०६ चत्वारि सूक्तानीति ग्रन्थस्य विमर्शः

आचार्यगोविन्दविरचिभाष्यसमेतस्य चत्वारि सूक्तानीति ग्रन्थस्य विमर्शः
डॉ. डी. दयानाथः

गम्भीरपदार्थो वेदः इति हि वेदार्थमर्मज्ञानां मतिः। वेदोऽस्माकं धर्मस्य मूलस्तम्भ इत्यत्र नास्ति संशीतिः। उच्यते हि मनुना ‘वेदोऽखिलो धर्ममूलम्’1 इति। भारतीयविद्वत्परम्परा वेदस्यापौरुषेयत्वं मन्यते। अत एव ऋषयः मन्त्रद्रष्टारः, न तु मन्त्रकर्तारः इति सिद्धान्तमपि प्रतिपादयन्ति सम्प्रदायाभिज्ञाः। कतिपयदार्शनिकाः वेदानामीश्वरकर्तृत्वं स्वीकुर्वन्तोऽपि न तस्य प्रामाण्यविषये विसंवदन्ति। अत एव मनुना प्रोक्तम् – धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः।2 इति।

वेदे प्रामाण्यबुद्धिमनुसृत्यैव आस्तिक-नास्तिकभेदो महर्षिभिः समर्थितः।

तदेवोपदिष्टं मनुस्मृतावपि – योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः।

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ इति3।

पूर्वश्लोके यदुक्तं ‘श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः’ इति4 तत्परामृश्यात्र ते मूले इत्युक्तम्। ते श्रुतिस्मृती इत्यर्थः अवगम्यते।

श्रुतिमूलकत्वादस्माकं स्मृतिरपि प्रमाणमित्युपदिष्टम्। वेदभाष्यप्रणयनेऽस्माकं भारतीयाः ऋषयः यथास्थानं स्मृतिग्रन्थानप्युल्लिख्य वेदार्थं द्रढयन्ति। अत एव स्मर्यते ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति5।

  1. मनु. 2.6 2. मनु. 1.132 3. मनु. 2.11 4. मनु. 2.10 5. वायुपुराणम् 1.201

[[22]]

ननु वेदस्य तत्त्वमवगन्तुं विधेयः महान् यत्नः। वेदस्यार्थपरिज्ञानायावश्यकं वेदाङ्गेतिहासपुराणस्मृतिग्रन्थानां यथार्थं ज्ञानम्। अपि च वेदार्थकरणे बह्व्यः पद्धतयः विलसन्ति। स्वीयबुद्धिवैशद्येन विविधैराचार्यैः नैकाः पद्धतयः आश्रिताः सन्ति। निरुक्तकारः यास्कः विविधपद्धतीनां विषये निर्दिशति। तेष्वधिदैवपद्धतिः, अध्यात्मपद्धतिः, आर्षपद्धतिः, परिव्राजकपद्धतिः, याज्ञिकपद्धतिः, नैरुक्त्य- पद्धतिः, आख्यानपद्धतिरित्येताः वेदव्याख्यानपद्धतयः विशिष्टाः प्रमुखाश्च विलसन्ति। यास्कः, वेङ्कटमाधवः, श्रीमत्सायणाचार्यः, भट्टभास्करः, महीधरः, उवटः, आनन्दतीर्थः इत्याद्यनेके आचार्याः महर्षयश्च वेदव्याख्याने विविधशैलीमाश्रित्य वेदार्थावबोधने मार्गं प्रदर्शितवन्तः। एतेषु श्रीमत्सायणाचार्यः, महीधरः, उवटः, भट्टभास्करादयः वेदस्य याज्ञिकपद्धतिमाश्रित्य स्वीयां व्याख्यामलिखन्। अपिच श्रूयते उपोद्बलकमस्याः शैल्याः ‘वेदा हि यज्ञार्थम् अभिप्रवृत्ताः’ इति1। अत एव विविधपद्धत्या यथाशास्त्रं रचितानां विविध- वेदभाष्याणां सद्भिः प्रामाण्यमङ्गीक्रियते। भाष्यकारा प्राचीना अर्वाचीनाश्चेति बहवः अभवन्। भाष्यकाराः स्वीयबुद्धिवैशद्येन वेदार्थ-रहस्यमुद्घाटयितुं प्रयत्नमकुर्वन्। तेषु कतिपय आधुनिका अपि विशेषेण श्लाघनीया एव।

तादृशभाष्यपरम्परायां विशेषस्थानमर्हति श्रीमान् बन्नञ्जे गोविदाचार्यमहोदयः।

अस्याचार्यस्य कृतयः विद्वत्समाजे बहुश्लाघिताः आसन्। अनेन महोदयेन विरचितासु कृतिषु अन्यतमः ग्रन्थः ‘आचार्यगोविन्दकृत भाष्यविभूषितानि चत्वारि सूक्तानि’ इति। तदेतस्य ग्रन्थस्य विषये गुणवैशिष्ट्यादिप्रदर्शनपूर्वकं तदीयभाष्यसरणिं महत्त्वञ्चाग्रे यथामति विमृश्य विलिख्यते।

आचार्यगोविन्दकृतभाष्यभूषितानि चत्वारि सूक्तानि – आचार्यबन्नञ्जे गोविन्दाचार्यविरचितभाष्यविभूषितानि चत्वारि सूक्तानि इति ग्रन्थे अम्भ्रिणीसूक्तम्, मन्युसूक्तद्वयम्, सपत्नघ्नसूक्तमिति सूक्तचतुष्टयस्य भाष्यं वर्तते। भगवता सह विहरमाणा भगवज्जाया श्रीरेव अम्भ्रिणी इति, प्रलयाम्भसि विहरमाणतया सा अम्भ्रिणीति पदवाच्या इति च प्रपञ्च्य 1. आर्चज्योतिषम् 36

[[23]]

सूक्तमिदं तयैव दृष्टमिति ग्रन्थारम्भे प्रतिपादयति भाष्यकारः। तदुपोद्बलकं लिङ्गमपि प्रदर्शयति गोविन्दाचार्यः। तद्यथा – ‘स्वदृष्टं सूक्तमखिलं कामदं हरितुष्टिदम्। वाचोऽम्भ्रिण्याः श्रियोऽङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा’ ॥ इति1 श्रीमदानन्दतीर्थभगवत्पादाचार्यस्य वचनं समुद्धरति। तत्रैव श्रीरघुनाथ- विरचितायां तत्त्वकणिकाख्यव्याख्यायां स्पष्टमस्ति यत् – ‘अम्भृणीरूपेण द्रष्टृत्वं, श्रीरूपेण देवतात्वमिति लभ्यते’ इति2 वैयर्थ्यं निवारितम्। इत्थं महता प्रयासेन विविधश्रुतिस्मृत्याद्युद्धरणपूर्वकमम्भ्रिणीसूक्तस्य देवता श्रीरेवेति सिद्धान्तितम्। अथ सूक्तान्तर्गतानामृचां व्याख्याने भाष्यकारस्य वैदुष्यं स्फुटलक्षितं भवति। सूक्ते ‘अहं रुद्रेभिर्वसुभिश्चरामि’ इति मन्त्रांशे चरामीति शब्दस्य संहरामीत्यर्थः लिखितः। तच्च ‘चर गतिभक्षणयोः’ इति धातुना ‘अतो भिस ऐस्’ इत्यनेन ऐस् भवति न वा भवतीति स्थिते ‘बहुलं छन्दसि’ इति वैदिकप्रक्रियया विकल्पेन रुद्रेभिरिति सम्पद्यत इति प्रतिपादितम्। प्रथमाया ऋचः अन्ते श्रीमत्सायणाचार्यस्य भाष्यमप्युद्धृत्य तन्मतं निराकृतम्। सूक्तेऽस्मिन् अभेदभावमापाद्य व्याख्यां कुर्वतां भाष्यकाराणां मतं निराकरोति। यतः अहं चरामि अहं धारयामीति शब्दैः भेदः स्फुटः प्रतीयत इति गोविन्दाचार्यमतम्। वस्तुतस्तु श्रीमतः सायणा- चार्यस्य यथेष्टं विरोधः कृतः अनेन भाष्यकारेणेति स्फुटं लक्ष्यत एव। अग्रे अस्य सूक्तस्य सर्वासामृचां श्रीतत्त्वप्रतिपादनपुरःसरं विलक्षणं भाष्यं चकार।

तथा च सूक्तमिदमृग्वेदे अथर्ववेदे चेत्युभयत्र श्रूयते। गोविन्दाचार्येण तादृशस्थलेषु सूक्तगतमन्त्रक्रमवर्णादिभेदाः अपि प्रदर्शिताः। भाष्यान्ते मन्त्रस्य छन्दोविचारः अपि सुष्ठु प्रतिपादितः। श्रुतावप्युक्तम् – यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यते म्रियते पापीयान् भवति। यातयामान्यस्य छन्दांसि 1. त.सा.सं. 4.62 2. त.सा.सं. तत्त्वकणिका 4.62

[[24]]

भवन्ति। इति1 श्रुतिवचनमिदं मनसि सन्धार्य आचार्येण भाष्ये तत्तन्मन्त्रे छन्दोज्ञानमपि निराबाधं वर्णयतीति वैशिष्ट्यम्।

अहं सुवे पितरमित्यस्य मन्त्रस्य अहमेव विश्वस्य स्रष्टारं ब्रह्माणं जनयामीत्यर्थः प्रदर्शितः। तज्जननम् अभ्रिण्याः मूर्ध्नि सीमन्तदेशादुक्तम्। ननु प्रजापतेः सृष्टिः भगवतो नारायणस्य नाभिदेशादेवास्माभिः श्रुतम्। तर्हि कथं मूर्ध्निदेशात्प्रजापतेः उत्पत्तिरिति जिज्ञासायामुच्यते भाष्यकारेण – अस्य भूलोकस्य मूर्धन् मूर्धन्यहं पितरमाकाशं सुवे, ‘द्यौः पिता पृथिवी माता2’ इत्यादिश्रुतिवचनाधारेण पितरं दिवं प्रसुवे, अस्य दृश्यमानस्य प्रपञ्चस्योपरि सत्यलोके प्रपञ्चस्य सृष्टिकर्तारं विधातारमहं सुवे इत्याद्यनेकविधाः शास्त्र- सम्मतार्थाः वैदुष्येण प्रतिपादिताः। अथ च कतिपयस्थलेषु व्याकरणस्वर- च्छन्दोविषयाणामपि यथायोगं चर्चां विधाय अर्थनिर्णयमकरोत् भाष्यकारः।

ततो मन्युसूक्तस्यापि भाष्यं व्यरचयत् श्रीगोविन्दाचार्यः। वैदिकवाङ्मये ऋग्वेदाथर्ववेदयोः द्विवारमिदं सूक्तं पठितमिति प्रपञ्च्य तस्य शाखाभेदेन ऋषिच्छन्दोदैवतान्यपि विमृशति। भाष्यकारस्य मेधाविलासदृष्ट्या अस्त्येव गाम्भीर्यं तत्प्रणीतभाष्ये। तदतिरिच्य भाषामाधुर्यमप्यवलोक्यते तदीय- भाष्ये। भाष्ये क्कचित् परस्परसंवादसदृशवाक्यावल्या पाठकान् अावर्जयति।

यथा – ‘मन्युरिति का देवता ? केचिदाचक्षते क्रोधाभिमानी देवो मन्युरिति।

अयि भोः, नोत्तरमलाभि। क्रोधाभिमानी देवः क इति वक्तव्यम्’ इत्यादि- वाक्यान्युदाहरणभूतानि। क्रोधाभिमानी देवः मन्युसूक्तस्य देवता इति कथनेन आकाङ्क्षापूर्तिः न भवति। कः खलु स देव इति वक्तव्यमेव। तत्र भाष्यकारः मन्युरितिशब्दस्य क्रोध इत्यर्थकरणं पाश्चात्यमित्याह। ततः अग्रे ‘रुद्रः क्रोधसम्भवः’ इति स्मृतिवचनाद् रुद्र एव क्रोधाभिमानी इति वक्तुमर्हामः। तथाप्यत्रास्ति विशेषः – 1. छ.ब्रा. 3.7.5 2. तै.ब्रा. 3.7.5

[[25]]

नमोऽतियशसे तस्मै देहिनां परमात्मने।

नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥

यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः।

योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥ इति1।

यस्य क्रोधाद् रुद्रस्यापि सम्भवः सः खलु श्रीनरसिंहावतारो श्रीमन्नारायणः। हिरण्यकशिपोः वधे दर्शितमन्युः नृसिंह एवात्र मन्युपदवाच्यः, स एवास्य मन्युसूक्तस्य देवता चेति सिद्धान्तयति। अथ च मन्युरितिशब्दस्य ज्ञानमित्यर्थः। यस्य भगवतः क्रोधोऽपि ज्ञानमूलकः, न द्वेषमूलकः स मन्युर्नरसिंह एवेति विशिष्टार्थं प्रपञ्चयति भाष्यकारः। इत्थमस्मिन् सूक्ते ऋषिः क इति विचारे तापसो मन्युरिति कश्चित्स्यात् पुरातनो ऋषिरिति।

अथ च भाष्यकारः श्रीमन्मध्वाचार्यवचनं प्रस्तुवन् दुःशासनस्य हृदयं विदारयन्तं भीमसेनं सूक्तद्रष्टृरूपेण वदति। एकस्यापि मन्त्रस्य बहवः ऋषयः द्रष्टारः भवितुमर्हन्ति। विविधस्मृतिवचनानामुद्धरणपूर्वकं भीमसेनपर एवार्थः सूक्तस्य क्रियते इति निश्चिनोति भाष्यकारः। अत्र मन्युसूक्तस्य भीमसेनद्रष्टृत्वं हि अभूतपूर्वोऽर्थः। मन्युसूक्तस्य ऋषिविषये न केनापि भाष्यकर्त्रा इदं रहस्यमुद्घाटितम्। अत्र विशिष्यति श्रीगोविन्दाचार्य इति ज्ञेयम्। द्वित्राणां शब्दानां सायणाचार्योक्तानर्थानप्यनुसरति भाष्यकारः। साह्याम, आनुषग् इत्यादिशब्देषु तद् द्रष्टव्यम्। मन्युसूक्तं महाभारतस्य भीमसेनपरमेव व्याख्यातं भाष्यकारेण।

ननु वेदे लौकिकाख्यायिकायाः सत्त्वे मन्त्राणामप्रामाण्यं वदन्ति पूर्वपक्षिणः। तद्विस्तरेण प्रपञ्चितं पूर्वमीमांसाशास्त्रे ‘अनित्यसंयोगान्मन्त्रान र्थक्यम्’2 इत्यादिसूत्रेषु। एवं स्थिते कथं खलु भाष्यकारेण महाभारतेतिहासस्य भीमसेनपरकं व्याख्यानं कृतमिति जिज्ञासति मनः। परमेतस्योत्तरमपि शास्त्रे उपलभामहे। प्रथमं तावद् गोविन्दाचार्येणैवोक्तं यदेकस्यैव मन्त्रस्य बहवो 1. महा.भा. 12.350.11-12 2. जै.सू. 1.2.39

[[26]]

मन्त्रद्रष्टारो भवितुमर्हन्तीति। द्वितीयं न ह्यत्र महाभारतं वा भीमसेन- कृतदुःशासनवधं वा विवृणुते। अत्र हि भीमसेनः दुःशासनस्य हृदयं विदारयन् सूक्तमिदं ददर्शेति। अतः शास्त्रवचनैः समर्थितमिदं व्याख्यानं भाष्यकृता।

यदि पाठकाः चिन्तयन्ति न ह्येष पौराणिककथाप्रसङ्गः कथमपि वैदिकसूक्ते न सङ्घटते, मन्त्रानर्थक्यप्रसङ्गादिति। तर्हि अस्त्युत्तरं जैमिनि-सूत्रस्य शाबर- भाष्ये – ‘चोदना हि भूतं, भवन्तं, भविष्यन्तं, सूक्ष्मं, व्यवहितम्, विप्रकृष्टम् इत्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्’1 इति। श्रुतेरकुण्ठित- शक्ति- सम्पन्नत्वात् सर्वमेतत् सुसङ्गतमिति वक्तव्यम्। परन्तु भीमसेनस्य मन्त्रद्रष्टृत्वं मृग्यमेव। परं तदपि महता प्रयासेन स्मृतिवचनैः भाष्यकारेण समर्थितत्वान्न विसङ्गतिरित्येव भाव्यम्।

प्रथमायामृचि ‘साह्याम दासमार्यम्’ इति पदानामर्थकरणे किञ्चिद् विशिष्टमाह भाष्यकारः। तत्र ‘दसु उपक्षये’ इति धातोर्निष्पन्नेन दासशब्देन लोकक्षयहेतुर्दुजनोऽभिधीयते। तच्चात्र कौरवबलमिति सङ्गतिः। भीष्म- द्रोणादीनामार्याणामपि पराभवो वा इति प्रश्ने, सत्यम्। दुष्टानां कौरवसमुदायानां पक्षे स्थितत्वात् तानपि सह्याम मर्षयेम इति भीमसेनः।

अत्र हि दुष्टानां सहचरत्वमपि पापायेति भाष्यकृत् सुष्ठु प्रतिपादयति।

सूक्तेऽस्मिन् सम्पूर्णमहाभारतोक्तमितिहासमाचक्षते। यथा ‘अभीहि मन्यो तवसः’ इति मन्त्रे अमित्रहेति शब्देन कर्णं बोधयति, यः खलु स्वरूपतः मित्रः सन्निदानीम् अमित्रः अभवत्। तान् सर्वान् निहत्य तेभ्यः छलेनास्मात्तः द्यूतमाध्यमेनापहृतं धनं मयि आभर। तदित्थं मन्युसुक्ते प्रत्यृचं पूर्वाचार्याभिमतं भगवतो श्रीनृसिंहस्तुतिपरं कमप्यपूर्वमर्थं निगदति भाष्यकारः।

द्वितीयमन्युसूक्ते ‘त्वया मन्यो ‘इति मन्त्रस्य सरसमर्थं प्रत्यपादयत्।

तत्र हे मरुत्वः मुख्यवायोः पते इति, ततः सरथमितिपदस्य शरीरमिति च व्याख्यानमकरोत्। अपि च मुख्यवायोः पते अन्तर्यामिन् इत्यर्थेन 1. जै.सू.शा.भा. 1.1.2

[[27]]

मध्वसिद्धान्ततत्त्वमपि श्रीगोविन्दाचार्येण प्रपञ्चितमिति वैशिष्ट्यम्। तच्च शास्त्रसम्मतमेवास्ति। यथा – ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ इति1 उपनिषद्वाक्यम्। भीमसेनपरमर्थं च - समानं रथमारुह्य रुजन्तः रोजयन्तः शत्रून् पीडयन्तः इति कृतम्। अत्र आध्यत्मिकः आधिभौतिकश्चार्थः सुष्ठु प्रतिपादितोऽभवत्।

ततः ऋग्वेदस्थं सपत्नघ्नसूक्तं व्याख्यास्यति भाष्यकारः। अस्य सूक्तस्य ऋषभसूक्तमित्यपि व्यवहारः। ऋग्वेदे दशममण्डले इदं सूक्तं विद्यते। ऋषभो वैराजः, शाक्करो वा इति सर्वानुक्रमण्यां कात्यायनवचनेन ऋषिर्ज्ञायते।

भाष्यकारः अत्रापि भीमसेनमेव मन्त्रद्रष्टारं मन्यते। भीमसेनोऽपि वैराजः भवतीति। तद्यथा विराट्पुरुषत्वात् भीमसेनस्य वैराजत्वम्। शाक्करःइति शक्क इति गजनाम। तत्समुदायः शाक्कं गजता। तेन रमत इति शाक्करो भीमसेन इति। ततो पाण्डवर्षभो भीमसेनः सूक्तद्रष्टा इति गम्यते। देवता तु मन्युसूक्तोक्तः श्रीनरसिंह एव। तथा च सूक्तस्यास्य भीमसेनः ऋषिः, नरसिंहो देवतेति स्थितः। अतो मन्युसूक्तमिवास्यापि भीमसेनपरयैव व्याख्यातम्।

सपत्नघ्नसूक्ते मन्युसूक्ते च छन्दोविचारे विश्लेषेण कतिपय स्थलेषु अक्षरपूर्तिं संयोजयति।

उपसंहारः – सर्वोऽपि वेदशब्दः ईश्वरप्रतिपादकः। तदुक्तम् – ‘कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः’ इति2 श्रीमदुदयनाचार्येण। अतः तादृशपरतत्त्वप्रतिपादकस्य भगवतो वेदस्यार्थो प्रयासेन ज्ञेयः। तदुद्दिश्यैव परमकृपया महर्षयः आचार्याः च षडङ्गानां सहायेन पूर्वाचार्याभिमतार्थं स्वीयभाष्यमाध्यमेन द्योतयन्ति स्म। वेदव्याख्याने बह्व्यः पद्धतयः सन्ति, आध्यात्मिक-आधिदैविक- आधिभौतिकादिभेदेन। वेदशब्देषु एकमपि शब्दं निरर्थकं वक्तुं न शक्यते।

  1. कठ.उप. 1.3.3 2. न्यायकुसुमाञ्चलिः 5.15

[[28]]

यागादिषु प्रैषमन्त्राणां प्रयोगोऽपि अदृष्टार्थाय न कल्पते। अर्थप्रकाशन- रूपदृष्टप्रयोजनस्य सद्भावात्। अत एवोक्तं पूर्वमीमांसाशास्त्रे – ‘लभ्यमाने फले दृष्टे नादृष्टफलकल्पना’ इति। अतः वेदशब्दस्य तात्पर्यं स्वगिरा बहवः विद्वांसः प्रतिपादयन्ति। तादृशेषु मूर्धन्याः महर्षयः यास्कः, कात्यायनः, शौनकाद्याः। ततः पूर्वाचार्याः उवटमहीधरभट्टभास्कराद्याः। तत्रापि विशिष्यते पञ्च संहितानां, त्रयोदश ब्राह्मणग्रन्थानां, नैकशास्त्रग्रन्थानां प्रणेता वेदार्थसंरक्षणधुरन्धरः श्रीमत्सायणपादाचार्यः। मन्त्राणामधियज्ञात्म व्याख्यापद्धत्या भाष्यमारचितं श्रीमत्सायणाचार्येण। सायणाचार्यस्य भाष्यं ह्यस्माकं वेदार्थावगमनामकदुर्गे प्रवेशमार्ग इत्यत्र न विप्रतिपत्तिः स्यात्। अत एव पाश्चात्यसंस्कृतविदुषा डॉ. विल्सनवर्येण उक्तम् –

Sayana undoubtedly had a knowledge of his text far beyond the pretensions of any European scholar, and must have been in possession either through his own learning or that of his assistants, of all the interpretations which have been perpetuated by traditional teaching from the early times’

इति1 न तु पाश्चात्यविदुषां कथनमात्रेणास्य महत्त्वमिति चिन्तनीयम्। परं श्रीसायणभाष्यं पठतां परम्परानुगतविदुषां समेषामिदमेवाभिमतमिति कथनं युक्तियुतमेवेति भाति। सायणाचार्यभाष्यं यास्काभिमतमिति निर्विवादं वक्तुं शक्यते। तथा हि यास्कः – ‘अयं मन्त्रार्थचिन्ताभ्यूहोऽभ्यूढोऽपि श्रुतितोऽपि तर्कतः। न तु पृथक्त्वेन मन्त्रा निर्वक्तव्या, प्रकरणश एव तु निर्वक्तव्याः’ इति2 निरुक्ते स्पष्टं निगदति। न ह्यस्त्यत्र कश्चित् सर्ववेत्ता। तदुक्तं –‘न हि सर्वः सर्वं जानाति3’ इति। एवं स्थिते तदीयं भाष्यं तद्वचनं प्रलापमात्रमिति कथनं परम्परागतवैदिकविदुषां कथमपि न रोचत इति तु तथ्यम्।

  1. Translation of Rigveda, H.H. Wilson 2. निरुक्तम्. 13.12 3. मुद्रा.रा. प्रथमाङ्कः

[[29]]

परमविदुषा आचार्यगोविन्दाचार्येण स्वमत्या चतुर्णां सूक्तानां भाष्यं विरच्य कृपा विहिता। यतो हि दुरूहशब्दानां व्याख्याप्रसङ्गे पदे पदे तदीयशास्त्रपाटवं, छन्दोविषयकज्ञानं, वेदशब्दव्याख्यानसन्दर्भे तदीयदृष्टिः, शब्दशास्त्रज्ञानमित्यादयः अवलोक्यते। अम्भ्रिणीसूक्त-मन्युसूक्त- सपत्नघ्नसूक्तेषु तदीयभाष्यं विशिष्टं किमपि तत्त्वं चित्तमाकर्षयति। अनेन अम्भ्रिणीसूक्तं परादेव्याः श्रियः महत्त्वप्रतिपादिकतया व्याख्याय पाठकान् आवर्जयति। ततो भीमसेनपरतया अन्यानि सूक्तान्यपि व्याख्याय काऽपि नूतनसरणिरेवावतारिता आचार्येणेति वैशिष्ट्यम्। तदित्थम् आचार्य- गोविन्दकृतभाष्येण संस्कृतविदुषां विशिष्य द्वैतवेदान्तानुयायिनां मोदाय कल्पत इत्यत्र नास्ति विचिकित्सा। जगद्धात्र्या श्रिया सहितः श्रीनरसिंहो वेदरूपो मन्त्रराजः भाष्येणानेन भृशं तुष्यतीति दृढं विश्वसिमीति शम्।


[[30]]