०९ प्राणाग्निसूक्तम्

डा. शम्भुकुमार झा

पद्मश्रीगोविन्दाचार्यस्य प्राणाग्निसूक्तभाष्यम् ‘सम्पूर्णमृषवाक्यं तु सूक्तम् इत्यभिधीयते’ इति सूक्तलक्षणं बृहद्देवतायां शौनकेनाकारि। सर्वानुक्रमण्यां ऋषिछन्दोदेवतानां च विज्ञापनं परिष्कृतम्। यस्य वाक्यं स ऋषिः। तेन यास्तूयते सा देवता। देवः दानाद्वा, दीपनाद्वा, द्युस्थानीयो भवतीति वा इति निरुक्तस्य सरणिः। देव शतदात्तल् प्रयत्नेन देवता पदमेति। पाणिनेः सूत्रं भवति ‘देवात्त्’ अत्रेदं ध्यातव्यमस्ति तल् प्रत्ययः भावार्थे न भवति अपितु स्वार्थे प्रवर्तते। तथा च तलन्तं स्त्रियाम् इति अनुशासनात् टाप् यो देवः सा देवता। यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुतिं प्रयुंक्ते तद्दैवतः स मन्त्रो भवति। इति दैवतकाण्डे यास्कः प्रतिपादयामास।

‘विद्वांसो वै देवाः’ शातपथीश्रुतिः। अनयाश्रुत्या गोविन्दाचार्यस्य भाष्यविषये ज्ञायते साक्षात् भगवती श्रुतिः आचार्यस्य हृदि प्रकटिता।

सरस्वत्याः सर्वाङ्गतत्वं तत्र प्रस्फुटितम् ‘जायेव पत्ये उशती सुवासाः‘ विद्वद्वरेण्यः गोविन्दाचार्यः खलु गुरुकृपया सदाशिषा च समग्रं शास्त्रं चावगाहनं कृत्वा हस्तामलकवत् भाष्ये प्रदर्शितवान्।‘बिभेत्यत्यल्पश्रुताद्वेदो मामयं प्रहरेदिति’ वचनस्य आदरं सम्पादयन् षडङ्गानां, पुराणानां, मीमांसादिशास्त्राणाञ्च प्रमाणमुपस्थापयन् भाष्यस्य गौरवं वैभवं माहात्म्यं च रक्षितवान्। वेदार्थे निरुक्तस्य महत्त्वं सर्वैः विद्वद्भिः स्वीकृतम्।

निरुक्तकारेण मन्त्रस्य व्याख्यानावसरे क्कचित् अध्यात्मपक्षः भौतिकपक्षः सन्धारितः न च सर्वोऽपि पक्षः सर्वत्र निरूपितः। गोविन्दाचार्यस्य प्रातिभवैलक्षण्यं पदे पदे द्रष्टुं शक्यते एकैकस्य मन्त्रस्य त्रिधा विभागः महता श्रमेण कृतो वर्तते। तत्रापि मध्वसंप्रदायस्य संपोषणं आचार्येण कृतम्।

प्राणाग्निसूक्ते भाष्यं स्वयमेव श्रीमदानन्दतीर्थेण भगवत्पादेन व्यरचि।

तद्भाष्यमेव गोविन्दाचार्यस्य पाथेयं विभाति। संप्रदाय इत्युक्ते सम्यक्प्रदीयते

[[51]]

शिष्येभ्यः इति। गोविन्दाचार्यस्य श्रद्धा, विश्वासश्च गुरौ, सम्प्रदाये चाविकलेन भवति। सूक्तमिदं पदेन विषयेण च क्लिष्टतरं विभाति तथापि आचार्यस्य भाष्यं पठित्वा सर्वं स्फुटं जायते परन्तु श्रद्धावतामेव। श्रद्धायाः अभावे निखिलं शून्यमुक्तं च यास्केन- ‘नैष स्थाणोरपराधो यदेनमन्धो न पश्यति पुरुषापराधः स भवति’।

अस्याः पङ्क्तेः भावं स्फोरयन् गोविन्दाचार्यः ब्रवीति अपिधाय चक्षुषी न शक्यं द्रष्टुं यदि वस्तु तमसि निलीनम्। अथ विवृते चक्षुषी, अपगतं च तमः, अथापि न शक्यं द्रष्टुं यदि नास्ति दिदृक्षा। अत्रैव आचार्यपादानां भाष्यं प्रतिपादयन्नाह - ‘यो हि यत्राऽदरवान् तस्यैव तद्वस्तु विद्यमानमपि स्फुरति।

न ह्यत्रानादरवतः अन्यत्राऽऽदरवतश्च’ इति। न केवलमेतावत्। यो हि यत्राऽऽदरवान् तस्य तदेव स्फुरत्यविद्यमानमपि।

अस्य गभीरतमस्य प्राणाग्निसूूक्तस्यविज्ञानं कथं कर्तुं शक्यते। यथा गीतायामाह- नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥

तथैव भूमिकाभागे गोविन्दार्यः प्रकटयति- यद्यस्ति प्रदीपप्रकाशः अस्ति च विवृतं हृदयम्। अपि च स्त एवोन्मीलिते नयने तदा निर्विचिकित्सं निश्चीयते प्राणाग्निसूूक्तमेतत् ॥

अस्य प्राणाग्निसूूक्तस्य दीर्घतमा ऋषिः जगतीछन्दः अग्निर्देवता प्रातरनुवाके विनियोगः। बृहद्देवतायां शौनकाचार्यः लिलेख- द्वावुचथ्यबृहस्पती ऋषिपुत्रौ बभूवतुः।

आसीदुचथ्यभार्या तु ममता नाम भार्गवी ॥

तां कनीयान् बृहस्पतिर्मैथुनायोपचक्रमे।

शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत ॥

[[52]]

इहास्मि पूर्वसम्भूतो न कार्यः शुक्रसङ्करः।

तच्छुक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः ॥

स व्याजहारं तं गर्भं तमस्ते दीर्घमस्त्विति।

स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ॥

स जातोऽभ्यपतद् देवानकस्मादन्द्यता गतः।

ददुर्देवास्तु तन्नेत्रे ततोऽन्द्यो बभूव सः।

अत्रैवप्रसङ्गे गोविन्दाचार्यस्य देवता विषये विशिष्टः उपक्रमः दृश्यते।

कथमत्र प्राणाग्निर्देवता। अग्निरेव प्राणाग्निरूपेण जीवेषु विद्यमानः सञ्चरति।

कारणं निरूपयामास गीतायां- अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

प्राणाग्नय एवैतस्मिन् पुरे जाग्रति गार्हपत्यो ह वा एषोऽपानः व्यानो अन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते। प्रणयनादाहवनीयः प्राणः इति श्रुतिः।

अस्मिन् सूक्ते त्रयोदशमन्त्राः। तत्र प्रथमः ‘बडित्था तद्वपुषे’ इति।

आदितः पञ्चषु मन्त्रेषु पञ्चात्मा नारायणः मुख्यः। पञ्च प्राणाः शास्त्रादौ प्रसिद्धाः, पञ्चाग्नयः श्रौतव्यापारे कथिताः। देवशब्दः द्योतनशीलस्य अग्नेः पर्यायः। तस्मात् भर्गः तेजो हि प्रसिद्धं ज्योतिरूपमुत्पन्नम्। दैवतकाण्डे निरुक्ते तिस्र एव देवता इति तत्र पृथिव्यामग्निः प्रमुखः स भगवान्। अग्नेः द्विधा विभागः भौतिकः, यस्मिन् पाककर्म विधीयते, अपरश्च तत्वरूपोऽग्निः स च दर्शनीयः चेतनात्मकश्च, भौतिकोऽग्निः चेतनस्याधीनो भवति।

गोविन्दाचार्यस्यमते स च ज्योतिरूपो भगवान् जठरे भवति कारणं नारायणस्य सकाशाद् ज्योतिरजनि। यथा कुण्डे प्रक्षिप्तं हविषः सारतत्वं गृहीत्वा दूतोऽग्निः देवेभ्यः समर्पयति तथा यजमानस्य वाञ्छितं च साधयति।

श्रौते स्मार्ते च अग्निमन्थनविधिना मन्त्रोच्चारपूर्वकं प्राप्यते। प्रयोगकालीनार्थ-

[[53]]

स्मारकत्वेनैव मन्त्राणां प्रामाण्यम्। तस्मात् लौगाक्षिणा प्रोक्तम्- प्रयोग- समवेतार्थस्मारकाः मन्त्राः। अग्निमन्थने प्रयुज्यमानः मन्त्रः न अदृष्टफलाय भवति प्रत्युत दृष्टप्रयोजनाय एव। दृष्टे फले सम्भवति सति अदृष्टफलकल्पनम् अन्याय्यम्। अतः यज्ञे उत्पन्नोऽग्निः मतिरूपः साधितः। बडित्थाशब्दः पदच्छेते कृते बट्, इत्था च। उभे सत्यनामनी भवतः। तथा च अग्निवायु- रविभ्यस्तु त्रयं ब्रह्म सनातनम्। सनातनेन ब्रह्मणा वेदेन जनितोऽग्निः मतिरूपः कथितः। जडरूपोऽग्निः मन्त्रं विनैव जायते। अभिष्टफलाय स मतिरुपः अग्निः कार्यं साधयति।

धेनाः पदं वाक्पर्यायः निघण्टौ। ऋतस्य धेनाः यज्ञस्य किंवा यजमानस्य वा। अग्नेस्तेजसा सर्वेषां वाचः सस्रुतः समानं गच्छन्त्यः सहैव प्रवर्तमानाः।

यज्ञसन्बन्धिन्यः मन्त्ररूपाः वाचः होत्रादिमुखेन सहैव प्रवर्तमाना अनयन्त नयन्ति। तेजोमयी वागिति श्रुतेः। ऋतपदेन रामस्य च ग्रहणं कृतं भाष्यकारेण गोविन्देन। सत्यभाषणत्वात् रामस्य। रामो द्विर्नाभिभाषते। यद्यपि रामस्य चरितं लोकवत् प्रतिभाति तथापि भक्तिसूत्रे सूत्रितं लोकवत्तुलीलाकैवल्यम्।

परमात्मनो लीला एव भवति। रामस्य धेनाः (वाक् ) त्वमेव सीतान्वेषणे समर्थः। साधको रामकार्याणां तत्समीपगतः सदा। हनुमान् प्रथमो ज्ञेयः।

रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि। अनेन विश्लेषणेन ज्ञायते गोविन्दाचार्यः विष्णोः परमः साधकः आराधकः भक्तश्च। ‘वेदैश्च सर्वैरहमेव वेद्यः’ गीताकारस्य वचनं सार्थकं कुर्वन् गोविन्दाचार्यः अग्निरूपेण, वायुरूपेण, भीमाख्येन, नारायणरूपेण च सूक्तमिदं व्याख्यातवान्।

भौतिकप्रपञ्चेन तत्सेवनेन च कालक्षय एव प्रोक्तः। सत्यात्मको हि भगवान् नारायणः स च सर्वैराराध्यः चिन्तनीयः प्राप्तव्यश्च। वेदादौ यानि वचनानि भागवतादौ ये श्लोकाः विद्यन्ते तेषां विषयः भगवान् भवति।

अस्य सूक्तस्य द्वितीयः मन्त्रः, पृक्षो वपुः इति वर्तते। यत्र प्रथमेन मन्त्रेण गार्हपत्योऽग्निः प्रार्थितः। अनेनाहवनीयः श्रोतागारे पूर्वस्यां दिशि चतुरस्रे खरे विसयमानो भवति तं यो हि प्रार्थयति। असौ भगवानग्निः पितुमान्

[[54]]

पितुशब्दोऽन्नपर्यायः, यथा च निघण्टौ द्वितीयेऽध्याये अन्धः वाजः, पयः, प्रयः, पृक्षः, पितुः, सुतः इति।

प्रशस्तान्नभोक्ता हविष्मान् वा। प्रायेणास्मिन् खरे हविषि दीयन्ते। अयं हि अग्निः मातृषु आधारभूतासु देवीषु नित्यमाश्रितः। अयं भावः - मातृषु विद्यमानः तेजोरूपधरः भगवत्याश्च तेजो वर्धयति। आचार्यप्रवराणां व्याख्याने वैशिष्ट्यमत्र दृश्यते- यत् प्रकृतिपुरुषयोः संयोगः याजकानां सर्वैश्वर्यप्रदानाय विद्यते। तस्यां देव्यामपि सामर्थ्यं जनयति, तेन सामर्थ्येन सर्वाभीष्टं साधयति। यथा चाह माकण्डेये - रोगानशेषानपहंसि तुष्टा इति।

पृक्षो वपुरित्युक्ते पृक्षशब्दश्च अन्ननामसु पठितः। अग्नौ यत्किमपि प्रक्षिप्यते तत् सर्वं तस्य वपुः कलेवरमेव। परन्तु आचार्यचरणानां व्युत्पत्तिः ‘पृची संपर्के’ इत्यस्मात् धातोः पापसंपर्कं क्षपयतीति नाशयति पृक्षः।

सप्त शिवासु यः आश्रितः। सप्त ते अग्ने समिधः सप्तजिह्वाः, सप्त ऋषयः सप्तधामप्रियाणि (यजुर्वेदः) अग्नेः सप्तजिह्वाः काली कराली इति प्रसिद्धाः। वृषभः कामानां वर्षकः।

अयं अग्नेः तृतीयं रूपम्। निर्वचनशास्त्रस्य मर्मज्ञो विद्वान् गोविन्दाचार्यः मन्ये अर्थस्फोरणाय विज्ञानाय प्रतिभया बहुत्र नूतनं निर्वचनं कृतवान्। यथा च भीमशब्दस्य। निरुक्तकारो यास्काचार्यः भीमो बिभ्यत्यस्मात् भीष्मोऽपि एतस्मादेव। अयमर्थः अस्मात् बृहत्कायात् जनाः बिभ्यति। अस्मात् अाचारवतः बलवतः शक्तिमतः भीमात् जनाः बिभ्यति तत्रैव भाष्ये खलु भीमशब्दस्य द्वयी निर्वचनसरणिरुक्ता भवति। पृक्ष इत्येकम् शत्रुसेनाभयङ्करः इति।

मातृषुशय इत्येकम्। भृता मा येन सभीमः पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः।

पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकर्तितः ॥

हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक्पितोः।

भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः ॥

[[55]]

ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम्।

प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः ॥

केषाञ्चित् पण्डिताचार्याणामपि उदाहरणं दत्तमाचार्यैः।

अस्य वृषभस्य तृतीयं वपुर्ज्ञानदोहार्थं योषासु जातम्। दशप्रमतिः कथं।

दशशब्दस्य निर्वचनं यास्केन- दशादस्ता दृष्टार्था वा। ‘दसु उपक्षये’ इत्यस्मात् कनि प्रत्यये वर्ण- विपर्ययेण दशन् इति भवति। या पुनर्न वर्धते सा संख्या दश। परन्तु गोविन्दाचार्य विशिष्टं किञ्चित् लिलेख - दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते।

प्रज्ञामतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः।

शतं दश सहस्रं च सर्वमक्षयवाचकम्॥

सहस्रशब्दः अनन्तार्थे पुरुषसूक्तव्याख्याने सायणादिभिः स्वीकृतः।

अदितिः अदीना देवमाता अनवखण्डि ता इति महीधरः। भाष्ये च - सर्वमत्ति इति अदितेदितित्वम्। सर्वं भक्षयति किं वा निगृह्णाति इति श्रुत्यानुमोदितं निर्वचनं प्रदर्शितम्। दशसु अपि दिक्षु प्रमतिर्यस्य तादृशं ज्ञापयन्ति।

सर्वगतत्वेन प्रमितः। रूपत्रैविध्यं च - उपासा त्रैविध्यात्। यथा- केषाञ्चित् सर्वगतत्वेन केषाञ्चिद् हृदये हरिः।

केषाञ्चित् बहिरेवासादुपास्यः पुरुषोत्तमः ॥

अस्य समग्रं चिन्तनं हिरण्यकशिपोः वधे च द्रष्टुं शक्यते भागवते।

तृतीये मन्त्रे मध्वः इति पदं बहुधा चर्चितम्। अग्निर्वै देवानाम् अवमः विष्णुः परमः। अग्निः दारुमध्ये निलीनो भवति मन्त्रेण प्रमथनेन आज्यादि- प्रक्षेपणेन प्रदीप्तो जायते। काण्ठे निलीनम् न कश्चिदपि पश्यति, सत्प्रयासेन शोणः पुनश्च ज्वालामयः ततश्च सप्तभिर्वर्णैः देदीप्यते। मातरिश्वा वायुः मातरि अन्तरिक्षे श्वयतीति मातरिश्वा मन्त्रपाठपूर्वकेण व्यजनधवनेन संपन्नः। उक्तञ्च सङ्ग्रहे-

[[56]]

तं दुर्दशं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्।

आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम्।

असत्यमप्रतिष्ठं च जगदेतदनीश्वरम् ॥

वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति।

येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ॥

ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः।

त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥

मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्।

मध्व आनन्दतीर्थः स्यात् तृतीयामारुतीतनुः ॥

तृतीयं मध्वः। मधुशब्दः आनन्दवाची। अन्यत्र च विश्वकोषे - मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः।

दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे ॥

सोमस्यापि मधुत्वं निरुक्ते भणितम्। मधुसोमममित्यौपमिकम् माद्यतेरिदमपीतरन्मध्वेतस्मादेव। आनन्दवाचको मधु, तत्र प्रमाणमुपन्त्यस्तं गोविन्दाचार्येण - कमलानलं मधुलवे शमयन् दुरापैः।

पण्डिताचार्या अप्याहुः - येन शवसा सुखेन महितषड्गुणस्य विष्णोः वरणीयान् गुणान् रुद्रादीश्वरा अन्ये च सूरयो निरक्रन्त निरजानत। यत्र चायं प्रदिवः प्रकृष्टज्ञानो मध्वनामा भूत्वा मातरिश्वा गुहायां निहितं विष्णुं आधवे आ समन्तादीश्वरत्वे मथायति प्रकाशयति। इति तत्रैव भाष्ये धृतम्। असौ वा आदित्यो देवमधु इति श्रुतेः।

य आदित्यगतो विष्णुः स एव मधुनामकः।

मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते ॥

मधुशब्दः अनुकूलार्थेऽपि महीधरेण संकलितः मधुवाता ऋतायते इत्यस्य

[[57]]

व्याख्यानावसरे। वायोरुत्पवनक्रिया सर्वत्र प्रसिद्धा। वायुः पुनाति मलिनं तुषादिपदार्थानाम् अपनयनेन प्रकाशयति चाभीष्टम्।

चतुर्थे मन्त्रे च तस्यैव वायुदेवस्य मधुपदवाचकस्य विस्तरेण प्रकारान्तरेण निगमः कृतः।

पञ्चमो मन्त्रः आदिन्मातृ इति। अत्र स्वरितस्याष्टौ भेदाः ये कथिताः - ‘जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्ठश्च’ इत्यादयः। तेषु क्षैप्रः प्रसिद्धः। छन्दःसु ऊहः खल्वपि करणीयः। तस्मात् बहुत्र व्यूहेनाक्षरपूरणमिति लिखितं भवति अक्षरपूर्तये। यतो हि - सूक्ते जगतीछन्दः स्वीकृतम्। जगती गततमं छन्दः।

जलचरगतिर्वा। जलोर्मिप्रकारो हि तस्याः प्रस्तारः। जल्गल्य- मानोऽसृजदिति च ब्राह्मणम् इति निरुक्ते। वायुः वा भीमो वा हनुमान् वा मातुः गर्भे प्रविष्टः परन्तु गर्भजन्यः यो दोषः शास्त्रेणाविष्कृतः तद्दोषरहितः दिव्यत्वात् ज्ञानरूपत्वाच्च। न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। संसारे च प्रतिवादिभिः कुतर्कैः पीडितोऽपि निर्विकारः। इत्यत्र बहुविधविमर्शनेन गोविन्दाचार्यस्य प्रथमो वर्गः पूर्णोऽभगवत्।

षष्ठः मन्त्रः आदिद्धोतारम् इति। वायुरत्र पुरुष्टुतः। पुरुभिः बहुभिः भक्तैः समाराधकैः स्तुतः। स्तुतिभिः प्रसन्नोऽग्निः देवानाह्वयति। अग्निः देवानां होता भवति इति भावः। ऋग्वेदे प्रथमे मन्त्रे उपन्यस्तं ‘यज्ञस्य देवमृत्विजं होतारं रत्नधातमम्’इति। तथा यजुर्वेदे - देवानामसिवह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् इति च। पुरुष्टुतो वायुर्वा, अग्निर्वा क्रत्वा कर्मणा ज्ञानेन मज्मना बलेन आत्मबलेनेत्यर्थः देवान् अयत् अगच्छदिति। अत्रैव उत्कृष्टं विज्ञातमाचार्येण हनुमदवतारे देवानिति देवपक्षीयान् देवांशजान् कपीन्। भीमावतारे युधिष्ठिरादीन्, मध्वावतारे ज्ञानिनः सज्जनान्।

सप्तमे मन्त्रे अग्नेः ज्वालायाः प्रसङ्गः। वातचोदितः वायुना प्रेरितः अग्निः ऊर्ध्वं वितिष्ठते। पराभवं न प्राप्नोति, अपितु वर्धत एव सर्वं व्याप्य तिष्ठति।

अनाकृतः अनिवारितः अप्रतिहतः। ह्वारो न - कुटिल इव। न इत्यत्र

[[58]]

उपमार्थकः निपातः। तेषामेते चत्वारो उपमार्थे भवन्ति- इव, न, चित्,नु।

नेति प्रतिषेधे भाषायाम्। उभयमन्वाध्यायम्। अन्वाध्यायो नाम वेदे न इति निपातस्य द्विधा अर्थः प्रतिषेधः उपमा च। पत्मन् इति मार्गः। धक्षुषः दह धातोः लिटि। कृष्णवर्त्मा अग्निः प्रसिद्धः। येन वर्त्मना मार्गेणासौ गच्छति सर्वत्र कृष्णवर्णो भवति स च प्रसिद्धः।

अष्टमेन दावाग्निः प्रार्थितः। अयं भगवानग्निः शिक्कभिः रज्जुभिः वेष्टनोपकरणैः कृतः दृढीकृतः रथ इव। यथा रथः स्वीयैश्चक्रादिभिः ईयते तद्वत् यातः स्थापितः सन् अरुषेभिः ज्वालादिभिः अङ्गैः अन्तरिक्षं गच्छति।

यदा वने दावाग्निः दीप्तो भवति सद्य एव अन्तरिक्षे तस्य प्रदीप्तस्याग्नेः ज्वाला दृश्यते। ईङ्गतौ। अनन्तरं मार्गाः सरण्यः सूरयः कृष्णासः कृष्णवर्णाः जायन्ते। वयः पक्षिणः ईषते भयात् पलायनं कुवन्ति।

मनुष्यस्य शरीरमपि रथ इव वर्णितम्। आत्मानं रथिनं विद्धि शरीरं रथमेव च। अस्थिभिः दृढीकृतः देहः रथ इव गच्छति।

अत्र अन्योऽभिप्राय प्रकटितः संप्रदाये- दीक्षितस्य किंवा निष्ठस्य ईश्वरे प्रणिधानयुक्तस्य भक्तस्य प्राप्तानन्दस्य भीतिरहितस्य शत्रवः मलिनाः भवन्ति निस्तेजस्काः जायन्ते। सर्वत्र आनन्दतीर्थस्यान्वयाः तेजोमाहात्म्यम् अन्तरिक्षं स्पृशन्ति, न च पृथिव्यां दुर्गतिः क्कापि। अन्तरिक्षशब्दः स्वर्गपर्यायोऽपि श्रुतः।

नवमे मन्त्रे अग्नि-वरुण-मित्र-अर्यमादिदेवतानां एकतन्त्रेण प्रसङ्गः।

अस्य ब्रह्माण्डस्य विश्वस्य प्रथमं पदं तावत् ‘अग्निः’ वर्तते। यास्काचार्यः निर्वचने प्राह - अग्रणीर्भवति, अग्रं यज्ञेषु नीयते अङ्गं नयति सन्नममानः।

अक्नोपनो भवति इति स्थौलाष्ठीविः।

न क्नोपयति न स्नेहयति। त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिः।

इतात्, अक्ताद्, दग्धात्, नीतात्। स खलु एतेः आकारमादत्ते। गकारमनक्तेर्वा दहतेर्वा। नीः परः।

[[59]]

अग्निः यद्यपि त्रिषु लोकेषु भवति तथापि पृथिव्यां प्रमुखः। वरुणः अपाम्पतिः रात्र्यभिमानी देवो वा। मित्रः प्रकाशमयो देवः दिनाभिमानी।

तमसः विनाशकः।

अर्यमा उभयोर्मध्यवर्ती देवः सुदानवः शोभनदानः प्रोक्तः। इमे त्रयः अग्नेः साहचर्येण सुदानशीलाः प्रार्थकानामभीष्टफलप्रदाः भवन्ति। वरुणादयः देवाः अग्निना नियम्यन्ते। अरान् न नेमिः। अरान् रथचक्रम् तस्य नेमिः वलयः बाह्यवलयः यथा सर्वं चक्रं व्याप्य कार्यं करोति तद्वत् प्रयुक्तोऽयमग्निः वरुणादीन् देवान् व्याप्य तिष्ठति। अयमेवाग्निः नारायणाख्यः परमेश्वरः।

दशमे च मन्त्रे युवतमोऽग्निः स्तुतः। प्राणाग्निः शयनावस्थायामपि कार्यं करोत्येव स कदापि न क्लेशं अनुभवति न च व्यथितो भवति अतः युवतमः यविष्ठः अतिशयेन युवा युवतमः। अयमग्निः शशमानाय शंसमानाय प्रार्थकाय पाठकाय उपासकाय वा तथा च सुन्वते अभिषवं कुर्वते यजमानाय रत्नं रमणीयं यागार्थं हविः देवतातिं देवेषु तायमानं विस्तार्यमाणं इन्वसि प्रापयसि ददासि च। इन्वतिः व्याप्तिकर्मा। त्वां युवतमं वयं कारे मन्त्रलक्षणे पाठे स्तोत्रे च धीमहि स्थापयामः मन्त्रचैतन्याय।

महिरत्नविषये गोविन्दाचार्यस्योल्लेखः प्रसङ्गेऽत्र विधीयते। महिरत्नः कस्मात्। महाधनो भवति। महाज्ञानो भवति। महच्च सुखमस्य भवति।

रत्नं हि रतनं रतिः। महच्च सुखं ज्ञानं वाऽस्माद्भवति। महच्च सुखरूपं ब्रह्मास्य साक्षत्समाराध्यं भवति। महतामपि रतिरस्माद् भवति। महद्भिरपि रतिरूपं ब्रह्मानेनैव गम्यते। अतस्तं देवं स्तुतिशब्दे निधीमहि स्थापयामः।

यथा देवे तथा गुरौ।

एकादशेन मन्त्रेण पुनः अग्निः प्रार्थितः। अयं भगवान् ऐहिकामुष्मिकं सर्वं सौख्यं यजमानाय प्रयच्छति। धनं पुत्रमैश्वर्यञ्च। धर्णसिं विद्यादि- धारणकुशलं पुत्रम्। यथा सूर्यस्य रश्मिः लोकान् यमयति नियमयति तथैव अग्निरपि जन्मनी जननाद्याधारभूतौ इहलोकपरलोकौ नियमयति।

[[60]]

उपान्तिमे मन्त्रे त्रिष्टुप् छन्दः। सुद्योत्मा इति सुद्योतमानः शोभनप्रकाशः।

द्युत दीप्तौ। जीराऽश्वः अश्वस्य विशेषणम्, जीराः जवन्ते इति जीराः। तादृशाः वेगवन्तः अश्वाः यस्य स जीराश्वः। यद्यपि अश्वः अश्नुते ध्वानम् महाशनो भवति इति यास्कः। असौ अग्निः अस्माकं आह्वानं शृृणवत् श्रुणुयात् अथवा अस्मान् श्रावयेत्। देवेषु मध्ये प्रख्यापयेत्। चन्द्ररथः ‘चन्द्रः स्वर्णेऽपि कथ्यते’ स्वर्णमयो रथः इति। अयमग्निः अमूरः अमूढबलः। मूढः मनुष्यो भवति, देवः अमूढ एव। असौ यज्ञस्य पारं नयेत। यज्ञस्य पारं प्रापयेत्।

अमूरः अप्रतिहतगतिः इति सङ्ग्रहभाष्ये। वस्यः पदं व्याख्यातं गोविन्दा- चार्येण - सर्वाश्रयत्वाद्वा वसति सर्वमस्मिन्निति वस्यः। अस्मदीयं स्तोत्रं च श्रुणुयात्। अथवा श्रावयेत् भगवते।

अन्तिमे मन्त्रे अस्माभिः स्तवनं कृतम्। शिमी शक्तिः इति कर्मनामसु पठितम्। यजमानैः स्तुतः अग्निः। सामाज्याय सम्यक् राजमानत्वाय।

अयमग्निः स्वर्गादिफलं दधानः ददानः। मघवानः मघ इति धननामसु पठितम् तद्वान्। परन्तु गोविन्दाचार्यः मखवन्तो मधवानः। तं वा एतं मखवन्तं सन्तं मघवानित्याचक्षते। यशस्विनो वा।

अस्मत् पुत्रपौत्रादयः वयं चाग्निं स्तुमः। तत्र दृष्टान्तः - मिहं न सूरः।

मेहनशीलं मेघं यथा सूर्यो वृष्ट्यर्थं शब्दयति तद्वत्।

एभिः त्रयोदशमन्त्रैः नारायणः, हनुमान् भीमः वायुः आनन्दतीर्थश्च स्तुतः। मन्त्राणां विशेषेण गोविन्दाचार्यस्यान्तःप्रज्ञा उत्कृष्टतरा विभाति।

समग्रं शास्त्रं तत्तत्स्थले मूर्ततरं विभाति। मन्ये यत् भाष्यमिदं समेषां विद्यो- पासकानां जिज्ञासूनां ज्ञानपिपासकानां अर्थतत्वावगाहकानां आत्मतत्व- जिज्ञासूनाच्च समस्तभ्रमच्छेदाय आत्मकल्याणस्वरूपावाप्तये च वर्तते। अस्य भाष्यस्य भाषान्तरेषु अनुवादः तथा आचार्यकक्ष्यायां चाध्यापनाय प्रयासः विद्वद्भिः करणीयः। स्वनामधन्यः गोविन्दाचार्यः प्रणस्यः स्तुतियोग्यश्च।