१० श्रीबन्नञ्जे गोविन्दाचार्याणां तलवकारोपनिषच्चिन्तनम्

अ.गुरुप्रसादाचार्यः

जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः।

नास्ति तेषां यशः कार्ये जरामरणजं भयम् ॥

सुविदितमेवेदं सुभाषितं समेषां सज्जनानाम्। अस्मत्कालीनाः तादृश रससिद्धाः कवीश्वराः बन्नंजेगोविन्दाचार्यवर्याः। सरस-सुन्दर-पाठ-प्रवचन- मालिकाभिः (Չ׌ن۷۰ِ) अनितरसाधारणवैदुष्योपेतग्रन्थरत्नैश्च अद्यापि राराजन्ते आचार्यवर्याः सहृदयसज्जनहृदयमन्दिरेषु ॥ तत्र उपनिषदः अधिकृत्य आचार्याणां चिन्तनं परमाद्भुतं, सर्वातिशायि च। तत्राऽपि तलवकारोपनिषदः यः कन्नडानुवादः आचार्यैः रचितः, स तु कन्नडभुवनेश्वरी- शिरोरत्नमिव राराजते। एवं संस्कृतभाषायां, वामनपण्डिताचार्यरचित- तलवकारोपनिषद्भाष्यटीकायाः पन्थिकारूपेण रचिता कृतिः विद्वत्प्रपञ्चे एव असाधारणं स्थानं आभज्यते ॥

भूमिका राजतेतराम् उभयकृत्योरपि प्रारम्भे वर्तमाना पीठिका नूनं असाधारणीका अनुपमा अनन्या यत्र आचार्याः – ‘अपौरुषेयत्ववादिनां सारसंग्रहः, इतिहासो नाम चक्रगमनम् खंडनमध्यपौरूषेयम् इति अन्यान्यप्रकरणेषु उपनिषद्विषये प्रपञ्चे अवश्यं ज्ञातव्यानां विषयाणां सारसङ्ग्रहमेकत्र कृतवन्तः।

अथ कथं ताः उपनिषदः भूमिकायामेव ‘उपनिषत्’ शब्दस्य नूत्न-नूत्नार्थाविष्कारः स्वरसतया कृताः- यथा वा – (उपनिषच्चन्द्रिका भूमिका Page No - 53) महाभारते स्मर्यते-

[[64]]

यं वाकेषु अनुवाकेषु निषत्सूपनिषत्सु च।

वदन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥

तत्र काः निषदः ? काः उपनिषदः ? ब्राह्मणारण्यका इति एव निषदः।

कुतः ? ब्राह्मणारण्यकेषु अध्यात्मं निषण्णमिति निषदः। ब्राह्मणारण्यकेभ्योऽपि उपरि गताः उपनिषदः। वेदवाचाम् उत्कृष्टतमाः सारभागाः उपनिषदः इति निष्कर्षः, तेन वेदवाङ्मये सर्वस्मात् उपरि निषीदन्ति इति उपनिषदः(अ)। ये च उपसीदन्ति तान् उपरि निषादयन्ति इत्यपि उपनिषदः(आ)। उपरे नारायणे स्वयं निषीदन्ति इत्यपि उपनिषदः(इ)। श्रोतॄन्/पाठकान् नः उपरे निषादयन्ति इति वा उपनिषदः(ई)। उपरि नीत्वा उपरे नीत्वा वा साधयन्ति भगवन्तं इति वा उपनिषदः(उ)। उपनीताः सीदन्ति आसु इति वा उपनिषदः।

अपि च- ‘उप’ इत्यस्य प्राचीनैः अङ्गीकृतः अर्थः सामीप्यं इति।

‘उत्कृष्टाननुरूपत्वात् उपशब्दः प्रकीर्तितः’ इति माण्डूकभाष्ये माहात्म्य प्रमाणानुगुणं, उपशमशब्दे उपशब्दस्य उत्कृष्टः इत्यपि अर्थः सर्वज्ञाचार्यैः सूचितः। रहस्यार्थकस्य ‘उपद्वर’शब्दस्य संक्षिप्तरूपोऽयं उपशब्दः ‘रहस्यं’ इत्यप्यर्थम् अभिधत्ते। एवं च सामीप्यं, उत्कृष्टः, रहस्यं इति अर्थत्रयं आदधानः उपशब्दः अस्माकं जीवानां अत्यन्तसमीपे रहस्यतया वर्तमानं शब्दैः सर्वैः उत्कृष्टं परब्रह्म नारायणमेव वक्ति ॥ उप भगवन्तं, नि नितरां सादयन्ति बोधयन्ति/प्रापयन्ति इति उपनिषदः। (षद्लृ विशरणगति- अवसादनेषु, गतिः अवगतिः, प्राप्तिश्च)।

अपि च षद्लृधातोः अवसादनं नाश इत्यप्यर्थः। तमर्थं उवगम्य चिन्तयामः। ‘उपनिषदः’ इत्यस्य अन्योप्यर्थः स्फुरति- उप- जीवानां समीपे, उप उत्कृष्टया अनादिकालादारभ्य वर्तमानं अज्ञानं, नि नितरां, सादयन्ति नाशयन्ति इति उपनिषदः।

(भगवत्स्वरूपविषये, जीवस्वरूपविषये, संसारस्वरूपविषये वर्तमानं अज्ञानं नाशयन्ति)।

[[65]]

एवं तत्त्वज्ञानबोधनद्वारेण अज्ञाननाशनद्वारेण जीवानां संसारमेव नाशयन्ति इत्यपि उपनिषदः।

एवं उपनिषच्छब्दस्य अनेके नूत्नाः अर्थाः आचार्यैः प्रकाशिताः।

उपनिषच्चिन्तनविषये बन्नञ्जे गोविन्दाचार्यः नूनं मार्गदर्शीमहर्षिः। तेषां मार्गदर्शने यदि पुरतः गच्छामः- अन्येऽप्यर्थाः एवं स्फुरन्ति- १. उप अस्माकं समीपे स्थितं, एवमपि रहस्यं, यथायोग्यं उत्कृष्टं- लक्ष्मीतत्त्वं, प्राणतत्त्वं, रुद्रेन्द्रादिदेवतातत्त्वं, तेषां तारतम्यं च निरतितरां सादयन्ति बोधयन्ति, तेन च तत्तत्त् तत्त्वविषये अज्ञानं नाशयन्ति, अन्ते च तत्तत् प्रापयन्ति च इत्यपि उपनिषदः।

२. उप उत्कृष्टं - मुक्तिसाधनोपायं - निष्कामकर्मयोगं, ज्ञानयोगं, भक्तियोगं, निरतितरां, सादयन्ति बोधयन्ति इत्यपि उपनिषदः।

३. उप उत्कृष्टं, जीवस्वरूपभूतं आनन्दं मुक्तिं नितरां बोधयन्ति, प्रापयन्तीत्यपि उपनिषदः ॥

नामधेये किमस्ति ? बहु अस्ति ‘तलवकार’शब्दस्यापि अतीवनूतनोऽर्थः एवं संप्रकाशितः- (उपनिषच्चन्द्रिकाभुमिका- पृ.सं- 49, 50) ‘अथ सामवेदिनां इयं तलवकारोपनिषत् भवति यां केनोपनिषत् इति प्रचुरमाचक्षते। केनेषितं पतति प्रेषितं मनः….. इति केन पदेन आरब्धा उपनिषत् केनोपनिषत् इति समीचीनम् ॥ कथं अथ तलवकारोपनिषत्किं निमित्तं नामधेयम् ? कश्चार्थः ? कावा निरुक्तिः ? सहस्रवर्त्मा सामवेदः।

तत्रैव तलवकारशाखा। तस्याः शाखायाः द्रष्टारः तलवकाराः उच्यन्ते।

तन्त्रवाद्यकारान् सतः तलवकारानाचक्षते इति निरूचुः। ते किन्तु(ल) तलवकाराः ये पाणितलेन तोलयित्वा तालं सतालं गायन्ति। तालवाद्यं मुरज, मृदङ्ग, पणव, गोमुखादिकं आनद्य गायन्ति। तथाचेदं लयप्रधानं

[[66]]

तलवकारगानम्। अद्यत्वे तु सामगाने श्रुतिरस्ति। न लयः। गायेयुः वीणायां साम। गायेयुः वेणुना साम। न मुरजेन। आसीदपि तादृशः कालः। यत्र सतालं सामगाः साम गायन्ति स्म। अस्याः पद्धतेः प्रवर्तकाः तलवकाराः नाम। तेषां इयं उपनिषत्- तलवकारोपनिषत् इति।

क्रमपरिवर्तनेप्यस्ति अनुसन्धानम् ‘केनेषितं पतति….’ इति प्रथमश्लोके- मनः, प्राणः, वाक्, चक्षुः, श्रोत्रम्- इति क्रमेण पञ्चेन्द्रियाणां प्रस्तावः। तस्य उत्तररूपे द्वितीयश्लोके च श्रोत्रं, मनः, वाक्, प्राणः, चक्षुः- इति क्रमेण पञ्चेन्द्रियाणां प्रस्तावः ॥ पुनः पञ्चमश्लोकात् आरभ्य नवमश्लोकपर्यन्तं-पञ्चेन्द्रियाणां प्रस्तावः- वाक्, मनः, चक्षुः, श्रोत्रं, प्राणः इति अन्येनैव क्रमेण॥ एवं क्रमपरिवर्तनेऽपि अनुसन्धान- विशेषः अस्ति तं अनुसन्धानविशेषं कन्नडानुवादे विशेषतः, एवं संस्कृत- व्याख्याने संक्षिप्ततया सूचितवन्तः बन्नञ्जे आचार्याः। संस्कृते यथा- प्रथमश्लोके- ‘स्वानुभवक्षेत्रं मनः प्रथममाह शिवः। ततः स्वतोऽप्युत्तमं प्राणम्। उत्तरार्धेऽप्येवम् प्रथमं वाक्-देवता अग्निः। ततः ततोऽप्युत्तमौ चक्षुः-श्रोत्रमानिनौ सूर्याचन्द्रमसौ इति क्रमः ॥

द्वितीयश्लोके- ‘अयमत्रानुसन्धानक्रमः। प्रथमं गुरुमुखात् श्रवणम्। ततः मनसा स्वरूपचक्षुषा साक्षात्कारः इत्यत्र विवक्षाक्रमः ॥’ पञ्चमश्लोकात् नवमश्लोकपर्यन्तं निर्दिष्टानाम् इन्द्रियाणाम् अयमत्र क्रमः।

वाग्देवता स्वाहा प्रथमम् उक्ता। ततो मनोदेवः पर्जन्यः, अग्निर्वा। ततः चक्षुः-श्रोत्रमानिनौ सूर्याचन्द्रमसानन्तो च मुख्यप्राण इति देवता- तारतम्यानुगुणोऽयं निर्देशः ॥

अर्थगाम्भीर्यमद्भुतम् वेदोपनिषदां अनितरसाधारणवैशिष्ट्येषु अन्यतमत् तासां परमोच्चं अर्थगाम्भीर्यम्। तदर्थगाम्भीर्यं बन्नञ्जे आचार्याः स्वीयानुवादे व्याख्याने च अतीवविशदतया विरूपितवन्तः ॥

[[67]]

द्वितीयमन्त्रे ‘स उ देवः’ इत्यस्य अतिसुन्दरं विस्तृतं व्याख्यानं पश्यन्तु॥ यथावा- ‘सः’ इति सर्वनामशब्दः सामान्यतः दूरस्थं वक्ति। अत्र तु न केवलं दूरस्थः, अपि तु समीपस्थोऽपि। सृ गतौ, सर्वत्र सरतीति सः इति निरुक्तिः। एवं च दूरस्थः समीपस्थः, सर्वत्रवर्तमानः यः स एव ‘सः’ अपि च, सर्वं सरतीति ‘सः’ इत्यपि निरुक्तिः ॥ ये गत्यर्थकाः ते ज्ञानार्थकाः ॥एवं च ‘सः’ इत्युक्ते ‘सर्वज्ञः’ इत्यप्यर्थः ॥ ब्रह्माण्डपिण्डाण्डेषु सर्वत्र वर्तमानः, सर्वब्रह्माण्डपिण्डाण्डज्ञानीयः स एव ‘सः’ किञ्च- यः सर्वस्मादपि सारभूतः स एव ‘सः’ सारभूतश्च स भवति यः दोषरहितः, ज्ञानानन्दमयश्च। एवं च यः सच्चिदानन्दमयः स एव ‘सः’ इत्युच्यते।

‘सः’ इति दूरस्थोऽपि भवति। अत एव बहुदूरे सूर्यमण्डले वर्तमानः नारायणः ‘सः’ इत्येवोच्यते ॥ एवं समीपेऽपि वर्तमानः सः। अत एव जीवानां हृत्कमलवासी गायत्रीप्रतिपाद्यः बिम्बरूपी अपि ‘सः’। एवं सर्वव्याप्तः एव सारात्सारतरः। अत एव सर्वशब्दवाच्यः। श्रोत्रं, चक्षुः मनः, वाक्, प्राणः इति इन्द्रियवाचकशब्दाः अतिमुख्यतया नेन्द्रियवाचकाः, न वा इन्द्रियाभिमानिदेवतावाचकाः। अपि तु- सकलेन्द्रियाणां, अभिमानिदेवतानां च स्रष्टारं, एवं तेषां तत्तच्छक्तिप्रदं, महाप्रलयकाले एतेषां संहर्तारं, मुक्तौ पुनः स्वरूपेन्द्रियाणां अभिव्यक्तिकर्तारं भगवन्तमेव इन्द्रियवाचकशब्दाः संवदन्ति।

एवं च सर्वव्याप्तः सर्वज्ञः, सारात्सारतरः, सर्वशब्दवाच्यः यः स एव ‘सः’।

‘क उ देवो युनक्ति’ ? इति प्रश्नाभिप्रायः कः ? प्रथमे मन्त्रे एव अयं प्रश्नः, इन्द्रियनियामके प्रश्नः इति सामान्यतः उत्तरम्, अभिमानिनयन्यायेन इन्द्रियाभिमानिनां नियामकः कः इत्यपि प्रश्नः परन्तु इन्द्रियाणां, इन्द्रियमानिनां च नियामकं हृषीकेशं प्रश्निकः जानात्येव।

एवं तर्हि ज्ञातविषये सदाशिवः कुतः पृच्छतीति ? अत्र बन्नञ्जे आचार्याणां विवरणम् अतीवसमीचीनम्। यथा- महिमातिशयज्ञानार्थः प्रश्नः, ‘को देवः कीदृशो देव इति ॥ तद्यथा

[[68]]

अर्जुनः कृष्णमाह- ‘भासस्तवोग्राः प्रतपन्ति विष्णो। आख्याहि मे को भवा नुग्ररूपः।(भगवद्गीता-११-३०-३२) तदेवं ‘तावा एताः शीर्षन् श्रियः।

श्रिताः चक्षुः, श्रोत्रं, मनो, वाक्, प्राणः’ (महैतरेये- २.२.२२) इति श्रुत्यन्तरगदितानि शीर्षाण्यानि पञ्चज्ञानसाधनानीन्द्रियाणि गृहीतानि भवन्ति पञ्चात्मनोः प्राणनारायणयोः उपासनार्थम्। अवान्तरप्रेरकाः सिद्धा एव। ‘भीषास्माद्वातः पवते’ इत्यादिः। न तत्र जिज्ञासा। स्वतन्त्रप्रेरकस्य महिमातिशय एवेह जिज्ञास्यते इति ॥

अपूर्वं पाठान्तरम् बन्नञ्जे आचार्याः वदन्ति स्म यत् अर्थशुद्धेः कारणीभूता पाठशुद्धिरिति शुद्धपाठस्वीकारविषये अतीव जागरूका आसन् आचार्याः। तलवकारोप- निषद्यपि द्वितीयखण्डे प्रथममन्त्रे ‘यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्’ इति सार्वत्रिकः पाठः नञ् रहितः एव। परन्तु अस्य भागस्य वामनपण्डितानां टीका तु ‘स्वहृदयस्थमेव ब्रह्मणः रूपं नूनं नवेत्थ’ इति। प्राचीनटीकाकाराणां वामनपण्डितानां टीकानुगुणं ‘दहरमेवाऽपि नूनं न वेत्थ ब्रह्मणो रूपं’ नञ्गर्भ एव प्रतनः पाठः इति निश्चीयते इति बन्नञ्जे आचार्याः। सर्वगुणपरिपूर्णस्य परब्रह्मणः हृद्रूपस्यापि संवेदनं संपूर्णतया अशक्यमेवेति नवेत्थ’ इति नञ् गर्भपाठस्वीकारः समुचित एव ॥ अत एव वामनपण्डिताचार्याणां पूर्वजाः नारायणपण्डिताचार्याः अपि सुमध्वविजय- महाकाव्ये एवं प्रावोचुः- न रमाऽपि पदाङ्गुलीलसन्नखधूराजदन्तसद्गुणान्।

गणयेद्गणयन्त्यनारतं परमान् कोऽस्यपरो गुणान् वदेत् ॥

छन्दस्स्वपि वर्तन्ते अनुसन्धानविशेषाः वैदिकच्छन्दोविषये अनितरसाधारणं कार्यत्रयम् आचार्याः कृतवन्तः- १. छन्दोबुभुत्सानां कन्नडभाषायां सुखावबोधाय लक्षणादिनिरूपणम्॥

[[69]]

२. वैदिकछन्दोविषये विशेषबुभुत्सूनां कृते वैदिकछन्दोमीमांसा’ इति ग्रन्थं अारचय्य ‘उपनिषच्चन्द्रिका’ इति संस्कृतग्रन्थे परिशिष्टत्वेन आयोजनम् ॥

३. वैदिकछन्दसां अभिमानिदेवतानिर्देशपूर्वकं, तत्तच्छन्दःस्वीकारेऽपि कार्य निर्देशः, अक्षराधिक्ये अक्षरन्यूनतायां वा सूचितः अर्थविशेषः, एकस्मिन् छन्दसि अन्तर्गतं अन्यत् छन्दः, छन्दसां बृहतीकरणं इत्येवमादयः अपूर्वाः विषयाः बन्नञ्जे आचार्यैः इदं प्रथमतया विशदीकृताः ॥

संस्कृतव्याख्याने प्रथममन्त्रछन्दोविचारे यथा-‘प्रथममन्त्रे तावत् प्रथमपादे एकाक्षराधिका त्रिष्टुप्। एकादशाक्षरा हि त्रिष्टुप् एकादशात्मनः शिवस्य स्वं छन्दः। अतः सूक्तं त्रिष्टुभा शिवः पृच्छतीति। प्रथमपादे च एकाक्षराधिक्येन द्वादशेन्द्रियगमणन्तारं केशवादिद्वादशात्मानं नारायणं स्मरन्नेव प्रश्नम् उपस्थापयतीव॥

लिङ्गवचनानां व्यत्ययः शास्त्रेषु बह्वर्थत्वाय भवति न वेदेषु लौकिकव्याकरणचिन्ता। अन्यदेव वर्तते वैदिकव्याकरणं पाणिनीयम्। एवमपि स एव प्राह- छन्दसि इष्टानुविधिः’ कात्यायनोप्याह- ‘सुपां सुपो भवन्ति, तिङां तिङः भवन्ति(५.२.३९)। एतेन च वैदिकप्रयोगेषु लिङ्गादिव्यत्ययानां गतिः कल्पिता, व्यवस्थापि कृता। परन्तु वेदेषु व्याकरणनियमभङ्गः कुतः क्रियते इत्यस्य नोत्तरं लब्धम्। अत्र बन्नञ्जे आचार्याः वदन्ति- वेदेषु व्याकरणनियमभङ्गोऽपि बह्वर्थत्वाय भवति। यथा वा ‘येन चक्षूंषि पश्यति’ इति मन्त्रव्याख्याने - १. अभिमानि देवताविवक्षया एकवचनम्। चक्षुषामभिमानी विवस्वानपि येन पश्यतीति ॥

२. येन च चक्षूंषि पश्यति पश्यन्ति(वचनव्यत्यासः) द्रष्टारः चक्षूंषि, पश्यन्ति दर्शनादिशक्तिमन्तः भवन्ति।

[[70]]

३. ख्यायन्त इति चक्षूंषि’ इत्यर्थस्वीकारे चक्षुर्ग्राह्यपदार्थजातानि एव चक्षूंषि, तानि लोकः पश्यति(मात्रवचनव्यत्यासः) ४. येन- यदनुग्रहेण, चक्षूंषि चक्षुषा(तृतीयार्थे प्रथमा) अयं लोकः पश्यतीति।

प्लुतस्वरस्य अपूर्वार्थताः चतुर्थखण्डे च उपनिषदि एकं वाक्यम्- ‘यदेतत् विद्युतो व्यद्युतदा३ इति’ यदेतत् परब्रह्म, विद्युतः विशेषेण द्योतन्ते इति- विद्युतः सूर्य- चन्द्र-नक्षत्रादिसर्वभासः व्यद्युतदा३ स्वयं तत्र स्थित्वा प्रकाशयति।

व्यद्युतदा३ इति प्लुतस्वरस्तु महदाश्चर्यमिदम् इति वक्ति ॥ सूर्य-चन्द्र- नक्षत्रादयः प्राकृतभासः, अप्राकृतपूर्णतेजोरूपिणः भगवतः पुरतः अतीव न्यूनाः॥ सः तेजसां सिन्धुः। अन्ये बिन्दवः। सर्वानपि भासयते तत्तेजः परन्तु परब्रह्मणरूपिणं तेजः सूर्यादयः न भासयन्ते। तदुक्तं गीतायाम्- ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः’।

काठकेऽपि श्रूयते- ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमाविद्युतो भान्ति कुतोऽयमग्निः तस्य भासासर्वविदं विभाति’। सर्वप्रकाशकस्य तस्य प्रकाशकः नान्यः वर्तते इति गीता-काठकयोः विदितं विषयं तलवकारः ‘व्यद्युतदा३’ इति प्लुतस्वरेण सूचयति॥ तत्रैव उत्तरतः अन्यद्वाक्यम्- ‘न्यमीमिषदा३’…..

सर्वप्रकाशकं ब्रह्म महाप्रलयकाले अक्षिणी निमील्य प्रसुप्तम्। तत्राऽपि पुनः प्लुतस्वरः को वा विशेषः अर्थः प्लुतस्वरस्य ? आचार्याः वदन्ति- कियत्कालं स्वपिति तत् ब्रह्म? महाप्रलयकालसमाप्तिपर्यन्तम्।

महाप्रलयकालस्तु ३२२०४ सहस्रकोटिवर्षाः। तावान् दीर्घकालोऽपि कालातीतस्य तस्य ब्रह्मणः क्षणकालोऽपि न। अत एव भागवते तृतीयस्कन्धे वर्ण्यते- ‘अव्याकृतस्यानन्तस्य निमेष उपचर्यते’। एवं दीर्घकालं प्रसुप्तमपि

[[71]]

तद्ब्रह्म क्षणकालमपि न सुप्तम्। एतादृशं आश्चर्यभावं वदनं व्यावृत्यैव वर्जनीयं किल! अत एव प्लुतस्वरः ॥

अपसिद्धान्तनिरासः मूलमवलम्ब्य व्याख्यानम्। मूलसिद्धान्ते दीक्षाय व्याख्यातॄणामत्यन्तम् अावश्यकी। मूलसिद्धान्तदीक्षा तदापरिपूर्णा भवति यदा मूलसिद्धान्तमण्डनं, तद्विरुद्धविचाराणां खण्डनं च व्याख्यातृभिः क्रियते। बन्नञ्जे गोविन्दाचार्या अपि स्वीये उपनिषच्चन्द्रिकाभिधे व्याख्याने सर्वज्ञाचार्याणां भाष्यमण्डनम्, तद्विरुद्धाभिप्रयाणां खण्डनं च समीचीनतया एव कृतवन्तः प्रथममन्त्रव्याख्याने नवनमन्त्रव्याख्यानं, उपनिषदः अन्तिमखण्डव्याख्यानसन्दर्भेऽपि आचार्याणां परमतनिरासकौशलं द्रष्टुं शक्नुमः ॥

सरससुन्दरवाग्मिः सरसभारतीविलासेन च उपनिषदां हार्दं भाष्यकाराणां अभिप्रायं वामनपण्डितानां विशेषविचारं च बन्नञ्जे आचार्याः बालानामपि सुखावबोधः यथाभवेत्तथा स्वीयव्याख्याने निरूपितवन्तः। नूनवयं धन्याः यतः बन्नञ्जे आचार्याणां काले वयं आस्म, तं महोदयं अपश्याम, तदानीं इदानीमपि तेषां मधुरवाणीं शृण्वन्त एव स्मः, तेषां अद्भुतग्रन्थान् पठन्तः/ पाठयन्तश्च स्मः ॥


[[72]]