०५ तापनीयोपनिषद्भाष्यम्

प्रो.पि.टि.जि.वै.सम्पत्कुमाराचार्यः

बन्नञ्जे गोविन्दाचार्याः कर्नाटदेशेषु कविपण्डितसमाजे सुप्रसिद्धाः विद्वत्तल्लजाः। एते पडमन्नूर् नारयणाचार्याणां द्वितीयपुत्रत्वेन जनिमलभन्त।

एतेषां पितृपादा अपि पण्डितमूर्धन्याः, यैः मध्वसिद्धान्तप्रवर्तकाः अष्टमठाधीशाः सर्वेऽपि न्यायशास्त्रमध्यापिताः। गोविन्दाचार्या अपि स्वपितुः सकाशात्, तथा भण्डारकेरिमठाधीशेभ्यश्च अधिगतवेदवेदान्त विद्याः, गीर्वाण-कर्णाटभाषयोः प्रवचने, काव्यरचनायाम्, काव्यव्याख्यान- करणे च लब्धयशाः, कर्णाटविश्वविद्यालयतः विद्यावाचस्पतिरित्युपाधिना, तथा राष्ट्रपतिसम्माननेन सह पद्मश्रीबिरुदेन च सभाजिताः। एतेषां रचनेष्वन्यतमं तापनीयोपनिषद्भाष्यमभिलक्ष्य किञ्चिदिव विवृणोमि।

स्तोत्रवाड्मयेऽपि नृसिंहपरत्वप्रतिपादकानि स्तोत्राणि सुप्रसिद्धानि सन्ति। तेषु भगवता शंकरेण पार्वत्यै उपदिशष्टं मन्त्रराजपदस्तोत्रमिति प्रसिद्धं नारसिंहानुष्टुभमन्त्रस्य एतदुपनिषत्प्रतिपाद्यस्य प्रत्येकपदस्य अर्थ- विवरणपरं दरीदृश्यते। तत्र अन्ते शंकरेण निश्चित्य प्रोक्तं ‘दासभूताः स्वतः सर्वेऽप्यात्मनः परमात्मनः। अतोऽहमपि ते दास इति मत्वा नमाम्यहम्॥’ इति। तेन जीव-परमात्मनोः स्वस्वामिभावः सम्बन्धः प्रधान इति प्रत्यपादि।

तथैव शंकरभगवत्पादैरपि परकायप्रवेशावसरे संभूतस्य क्लेशस्य निवारणार्थं लक्ष्मीनृसिंहस्तोत्रमारचितमिति प्रसिद्धम्। तत्र भगवच्छरणा-गतिरेव मोक्षहेतुरिति न्यरूपि। नृसिंहावतारसमय एव हिरण्यकशिपोः हननानन्तरं नृसिंहस्याग्रहशान्तये प्रह्लादेन नृसिंहस्तुतिरूपं हर्यष्टकमवातारि। ‘हरिर्हरति पापानि दुष्टचित्तैपरि स्मृतः। अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः॥’ इत्येवमादि। तेन भगवन्नामसंकीर्तनरूपभक्तिरेव भगवदनुग्रह-हेतुरिति निश्चप्रचम्। तथैव त्रयोदशशतके सुप्रसिद्धवैष्णवाचार्यः वादिकेसरि- सौम्यजामातृमुनिनामकः नृसिंहाष्टकमकरोत् -‘श्रीमदकलंकपरिपूर्णशशि-

[[19]]

कोटिश्रीधरमनोहर सटापटलकान्त। पालय कृपालय भवाम्बुधिनिमग्नं दैत्यपरकाल नरसिंह नरसिंह॥ पादकमलावनतपातकिजनानां पीतकदवानल पतत्त्रिवरकेतो। भावनपरायण भवार्तिहरया मां पाहि कमलेश नरसिंह नरसिंह॥

इन्दुरविपावकविलोचन रमायाः मन्दिर महाभुजलसद्वररथांग। सुन्दर चिराय रमतां त्वयि मनो मे नन्दितसुरेश नरसिंह नरसिंह॥’ इत्येवमादिना। तेषां स्तोत्राणां प्रतिपाद्यं सर्वमेतदुपनिषत्सारमिति सतां मतम्॥

अष्टोत्तरशतोपनिषत्सु दरीदृश्यन्ते तिस्रः तापनीयोपनिषदः — राम- तापनीयोपनिषत्, गोपालतापनीयोपनिषत्, नृसिंहतापनीयोपनिषत् इति, याभिः क्रमशः रामषडक्षरी, गोपालाष्टादशाक्षरी, नृसिंहद्वात्रिंशदक्षरी च विव्रियन्ते पूर्वोत्तरभागद्वयेन प्रत्येकस्याम्। तापनीयशब्देन सन्तापकः - पापनिवारकः इत्यर्थेन तत्तन्मन्त्रप्रभावः प्रतिपाद्यते।

नृसिंहतापनीयोपनिषदिति अथर्ववेदान्तर्गता ‘उग्रं वीरम्‘ इत्यादिनृसिंह मन्त्रस्यार्थनिरूपिका उपनिषत्। मन्त्रराज इति ख्यातस्य नारसिंहानुष्टुभ- मन्त्रस्य प्रतिपदमथवर्णनं पंचस्वध्यायेषु आहत्य सप्तसप्ततिमन्त्रैः अत्र विशदीक्रियते।

प्रथमाध्याये षोडशमन्त्राः, द्वितीयेऽष्टादश, तृतीये षट्, चतुर्थे षोडश, पंचमे एकविंशतिरिति आहत्य सप्तसप्ततिमन्त्रैः अस्यामुपनिषदि नारसिंहानुष्टुभो मन्त्रराजस्य प्रत्येकं पदं निर्वचनपूर्वकं विवृमिति महानुपकारः नृसिंहोपासकानाम्।

श्रीमद्भिः गोविन्दाचार्यवर्यैः अस्योपनिषदः पूर्वभागो गभीरं व्याख्यायि।

तेषामभिप्राये तापनीयोपनिषदित्येवास्य नाम। तपनो नरसिंह एवेति, तपनशब्द एव संरक्षकत्वेन, सन्तापकत्वेन च नृसिंहपर इति तेषामभिप्रायः।

नारसिंहतापनीयोपनिषदित्युक्ते द्विरुक्तिर्भवतीति तापनीयोपनिषदिति निरुपपदैव इयमुपनिषद् गृहीता। अन्ययोस्तु राम-गोपालोपपदग्रहणमस्या उपनिषदो वैलक्षण्यबोधनायेति च एते अभिप्रयन्ति। किं चास्या उपनिषद उत्तरभागो नास्तीति कृत्वा पूर्वभागपर्यन्तमेव एतैर्व्याख्यानं व्यधायि।

शंकरभगवत्पादैरपि तथैव व्याख्यातमिति च समर्थयन्ति।

[[20]]

गोविन्दाचार्यैः उपनिषदोऽस्याः निपुणतरमुपपादनं कृतम्, यद्विना दुरूहा उपनिषदर्थाः नैव प्रकाशयेयुः। व्याख्यानारम्भ एव तापनपदार्थं निरूपयन्, तापं नयति - अपनयति इति व्युत्पत्तिप्रदर्शनेन आश्रितजनपरित्राता भगवान् एव तपनशब्दवाच्यः, सच सूर्यान्तर्वर्ती नारायण एवेति प्रतिपादयन्, तपनगतत्वाच्च तपनः इति व्युत्पत्त्या, ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः’ इति नारसिंह-पुराणप्रमाणेन आदित्यविद्यागम्यः नारायण एवात्र नरसिंहः तपनपदवाच्य इति स्पष्टं विवृणोति। तथैव आदौ शान्तिमन्त्रव्याख्याने चइन्द्र-पूषन्-तार्क्ष्य-बृहस्पतिशब्दैः प्रद्युम्नानिरुद्धसंकर्षणवासुदेवाख्यं नारायणस्य भगवतश्चातुर्व्यूह्यम् न्यरूपि। तत एव विभवावताररूपेणाविर्भूतो भगवान् नृसिंहः प्रह्लादरक्षणेन साधुपरित्राणं, हिरण्यकशिपुनिग्रहेण भगवद्भागवत-विरोधिनिरसनं च कुर्वन् तपनपदवाच्यो जात इति। दुष्टान् तपतीति, शिष्टानां तापमपनयतीति व्युत्पत्त्या तापनो भगवान् नारसिंहः अस्या उपनिषदः प्रतिपाद्यं वस्तु इति तन्मन्त्रनिरूपणपरेयमुपनिषत् तापनीयोपनिषदिति अन्वर्थनामधेया इति साधु न्यरूपितयन्।

व्याख्यानावसरे एतैः बहवो ग्रन्थाः परिचायिताः। अनेकग्रन्थेभ्यः समुद्धृत्य प्रामाणिकतामाविश्चक्रुः। मन्त्रवर्णार्थनिरूपणे निर्वचनदर्शने च अमरकोश-अभिधानकोश-मेदिनीकोशादयः बहवः प्रदर्शिताः प्रतिपादित- भाष्यार्थस्य प्रामाणिकत्वदर्शने नासदासीयसूक्त-ऐतरेयभाष्य-अनुव्याख्या- नादय उट्टङ्किताः। मण्डूकभाष्यटीकापि एतैरारचिता इति व्याख्यानेऽस्मिन् दरीदृश्यते। तत्त्वप्रदीपादयो ग्रन्थाः, नरहरितीर्थादयो ग्रन्थकाराः, मध्वाचार्याश्च अनुपदं समुट्टङ्किताः। तदेवं प्रामाणिकं, विद्वन्मनोहरं, अध्येतृप्रयोजकं च भाष्यमेतैरनुगृह्य महानुपकारः कृतः संस्कृतजगतो, विशिष्य वेदान्तिनाम्। तेभ्य आचार्येभ्यो नमोवाकततिमर्पये सश्रद्धम्।

बन्नञ्जे इत्युपाख्योऽयं गोविन्दाचार्यपण्डितः।
कर्णाटविद्वत्कविषु मूर्धन्यः परिगण्यते ॥

[[21]]