०७ शतरुद्रीयस्य आचार्यगोविन्दकृतं भाष्यम् – सविमर्शो विचारः

प्रो.एन्. के. सुन्दरेश्वरन्

भूमिका विद्यावाचस्पत्याद्यनेकबिरुदैर्विभूषितेन मध्वकृपासुधाभिषिक्तेन विद्या- कुशलेन बन्नञ्जे इत्युपाह्वेन आचार्यगोविन्देन विरचितं शतरुद्रीयाख्यस्य महामन्त्रस्य सम्प्रदायबद्धं गीर्वाणवाणीनिबद्धं भाष्यं, वैदिके धर्मे श्रद्धावतां समेषां विदुषां विविदिषूणां च मोदावहं विराजते। यद्यप्ययं मन्त्रराशिः बह्वीषु श्रुतिशाखासु ईषत्पाठभेदेन समुपलभ्यते तथापि कृष्णयजुर्वेदान्तर्भूततैत्तिरीय शाखान्तःपाती अग्निकाण्डगतः चितिहोमप्रयुक्तो मन्त्रराशिरेव शतरुद्रीया- भिख्यया सुविख्यातः, यश्च श्रीरुद्रप्रश्न इति रुद्रप्रपाठक इति रुद्रोपनिषदिति च बहुधा व्यपदिश्यते। सर्वपापनिवर्तकत्वेन उपास्यत्वेन मोक्षप्रदत्वेन च श्रुतिस्मृतीतिहासपुराणैः अनेकैर्वचःप्रकारैः संश्लोकितमहिमेदं मन्त्ररत्नं श्रद्धावता अनेनाचार्येण ‘सर्वे वेदास्त्र्यर्था विष्णुपराश्चे’ति समर्थयद्भिः श्रीमद्भिर्मध्वाचार्यैः प्रदर्शितरीत्या विष्णुपरतया, प्राणपरतया – विशिष्य मुख्यप्राणस्य अवतारत्रितयपरतया, शिवपरतया च तत्त्ववादानुगुणं व्याख्यातमित्येतत् निदानभूतं विद्वन्मोदस्य सज्जनप्रमोदस्य च। तत्रापि सायणभट्टभास्करयोः प्रत्नभाष्ययोः प्रदर्शितादप्यधिकमर्थं प्रदर्शयत् तत्र तत्र भट्टभास्करमतविमर्शनपरञ्च वर्तते भाष्यमिदमिति, किञ्च परिशीलितानेक- ग्रन्थेन आचार्येण प्रमाणवाक्यान्युद्धृत्य सयुक्तिकं स्वमतमुपस्थापितम् चेत्येतदधिकां सम्मुदं वितनोति।

शतरुद्रीयमन्त्राणां महिमातिरेकः धर्मादेव श्रेयः, धर्मश्च वेदप्रमाणैकगम्यः, इति सर्वस्यापि वेदभागस्य श्रेयस्साधनत्वं सद्भिः सर्वैः साम्प्रदायिकैरूरीकृतम्। परम् इयमस्ति

[[31]]

वस्तुस्थितिः यत् केषाञ्चन वेदभागानां कर्माङ्गत्वेन श्रेयस्साधनत्वं, केषाञ्चिदपरेषां साक्षाद्ज्ञानसाधनत्वमिति भेदो दृश्यते। शतरुद्रीयस्य परं, न केवलं कर्माङ्गत्वं, नापि केवलं ज्ञानसाधनत्वं किन्तु सर्वोपास्यत्वं साक्षात्पाप- निवारकत्वञ्च अभिहितमखिलेनागमेन।

कैवल्योपनिषदि ब्रह्मविद्याविविदिषयोपसन्नायाश्वलायनाय ब्रह्मतत्त्वम् उपदिश्य तत्साधनत्वेन अमुं मन्त्रराशिं निर्दिशन् परमेष्ठी एवं निगदति – ‘यः शतरुद्रीयमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत्।’ इति ‘अनेन ज्ञानमाप्नोति संसारार्णवनाशनम्।

तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते॥’ इति च।

अत्र कृत्याकृत्यात्पूतो भवतीत्येतदन्तेन पापनिवर्तकत्वं, अविमुक्तम् इत्यारभ्य सकृद्वा जपेदित्यन्तेन उपास्यत्वं, अनेनेति श्लोकेन च ज्ञानसाधनत्वं कैवल्यसाधनत्वञ्चाभिहितम्।

जाबालोपनिषदि अविमुक्तोपासनमधिकृत्य उक्तवन्तं याज्ञवल्क्यं प्रत्ययं प्रश्नः – ‘किञ्जप्येनामृतत्वं नो ब्रूहीति’ इति। तस्य च ‘शतरुद्रीयेण …..

एतानि ह वा अमृतस्य नामधेयानि एतैर्ह वा अमृतो भवतीति’ इति याज्ञवल्क्यस्य उत्तरम्। अयञ्च श्रुत्यंशः शतरुद्रीयस्य उपास्यत्वं ज्ञान- साधनत्वञ्च दर्शयति। विश्वेश्वराख्यः स्मृतिकारः ‘श्रीरुद्रं प्रणवं चैव नित्यमावर्तयेद्यतिः’ इति यतिभिरपि जपार्होयं मन्त्रः इत्यनुशास्ति।

सायणाचार्यः शतरुद्रीयप्रपाठकस्य भाष्ये भूमिकात्वेन ‘रुद्राध्याये पञ्चमे तु चित्यग्नौ होम इष्यते।

कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते॥

ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम्।

किं जप्येनामृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ॥

[[32]]

शतरुद्रीयकेणेति जाबाला आमनन्ति हि।

स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम्॥

बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते।

इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम्॥

बोद्धुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा॥’ इत्यभिदधाति। ‘(तैत्तिरीयसंहितायां चतुर्थकाण्डे) पञ्चमो योऽध्यायः सोऽयं चितिहोमे विनियुज्यते ; अत एवास्य कर्माङ्गत्वं ज्ञायते; उपनिषदा अस्य ज्ञानहेतुत्वमप्युदीरितम् ; रुद्राध्यायस्यास्य प्रशस्तिः स्मृत्यागमपुराणैः संश्लोकिता वर्तते। परम् अत्र मया ब्राह्मणोक्तया रीत्या यदस्य कर्माङ्गत्वं तत्प्रतिपादनाय यावदाश्यकं तावन्मात्रम् शब्दार्थविवृतिः क्रियते’ इति प्रतिजानीते।

भट्टभास्करोऽपि स्वभाष्यभूमिकायामेवमाह - ‘अयञ्च ब्रह्मविद्या- रूपत्वाद् उपनिषन्मन्त्रराशिः प्रश्नः। अत एव रहस्यप्रकरण आम्नायते।

…. अनया च रुद्रोपनिषदा ब्रह्मविद्या प्रतिपाद्यते।’ इति। परं सोऽपि कर्माङ्गत्वेनैव व्याख्याति। उक्तञ्च तेन कण्ठतः - ‘ब्राह्मणविनियोगानुरोधेन त्वत्र व्याचक्ष्महे’ इति। प्रतिमन्त्रं ऋष्यादिकं प्रदर्श्य मन्त्रार्थं च निरूप्य पापक्षयवित्तारोग्यायुष्यादिफलदा बहवः प्रयोगा अपि वर्णिताः। उक्तञ्च भूमिकायाम् - ‘अथवा यज्ञसंयुक्ताः प्रयोगाः श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धा मोक्षधर्मपापक्षयवित्तारोग्यायुष्यादिफलदा बहवो विद्यन्ते। तेषु च कांश्चिद्ब्रूमः। प्रतिमन्त्रं च प्रयोगविशेषाः पुरस्ताद्वक्ष्यन्ते।’ इति।

अभिनवशङ्कराख्यः शतरुद्रीयभाष्यकारः सुदीर्घे उपोद्घाते मन्त्रराशेरस्य कर्मपरताम् अग्निपरतां च खण्डयित्वा ज्ञानैकपरतां समर्थयति। परम् अनेनापि कृत्स्नो मन्त्रराशिः ज्ञानपरतया न व्याख्यातः। तत्र तत्र ब्रह्मविद्याप्रतिपादकतया व्याख्यातमित्येव। तदपि मन्त्रसामान्यार्थानुरोधेन।

नमोवाकमालारूपस्य (यन्मूला नमकमित्यभिख्याऽस्य) रुद्रप्रसादन-

[[33]]

रूपस्य वैश्वरूप्यध्यानरूपस्य अस्य मन्त्रराशेः कथं कर्माङ्गता, कथञ्च आध्वर्यवः यागवेदः इति प्रथिते याजुषे वेदे अन्तःपातिताऽस्य इत्येतदचिन्त्यं सद् अस्य महिमानं सहस्रगुणीकरोति।

भाष्यस्य स्वरूपम् तस्यास्य पञ्चाक्षरमहामन्त्रगर्भितस्य महितस्य मन्त्रराशेः विदुषा विद्याविशारदेन आचार्यगोविन्देन विष्णुपरतया, प्राणपरतया शिवपरतया च तत्त्ववादानुगुणं विस्तृतं भाष्यं विहितम्। तत्र शिवपरता नानुपात्तेति श्रद्धेयमेतत्। उक्तञ्च तेन ‘प्रथमं निवेदनीयम्’ इति विहितशीर्षिकायां प्रस्तावनायाम् – ‘यद्यपि अस्त्येका तैत्तिरीयशतरुद्रियस्य तत्त्ववादसम्प्रदायानुसारिणी टीका, नवरत्नपुरुषोत्तमाचार्येण विरचिता, यः परस्ताद् उत्तरादिमठीय- पीठमारुह्य सत्यधर्मतीर्थाख्यो यतिर्बभूव। तत्र सर्वे मन्त्राः रामपरतया व्याख्याताः। उपसञ्जहार च - ‘रामो मुख्यार्थोऽमुख्यस्तु स्थाणुरित्यशेषम्- अतिमङ्गलम्’ इति। अनुमन्यामहे तदपि। अथापि न तत्रार्थत्रयपरता विवृता। न प्राणपरता। नतरां शिवपरता। विष्णोरपि रामाख्यावतारपरतैव परं निरूपिता। पदपाठभेदश्च नात्यन्तमादृतः।’ (पृ. 5) इति।

न केवलं शिवपरता न त्यक्ता, किन्तु शिवमहिम्नः श्लाघाऽपि न न विहिता। नमस्तारायेति मन्त्रांशस्य व्याख्याने ‘वाराणस्यां मृतानां तारकं रामनामोपदिशतीति शम्भुरपि तारः’ (पृ. 84) इति प्रस्तुतिर्दृश्यते।

उपसंहृतिपद्येषु च ‘रुद्रं नारायणं देवं रुद्रं प्राणं त्रिरूपिणम्।

रुद्रं कपालिनं शम्भुं शतरुद्रीयगं नुमः॥

शिवाय त्र्यक्षाय त्रिदिवपतिमुख्यामरपुषे शिवाश्लेषप्रीणद्धवळभसितस्निग्धवपुषे।

[[34]]

त्रिलोकीरक्षायै त्रिपुरहर नानायुधजुषे नमस्तुभ्यं दिव्यस्तुतिभृतनमोवाकयजुषे॥’ (पृ. 129) इति शिवस्तुतिरपि विहिता जागर्ति।

एकैकस्य मन्त्रस्य सस्वरः संहितापाठो दत्तः, तमनु पदपाठश्च प्रत्तः।

तदनु ‘यो ह वा अविदितार्षेयच्छन्दोदैवतेन ब्राह्मणेन मन्त्रेण यजति वाऽध्यापयति वा स्थाणुर्वा गर्तं वा पद्यते प्र वा मीयते पापीयान् भवति तस्मादेतानि विद्यात्’ इत्यनुशासनमनुरुध्य ऋषिच्छन्दोदैवतनिरूपणं विहितम्। अनन्तरं मन्त्रस्य सामान्यार्थमुक्त्वा भगवत्पराणां नाम्नां तथा अन्येषाञ्च पदानां यथोचितं नूत्नं बह्वर्थजातञ्च प्रदर्श्य नारायणपरतया प्राणपरतया शिवपरतया च अर्थविशेषाः प्रदर्शिताः प्रथन्ते। उपसंहृतौ च, उपक्रमे या प्रतिज्ञा विहिता तदनुसारं - नारायणपरतया त्रिरूपप्राणपरतया शिवपरतया च - शब्दतः अर्थतश्च सम्यगालोड्य भाष्यं विहितमिति (रुद्रं नारायणं देवं रुद्रं प्राणं त्रिरूपिणम्। रुद्रं कपालिनं शम्भुं शतरुद्रीयगं नुमः॥) स्वस्य कृतकृत्यतां स्फोरयति ग्रन्थकारः।

पदानामनेकधाऽर्थवर्णनम् मन्त्राणां तदन्तर्गतानां पदानाञ्च अर्थविचारे महान् यत्नो विहितः आचार्येण। ऋक्संहिता, तथा अन्या अपि बह्व्यः श्रुतिशाखाः, तैत्तिरीय- प्रातिशाख्यम्, निरुक्तम्, अष्टाध्यायी, दशपादिका, दशपादिकावृत्तिः, काशिका, सरस्वतीकण्ठाभरणम्, यादवप्रकाशादयोऽनेके कोशग्रन्थाः, श्रीमद्भागवतम् इति अनेकेभ्यः प्रामाणिकग्रन्थेभ्यः वाक्यानि प्रमाणत्वेन उदाहृत्य स्वविचारस्य द्रढिमानं समुद्घोषयति च।

बहवः अर्थविशेषाः प्रदर्शिता नैकेषां पदानाम्, येषु केचन अप्रत्नाः श्रद्धेया रमणीयाश्च। तथा हि ‘नमो रोहिताय स्थपतये वृक्षाणां पतये नमः’ इत्यस्य नमोवाकमन्त्रस्य अर्थवर्णनवेलायां वृक्षशब्दस्य ‘देहः’, ‘ज्ञानी’ चेति अर्थद्वयं दर्शयति -

[[35]]

‘स्थपतिर्यान् वृक्षान् व्रश्चित्वा रमणीयं विग्रहं तक्षति तेषां वृक्षाणां पतये नमः। वृश्च्यन्ते इति वृक्षा देहाः। ‘समानं वृक्षं परिषस्वजाते’ इत्यस्यवामीये। तेषां स्वामी। ‘पुरमेकादशद्वारमजस्य’ इति श्रुतेः। ये पुनरविद्यां वृश्चन्ति ते वृक्षाः ज्ञानिनः। तेषामयं पाता।’ (पृ. 30) इति।

विकिरिदः इति पदस्य अनेके नूत्ना अर्थविशेषाः प्रदर्शिताः।

‘भक्तानामपेक्षितं विकिरन् विकिरन् ददातीति विकिरिदः। ‘विविधं किरन्ति हिंसन्तीति विकिरयः पापव्याधयः। तेषां दाता खण्डयिता।’ इति केचित्। कीर्यन्त इति किरयो धनानि विशेषेण ददातीति विकिरिदः’ इत्यन्ये।’ (पृ 109) इति।

पञ्चमे अनुवाके षष्ठे नमोवाकरूपे ‘नमो गिरिशाय च शिपिविष्टाय च’ इति मन्त्रे व्याख्यायमाने शिपिविष्टशब्दस्य सूर्यरश्मिगतो नारायण इति, यज्ञभुङ्नारायण इति पशुपतिरिति च अर्थविवरणं करोति। तदीयान्येव वचांसि पश्यत – ‘शिपिविष्ट’ इति विष्णोरेव नाम। ‘विष्णुः शिपिविष्ट’ इति श्रुतेः।

‘नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः’ इति स्मरणाच्च। लोके हि गिरिश इति शिवः। शिपिविष्ट इति विष्णुः। विद्वद्रूढ्या तयोरिह सामानाधिकरण्यमिह कथ्यते। कथमथ शिपिविष्टः? शिपयः सूर्यरश्मयः इति यास्कः। तेषु सन्निधाय जीवलोकं हर्षयन् हृषीकेशः शिपिविष्टः। स्कान्दवचनं चात्र भवति – ‘शैत्याच्छयनयोगाद्वा शीति वारि प्रचक्षते। तत्पानाद्रक्षणाद्वापि शिपयो रश्मयो मताः। तेषु प्रविष्टः सविता शिपिविष्टस्तदोच्यते।’ इति। समानमेतत् नारायणप्राणरुद्राणाम्। ‘यज्ञो वै शिपिः’। सर्वयज्ञानां भोक्ता च प्रभुश्च शिपिविष्टः। ‘पशवो वै शिपिः’। तेन शिपिविष्टः पशुपतिः। शिपिविष्टः शिवः शौरिः इत्यभिधानम्। सर्वप्राणिष्वन्तर्यामितया विष्टः।’ (पृ. 61) प्रथमेऽनुवाके विज्यं धनुरिति मन्त्रे निषङ्गथिशब्दस्य खड्ग इत्यर्थं विवृण्वन् भट्टभास्करोक्तं व्याख्यानं दोषयुक्तमिति दर्शयति भाष्यकृत्।

[[36]]

सायणेन निषङ्गथिशब्दस्य खड्गकोशः अर्थः उक्तः। निष्पत्तिर्न दर्शिता।

भट्टभास्करेण तु -‘नितरां नियमेन वा कोशेन सज्जत इति निषङ्गः खड्गः।

स निधीयते यत्र सः इति निषङ्गथिः खड्गकोशः। परोक्षवृत्त्या धकारस्य थकारः। ‘परोक्षप्रिया इव हि देवाः’ इति। … किञ्चिन्न्यूनं भवन- माभवनम्। तच्च खड्गेन विना सत्तामात्रेणावस्थानम्। निषङ्गधारण- स्वभावस्य खड्गकोशस्य निषङ्गेण सहावस्थानं पुष्कलभावः। तेन विनावस्थानम् आभवनम् इति। तेन सोपि खड्गरहितो वर्ततामिति भावः’ इति लिख्यते। तमिममंशमादाय गोविन्दाचार्येण एवं लिख्यते – ‘निषङ्गथिर्बाणाधारः’ इति स्थूलं व्याख्यानम्। तदा निषङ्ग इत्येव पर्याप्तम्। किं वृथा अधिकाक्षरोपादानेन। यत् कश्चिदाह - ‘नितरां नियमेन वा कोशेन सज्जत इति निषङ्गः खड्गः। स निधीयते यत्र सः इति निषङ्गथिः खड्गकोशः।’ तदप्यपेशलम्। न हि निषङ्गशब्दः खड्गवचनः प्रसिद्धः। अपि चास्मिन्नर्थे ‘निषङ्ग + थिः’ इति द्वैपद्यं स्यात् प्रतृण्णे।

नैवं पदकाराः पठन्ति’ (पृ. 18) इति।

किमेतैराचार्यैः भट्टभास्करोक्तस्य वाक्यस्य शेषभागो न दृष्टः स्यात् ? भट्टभास्करो लिखति – ‘यद्वा निषज्जते कोश इति निषङ्गथिः खड्गः। ‘नौ षञ्जेर्गथिन्’ इति गथिन् प्रत्ययः। आभुरस्तु। न्यूनशक्तिरस्तु। कुण्ठितप्रभाव- मीषद्भवनमिति।’ इति। किञ्च प्रतृण्णे द्वैपद्यं कथम् ? निषङ्गथिरिति निषङ्ग थिः इति स्यात् पदपाठे। एकमेव पदम्।

भाष्यकृदयं सोमशब्दस्य पवमान इति नारायण इति च अर्थवर्णनं कथं करोतीति पश्यन्तु – ‘ उत्कृष्टा मा प्रमा उमा तया सहितः सोमः पवमानः।

सौम्यगुणः। सर्वजीवोत्कृष्टया मया रमया सहितः सोमो नारायणः।’ (पृ.81) इति। उ मा उत्कृष्टा प्रमा , उ मा सर्वजीवोत्कृष्टा रमा इत्युभयत्र व्याकरणशास्त्रीया संस्कारसम्मतिः कथं वा साधयितुं शक्यते इत्येतच्चिन्त्यमेव।

[[37]]

‘गुणानुसन्धाने मग्ना वयम्’ न केवलमत्र, बहुत्र एतादृशे अर्थविवरणस्थले नैरुक्तनयेन, संस्कार- सम्पन्नाया निष्पत्तेर्दर्शनं नास्माकीनं कर्तव्यमिति रीतिरवलम्ब्यते। सूचितश्चैषः अर्थविशेषमार्गणे, तथा पूर्णगुणस्य नारायणस्य गुणानुसन्धाने च नैर्भर्यातिरेकः स्वयं ग्रन्थकृता। तथा हि ‘नमो भवाय च रुद्राय च’ इति नमोवाकरूपस्य मन्त्रांशस्य विवरणे - ‘अर्थविशेषमार्गणेन गुणानुसन्धानमग्ना वयम्’(पृ. 58) इति कथितम्। तथैव अनुपदमागच्छतः शर्वशब्दस्य ‘शं रुन्धानो वातीति वा’ इति अर्थं विवृण्वानेन ‘अक्षरसाम्याद्धि निर्ब्रुवन्ति’ (पृ.59) इति ख्याप्यते। आद्यानुवाकस्य ‘या ते रुद्र शिवा तनूरघोरा- पापकाशिनी’ इति तृतीयं मन्त्रं विवृण्वता, प्रथमम् अपापकाशिनी इति पदपाठानुसारं पदं प्रदर्श्य अर्थञ्च संवर्ण्य पापकाशिनी इति पदं भवतु, पापकानश्नातीति च विवरणं भवतु इति कथयति। एवञ्चेत् स्वरे भेदः भवेत्किल संहितायाम् इत्याशङ्कायां वदति इष्टापत्तिरिति, यतः अर्थविशेष एवास्माकं विशिष्टा दृष्टिरिति। तदीयानीमानि वचांसि – ‘पापकाशिनी इति च प्रतृण्णम्। ननु स्वरः कुप्यति। अर्थविशेषलाभाय क्कचित्स्वरभङ्गोऽपीष्यते’ (पृ. 7) इति।

क्लिष्टा अर्थकल्पनाः एवं बहवः नूत्ना अर्थविशेषाः पदानां प्रदर्श्यन्ते इत्येतदस्ति। परं काश्चिदर्थकल्पनाः क्लिष्टसाध्या इवाभान्ति। कपर्दिशब्दः कथं प्राणपरत्वेन नारायणपरत्वेन च व्याख्यायते इति पश्यत - ‘कं परं मौक्तानन्दं ददातीति कपर्दो नारायणः। तस्यायं भक्तः कपर्दी प्राणः। कं परं ददातीति कपर्दं ज्ञानम्। ज्ञानेनैव परं पदम् इति स्मरणात्। तादृशस्य मोक्षसाधनस्य ज्ञानस्य विषयोऽयमिति कपर्दी नारायणः’ (पृ. 18)। एवमेव भवशब्दस्य ‘भाति वाति चेति भवः’ (पृ. 54) इति निष्पत्तिः न सूपादेया सूपपादा वा।

आलाद्यशब्दस्य कथङ्कारम् अर्थविवरणं विधीयत इति पश्यत –

[[38]]

‘आसंसारान्तम् अलं पर्याप्तं कर्मफलमदन्तीत्यालादाः मुक्ताः। तेषु गताय तन्नियामकाय (आलाद्याय) च नमः।’। एतेनातृप्त इव अर्थान्तरमपि अनुपदं प्रदर्शयति सुधीरयमाचार्यः। तद्यथा-‘अदनीयं च आ समन्ताद् अलमाद्यमनेन। आलान्ति आद्यमनेनेति वा’ (पृ. 86) इति।

वारिवस्कृत इति शब्दः नारायणपरतया भीमपरतया प्राणपरतया शङ्कर- परतया च कथं कथञ्चित्समर्थ्यत इत्येतत् पश्यन्तु सुमनसः – ‘वरिवस्कृतः, दैवस्य मानुषस्य च धनस्य दातारः, देवाः। इहत्या विद्वांसो धनाढ्याश्च।

तेषामयं स्वामी। विदुषि स्थित्वा अयमेव ज्ञानदाता। धनिनि स्थित्वा अयमेव धनदाता च। वरिवस्कृतामयं वारिवस्कृत इति। वरिवो वरिवस्या। वरिवस्कृतामयं वारिवस्कृतो भक्तवत्सलः। वारिणि वासः कृतोनेनेति वारिव-स्कृतः समुद्रशायी नारायणः ….सर्वमेतत् यथायथं प्राणशङ्करयोश्च। ….. वारिणि समुद्रमध्ये द्वारकायां वासं कृतवानिति वारिवस्कृत् कृष्णः। वारिव-स्कृतः कृष्णस्यायं भक्ताग्रणीरिति वारिवस्कृताय भीमाय नमः। ये भगवतः वरिवस्याकृतस्तेषामयं स्वामीति च वरिवस्याकृत एव वारिवस्कृतः।’(पृ. 32) इति।

पशुशब्दः, श्वन्–शब्दश्च वेदरूपे अर्थे व्युत्पादितः। ज्ञानानन्दरूपी इत्यर्थोऽपि श्वन् शब्दस्य दर्शितः। दशमानुवाकस्य प्रथममन्त्रे ‘द्रापे अन्ध- सस्पते’ इत्यस्य भाष्ये ‘एषां पुरुषामेषां पशूनाम्’ इत्यंशस्य अस्मदीयानां पुत्रादीनां पुरुषाणाम्, गवादीनां पशूनां च इत्यर्थं प्रातीतिकार्थतया प्रदर्श्य, पुरुषाः ज्ञानार्थिनः, पशवश्च वेदाः इति आन्तरोऽयमर्थ इति प्रस्तौति सूरिरयम्। एतदीयानीमानि वचांसि– ‘एषामस्मदीयानां पुरुषाणां पुत्रादीनाम्, पशूनाञ्च गवादीनाम् इति बाह्यः प्रातीतिकोऽर्थः। पुरुषाणां ज्ञानिनां ज्ञानार्थिनाम्, पशूनां वेदानां ज्ञानसाधनानां वेदानां चेत्यान्तरः।

‘पान्ति शंसाधनाश्चेति वेदाः पशव ईरिताः’ इति स्मरणात्।’ (पृ.97) इति।

‘नमः श्वभ्यः श्वपतिभ्यश्च वो नमः’ इति मन्त्रांशस्य विवरणवेलायां लिख्यते तैः – ‘शमानन्दः। वातीति वा ज्ञानम्। श्वभ्यो ज्ञानानन्दस्वरूपेभ्यो

[[39]]

नमः। श्वयन्ति भगवन्तमेव गच्छन्ति गमयन्ति चेति श्वानो वेदाः। तेषां पतयः। ज्ञानानन्दस्वरूपाणां जीवानां पतयश्च ते।’ (पृ. 56) भगवति नारायणे गुणपूर्णस्वरूपे दोषारोपं वारयितुं, तथा तस्मिन् वैश्वरूप्येण यद् वैरूप्यं कल्प्यते अन्यैः, तदपाकर्तुं च प्रवृत्तस्य, कथञ्चित् सर्वेषां नाम्नां प्राणावतारपरतया नारायणपरतया च विवरणं कर्तुं विधीयमानानल्पप्रयासस्य च विपश्चितोऽस्य एतादृशा क्लिष्टा निष्पत्तिप्रकाराः अर्थकल्पनाश्च दुर्वाराः संवृत्ताः।

प्राणावतारत्रितयपरत्वम् सर्वेषां शतरुद्रीयगतभगवन्नाम्नां मुख्यप्राणस्य अवतारपरतया – हनूमत्परतया, भीमपरतया मध्वाचार्यपरतया च - अर्थप्रत्यायने यो निर्बन्धरूपः सङ्कल्पो विहितः, ग्रन्थादौ या च प्रतिज्ञाऽऽहिता तद्रक्षणव्यग्रेण च इतिहासकथांशान् उन्नीय तदनुगुणं तत्साहाय्येन च कथञ्चित् अर्थो विवृतो बहुत्र। अनेकत्र मध्वाचार्यपरतया अर्थदर्शनाय आचार्याणां वादशूरत्वं मायावादखण्डनचण्डताञ्च उपयुङ्क्ते च।

क्लिष्टतां नेयार्थताञ्च बिभ्रतः एते अर्थदर्शनप्रकाराः भाष्यस्यास्य गरिमाणं मनाग्घ्रसयन्तीति विपश्चितः कदाचिदाचक्षीरन्। परम् एते मानसीमुल्लाघतामु ल्लासयन्तीत्यत्र नास्ति संशयस्यावकाशः। केचन तेषु दीयन्तेऽधस्तात्।

1.रोहितः – रुरोह रामोऽस्यांसमिति च रोहितः – हनूमान्। (पृ. 31) 2.वाणिजः–एतदर्थं वाणी द्रौपदीत्वेन जातेति वाणिजो भीमः।(पृ. 31) 3.वञ्चते – लङ्कां वञ्चते गच्छते रावणं च वञ्चयते हनूमते। (पृ. 39) 4.स्तायूनां पतये– स्त्यायन्ति सर्वान् शब्दान् भगवद्गुणतया अनुसन्दधतीति स्तायवः तेषां पतये मध्वाय नमः। अथ चान्ततो वेदद्रोग्धारश्छद्मवैदिकाः स्तायवस्तेषां पातयित्रे। (पृ. 39) 5.निचेरुः – लङ्कायां सीतान्वेषणाय गृहाद्गृहं नितरां चरन् हनूमान्

[[40]]

निचेरुः। (पृ. 40) 6.हिरण्यबाहुः– रावणेनापह्नियमाणया सीतया ऋश्यमूके पातितं हिरण्मयमाभरणं रामाय वाहयति प्रापयतीति हिरण्यबाहुर्हनुमान्। (पृ. 23) 7.सहमानः – रावणकृतं पुच्छदाहादिकमपराधं सहत इति सहमानो हनुमान्। (पृ. 37) 8.निव्याधी – कौरवसेनां निविध्यतीति निव्याधी भीमसेनः। (पृ. 37) 9.असिमद्भ्यः – रक्षसस्त्रिशिरसो हस्तादसिमाच्छिद्य तेनैव तं जघान इत्यसिमान् हनुमान्। गौरवाद्बहुवचनम्। (पृ. 42) 10. नक्तं चरद्भ्यः – जतुगृहान्नक्तमेव निर्गत्य मातरं भ्रातॄंश्च ररक्षेति नक्तं चरन् भीमः। गौरवाद्बहुवचनमिति सूचयन्नेकवचनेनोपसंहरति। (नमोऽसि मद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमः इति मन्त्रांशः। अत्र प्रकृन्तानां पतये इत्यत्रत्य एकवचनोपसंहार उद्दिष्टः) (पृ. 42) 11. शूरः – मध्वश्च वादशूरः। अवबिभेद च मायावादम्। (पृ. 72) 12. उग्रः – नखैरुग्रो हनुमान्। नादेन च। आयुधैः नादेन च भीमः।

तर्कैर्मध्वः। (पृ. 82) 13. हनीयसे (हनीयान्) – राक्षसान् हन्ति हनुमान्। कौरवान् हन्ति भीमः। मायावादं हन्ति मध्वः। (पृ. 84) 14. श्रुतसेनः –हनुमदवतारे कपिसेना। भीमत्वे पाण्डवसेना। मध्वत्वे विद्वत्सेना। (पृ. 72) भट्टभास्करमतखण्डनम् ‘प्रथमं निवेदनीयम्’ इति शीर्षकाङ्कितायाम् आमुखप्रस्तुतौ गोविन्दाचार्यः भट्टभास्करभाष्ये दोषसद्भावं प्रस्तौति। तदनुसरणेन मन्त्रार्थनिर्णयः अशक्य एवेत्यभिदधाति च। श्रौतसम्प्रदायानभिज्ञसदृक्षः, श्रुतिहृदयमवगन्तुमप्रभुः, प्रज्ञावादमात्रबलः इति भट्टभास्करमिश्रान् दूषयति च। तत्र च हेतुद्वयमुपस्थापितम्।

[[41]]

शतरुद्रियस्य केवलं शिवपरतया व्याख्यानम् ; अर्थानां निर्वर्णने, निर्वचननिरूपणे, वैदिकव्याकरणविश्लेषणे च तत्र तत्र स्खलनञ्चेति।

आचायर्स् यवै वचास्ं यत्र तथवै ानद्यू न्त े– ‘तत्र भट्टभास्करादयः श्रौतसम्प्रदायानभिज्ञा इव शतरुद्रियं केवलं शिवपरतया व्याचक्षते, नूनं दुराग्रहग्रस्ततया श्रुतिहृदयमवगन्तुमप्रभवः। शोच्या हि ते प्रज्ञावादमात्रबलाः। अर्थानां निर्वर्णने, निर्वचननिरूपणे, वैदिकव्याकरणविश्लेषणे च तत्र तत्र स्खलन्तो दृश्यन्ते।

तदुत्तरत्र किञ्चिदिव प्रदर्शितम्। तस्मान्न शक्यं तदनुसरणेन मन्त्रार्थो निश्चेतुम्।’ (पृ. 5)। भाष्ये च स्वीये तत्र तत्र भट्टभास्करमतम् (तन्नामग्राहं विना, कश्चिदाहेत्यादिदेशिन्या) अनूद्य खण्ड्यते उपहस्यते च। कुत्रचिच्च तद्व्याख्यानं बालिशम् (पृ. 107) इति, कुत्रचित् हास्यास्पदम् (पृ. 108) इति दूष्यते।

द्वि-त्रि-स्थले ‘भट्टभास्करो भ्रान्तः’, ‘भट्टभास्करः परास्तः’ इति सनामग्राहं दोषदर्शनं विधाय तन्मतं निरस्तञ्च।

नमो अग्रियाय च प्रथमाय च इत्यस्य मन्त्रांशस्य विवरणसन्दर्भे अग्रियपदनिष्पत्तिं दर्शयन् भट्टभास्करो लिखति – ‘यद्वा ‘घच्छौ च’ इति घः। छान्दसमाद्युदात्तत्वम्।’ इति। अत्र घन् प्रत्यय एव भवति, न तु घः।

तेन च आद्युदात्तत्वम्। इति दर्शयत्याचार्यगोविन्दः ‘घच्छौ च’ इति पाणिनिसूत्रस्य काशिकावृत्तिगतां पङ्क्तिमुद्धरन्। चकारात् घन् अनुकृष्यते।

घनि च आद्युदात्तत्वं पदस्येति स्फुटयति च गोविन्दाचार्यः (पृ. 62)।

(नम आशुषेणाय चाशुरथाय च इत्यत्रत्ये) आशुषेण इति पदे (आशु+ सेन) – सकारस्य षत्वं ‘सुषमादिषु च’ इति सूत्राद् इति भट्टभास्करोक्तिः। तत्र दोषं प्रदर्शयति गोविन्दाचार्यः। अवग्रहपूर्वस्य सकारस्य षत्वं प्रातिशाख्येन दर्शितमिति दिशति च। तत्प्रयुक्तं नकारस्य णत्वञ्चेति। तत्रत्यमिदं भाष्यवाक्यम् - ‘अवग्रहपूर्वः सकारः षत्वमापद्यते इति प्रातिशाख्ये स्थितम् (तै. प्रा. 1.6.3)। षपूर्वत्वाच्च नस्य णः। तेन ‘आशु + सेनः’ आशुषेणो भवति। ‘सुषमादिषु च’ (अ. सू. 8.3.98)

[[42]]

इति सूत्रेण षत्वमिति वदन् भट्टभास्करो भ्रान्तः। तत्र यद्यपि एकारपरस्य सकारस्य मूर्धन्यादेशो विधीयते इणः परस्य – ‘एति सञ्ज्ञायामगात्’ इति गणसूत्रेण। तथापि तत्सञ्ज्ञायामेव। अत्र तु न सञ्ज्ञात्वविवक्षा।

असञ्ज्ञायामपि अवग्रहात्परः सकारो मूर्धन्यतामापद्यते।’ (पृ. 71) भट्टभास्करः प्रत्यनुवाकं पुरश्चरणविधिं तथा बहून् सद्यःफलदान् कृच्छ्रसाध्यान् (कांश्चन घोराचारांश्च) काम्यकर्मप्रयोगानपि अभिधत्ते इत्येतत्तथ्यम्। परं सायणापेक्षया बहून् अर्थवर्णनप्रकारान् (यद्वा यद्वेति) दर्शयति, व्याकरणसंस्कारांश्च दिशति पदानाम्। तत्र वैदिकव्याकरणविश्लेषणे

  • विशिष्य स्वरसम्बन्धिनि विषये - विशेषावधानं, निष्कृष्टा दृष्टिर्वा, कुत्रचिन्न दत्तेति गोविन्दाचार्येण दर्शितम्। एतावता वेदभाष्यकृतः वैदिक- धर्मरक्षणे दीक्षितांस्तानाचर्यानुद्दिश्य श्रुतिहृदयमवगन्तुमप्रभुः शोच्यः इत्यादि कथनम् असमीचीनमेव।

मायावादितर्जनम् एवमेव अद्वैतिनः अधिकृत्योक्तमनेन आचार्येण ‘नैर्गुण्यवादेन भगवद्गुण- तस्करा आत्मापहारिणः शोच्यास्ते’ इति। दूषणायैतस्मै प्रवृत्तः भूमिकामेवं रचयति – ‘अपूर्वोऽयं रुद्रप्रपाठकः। यत्र दोषपदैरेव रुद्रः स्तूयते। तद्यथा तस्कराणां पतये नमः, मुष्णतां पतये नमः, …….नमो दूताय इत्यादि।

तत्किमिदम् ? भगवद्गुणगानाय श्रुतयः प्रवर्तन्त इति श्रुतम्। तत्कोऽयं समाहारो निन्दायाः ? दोषोरोपो भगवति ? अत्राचक्षते मायावादिनः - चोरचण्डालश्वादयोऽप्यन्ततो ब्रह्मात्मानः। सर्वत्र ब्रह्मरूपानुसन्धानाय इदमुदितम् ’ इत्यादि। उपसंहरति च प्रकरणमेवम् – ‘तेन लोके दोष- वाचिनामपि पदानां भगवति गुणपरतैव परमार्थः। तेन सर्वपदगदितत्वं भगवति सुदृढमनुसंहितं भवति। ततस्तत्त्ववादिनामेवानुसन्धानसरणिः साधीयसीत्यवसीयते।’ इति (पृ. 60)। एतत्सर्वं किमुद्दिश्योच्यते ? अद्वैतिभिः कृतं तैत्तिरीयशतरुद्रियस्य प्रत्नभाष्यमुभयमपि भगवति

[[43]]

दोषारोपेण दुष्टं भवति। अतो मया शतरुद्रियगतपदैः अभिहितानां दोषाणां गुणत्वाधानेन, भगवद्गुणपरतया वर्णनेन, तत्त्ववादानुगुणम् अदुष्टं किञ्चिन्नूत्नं भाष्यं विरच्यत इति प्रकाशयितुम्। उक्तञ्च कण्ठतः – ‘तदेवमाचार्याभिमतं तत्त्ववादानुगुणं तैत्तिरीयशतरुद्रियस्य किमपि नूतनमदूष्यं भाष्यमिदम् इदानीमुपस्थाप्यते’(पृ. 7) इति।

वस्तुतः अत्र एतादृशी चर्चैव अस्थाने। किञ्च परमतमन्यथा अनूद्य तत्खण्डनं क्रियते। ‘किमुक्तं भवति ब्रह्मैव तस्करो बभूव, ब्रह्मैव श्वा बभूवेत्यनुसन्धेयमित्युक्तं भवति। शुक्तितो भिन्नं रजतं नास्तीति शुक्तिरेव रजतत्वेनानुसन्धेयेति पर्यवसितम्। नास्ति तेषां भ्रमस्यौषधम्।’ इत्येवं गच्छति तेषां पूर्वपक्षावतरणम्। केनोक्तमेवम् ? सगुणे ब्रह्मण्यपि प्रतिजीवमपि तदेव निर्गुणस्य ब्रह्मणः चैतन्यं भासते; तेन सर्वभूतस्थमात्मानं पश्येत्, आत्मनि च सर्वभूतानि पश्येत्, यतो हि एक एवाखण्डबोधो भासते सर्वत्र; एवम् सगुणब्रह्मोपासनयापि जीवब्रह्मैक्यबोधरूपो मोक्षः साधयितुं शक्यते, यस्तत्र अधिकृतः तेन तदुपासनं कार्यम्; एवं सगुणस्य ब्रह्मणः वैश्वरूप्यानुसन्धानेन उपासनमपि मार्गशोधकं भवतीति अद्वैतराद्धान्तः।

किञ्च सगुणब्रह्मोपासनेऽपि ‘सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्।

सामुद्रो हि तरङ्गः क्कचन समुद्रो न तारङ्गः॥’ इति नयेन तस्करो ब्रह्मेत्यनुसन्धानं निषिध्यते, तच्चैतन्येनैव तस्करस्यापि भानमिति दृढबोधफलकं भवत्वनुसन्धानमित्येव अद्वैतसमयः। तम् अन्यथा प्रकल्प्य अनवसरे अयुक्तिकञ्च दूषणं कृतमित्येतदचारु।

उपसंहारः वेदार्थविचिन्तने कृतभूरिपरिश्रमेण श्रीमता बन्नञ्जे गोविन्दाचार्येण सम्प्रदायसंरक्षणैकदीक्षेण सश्रद्धं विरचितमिदं (तैत्तिरीयशतरुद्रियस्य) भाष्यमित्यतः जगदाधारभूते शाश्वतसुखनिदानभूते वैदिके धर्मे श्रद्धावतां समेषाम् आनन्दसन्दायकं भवेदित्यत्र नास्ति सन्देहकणिका। यद्यपि

[[44]]

वैश्वरूप्यप्रकरणगतानां रुद्रपराणां पदानाम् हनुमत्परतया भीमपरतया मध्वपरतया च अर्थवर्णनाय कृतः प्रयासः सर्वेषाम् ऐकमत्येन सम्मत्यै सन्तोषाय वा कदाचिन्न कल्पेत तथापि सम्प्रदायानुसारं तत्त्ववादानुगुणं विष्णुपरतया व्याख्यातमित्येयत् महते मोदाय। वेदास्तावत् समेषाम् आस्तिकानां जगदाधारधर्ममूलतया परमं प्रमाणं परमादरास्पदञ्च।

वेदार्थवर्णने श्रुत्यन्ततात्पर्यनिर्णये च समप्रदायभेदेन मतिभेदे सत्यपि वेदरक्षणे वैदिकधर्मपालने वेदार्थनिर्णयविचारे च क्रियमाणः सर्वोऽपि प्रयासः सर्वथा सद्भिः श्लाघनीय एव। एवम् एतैः तैत्तिरीयशतरुद्रियप्रपाठकस्य नूतनतया अन्यैरप्रहतया पद्धत्या अर्थविचारः प्रवर्तितः इति, सा च प्रवृत्तिः सम्प्रदायानुसारिणी इति च सतामानन्दसन्दोहाय महते। यद्यपि भट्टभास्करोक्तेषु केषुचिद्विषयेषु विमतिर्दोषाश्च दर्शिताः, ते न सर्वथा निराधाराः। किञ्च अभिनवगुप्तोक्तरीत्या ‘तस्मात्सतामत्र न दूषितानि मतानि, तान्येव हि शोधितानि। पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठा- फलमामनन्ति’ (नाट्यशास्त्रे षष्ठाध्याये रससूत्रव्याख्याने पूर्वाचार्याणां मतान्यनूद्य खण्डयित्वा च स्वमतोपस्थापनायाः भूमिकासंरचनावसरे अभिनवोक्तिरियम्) इत्येव एते संशोधनप्रकारा द्रष्टव्याः। परम्, अद्वैतिनः उद्दिश्य ‘नूनं ते ब्रह्मणि नैच्यानुसन्धानेन नीचां गतिमाप्नुयुः। नूनमीदृशानेवागूर्य गीताचार्य आह – ‘मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इति।

अनुकम्पनीयास्ते। नैर्गुण्यवादेन भगवद्गुणतस्करा आत्मापहारिणः शोच्यास्ते। ….. किं ततोऽन्ये केपि तस्करा भूयासुर्ये परं ब्रह्मैव तस्करमाचक्षते’ (पृ.6) इत्यादिकथनं, अभनवशङ्कराख्येन शतरुद्रीय- भाष्यकारेण श्रीमन्तं रामानुजाचार्यमुद्दिश्य कृतं ‘तस्माद्बहून् पश्यन्त्या बहुभिर्भाषमाणाया अपि पतिव्रताया हृदयं पत्याविव बहुभिर्वचनैरितस्ततो नीयमानाया अपि भगवत्या श्रीरुद्रोपनिषदो हृदयं श्रीमति साम्बपरब्रह्मण्येव व्यवतिष्ठत इति तामन्यपरां चिकीर्षमाणा रामानुजादयः भगवतीं सीतामात्मसात्कर्तुं प्रवृत्तरावणवत् महापापिष्ठा इत्यास्तां तावत्।’ इति

[[45]]

कथनमिव सज्जनान्नानन्दयति। यद्येतादृशा उक्तिप्रकारा नाभविष्यन् तर्हि ‘स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता’ इति आदिकविनिगदितरीत्या भाष्यमिदं सकलसज्जनमनोरमणम् अभविष्यत्। सर्वथा वेदार्थनिर्णयाय क्रियमाणः सर्वप्रकारोऽपि परिश्रमः श्लाघनीय एवेति शम्।


उपयुक्तग्रन्थाः शतरुद्रियम्- (आचार्यगोविन्दकृतभाष्येण विभूषितम्), तत्वसंशोधनसंसत्, विद्यामान्यपुरप्रकाशनम्, श्रीहृषीकेशतीर्थसंस्थानम्, रजतपीठपुरम्, उडुपि, 2013.

रुद्राध्यायः- सायणाचार्यभट्टभास्करप्रणीताभ्यां भाष्याभ्यां संवलितः, आनन्दाश्रमसंस्कृतग्रन्थावलिः, आनन्दाश्रमः, पुण्यपत्तनम्, 1906.

श्रीरुद्रभाष्यम्- अभिनवशङ्करप्रणीतम्, वाणी विलास् प्रेस्स्, श्रीरङ्गम्, 1913 आलोचनामृतम्- (विशिष्य तद्गतः शतरुद्रीयम् इति लघुनिबन्धः), कालिक्कट् विश्वविद्यालयः, 2015.

[[46]]