०८ आचार्यगोविन्दकृतम् अस्यवामीयसूक्तभाष्यम्

प्रो.मधुसूदन पेन्ना

वेदार्थ एव गहनः तत्रापि कानिचन सूक्तानि गहनतरार्थानि। यदि नाम तपःपूता मन्त्रद्रष्टारो नाभविष्यन् तर्हि नूनमेव कतिपयसूक्तगता अर्थाः दुरूहाः एव अभविष्यन्। नासदीयसूक्तं, पुरुषसूक्तं, विष्णुसूक्तं, अस्यवामीयसूक्तं इत्यादिगहनार्थकवैदिकसूक्तेषु प्रमुखतया कीर्त्यमानमस्ति अस्यवामीय सूक्तमेकम् यस्य हृदयाविष्काराय बहुधा बहुभिर्यत्ना व्यधायिषत।प्राचीनकाले सायणाचार्यभाष्यं, तदुत्तरकाले च कृतानि भाष्याणि श्रूयन्ते, ततः आत्मानन्दनामकेन स्वामिवरेणापि कृतमस्य भाष्यं, ततः आधुनिके काले माक्स् मूलर् नामकविदुषः इतरेषाञ्च भाषान्तराणि सन्ति।

1956 तमे वर्षे मद्रपुर्यां गणेशनामकसंस्थया प्रकाशितम् आत्मानन्द- नामकस्य विद्वद्वरस्य भाष्यं सर्वथा केवलाद्वैतपरं सदपि न सर्वेषां मन्त्राणामद्वैतपरत्वं विवृणोति। अत एवोक्तं स्वामिवर्येण - एवमुत्तरत्रापि अद्वैतपरतया योजयितुम् शक्यम्। तथापि स्वरसत्वाभावात् ग्रन्थविस्तरभयाच्च न लिख्यते। यत्र द्वा सुपर्णा इत्यादौ स्फुटमाध्यात्मिकः अर्थः प्रतीयते तत्र तत्र प्रतिपादयामः- इति। अनेनाचार्येणास्मिन् भाष्ये श्रुति-स्मृति-कोश- कल् पसूत्रादिप्रमाणप्रदर्शनपुरःसरं सूक्तमन्त्रार्थः प्रदर्शितः। तदनुगुणमेव 1956 तमे वर्षे श्रीमता कुन्हन्राजनामकेन विदुषा विश्वरहस्यमिति शीर्षकं दत्त्वा अस्य विवेचनं कृतमिति बुध्यते। सर्वेषां मन्त्राणामेकार्थबोधकत्वं दर्शयितुं तेन प्रयत्नः कृतः। अन्यथा सर्वेपि मन्त्राः भिन्नार्थकाः इति, दीर्घतमोनामकस्य च महर्षेः असंबद्धा विचारा एव मन्त्रेषु लभ्यन्ते इति च प्रतीयेत।

परन्तु अस्य सूक्तस्य एतादृशसूक्तान्तरस्यापि तत्त्वं न पूर्णतया समाविष्कृतमिति बहूनां मतम्। सर्वोपि स्वसंप्रदायम् अथवा स्वाभिमतमर्थं सूक्तगतमन्त्रेषु कथञ्चिदपि दर्शयितुं बद्धकटिरित्यपि विदुषाम् आक्षेपः।

[[47]]

तदेतत् सर्वमाकलय्य कृतार्थेन आचर्येण गोविन्दवर्येण माध्वसंप्रदायार्थकलितं भाष्यं बुभुत्सूनामुपकाराय निरमायि तच्चाधुना प्रकाशमनायि।

ऋग्वेदस्य प्रथममण्डले द्वाविंशे अनुवाके 164 तमसूक्ततया पठ्यमानमिदं सूक्तम् अथर्ववेदे नवमाध्यायेपि समुपलभ्यते।अस्य द्रष्टा तावत् शतर्चिः दीर्घतमोनामकः महान् दार्शनिकः यः को ददर्श प्रथमं जायमानमिति, पृच्छामि त्वां परमन्तं पृथिव्याः इति तात्त्विकान् प्रश्नान् पृच्छति ततः स्वयमेव तत्र तत्र समाधानानि प्रयच्छति।

महाभारते आदिपर्वणि भीष्माचार्येण दीर्घतमसः कथा वर्णिता तदनुसारम् एवं बुध्यते यत् दीर्घतमसः जीवनमतिकष्टसंकुलमासीत् अनेकापत्यकोपि महर्षिरयं परिवारेण परित्यक्तः केनचिद् राज्ञा संपोषितः जीवनं निनाय इति च। अस्य परिवारे नैके मन्त्रद्रष्टारः आसन् ऋग्वेदस्य षष्ठमण्डलस्य द्रष्टा भरद्वाजः, नवममण्डलस्य द्रष्टा वामदेवश्च अस्य वंशजाविति ज्ञायते। अनेन दर्शितानि सूक्तानि गूढार्थकानीत्यत्र नास्ति संशयः।

अस्य सूक्तस्य मन्त्राः वेदान्तादिदर्शनेषु बहुधा समुद्धृताः बहुधा व्याख्याताश्च यथा द्वा सुपर्णा सयुजा सखाया इति मन्त्रः, ऋचो अक्षरे परमे व्योमन् इति मन्त्रः, चत्वारि शृङ्गास्त्रयोस्य पादा इति च मन्त्रः वेदान्तेषु विवेचनविषयतां याताः अन्तिमश्च व्याकरणशास्त्रे। आपाततस्तु प्रत्येकमपि मन्त्रः क्कचिदन्येन असंबद्ध एव इति भाति। एतत्सूक्तगतमन्त्राणाम् एकार्थबोधकत्वे पुरापि महान् प्रयत्नः कृतः।

परन्तु एतादृशमन्त्रव्याख्याने अल्पमतयः प्रवर्तेरन्निति धिया भिया च भण्यते- बिभेत्यल्पश्रुताद् वेदो मामयं प्रहरिष्यतीति। वयं जानीम एव भगवत्पाद वाक्यम् असंप्रदायवित् सर्वशास्त्रविदपि मूर्खवद् उपेक्षणीय इति। इतिहास- पुराणादिशास्त्रविदां कार्यमिदम् अल्पशेमुषीकाणां कृते सर्वथा दुष्करमेव।

अत एतादृशस्य सूक्तस्य व्याख्याने न केवलं वैदिकसंस्कृत-भाषाज्ञानम् अपि तु रहस्यार्थावगमनयोग्यताविशेषोपि समम् अपेक्षित इति निश्चप्रचम्।

[[48]]

आधुनिकेषु शास्त्रवित्सु स्वनामधन्याः श्रीमन्तः गोविन्दाचार्याः विश्रुत- कीर्तयः। अस्य सूक्तस्य भाष्यव्याजेन भगवद्भक्ता वेदार्थबुभुत्सवश्च अत्र- भवद्भिः नितरामुपकृताः इत्यत्र नास्ति संशयलेशोपि। अत एव निगदितमेतैः भाष्यान्ते- सूक्तन्तु दैर्घतमसं विपुलार्थमस्य- वामीयमद्भुतमनेकनिगूढभावम्।

व्याख्यामिषेण विववार यथामनीषं विद्वन्मुदे किल मुकुन्दपदैकभक्तः। इति।

निरुक्ताधारेण मन्त्रगतशब्दानां नारायणपरकत्वं तदन्यदेवतापरत्वं वा भाष्येस्मिन् सुष्ठु निरूपितम्। विशिष्य कतिपयस्थलेषु व्याख्यानान्तरापेक्षया महद् वैलक्षण्यमस्ति भाष्यस्यास्य यथा- इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः सुपर्णो गरुत्मान्।

एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः।

अस्य मन्त्रस्य व्याख्याने बहव आचार्याः स्वसंप्रदायानुगुणं बहुधा भाषितम्। अत्रार्थमेवं विवृण्वन्त्याचार्याः – एक एव परमात्मा नारायणः सर्वान्तर्यामी तत्तद्गुणानुरूपं इन्द्र-यम- वरुण-वायु-इत्यादिशब्दैः संबोध्यते इति। अत्र इन्द इति प्रद्युम्नः, मित्र इति अनिरुद्धः, वरुण इति वासुदेवः, अग्निरिति संकर्षणः इति च व्याख्यातं शास्त्रप्रमाणप्रदर्शनपुरःसरम्।

एकैव वाक् एकपदी, द्विपदी, चतुष्पदी, अष्टापदी च कथं बभूवेति च सम्यक् निरूपितमत्र भाष्ये- गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी।

अष्टापदी नवपदी बभूवुषी सहस्राक्षा परमे व्योमन्॥

•गौरी सर्वशुक्ला सरस्वती श्रीमन्नारायणं प्रामुख्येन प्रतिपादयन्ती एकपदी बभूव।

[[49]]

• ततः जगच्च जगन्नाथं च भेदेन प्रतिपादयन्ती द्विपदी बभूव।

• ततः विश्वादि-वासुदेवादि-चतूरूपं भगवन्तं प्रतिपादयन्ती चतुष्पदी बभूव।

• ततः प्रकृतिमानित्वेन अष्टापदी बभूव।

• अष्टप्राकृतरूपैः स्वरूपेण च नवपदी।

• अनन्तमक्षरं प्रतिपादयन्ती सहस्राक्षरा इति च।

एवमेकस्यैव मन्त्रस्य बह्वर्थबोधकत्वं प्रतिपादितम् आचार्यैः सप्रमाणम् अस्मिन् भाष्ये। अन्यत्र च – ऋचोक्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदुः।

यस्तन्न वेद किमृचा करिष्यति य इत् तद्विदुस्त इमे समासते॥

अस्य व्याख्यानावसरे सर्वस्यापि मन्त्रस्य प्रणवरूपनारायणपरकत्वं साधु प्रत्यपादि विद्वद्वरैः। प्रणववाच्ये नारायणे आश्रिताः सर्वे वेदाः (देवाः) प्रणवाख्य-अक्षराश्रिताः एव। यस्तन्न विजानाति सः तया अधीतया ऋचा किं करिष्यति इति मन्त्रार्थः समुपवर्णितः। क्कचित् यदि कश्चन तमर्थं न वेद सा ऋचा किं करिष्यतीत्यपि केनचिदर्थः प्रदर्शितः। परम् आचार्यैः प्रदर्शितः अर्थः न केवलं युक्तिसङ्गतः अपि तु शास्त्रसिद्ध इत्यपि ज्ञातुं शक्यते।

इत्थं सर्वेषामपि मन्त्राणां नारायणपरत्वप्रतिपादनात् सर्वथा तात्पर्य- भङ्गदोष एव नायाति यतः सर्वान्तर्यामी नारायण एव वेदमात्रस्य तात्पर्यम् सर्वेषामपि अन्ततः तद्बोधकत्वमेव। तदेतनेन भाष्येण साधु साधितमिति प्राचीनभाष्यानुरोधेन नवीनभाष्यविरचनमिदं सर्वथा सत्संप्रदायपरिरक्षकं तत्त्वबुभुत्सूनां च बोधकारकमिति मे विश्वासः। अस्य भाष्यस्य अध्ययनेन मनोहरम् अर्थमवगन्तुं शक्ष्यामः, तथा परमपूरुषे नारायणे समेधितभक्तयः तत्रैव मनःसमाधिं प्राप्स्याम इति मे भावना।

[[50]]