कपिलः। लाति आदत्ते सर्वं जगत् प्रळयकाले स्वोदर इति वा। कं पिबतीति कपयो मुक्ताः।

तान् लाति वा। कपिरिति ब्रह्मवायू। कपिरिति हनुमान्। तौ तं वा लाति।

आनन्दरूपः पाता लाता च। रामावतारे कपीन् लातीति वा॥

[[100]]

पूर्वोक्तान् बिन्दून् अतिरिच्य अन्यथाऽपि उपकुरुते इयं व्याख्या। तद्यथा अनेकेषां धातूनां पाठभेदस्य उपलब्धिः। तथाहि दक्ष धातुः भगवत्पादभाष्ये गतिहिंसार्थकः आम्नातः, भगवद्गुणदर्पणे तु वृद्ध्यर्थकत्वेन। प्रसिद्धधातु- पाठेष्वपि ‘दक्ष वृद्धौ शीघ्रार्थे च’ इति ‘दक्ष गतिहिंसनयोः’ इति वा अर्थनिर्देशः सुलभः। नामचन्द्रिकायां तु अत्र ‘दक्ष गतिशासनयोः’ इत्येकः, ‘दक्ष वृद्धौ शीघ्रार्थे च’ इत्यपरश्च पठ्यते। अधिकं जिज्ञासूनाम् अनुसन्धानाय कल्पन्ते एतादृशाः सन्दर्भाः।

एवं भूयांसि विद्यन्ते प्रयोजनानि अस्य नवीनव्याख्यानस्य अध्ययने।

शास्त्राध्येतृभिः विष्णुध्यानपरैः भगवद्भक्तैश्च नूनम् उपादेया पाठ्या च इयं व्याख्या। भगवतः श्रीमद्विष्णोः कृपया नामचन्द्रिका चन्द्रिकासंनिभा संनिभृता सुमनोभिः विजयतात् सन्निवासेषु इति सम्प्रार्थ्य विरम्यते विस्तराद् इति शम्।

श्रीश्रीरामकृष्णस्मृतयः