११ डा बन्नञ्जेगोविन्दाचार्यविरचिता उपनिषच्चन्द्रिका

डा. एच्.वि. नागराज राव्

प्रथितयशसां प्रातःस्मरणीयानां विद्वत्तल्लाजानां डा. बन्नञ्जे गोविन्दाचार्याणां संस्कृतभाषाकृतिषु मेरुपर्वतायते उपनिषच्चन्द्रिका । बहुषु वर्षेषु कृतस्य परिश्रमस्य परिपक्कं फलमत्र गोचरीभवति। वेदान्त शास्त्रस्य यस्यां कस्यामपि शाखायां गम्भीरमध्ययनं चिकीर्षुभिः सर्वैरपि इयम् उपनिषच्चन्द्रिकाऽध्येतव्येति ममाभिप्रायो निवेद्यते। तस्याः प्रथममयूखस्य विषये कांश्चनांशान् अस्मिन् लेखने निवेदयितुमिच्छामि।

ग्रन्थे व्याख्याता उपनिषदः अस्मिन् ग्रन्थे षडुपनिषदो व्याख्यानसहिता उपलभ्यन्ते। याज्ञीय- मन्त्रोपनिषत् (ईशावास्योपनिषत्) काठकोपनिषत् (कठोपनिषत्), तलवकारोपनिषत् (केनोपनिषत्), आथर्वणोपनिषत् (मुण्डकोपनिषत्), षट्प्रश्नोपनिषत् (प्रश्नोपनिषत्), माण्डूकोपनिषत् (मण्डूक्योपनिषत्) इति तासां नामधेयानि। तासाम् श्रीमन्मध्वाचार्याणां भाष्यं, श्रीवामन- पण्डिताचार्यविरचिता टीका, श्रीबन्नञ्जेगोविन्दाचार्यविरचिता भावचन्द्रिका च ग्रन्थेऽस्मिन् उपलभ्यन्ते।

उपनिषद्भूमिका श्रीगोविन्दाचार्यैः श्रेष्ठा भूमिका सविस्तरा ग्रन्थादौ दत्ता। सर्वैर्वेदान्ता- सक्तैरियं प्रथमं पठितव्या। वेदशाखानां विषयेऽत्र लभ्यमाना सामग्री अन्यत्र दुर्लभा। वेदा अपौरुषेया इति सिद्धान्तस्य च समर्थनमत्र विशिष्टया रीत्या कृतम् । वेदानां शाखाः कतीति च विचारः सुष्ठु न्यरूपि। ब्राह्मणानां सार आरण्यकम्। आरण्यकानां सार उपनिषत् इति आचार्यगोविन्दप्रतिपादनं सम्यगस्ति। पुराणेतिहासेषु अप्रामाण्यं कथितवताम् आधुनिकानां

[[73]]

केषाञ्चिन्मतं निरस्य गोविन्दाचार्या वदन्ति- चतुर्विधाश्चत्वारो वेदाः, पुराणानि, इतिहासौ च भारतरामायणे प्रमाणभूताः सप्त मातरः इति। अपि च त आहुः- संहितापाठोऽपौरुषेयः, क्रमपाठः पौरुषेय इति। ईदृशाः सूक्ष्मविषयाः जिज्ञासुभिः उपनिषद्भूमिकायां ज्ञातव्याः सन्ति। त्रयीमन्त्राणां त्रयोऽर्था इति सप्रमाणं कथयन्ति चाचार्यगोविन्दाः।

त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते।

विष्णोः सहस्रनामापि निरन्तरशतार्थकम् ॥

गोविन्दाचार्याणां बहुश्रुतत्वं पदेपदे व्यक्तं भवति अत्र। वेदेषु गृह्यमाणास्त्रयोऽर्थाः के इति वदन्ति- अधिदैवमधाध्यात्ममधियज्ञमिति त्रयम्। अस्मिन् प्रसङ्गे गोविन्दाचार्याः शाङ्खायनगृह्यसूत्रं दुर्गाचार्यस्य भाष्यं पातञ्जलं महाभाष्यं मन्त्रार्थमञ्जरीं षड् गुरुशिष्यवाक्यं चोदाहरन्ति। कोऽन्य एतावतो ग्रन्थान् दृष्टवान् ? पूर्वमीमांसासूत्रकारो जैमिनिर्देवतास्वरूपम् अङ्गीकरोति न वेति प्रौढो विचारोऽपि उपनिषच्चन्द्रिकायाः भूमिकायां प्रस्तुतः। तत्र गोविन्दाचार्याणां निशिता मतिर्जाज्वलीति। विपश्चिदपश्चिमैः निश्चप्रचं पठनीयोऽयं भागः।

आचार्या अत्र जिज्ञासून् जागरयन्ति। ‘परःशतमुपनिषदः सम्प्रति मुद्रिता दृश्यन्ते। न ताः सर्वा अप्युपनिषदः। अश्वा अपि सन्ति। अश्वमुखाः खरा अपि सन्ति।’ अतस्तत्त्वं ज्ञातुकामैः का उपनिषद आश्रयणीया इति चिन्तना प्रस्तुता।

दशानाम् उपनिषदां विषये न कस्यापि विवादः। वेदानां रसा उपनिषदः।

महाभारतस्य पञ्चमवेदस्य सर्वपुराणानां च, अन्ततः सर्वोपनिषदां च रसो भगवद्गीतेति आचार्यगोविन्दसिद्धान्तः। तत्र दशोपनिषदां स्वरूपं च न्यरूपि सम्यगाचार्यैः। अतः सर्वेऽप्युपनिषद्विद्यार्थिनः आदौ भूमिकामिमां पठेयुरिति वयं सप्रश्रयं सूचयामः।

[[74]]

भाष्यचन्द्रिकायां गोविन्दाचार्याणां नानादर्शननिष्णातत्वं पदेपदे व्यक्तं भवति। तावतां ग्रन्थानां ज्ञानम् एकस्मिन् पुरुषायुषे कथं प्राप्तुं शक्यमिति वयं विस्मयामहे। ईशावास्योपनिषदि ( याज्ञीयमन्त्रोपनिषदि) केचन मन्त्राः अतीव जटिलाः।

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।

ततो भूय इव ते तमो य उ सम्भूत्या रताः ॥

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।

इति शुश्रुम धीराणां ये नस्तद् व्याचचक्षिरे ॥

सम्भूतिं च विनाशं च यस्तद् वेदोभयं सह।

विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥

इत्यत्र सम्भूतिशब्देन असम्भूतिशब्देन विनाशशब्देन च कोऽर्थो ग्राह्य इति न ज्ञायते। भाष्यचन्द्रिकायाम् गोविन्दाचार्याः पूर्वव्याख्यानानि दर्शयित्वा तत्रत्यान् दोषानपि निर्दाक्षिण्यम् आचक्षते। यथा- ‘एवं सम्भूतिः समाधिज्ञानम्। असम्भूतिः तद्विरोधिनां हिंसास्तेयादीनां निवृत्तिः’ इत्येके रामानुजीयाः। अशब्दार्थोऽयम्। ‘सम्भूतिः कर्म।

असम्भूतिरात्मनिष्ठा’ इत्यन्ये। तर्हि पुनरुक्तं भवति विद्यां चाविद्यां चेत्यनेन।

अवधारणार्थं पुनरुक्तिरित्यगतिकागतिः। ‘सम्भूतिः शरीरपरिग्रहनिष्ठा।

असम्भूतिस्ततो निवृत्तिरित्यन्ये। कथञ्चित् स्यान्नामायं पदार्थः। अर्थस्वारस्यं तु जिह्नेति। किमित्येवं हठाद् अर्था आकृष्यन्ते।

‘सम्भूतिः कार्यं ब्रह्म हिरण्यगर्भः। असम्भूतिः कारणं प्रकृतिः’ इति मायावादिनः। ततश्च ‘सम्भूतिं च विनाशं च’ इति मन्त्रः कुप्यति। तदर्थमेवं व्याचक्षते। ‘विनाशपदेन विनाशवत् कार्यं ब्रह्मोच्यते। सम्भूतिपदेन चाकार प्रश्लेषेणासम्भूतिः प्रकृतिरुच्यते’ इति। शब्दशास्त्रे काप्यदृष्टचरमिदं व्याकरणकौशलम्। यत् तत्पदेनातदुच्यते इति। तर्हि घटाभाववति भूतले

[[75]]

‘घटोऽस्ति’ इति वदन्नपि उपादेयवचनः स्यात्। नञ् प्रश्लेषेण ‘घटो नास्ति’ इत्यर्थवर्णनसम्भवात्। एवं च सर्वोऽपि वाग्व्यवहारो वैयाकुल्यमापद्येत।’ इति। एतादृशो वस्तुनिष्ठो विमर्शः अन्यत्र न मया दृष्टपूर्वः इति दृढं वच्मि।

अन्यासां चोपनिषदां ग्रन्थिसदृशा भागाः गोविन्दाचार्यैः भाष्यचन्द्रिकायां पूर्वपक्षनिरसनपूर्वकं विवृता इति तेषां वर्तामहे वयमधमर्णाः।

भाष्यचन्द्रिकायाः परिशिष्टमेकं वैदिकछन्दोमीमांसा इति आचार्यपादैः दत्तम्। तत्रातीव सूक्ष्मा विषया अभिहिताः। छन्दश्शब्दस्य का व्युत्पत्तिः, कोऽयं इति जिज्ञासायां तैरुच्यते- ‘अत एव छन्दांसि। छादयन्ति भगवदङ्गानि कञ्चुकमिव देहभागमिति।

छन्दोविज्ञानिनं छादयति पापात् कर्मणः, यथा पापं कर्म ज्ञानिनमाक्रम्य न पराजयेतेति तथा मन्त्रेषु निगूढं भगवतत्त्वमन्तरेव विधाय छादयन्ति, न प्रकटमाविष्कुर्वन्ति, सम्पुट इव साळग्रामसमुदायमिति च तानि छन्दांस्युच्यन्ते। उक्तं हि - उत त्वः पश्यन्न ददर्श वाचम् उत त्वः शृण्वन्न शृणोत्येनाम्।

उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥४॥

(ऋ सं. ७.७१.४) इति।

छन्दयन्तीति छन्दांसीत्यपरे। समानोऽर्थः। छदि संचरणे इति हि धातुपारायणिकाः। ‘छन्दयतीति छन्दः’ इति क्षीरस्वामी। छन्दतिरयमर्चन कर्मा निघण्टौ पठ्यते। स एव च निर्वचनान्तरमप्याह छन्दयति आह्लादयत इति च्छन्दः’ इति। एवं स्वरसनिर्वचने सत्यपि केचिदन्यथा निर्वदन्ति।

तथाहि। जयदेवकृतच्छन्दस्सूत्रविवृतौ हर्षटः ‘चन्दति ह्लादं करोति दीप्यते वेति च्छन्दः’ इति। वैयाकरणा अप्येनमाशीर्वदन्ति – ‘चन्दतेरादेश्च च्छन्द इति दशपादिका। अथाप्येतन्न वेदसम्प्रदायविदां चेतश्चमत्करोति।’ एतादृशस्तलस्पर्शी विमर्शो मया नान्यत्र दृष्टः। कति ग्रन्थाः गोविन्दाचार्यैरेकैकस्मिन्नपि विषयेऽवलोकिताः। इदमेव बहुश्रुतत्वं नाम।

[[76]]

वेदेषु गायत्री चतुर्दशधा इति च ते सोदाहरणं वर्णयन्ति। वेदसाहित्ये कृतभूरिपरिश्रमाणाम् एवैतद् गम्यम्।

वैदिकच्छन्दोमीमांसाया अन्ते गोविन्दाचार्यैरभ्यधायि- छन्दसि निष्णातानाम् आश्वलायनशौनकपिङ्गलादीनाम्।

प्राचाम् अर्वाचामपि पण्डितयुधिष्ठिरमीमांसकादीनाम्।

भणितीरालोक्य समं ततः समन्ततः सारमुद्धृत्य।

क्षीरादिव नवनीतं नवनीतमुपायनं सुधियाम्॥ इत्यादि।

वैदिकच्छन्दोमीमांसां सर्वेऽपि वेदविद्यार्थिनः पठेयुः। इत उत्तरं मध्वमतानुसारिणी तारतम्यमीमांसाच गोविन्दाचार्यैः प्रदत्तः।

तलवकारोपनिषद्भाष्यचन्द्रिकायां गोविन्दाचार्याणां निष्पक्षपातदृष्टिं दर्शयितुमेकं भागमत्र उद्दिधीर्षामि।

‘स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानाम् उमां हैमवतीम्। तां हो वाच किमेतद् यक्षमिति।’ इत्युपनिषद्वाक्यम्। अत्र भाष्यचन्द्रिका- ‘यो यक्षतया प्रादुर्बभूव ततश्च तिरोबभूव ‘स’ विष्णुः यत्र पूर्वं यक्षरूपः सन्नास तस्मिन्नेवाकाशे इन्द्रस्य गुरुस्थानीयां ‘स्त्रियम्’ आगमयामास।

काम्? हैमवतीम्। हिमवतः पुत्रीम्। हेमालङ्कारभूषिताम् उमाम्। विनापि अाभरणजालेन स्वत एव बहुशोभमानाम्। सर्वतो विततप्रकाशाम्। स्वेन सह आगतान् अन्यान् सर्वान् तिरोधाय्य केवलम् उमामेकां तत्रागमयामास विष्णुरिति। अथ चेन्द्रस्तामाजगाम। आगत्य च तामुवाच किमेतत् मदागमनपर्यन्तं त्वया सहात्र स्थितम्, मदागमनमात्रेण तिरोहितं च यक्षमिति। भाष्ये - ब्रह्मणा शिवेन च सह ‘नादृश्यत स केशवः’। केशाभ्यां ब्रह्मरुद्राभ्यां सह वर्तत इति हि केशवः । योग्योमेति। साक्षाद् गुरुत्वात्।

केचित्तु स्वकीयमतिवैष्णवत्वं विख्यापयन्तो व्याचिख्यासन्- ‘हैमवतीं हिरण्यविकारभूषणवतीम्। अत एव बहुशोभमानाम् मां लक्ष्मीरूपां स्त्रियम्

[[77]]

उ आजगाम आगतवान्। तदु चन्द्रमाः इतिवत् उकार एवकारार्थक : इति।

प्रमाणवचनविरोधादेव नेदं समीचीनम्। नूनमिदमङ्ग्यकरिष्यत, यदि प्रमाणेन समवदिष्यत। स्वादिष्ठमप्यधिकम् आस्वादितमनास्वादाय भवति।’ अत्र माध्वमतानुयायिभिरपि कैश्चित् उ + मा इति पदद्वयं कृत्वा हठेन मां लक्ष्मीरिति अर्थं वक्तुं यत् प्रयतितं तत् निराकृतं श्रीगोविन्दाचार्यैः।

एतादृशी सत्यनिष्ठापेक्षिता विपश्चिदपश्चिमेषु।

रुक्मं, रुक्मिणी इत्यादीनि पदानि सर्वत्र जनप्रियाणि सन्ति ककार घटितानि। तानि असाधूनि, गकारसहितानि रुग्मं रुग्मिणीत्यादीनि साधूनि इति गोविन्दाचार्याणां दृढं प्रतिपादनम्।

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥

इत्याथर्वणोपनिषदो मन्त्रस्य विवरणे गोविन्दाचार्याः स्पष्टीकुर्वन्ति।

‘रुक्मवर्णमिति श्रौतसम्प्रदायानभिज्ञानां प्रामादिकः पाठः। रुग्ममिति सुवर्णनाम । न रुक्ममिति। अपशब्दोऽयं वैयाकरणपाशोपज्ञं यद् रुक्ममिति।

ननु रोचमानं हि रुक्मं भवति। रोचते च जनेभ्यः। युजिरुचितिजां कुश्च [दशपा १.१४३] इति सूत्रं च संवदते। तत् कथं रुग्मम् ? न भोः।

समलोष्टाश्मकाञ्चनेभ्यः कथं रोचेत? तस्माद्रुजतीति रुग्मम् इत्येव साधु निर्वचनम्। रुजो भङ्गे। रुग्मं हि भनक्ति मनो दायभागिनाम्। सत्यपि कनके मनोभङ्गः। असत्यपि। ननु नर्हि सूत्रं कुप्यति। न भोः। पाठभ्रान्तिरियं वैयाकरणानाम्। युजिरुजितिजाम् इत्येव प्राचीनो धातुपाठः इत्यभ्यूह्यते।

अन्यथा चान्तस्य प्रथमं पाठो युक्तः। तदनन्तरं च जान्तयोर्धात्वोः ‘रुचियुजितिजाम्’ इति।

[[78]]

अन्यत्रापि दृश्यते किलैतादृशी पाठभ्रान्तिर्वैयाकरणानाम्। तथाहि काशिकाकारः रुचिं पठति। नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु क्कौ (६-३-११६) इति। क्षीरस्वामी तु रुचिं पठति। नहि-वृति वृधिव्यधिरुचिसहितनिषु क्कौ’ इति। एवमत्रापि रुचिं विहाय रुजिः पठनीयः।

रुग्मवर्णम् इति श्रुतिश्च तेन प्रीयते। रुचेरपि मक् प्रत्यये भवति रुजेरपीत्यन्ये।

तेन रुक्म इति रुग्ममिति रूपद्वयमपि साधु इति उभयस्स्वस्तिवादिनः।

एतादृशं गम्भीरं व्याकरणपाण्डित्यं गोविन्दाचार्येभ्योऽन्यत्र क्क दृष्टं व्याख्यातुः ? अत एव तेषां वाक्यं सर्वैरादरणीयम्।

उपनिषच्चन्द्रिका आचार्यगोविन्दैर्दर्शनविवरणाय प्राणायि, न तु पाण्डित्यस्य कवित्वस्य वा प्रदर्शनाय, तथापि तद्द्वयं च वाचकलोचनगोचरी भवति। तत्रत्यानि कानिचित्पद्यानि सद्यो लिखामः।

  1. नाम्ना विद्यामान्यान् यशसा मान्यानपि त्वसामान्यान्।

विद्वद्वरमूर्धन्यान् धन्यान् प्रणतोऽस्मि देशिकाचार्यान्॥

अत्रानुप्रासः मनोज्ञः।

  1. नारायणार्यं पितरं विपश्चिद्गणतल्लजम्।

तर्ककर्कशपाथोधितरणाय प्लवायितम् ॥

अत्र तल्लजपदप्रयोगो मनोहरः, रूपकालङ्कारश्च सुन्दरः।

  1. धीमन् भवाब्धिभयभङ्गदमध्वनाथम् धीमन् हरेर्वसतिवासितचित्तधामन्।

श्रीमन् निरस्तदुरिताखिलजीवसीमन् स्वामिन् नमोऽस्तु भवते पवमानस्वामिन् ॥

अत्र शब्दसौन्दर्यं कर्तुं शब्दशेवधिः पूर्ण इति स्पष्टं द्योतयति।

  1. तेषामुपनिषत्सेयं ये कठन्ति पठन्ति च।

नैव तेषां ये शठन्ति ये वठन्ति मठन्ति च ॥

[[79]]

ये जनाः कठन्ति कृच्छ्रजीवनं कुर्वन्ति, ये च श्रद्धया पठन्ति अधीयते च तेषाम् इयमुपनिषत्। उपनिषत् तेभ्यः स्वरहस्यं विवृणोति। ये तु शठन्ति कैतवं वञ्चनां च कुर्वन्ति, ये वठन्ति अधिकभोजनेन स्थूलोदरा भवन्ति, ये च मठन्ति मदोन्मत्ता भवन्ति तेषां नैव। तेभ्यः उपनिषत् स्वार्थं न प्रकाशयति।

अत्र गोविन्दाचार्यैः कठ कृच्छ्रजीवने, शठ कैतवे,पठ व्यक्तायां वाचि, वठ स्थौल्ये, मठ मदनिवासयोः इति धातवः प्रयुक्ताः। एतत्सर्वं तेषां वैयाकरणमूर्धन्यत्वे प्रमाणम्।

  1. यक्षं सज्जनपक्षं दुर्जनकक्षं दिधक्षन्तम्।

सुरगणरक्षादीक्षं किमपि त्र्यक्षं महो वन्दे ॥

अत्रापि अनुप्रासः आकर्षको वर्तते।

  1. रामं मेघश्यामं राक्षसभीमं समस्तजगदभिरामम्।

श्रीरघुवंशललामं पूरितनिजकामं नमामि धीमन्तम् ॥

सरलं सुगमं सुन्दरं पद्यमिद कं न प्रीणयेत् ? 7) बालं कुवलयलीलं गोपीलोलं निरस्तभवजालम्।

दुर्जनभर्जनकालं गुणगणशीलं नमामि मुहुरतिवेलम् ॥

अत्र लकारस्य पुनः पुनः श्रवणं नितान्तमानन्दं जनयति सहृदय- श्रवणानाम्।

  1. नीलोत्पलदलभासं व्यासं व्यासङ्गशीलकृतवासम्।

अन्तस्तिमिरनिरासं शुभनासं नमामि मृदुहासम् ॥

अस्मिन् पद्ये व्यासमहर्षये प्रणामः समर्पितः। व्यासे गोविन्दाचार्याणां महत्तमा भक्तिः।

[[80]]

  1. षोडशकलासु निहितं पिहितं हृदि मे हितं हि तं सततम्।

असतामहितं याचे कृपया मां पाहि भवपतितम् ॥

‘अत्राचार्यगोविन्दा ‘हितम्’ इत्यक्षरपुञ्जे कविताकौशलेन पञ्चवारम् अानीतवन्त इति द्रष्टव्यम्।

  1. भेकाः क्कचन न काकाः नाकाशं पूरयन्ति किमु रावैः।

दूरे किल सहकारे कोकिल रे गाय नायकीभूय ॥

अत्रानुप्रासप्रस्तुतप्रशंसयोः संसृष्टिर्मनस्तोषिणी। आचार्यगोविन्दाः दार्शनिकानां सभायां वाचस्पति- मिश्रसदृशैरुपनीयन्ते, कवीनां संसदि भारविप्रभृतिभिः सहोपविशन्तीति मम मतिः। यदि तैः स्वतन्त्रकाव्यं संस्कृतभाषायाम् अरचयिष्यत, तर्हि तत् कुमारसंभवेन नैषधीयचरितेन सहास्पर्धिष्यतेति मन्ये।

‘नमाम्याचार्यगोविन्दमरविन्देक्षणप्रियम्।

येनोपनिषदां व्याख्या रचिता भावचन्द्रिका ॥


[[81]]