१३ ईशावास्योपनिषद्भावचन्द्रिका

डा. हेच्.के.सुरेशाचार्यः

विद्वदग्रेसरस्य गोविन्दाचार्यस्य तथा तद्विरचितस्य ग्रन्थस्यैकस्य अवलोकनम्।

भारतीयसंस्कृतवाङ्मयं रत्नाकर इवागाधं सत्प्रतिभासते प्राचीनादपि कालात्। अद्यतनेऽपि काले नवीनप्रतिभयोल्लसिताः शास्त्रकाव्यनिष्णाताः सन्त्यनेके। वाङ्मयप्रवाहो निरन्तरमप्रतिबद्धः सन् प्रवहति। अस्मिन् तान्त्रिके युगेऽपि प्राक्तनव्याख्याकारसदृशाः समुपासीतसरस्वतीकाः केचनोपलभ्यते।

तेषु विद्वत्तल्लजेषु प्रकाशितासाधारणप्रतिभाशालिषु मध्ये बन्नञ्जेपदोपाह्वः गोविन्दाचार्योऽन्यतमो मालामध्यपतितमाणिक्य इव प्रथितयशाः भाति संस्कृतप्रपञ्चे।

गद्यपद्यचम्पूनाटकादिषु काव्यप्रकारेषु च विरचितानेकप्रबन्धो ब्रह्मसूत्र- भाष्यटीकाटिप्पण्यादिषु, गीता-रामायण-महाभारतादिषु, गहनेषूपनिष- दादिषु च निरन्तरं विहिताध्ययनाध्यापनप्रवचनादिकार्यभारः सर्वत्रापि प्रका शितनवनवीनप्रतिभाप्रभाविभवः, विविधशास्त्रीयविचार मथनेषु च मन्थायितः स्वरचितकाव्यकन्याविलासोल्लासप्रपञ्चनेनावर्जित रसिकजन- सन्दोहः बहुसहस्राधिकप्रवचनसरणीनिर्झरीषु अमृतजीवनासेचनेन प्रसन्नायितसुजनमनोमन्दिर आचार्यगोविन्दः यावज्जीवनं कृष्णसेवाव्याजेन शास्त्रसेवां विधाय शाश्वतीं कीर्तिं सम्पादयामास। तत्प्रतिनिधिभूताः तदीयग्रन्था अद्यापि मार्गदर्शकाः विलसन्ति।

बहवः ग्रन्थाश्च विरचितास्तेन, तदत्र तेषु याज्ञीयमन्त्रोपनिषद् ग्रन्थं तथोपनिषत् प्रास्ताविकं चालम्ब्य स्थूलदृष्ट्या केचन विषया निरूप्यन्ते।

यानि पुस्तकानि तत्प्रकाशितानि लोकदृग्गोचराणि सञ्जातानि तेषु सर्वत्रापि पुस्तकसौन्दर्यं, निर्दुष्टता प्रतिभाति। मुद्रणदोषाणां कणानामपि

[[90]]

छिद्रान्वेषणतत्परैः प्रत्याविष्करणं कष्टायते। सन्देहाजनकतया सुस्पष्टं स्फुटाक्षरैर्मुद्रितं सन्तोषं जनयति सज्जनानाम्।

नाधिकं भाषतेऽयं प्रास्तविके। कृतज्ञतायाः समर्पणप्रसङ्गेतु पुस्तक- प्रकाशने यावदुपकृतं शिष्यैः तत्स्मरणे सहायोल्लेखे च न लज्जायते तच्चित्तम्।

मुक्तकण्ठं प्रशंसति च परोपकारम्। प्रायस्तत एव ते गुरुमपहाय नान्यत्र गच्छन्ति। यावज्जीवमुपसरन्ति च।

किञ्चिदिवात्रोदाहतम् - उपनिषच्चन्द्रिकाग्रन्थे परिशिष्टभागे द्वितीयत्वेन ‘वैदिकछन्दोमीमांसा’ इति निबद्धा। एतस्या आरचने लेखकस्य साहाय्यमाचरितवान् कश्चन प्राज्ञः। ‘आत्मकूर आनन्दतीर्थाचार्यः’ इति अयमपि कवितल्लजः। स्वगुरुणा विरचितं युधिष्ठिरमीमांसकेन ‘वैदिक- छन्दोमीमांसा’ नामकं पुस्तकमानीय गोविन्दाचार्याणां कृते प्रपदौ।

महान्तमुपकारमकार्षीदयमिति सहार्दं कृतज्ञतां समर्पयामास लेखकः

-तदित्थम्- ‘युधिष्ठिरमीमांसकप्रणीतस्य पुस्तकस्य प्रेषणेनायमानन्दतीर्थाचार्यः बहूपचकार, न शक्यं ‘वयं कृतज्ञा’ इत्युपचारवचनमात्रेण स प्रतिकर्तुम्।

चिरमृणिनो वयं वारं वारं तदुपकारं मानयन्तस्तस्य स्मराम’……इत्यादि कथितम्।

अयमंशः लेखकस्य प्रामाणिकतामादर्शयति, अनेन च सहृदयानां मनस्तृप्यति। कड्डीपदोपाह्वेन बदरीनारायणाचार्येन सश्रद्धं कृतोपकारं बहुधा मानयन् तदुक्तानि वचनान्युल्लिखन् सादरमाशीर्वादपुरस्सरं ह्यभिनन्दितवान्।

यद्यप्येतेंऽशा अल्पा एव, तथापि पुस्तकप्रकाशनकाले अल्पोऽप्युपकारो महदायते।

‘उपनिषच्चन्द्रिकेति’ नामधेयं प्रदत्तमस्ति पुस्तकस्यास्य।

उपनिषदां मध्वाचार्यविरचितं भाष्यं तथा वामनपण्डिताचार्येण

[[91]]

नारायणपण्डिताचार्यसूनुना विरचिता टीका, तथा बन्नञ्जे गोविन्दाचार्याणां टिप्पणी भाष्यचन्द्रिका च पुस्तकेऽस्मिन् प्रतिभाति। इदं प्रथमतया वामनपण्डिताचार्यस्य टीका मुद्रिता। एतत् सर्वं सुन्दरमेव वर्तते। तथापि पुस्तकस्य नामधेयं उपनिषच्चन्द्रिकेति भवितुमर्हति वेति मम संशीतिः।

‘आनन्दतीर्थभगवत्पादकृतभाष्यभूषिता का भवति? उपनिषन्मात्रमेव, न भावचन्द्रिका भवति किल, विचिन्त्यम्।

अस्मिन् पुस्तके ‘छन्दोमीमांसा’ इति प्रबन्धः, तथा तारतम्यमीमांसेति च प्रबन्धो बहूपकरोति विदुषां विद्यार्थिनाञ्च। अनेन महोदयेन प्रकाशितानि सर्वाण्यपि पुस्तकानि निदर्शनस्थानालङ्कृतानीति कथनं नातिशयितवचनं भवति।

याज्ञीयमन्त्रोपनिषदमधिकृत्य तट्टिप्पणीमवलम्ब्य च किञ्चिदिव प्रस्तूयतेऽत्र- ईशावास्योपनिषत् इति- ईशोपनिषदिति चोपनिषदः नामधेयं प्रथितमस्ति। भागवतपुराणादिषूक्तवचनमनुरुन्धानो लेखको तस्या एव याज्ञीयमन्त्रोपनिषदिति नामकरणं चकार। नवावतरणमात्रं न कल्पते दोषाय। आचार्यमध्वस्य भाष्यमिदं प्रथमतया वामनपण्डितार्यविरचितया टीकयालङ्कृतं - भावचन्द्रिकया च शोभितमस्ति। वामनपण्डितस्तु प्रायः मध्वगुरोमुखादेव श्रुतोपनिषदर्थ इति तट्टीकाया महत्वं वर्धते। उपनिषत् पाठविषये मध्वाचार्यस्याभिप्रायः, सहमतिः केति टीकावाक्यादवगम्यते।

विशिष्य तादृशांशाः प्रदर्शिताश्च चन्द्रिकायां तथा प्रास्तविकवचने च।

टीकायां च नूतनविषयाश्चाविष्कृताः। भावचन्द्रिकायां तु टीकायाः व्याख्यानं सुन्दरं दृश्यते, अपि चोपनिषदः तथा भाष्यस्य च गहनार्थः टिप्पण्यां विस्तृतरूपेण प्रपञ्चितः। मङ्गलाचरणस्य व्याख्याने तु छन्दोविचारः सुदीर्घं प्रस्तावितः। अनुष्टुबादिप्रभेदाश्च सम्यक् निरूपिताः। काण्वानां तथा माध्यन्दिनानां च उपनिषत्पाठा अत्रैवाविष्कृताः वर्तन्ते।

[[92]]

उपनिषन्नामभेदे च कारणं निजगाद गोविन्दार्यः। याज्ञीयशब्दोत्पत्तिरपि प्रदर्शिता। मन्त्राणामर्थस्य च कथने सम्प्रदायमनुरुन्ध्य चिरकालविहिताध्य यनाध्यापनादिनाऽन्तःस्फुटितान् विशेषार्थांश्च बभाणात्र। सुकृतिनो वयं एतावद्विशदव्याख्यानलाभेन, ऋणिनश्चाचार्यगोविन्दमहोदयस्य।

‘इशावास्यमिदं सर्वमिति मन्त्रस्य भाष्यटीकानुरोधेन सम्यग्व्याख्यायानन्तरञ्च चन्द्रिकायां विशेषार्थाश्च निरूपिताः। जयतीर्थीयटीकामादृत्य स्वीकृत्य क्कचिद् अर्थभेदे कारणञ्चाह सुसम्बद्धम्।

शाङ्करभाष्यवचनान्युल्लिखन् तत्रत्यास्वारस्यं सुष्ठु प्रदर्शयामास।

व्याकरणविशेषाश्च तत्राविष्कृताः विदुषां विद्यार्थिनाञ्च बहूपयोगाय कल्पन्ते।

अन्ते मन्त्रार्थश्च सुग्रहाय निबोधितः।

‘मा गृधः कस्यस्विद्धनं’ इत्यस्य नूतनार्थाः प्रकटिता ये च तेऽपि मध्वार्यसम्मताः सन्ति। तदुक्तमत्र भगवता यद्दत्तं तत्तस्य प्रसाद इति मत्वा भुङ्क्ष्व, तेन यन्न ते दत्तं यदन्यस्मै वा दत्तं तदन्यस्य कस्यचिद्धनमिति मत्वा मागृधः …… सर्वं धनं भगवदधीनमिति। इत्यादि प्रपञ्चितम्। ममात्यन्तः स्फुरितोऽत्यमर्थः निबध्नामि। मागृधः- अन्यं प्रति गत्वा मा प्रयाचेत्। कुतः? कस्य धनं स्विद् इत्युत्तरम्। अकयप्रविसंभूमसरवहा विष्णुवाचका इत्युक्तत्वात् एकाक्षरकोषे कस्य विष्णोरित्यर्थः। एवञ्च जगति विद्यमानं सर्वं धनं विष्णुसम्बद्धम्। एको नैकः सवः कः किमिति विष्णुसहस्रनामस्तोत्रेऽपि ‘कः’ इति विष्णुनामत्वमुक्तम्।

तथाच अन्यं प्रति गत्वा मा याचेत्। यदि धनं देवदत्तीयं भवति तर्हि तत्रैव प्रयाचेत्, न यज्ञदत्तस्य निकटे, तद्वदिहापि धनं सर्वं कस्यचिद् किल- भगवत्सम्बद्धं किल - तथाच तत्रैव प्रयाचेत् मा गृध इतरत्रेत्यर्थः।

द्वितीयमन्त्रे - ‘कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः’ इत्यत्र चन्द्रिकाव्याख्यानेऽयमंशः स्फुटं निरूपितः। ‘शतं समाः’ शतं वर्षाणीति नार्थः। अत्र शतशब्दः पूर्णत्ववचनः। एतदत्यन्तमावश्यकं लेखनियमस्ति।

[[93]]

अन्यथा मन्त्रमिमं स्वायम्भुवमनुः स्वात्मानमाह इति लिखितम्, अन्यान् प्रत्यपि उक्तं स्यात्, तथापि - कृतत्रेताद्वापरादिषु किं मानवानामायुःप्रमाणं किं शतं वर्षाण्येव? कथमिदं सङ्गच्छते, अतः शतशब्दोऽत्र पूर्णत्ववचन इत्येव वक्तव्यम्। नामं सङ्ख्यावचनः यः शताधिकाः समा यदि जीवति सोऽपि शतं समा जीवतीति वक्तुं पार्यते। यावज्जीवति पुरुषः तावतीः समाः कर्माणि कुवन्नेव जीवेदित्यर्थः समीचीनो भवति। व्याख्यातासु सर्वास्वपि उपनिषत्सु विशेषार्थानामुल्लेखनं दृश्यते - तत्वजिज्ञासुभिरवश्यं ग्रन्थाश्चेमे पठनीयाः तत्र तत्र तत्त्वप्रदीपकाकारस्य, जयतीर्थमुनेश्चभिप्रायविशेषाः सुष्ठूपपादिताः चन्द्रिकायाम्।

विद्वद्भिः विद्यार्थिभिश्च बन्नञ्जे गोविन्दाचार्यमहाभागस्य पुस्तकानि कदाचिदवलोकितानि चेत् लेखकस्य अध्ययनवैशाल्यम् प्रतिभागाढता च विज्ञाता भवति। लेखकस्य प्रयत्नः साफल्यम् अवाप्नोति। उपनिषदन्ते स्वीयपरिचयं, गुरोश्च प्रशंसा श्लोकद्वारा प्रकाशिता।


[[94]]