१२ अाचार्यगोविन्दविरचिता प्रश्नमाण्डूकाथर्वणोपनिषच्चन्द्रिका

डा. हेच्.सत्यनारायणाचार्यः

समुद्रवद्गाम्भीर्यमुपनिषदाम्। समुद्रे खलु उपरिष्टाद्वलन्तो जनाः लवण- जलात् मत्स्यसङ्घाच्च अन्यत् किञ्चित् न प्राप्नुवन्ति। अधोऽधः प्रविशद्भिः रत्नानि बहुमूल्यान्युपलभ्यन्ते। तद्वत् बालसङ्घा अप्युपनिषदं पेठुरधिजगिरे च। शब्दावगमे वाक्यार्थबोधे च पर्यवसितं तेषामध्ययनम्। नैवं विदुषाम् अध्ययनम्। विद्वांसः खलु उपनिषत्पारावारे स्वेच्छं विहरन्तोऽन्तरधोऽवतरन् तोऽर्थविशेषरत्नान्यासादयन्तो बहुलमानन्दमनुभवन्ति। अस्य अानन्द- कूपारस्य पारो न विद्यते। तस्यामन्दानन्दस्याभिव्यक्तिरेव ग्रन्थप्रणयनम्।

स्वेनानुभूतस्य ज्ञानानन्दस्य वितरणमनेन भवतीति महत् पुण्यप्रदं कार्यं व्याख्यानं नाम। ‘व्याख्यैकस्य शतोत्तरा’ इत्याह भगवान् मध्वाचार्यः।

यत्र नवनवोन्मेषशालिनी प्रतिभा, सरलया हृद्यया च वाग्भङ्ग्या तन्निरूपण- कौशलञ्च सम्मिलिते तादृश एव विद्वद्वरः कुर्याद्ग्रन्थव्याख्यानम्।

ईदृशेष्वङ्गुलिगण्येषु साम्प्रतिकेषु व्याख्यातृषु मूर्धन्यतमोऽयम् अाचार्य- गोविन्दः। योऽयमुपनिषदः स्वयमधीयानः प्राचीनैरुक्तेष्वर्थेषु निगूढान् भाव- विशेषान् साक्षात्कुर्वाणः श्रुतिस्मृत्यविरोधिन्या स्वीययाऽश्रुतप्रतिभया नूत्नानप्यर्थविशेषान् प्रकटयन्नाप्याययति विनेयगणम्। अत एतस्य व्याख्या क्कचिदुपनिषदां भाष्यायते। क्कचिदुनिषद्भाष्यस्य टीकायते। परं सर्वत्र टीकायाष्टिप्पणीत्वं न जहाति।

मध्वभाष्यस्य गुरुभावं प्रकाशयन्ती विलसति भावगम्भीरा विद्वज्जन- मानसरसायनभूता टीका पण्डितवामनपेजत्तायस्य। लिकुचवंशोद्भवस्य वामनपण्डितस्य टीकाचन्द्रमसश्चन्द्रिकेवार्थप्रकाशिनी बन्नञ्जे गोविन्दाचार्यस्य उपनिषच्चन्द्रिका।

[[82]]

हृद्या शुद्धा च भाषा अयं व्याख्याता स्वयमभिजातः कविः। न खलु कविवाणी क्काप्यध्येतुर्मनः खेदयति। परं नवोढा कान्तेवाकर्षति। स्वस्याः श्रवणे पठने च स्वयं प्रेरयति।

अत्रत्या गोविन्दवाणी क्कचिट्टीकाकृन्मूर्धन्यस्य जयतीर्थस्य वाणीं स्मारयति। अन्यत्र पातञ्जलं भाष्यम्। अपरत्र च बाणभट्टस्य गद्यवैभवम्।

सर्वत्र च लिकुचसूरेः पण्डिताचार्यस्य तत्त्वप्रदीपसरणिम्। पण्डिताचार्यवचोभिः आविष्टचेता अयं व्याख्याता स्वीयकार्यस्य संवादित्वेन क्रियासमभिहारतः तत्त्वप्रदीपादिवचांस्युल्लिखति।

न केवलं भाषा हृद्या, सरला च। आकाङ्क्षानुगुणं वाक्यानि सन्दृब्दानि।

स्वयं प्रश्नान् पृच्छन्नुत्तरं ब्रूते। अनायासेन वाक्यार्थग्रहणे तदिदं निमित्तम्।

प्रतिवाक्यमत्र किञ्चिद्वैशिष्ट्यमुपवर्णनीयम्। परन्तु प्रबन्धबन्धोऽनुल्लङ्घनीय इति किञ्चिदेव विवरीतुकामोऽयं जनः।

निर्वचनमादर्श्य शब्दार्थकथनम् ‘अकयप्रविसंभूमसखहा विष्णुवाचकाः’ इति टीकोल्लेखः। अत्रोपदर्शि तानामेकादशाक्षराणामप्यर्थविशेषानादर्शयति गोविन्दः। तत्रापि विशेषतो ‘य’शब्दस्य। कथं यो विष्णुः? ईः लक्ष्मीः। अः नारायणः। ईसहितः अः यः। लक्ष्मीनारायणः इति यावत्। इति तद्वचनम्। यद्यपि ‘याति सर्वत्रेति यः’ इति सर्वगतत्वं सर्वज्ञत्वञ्च यशब्दार्थः इति टीकान्तराध्येतॄणां नातितिरोहितम्। ईकाराकारयोः यणि निष्पन्नोऽयं रमारमणवाचक इति गोविन्दाचार्यव्याख्यानं त्वपूर्वम्।

शौनकाथर्वादीनां व्यक्तिविशेषवाचकानां शतशः पदानां निर्वचनं प्रादर्शि। अथर्वशब्दनिर्वचने गोविन्दाचार्यः नैरुक्तं मार्गमनुसरति। न थर्वतीत्यथर्वः, अथर्वा च। द्वयमपि साधु। यथा नचिकेत इति, नचिकेता इति च। ‘थर्वतिश्चरति कर्मा। तत्प्रतिषेधः’ (२२-२८)। इति निरुक्तम्।

[[83]]

चरतिः संशयार्था। तेन तत्वनिश्चयवानथर्वोच्यते। अकारवाच्ये तिष्ठन् रमते वनति भजति चेति वा। सर्वमधरयन् भजति वा। अं धरमाणो वननीयश्चेति वा। समित्पाणिरधरं वर्तयन् वा।

पश्यत! पश्यत निर्वचनचातुरीं पण्डितवर्यगोविन्दस्य। आन्त-नान्तयोः अथर्वशब्दयोः ‘अथर्वाय ज्येष्ठपुत्राय’, ‘अथर्वणे यत् प्रवदेत’, इत्युपनिषदु- ल्लिखितयोः स्थिरीकरणाय नचिकेतपदं दृष्टान्तयति। ‘नाचिकेतमुपाख्यानम्’ इति श्रुत्याकारान्तोऽप्यस्ति नचिकेतशब्दः इति स्वयं काठकटीकाविवरणे निजगादायं व्याख्याता। साम्प्रतमेतद्दृष्टान्तस्तदपि द्रढयतीति स्थाने खल्वेष दृष्टान्तः।

स्वयमपि चतुर्धाथर्वणशब्दं निर्वक्ति। ‘अकारवाच्य’ इत्यादिना। तदिदं व्याख्यानसापेक्षम्। तिष्ठतीति थः। रमत इति रः। वनतीति वः।

वनसंभक्ताविति धातोर्डः। ए परमात्मनि तिष्ठन्, परमात्मनि निविष्टान्त श्चक्षुरिति यावत्। तथाभूतो रमते परमां मुदमाप्नोति। तमेव हृदि दृश्यं परमात्मानं वनति भजति इति अथरवः। क्किपि तु नान्तः शब्दः। तथा च ए अकारनामके परमात्मनि तिष्ठतीत्यथः। ष्ठाधातोरच्यादि लोपेऽन्त्य हृस्वश्च।

अथः सन् रमत इति अथरः। रमेर्डः। वनतीति वः। वनेर्डः। क्किपि तु वनिति नान्तं पदम्। अथरश्चासौ वश्च अथरवः अथरवा वा। अथरव एवाथर्वा इति व्युत्पत्तिः स्वयमध्येतृभिरूह्या। संक्षेपप्रियो गोविन्दसूरिः।

अक्षरसाम्यान्निर्ब्रूयात्, न चैव न निब्रूयात् इति यास्कवचनमनुसरन् समित्पाणिरधरं वर्तयन्निति निरुवाच। अधरं वर्तयन् अधर्वो भवेत्।

‘तृतीयोऽतिशये’ इत्यस्मादथर्वा भवति। थकारस्य धकार इव धकारस्य थकारोऽपि तृतीय एव।

टीकास्वारस्याविष्करणम् आथर्वणे षष्ठे मन्त्रे ‘जङ्घन्यमानाः परियन्ति’ इति श्रूयते। तत्र जङ्घन्यमानाः अतिजघन्या भवन्तः इति वामनपण्डितस्य टीका।

[[84]]

उद्भिद्यतेऽत्र प्रश्नावली। को धातुः? कथं निष्पत्तिः ? कुत अतिजघन्यभवनं तदर्थः? इत्यादि। सयुक्तिकोऽयं प्रश्नसमुदायः। यतः – ‘दन्द्रम्यमाणाः परियन्ति’ इति काठके पाठः। अत्र तु जङ्घन्यमाना इति। उभयोः पदयोः समानार्थत्वं मन्वते शब्दशास्त्रज्ञाः। हनधातुः गत्यर्थः। ‘नित्यं कौटिल्ये गतौ’(अष्टा-३.३.१३)इति कौटिल्ये गम्यमाने यङ्प्रत्ययः। कुटिलं घ्नन्ति गच्छन्तीति जङ्घन्यन्ते। तस्माच्छानचि जङ्घन्यमाना इति रूपम्।

कुटिलं गच्छन्त इति स्फुटोऽर्थः। ‘अतिजघन्या भवन्तः’ इति टीकाकृद्वचने नूनं निस्सरन्त्येव प्रश्नाः। परिहारभारो निहितश्चन्द्रिकाकृति।

भारमिममनायासेन निर्वहत्याचार्यगोविन्दः। तथाहि तल्लेखः- जघन्योऽवरः। जघन्यवदाचरन्ति जघन्यन्ते स्वरूपानुगुण आचार इत्यात्मनेभाषः। अतिशयार्थे बिन्दुः। तदेतदाह अतिजघन्या इति।

वैयाकरणास्तु दन्द्रम्यमाणा जङ्घन्यमाना इत्येकार्थे पदे इति मन्यन्ते।

तथा हि – कुटिलं क्रमन्ति चङ्क्रम्यन्ते, कुटिलं द्रमन्ति दन्द्रम्यन्ते। द्रम गतौ। कुटिलं घ्नन्ति जङ्घन्यन्ते। हन गतौ। ‘नित्यं कौटिल्ये गतौ’ इति हि पाणिनिः। गतिवचनात् धातोः कौटिल्ये गम्यमाने नित्यं यङ्प्रत्ययो भवति इति जयादित्यः। अनुमतोऽयमप्यर्थोऽस्माकम्। टीकाकृदुक्तः त्वपूर्वः श्रौतोऽर्थः वर्णव्यत्यासेन।

‘जङ्घन्यमाना जरारोगाद्यनेकानर्थव्रातैर्हन्यमाना’ इति परेषां भाष्यम्।

समग्रवाक्यार्थेऽनन्वितमिदं विवरणम्। ‘स्वयन्धीरा’ इत्यादिना स्तब्धता ह्यत्र प्रकृता। न रुग्णता। अपिचेदमपूर्वं व्याकरणपाटवमतिशयेन हन्यते जङ्घन्यत इति। अतिशयेन हन्ति जङ्घन्यते इति तु व्याकरणज्ञा वदन्ति।

स्वयं वैयाकरणस्य गजपद एव पदं निदधत् कथमेवं व्याख्यायात् ? अवशमञ्जलिं बन्धयति व्याख्यातुः कौशलम्। ‘जङ्घन्यमाना’ इत्यत्र जघन्य इति नामधातुः प्रदर्शितः। ‘बिन्दुरतिशये’ इत्यनेन व्युत्पत्तिरुपादर्शि।

जयादित्यादिमते रूपगतिः प्रादर्शि। सोऽप्यर्थ अन्वमोदि। वर्णव्यत्ययमादृत्य

[[85]]

टीकाकृद्दर्शितोऽर्थः श्रौत इति तन्महत्ता न्यरूपि। परैर्गदितार्थस्यानन्वितता अशास्त्रीयता च सूपापादि। किमतोऽन्यद्व्याख्यात्रा वक्तव्यमवशिष्टम् आकाङ्क्षितम्? निराकाङ्क्षाबोधजनको वाक्यप्रबन्धः प्रमाणम्। प्रबन्धकः प्रामाणिकः।

तत्वप्रदीपाद्याकरोल्लेखः ‘यः सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः’ इति मुण्डकप्रथमखण्डेऽन्तिमो मन्त्रभागः। नातिस्पष्ट इवार्थोऽस्य। सर्वज्ञ-सर्ववित्पदयोः पौनरुक्त्यमाभाति।

तत्रेयं व्याख्या- सर्वं जानातीति सर्वज्ञः। सर्वत्र विद्यते इति सर्ववित् सर्वगतः, सर्वं विन्दत इत्याप्तकामो वा। यस्य ज्ञानमयं तपः अालोचनम्। तप-आलोचने ॥ इति ॥ स्वोक्तार्थे समाख्या प्रादर्शी

-‘सर्वत्र विद्यते इति सर्ववित्। विद-सत्तायाम् इति धातोः। यस्य ज्ञानमयमालोचनम्। न संशयात्मकम् (१.२.२२) इति तत्वप्रदीपे।

इति॥ नायं मयोच्यमानोऽपूर्वोऽर्थः। पूर्वसूरिभिरुपदर्शित एव। मया सङ्गृहीत इति स्वोक्तार्थस्य प्रामाण्यबलमातनोति ॥

ग्रन्थान्तरविरोधोद्धारः ‘प्रपञ्चो यदि विद्येत’ इत्यादि मन्त्रद्वयं माण्डूकोपनिषदि द्वितीयखण्डान्ते श्रूयते। व्याख्यातमिदं द्वयमपि ब्रह्मतर्कवचनानुसारं मध्वगुरुणा। तत्रायम् आचार्यगोविन्दः मन्त्रद्वयस्यास्य विष्णुतत्वविनिर्णयेऽनुव्याख्यायां च मध्वोक्तमर्थं सञ्जग्राह। अर्थभेदञ्च प्रादर्शयत्। श्रुतिवचनानां त्र्यर्थतां द्योतयन् ब्रह्मतर्कवचनमेवार्थान्तरमाहेति समर्थ्य ततश्चायं मन्त्रद्वयस्यार्थ इति समगृह्णात्। तदिदमध्येतृजिज्ञासूनां मार्गदर्शि निरूपणम्।

लोलृट्!! सुकेशादयः षण्मुनयो भगवन्तं पिप्पलादमुपसन्नाः। तान् स रुषिरुवाच।

भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं वत्स्यथ(त), यथाकामं प्रश्नान्

[[86]]

पृच्छत। यदि विज्ञास्यामः सर्वं वो वक्ष्यामः’ इति। अत्र वत्स्यत इति प्रयोगं कटाक्षीकरोत्याचार्यगोविन्दः। संवत्सरं वत्स्यथ। अयं सार्वत्रिकः पाठः।

मन्ये वत्स्यत इत्येव प्रायः प्राचीनपाठ इति। अत एव वैदिकपदलोलुपैराचार्यैरुक्तं महाभारततात्पर्यनिर्णये -वत्स्यन्तु वारणवते इति। ननु भोः कथं वत्स्यत? कोऽयं लकारः ? यदि लृट् तर्हि वत्स्यथ।

यदि लोट् वसत। तत्कथं लोटो लृटश्च साङ्कर्यम्’? तर्हि करिष्यमाणं वासं कथं विधत्ते तत्रभवान् ? ननु कालत्रयेऽपि सञ्चरति लोट् वर्तमाने च भविष्यति च। सञ्चरतु नाम यत्र लोडेवोभयत्र प्रयुज्यते। महान्तस्तु भाविकालबोधनाय लृटा सह लोटं प्रयुञ्जते ‘वत्स्यत’ इति। सेयं लोलृट्।

एतामपूर्वां वैदिकीं सरणिं जिज्ञापयिषन्नेवाचार्यः स्वयं हि प्रयुयोज ‘वत्स्यन्तु’ (म ता नि १९-१८) इति। भविष्यतु (२१-८१) इति।

स्वप्स्यन्तु (२६-२५६) इति च। प्रायुङ्क्त भगवान् बादरायणोऽपि ‘अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्’ ( भ गी ३.१०) इति।

पृच्छत इति लोटः साहचर्यात् वत्स्यत इत्यपि लोडेव विभाव्यते। वत्स्यत इति प्रयोगस्वारस्यममन्वानैर्वत्स्यथ इति पठ्यमानः पाठः आधुनिकानां पाठः। प्रसविष्यध्वम् इतिवत् ‘भविष्यति काले अत्रैव वासं कुर्वन्तु’ इत्यर्थे लृटो लोटश्च समावेशः वेदेषु समस्तीति निश्चित्य तादृशानामाचार्यप्रयोगाणां वैदिकत्वसमर्थनं प्राज्ञजनमनुरञ्जयति। चमत्करोति च।

अपूर्वं व्याख्यानम् वेदवाक्यानाम् अर्थनिरूपणे न केवलं रूढिरादरणीयेति व्याख्यातृ- संप्रदायः। इमां परम्परामनुसरति गोविन्दव्याख्या। ‘विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्युपनिषद्वाक्ये चतुर्मुखस्य विशेषणद्वयम्। भुवनस्य लोकस्य कर्ता स्रष्टा, गोप्ता रक्षकश्च इति प्रतनानां व्याख्या। ‘विश्वस्य जगतः कर्ता, भुवनस्य भवनशीलस्य जीवजातस्य गोप्ता रक्षिता ज्ञानदानेनेति चन्द्रिका। जीवजातस्य नित्यत्वात् तत्कर्तृत्वं नास्ति ब्रह्मणः, शरीरदानेन

[[87]]

पोषणं केवलम्’। तदुक्तं जगतः कर्ता। जीवजातस्य तु गोप्तैव। नतु कर्तेति।

‘वेदान्तकृद् वेदविदेव चाहम्’ इतिवत्। वेदान्तानां ब्रह्मसूत्राणां कर्ता।

वेदानां तु नित्यत्वात् वेत्तैव, नतु कर्तेति।

स्पष्टार्थमपि भाष्यवाक्यं व्याख्यात्यन्तर्गूढदृष्टिरयं व्याख्याता।

वेदे रामायणे चैव पुराणे भारते तथा।

आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥

इत्याथर्वणभाष्ये हरिवंशवचनम्। नातिगूढोऽस्त्यत्रार्थः। बालोऽपि अवगच्छति श्लोकभावम्। अथापि सन्त्यत्रापि विद्वद्गोचराणि वेदान्त- रहस्यानि। अतो व्याख्याति गोविन्दाचार्यः। ‘यथा वेदे तथा रामायणे च पुराणे च भारते च विष्णुरेव मुख्यतः गीयते। विशन्त्येनं सर्वाणि नामानि वाचकत्वेनेति हि विष्णुरुच्यते। नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इति श्रुतेः। न केवलमादावन्ते च मध्ये च प्रकरणशः। किन्तु सर्वत्र वाक्येषु पदेष्वक्षरेषु च। वेदे पुराणे इति समुदाय वचनम्। सर्वेषु वेदेषु पुराणेषु च। यद्यप्यनन्ता वेदाः। तथाप्येको वेदः।

अर्थैक्यात्। यद्यप्यष्टादशपुराणानि अथाप्येकं पुराणम्। अर्थैक्यादेव।

राजस-तामसत्वेनाभिमतान्यपि पुराणानि सात्विकानां सात्विकमेवार्थम् अवगमयन्ति। केवलं राजसतामसा एव राजसं तामसं वार्थं परिगृह्य पतन्ति। ‘सर्वमेकं पुराभवत्’ इति हि वक्ष्यति।

‘वेदे पुराणे’ इति व्यासवचसि एकवचनेनेदृशमर्थविशेषं स एव विज्ञातुं ज्ञापयितुं वार्हति योऽत्यन्तं भक्तिभरावनम्रः भगवति बादरायणे।

‘चतुर्धावस्थितो देहे परमात्मा सनातनः’ इति भाष्यं व्याख्यान् परमात्मा देहे चतुर्धावस्थितः इति व्याख्याय स च सनादनः नादेन सहित इति सनादनः।

श्रुतिगदित इत्यर्थः। सनादन एव सनातनः इति व्याख्या चित्तमावर्जयति।

‘यथोर्णनाभिः’ इत्युपनिषत्। ‘जेड’ इति भाषायाम्। स्वस्माद् भिन्नमेव तन्तुजालं स्वोदरात् सृजते पुनः स्वान्तर्गृह्णते गृह्णीते च तथा

[[88]]

परमाक्षरो भगवान् विश्वं सृजति संहरति च। इति गोविन्दव्याख्या। स्वयं कन्नडदेशीयः ‘जेड’ इति ‘भाषायामि’त्यूर्णनाभिपदं व्याख्यानुपकरोति।

षट्प्रश्नोपनिषदि प्रथमप्रश्ने फलश्रुतिः – तद् ये ह वै प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते। तत्रत्या वामनटीका – ये जनाः प्राजापत्यं व्रतं चरन्ति तद् यथा ऋग्विधानोक्तभङ्ग्या शंनःपुरुषसूक्तयोः सम्पुटशेषप्राशनपूर्वकं विष्णुयोनिसूक्तेनोपस्थाय प्रजापतिं प्रार्थयन्ति ते तत्प्रसादात् सदपत्यम् उत्पादयन्ते इति।

अत्र शिष्यवत्सलो गोविन्दाचार्यः सम्पुटहोम-शेषप्राशनविधिं विवृण्वन् उपशतम् ऋग्विधानश्लोकान् प्रदर्शयति। विष्णुयोनिसूक्तं नेजमेषेत्यादि मन्त्रांश्च स्वयं व्याख्याति। सस्वरं मन्त्रं च लिखति। येन अपत्याकाङ्क्षी श्रद्धालुरर्थज्ञानपूर्वकं ऋग्विधानोक्तं कर्म कर्तुं प्रभवेत्॥

शिष्यसन्निधौ उपनिषदं पाठयति स्माचार्यगोविन्दः। अनितरसाधारणी चातुरी अस्योपनिषद्व्याख्याने। पूज्यो गुरुर्विद्यामान्यतीर्थः समादिदेश।

गीर्वाण्यां लिपिबद्धां व्याख्यां वितनुहीति। आदेशं शिरसिकृत्यापूरयच्छिष्यो गोविन्दाचार्यः। पाठः खलु सन्निहितानां शिष्याणां केवलं प्रबोधकः। लेखः पुनः पाठकानपि सर्वान् बोधयन् प्रशिक्षयति। षण्णामुपनिषदां व्याख्या पूरिता। अवशिष्टानामपि व्याख्या नाकार्यनेन महात्मनेति क्कचिन्न तृप्यति चेतः। न खलु विद्यते जिज्ञासूनां तृप्तिः। अथाप्यनेन व्याख्यानेन उपनिषदध्ययनस्य मनोहरो मार्गः निष्कण्टकः प्रादर्शीति साभिमानं स्मरामो वयं प्रत्यहमाचार्यगोविन्दम्।


[[89]]