०४ चतुर्दशसूक्तेहितम्

डा.वंशीकृष्ण घनपाठी

अनिरुद्धस्सुरानन्दो गोविन्दो गोविदां पतिः भगवदवताराः अंशावतारतया, ज्ञानावतारतया, पूर्णावतारतया च बहुधा प्रथन्त इति विद्वांसः वचन्ति। लोकाध्यक्षस्सन् स भगवान् हरिरेव महीपतिरूपेण लोकं पालयति, यतः ‘नाविष्णुः पृथिवीपतिः’ इति वचनेन ज्ञाप्यते। वेद्यं वेदयितुं ज्ञानं प्रवाहयते च वेदव्यासादिरूपेण, यतः कीर्तयामोनिशम्- ‘कृष्णद्वैपायनं व्यासं सर्वभूतहिते रतम् .. वेदान्तभास्करं वन्दे’ … इत्यादिना।

तादृशाः भगवदवताराः विद्वत्तल्लजरूपेण अद्यतनेपि काले विलसन्तीति गोविन्दाचार्यपण्डितः दृष्टान्तयति। उपरितनानि नामसाहस्रगतानि नामधेयानि, विद्वद्वरेस्मिन् सार्थवन्ति भवन्तीति – श्रीमता विरचितं चतुर्दश- सूक्तभाष्यं कलयद्भिः विद्वद्भिः गम्यते।

अनिरुद्धः- वेदव्युत्पत्तिमारब्धवतः आचार्यस्य कश्चन निरोधो नाम- मात्रतोऽपि नासीदिति ज्ञायते। स्वकीयेन प्रकृति-प्रत्ययविभागपटिम्ना यास्क-शाकपूणि-दुर्गाचार्यादीनां निर्वचनपरम्परामवतारयतीति तदीयम् अनिरुद्धत्वं लक्ष्यते।

सुरानन्दः – ते ये शतं मानुषा आनन्दाः- स एको देवानामानन्दः इत्यानन्दं मीमांसन्ती तैत्तिरीयश्रुतिः, मनुष्यैरनुभूयमानादानन्दात् शत- गुणाधिक्यं वर्णयति सुराणामानन्दस्य। सारस्वतसागरे मग्नस्सन्, अन्यानपि बोद्धॄन् मज्जयतः पण्डितवरस्य सुरानन्द एवेति उत्प्रेक्षणं वरम्।

गोविन्दः- गां वाचं विन्दति साकल्येनेति व्युत्पत्त्या, ‘वाचामाचकल- द्रहस्यमखिलम्’ इति मल्लिनाथस्य प्रतिज्ञां स्मारयत्ययं दोषज्ञः।

गोविदां पतिः – वेदार्थव्युत्पत्तिपथमनुसरतां भाविविपश्चिन्नागानां यूथं

[[12]]

नयतीति गोविदां नायकत्वं च तत्र तत्पथानुयायिभिः नूनमनुमन्तव्यमेव।

भगवतः शास्त्रयोनित्वमनुमोदमानाः एव पूर्वे महान्तो विद्वांसः, तदीयप्रतिपादनरीतिं याज्ञिकभूमिकया सह, अन्यैरपि पथिभिः चिकीर्षन्तः दिशाप्रदर्शनं चक्रिरे। तामेव ककुभमवलम्बमानेन गोविन्दाचार्येण विहितं प्रतिज्ञाद्वयं लक्ष्यताम्।

त्रयोऽर्थाः सर्ववेदेषु – इति अर्थान्तरान्वेषणपराः वयम्।

वयं पुनः प्रत्यक्षरं निर्वचनलोलुपाः - इति हि प्रतिज्ञा॥

तद्यथेति किञ्चिद्विचारणेन शास्त्रार्थं रोमन्थायामहे। सगुणरूपेण विलसतो भगवतो विभूतिर्बहुधा चतुर्दशसु सूक्तेषु व्याख्याता। यद्यपि ऋग्वेदीयशाकलसंहितां, तदीयव्याख्यानभूतम् ऐतरेयञ्चाद्रियमाण एव आचार्यः, तथापि तैत्तिरीय- माध्यन्दिन- काण्व- शौनकसंहितागतानपि मन्त्रान् विविच्य, नैजं सर्ववेदादादरं सुष्ठु प्रकटयामास। एतेषां चतुर्दशानामेव सूक्तानां व्याख्यानं कुत इति चिन्तयता विमर्शकेन, रहस्यमेतद् बोध्यते।

त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुक् इति भगवतो विश्व- व्यापित्वप्रदर्शनेन, एकैकस्मिन् उच्चावचत्वेन भाव्यमानेषु सर्वेषु वस्तुषु भगवद्दर्शनाभ्यासः अवश्यं करणीयो जनैरिति, व्याख्यात्रा आचार्येण, सर्वभूतस्थमात्मानम् इति भगवद्गीतोदितः पन्था अदर्शीति। धातूनाम् अनेकार्थत्वात् इति पूर्वाचार्यैरनुसृते पथि, बहुशः वैदिकशब्दव्युत्पादनद्वारा अर्थान्तरञ्च न्यरूपि सूक्तव्याख्यानेषु।

प्रथमं घृतसूक्तम् समुद्रादूर्मिरिति, वामदेवर्षिप्रवर्तितम्। अत्र घृतशब्दस्य लोकप्रसिद्धा आज्यरूढिः न घटत इति प्रदर्श्य, इतरेण प्रकारेण शब्दाः व्युत्पादिताः। क्षरणात्, दीपनाच्च घृतमित्युभयं लक्षणं भगवत्येव घटते इति प्रथममुक्तम्। (यद्वा यज्ञद्रव्येषु आज्यादिष्वपि भगवतो दर्शनं सम्भावयति।) तत्र सूक्ते, व्याचिख्यासूनां सम्पन्नतरा भूमिः चत्वारि शृङ्गा इत्यृक्। अत्र श्रीमतस्सत्त्वोद्रेकं पश्यामः। त्रिधा बद्धः इत्यंशे- लोकत्रये, कालत्रये,

[[13]]

अवस्थात्रये, मन्त्रब्राह्मणकल्पेषु, भक्तिज्ञानवैराग्येषु श्वेतद्वीप-अनन्तासन- वैकुण्ठेषु, चक्षुःकण्ठहृदयेषु वा निबद्धो भगवानिति वर्णयन्नाचार्यो सारस्वतप्रपञ्चं दर्शयते। एवञ्च जलतृणविशेषे प्रसिद्धस्य वेतसशब्दस्य अर्थान्तरं लोकयाम्बभूव - वी गतौ, वी प्रजने, वी- खादने, वी गतौ इति धातुभ्यः, (वियस्तुट् च) वियो धातोरसच् प्रत्ययो भवति, तुट् च आगमः इति सामान्यव्युत्पत्त्या न तृप्तस्सन्, वं ज्ञानम्, तेन इताः – वेताः- भागवताः, तानयं सरतिवेतसः (डः कृत्) इति वर्णयति। एवं भगवत्परतया वेतसं व्याख्याय, भगवतस्सर्वतोभावं विशिनष्टि। एवमेव शूघनासः, यह्वाः, वातप्रमियः इति शब्दाश्च शाब्दिकधुरन्धराणां कर्णपेयतया व्युत्पादिताः।

द्वितीये भाग्यसूक्ते प्रातरग्निमिति वेदत्रयप्रसिद्धे, देवतानामाध्यात्मिकवर्णनं सर्वानपि रोचयति। अग्निः- वाग्देवः, इन्द्रः- मनोदेवः, मित्रावरुणौ अहोरात्राधिदेवौ- सङ्कल्प-ध्यानाधिष्ठातारौ, अश्विनौ- उषःपती, भगः पूषा च – योगक्षेमयोः पालकौ, ब्रह्मणस्पतिः - बुद्धिमानी बृहस्पतिः वाक्पतिः प्राणो वा, रुद्रः शरीररुजां द्रावकः मनोमानी, सोमः श्रोत्रमानी चेति स्तूयन्ते।

अत्रापरो विशेषः – शाङ्करमठपरम्परा च पारोक्ष्येण समर्थ्यते, यत्र शारदा- चन्द्रमौलीश्वरौ कीर्त्येते। वाग्देवी उमा, तया सहितः सोम एव रुद्रः इति वचनम् – रुद्राध्यायमूर्धन्यं नमस्सोमाय इत्यनुवाकस्वारस्यं बोधयति।

अत्रैव, अङ्गाङ्गनेता-अग्निः, परमेश्वरः – इन्द्रः, ज्ञानाज्ञानप्रदौ - मित्रावरुणौ (अन्तर्यामी मित्रः, बहिर्व्यापी वरुणः) मितिं प्रमितिं राति मित्रः- सर्वमावृणोति वरुणः, भजनीयः - भगः, पूर्णः - पूषा, सा हि श्रीरमृता सतामिति कीर्तितस्य शब्दब्रह्मणः पतिः (ब्रह्मणस्पतिः)- श्रियः पतिः पुरुषोत्तमः इति च निर्वक्ता आचार्यः धन्यतामाप्नोति।

अथ तृतीये कुविदङ्गसूक्ते, इन्द्रवायू हि सयुजौ इति वेदे कथ्यमानयोः वर्णनं प्रशंसति- इन्द्रः- उपेन्द्रः परमेश्वरः, वायुः- सङ्कर्षणः जीवोत्तमः। तत्रैव सूक्ते बाधितशब्दनिर्वचनं विदुषां गमनमर्हति। बाधा संसारपीडा। तेन पीडिताः - बाधिनः, तैः बाधिभिः इतः बाधीतः। स एव बाधितः। (ह्नस्वत्वं

[[14]]

छान्दसम्) अतः बाधितशब्देनापि परमेश्वरस्यैव कीर्तनञ्च बुद्धिं विकासयति।

नासत्यसूक्ते चतुर्थे, माध्वसम्प्रदायस्वारस्यवेत्त्रा अनेन, देवौ अश्विनौ- रामकृष्णौ, अाञ्जनेयभीमसेनौ, वेदव्यास-मध्वाचार्यौ – इत्युत्प्रेक्षणम् भासते। तथा च त्रिरूपो भगवान्, त्रिरूपो गुरुः इति गुरुभक्तिश्च प्रकटिता।

पञ्चमे अपालासूक्ते, मध्वाचार्यकालिका आख्यायिका अपाला- शब्दव्युत्पत्तिविशेषवती श्राविता। अपाला- अतितरुणी युवतिरिति कथयन्, अप- अल्यते अपवार्यते स्वाच्छन्द्यात् अतृप्तकामा इति सोपपत्तिकमूचे।यद्यपि ऋग्विधाने सूक्तमेतत्, शरीरसौन्दर्यमभीप्सता जनेन जपितव्यमिति वचनावसरे श्वित्रिणी- त्वग्दोषिणी, अलोम्नी च सुन्दरी भवतीति प्रदर्शितम्, तथापि अश्रुतपूर्वमपि विजानता आविष्करणीयं भवति, तेन भवत्विदम् अस्मदुपज्ञम् आविष्करणम् – इति मध्वाचार्यप्रतिज्ञा समादृता विराजते।

षष्ठे व्याख्यातसूक्तेषु, पूयमानेषु – पावमानेषु उपान्त्ये शर्यणावतीति सूक्ते, शर्यणावत्-शब्दार्थः हृद्यो वरीवर्ति। शर्यणावत् इति सरोनाम इति साम्प्रदायिकं व्याख्यानम्। एवं नश्यमानानां सरआदीनां नामसु अर्थान्तरान्वेषणं श्रुतिविहितमेव। यथा भरद्वाज-अत्रि-विश्वामित्रादीनां पुरु षाणामुत्पत्तिप्रसङ्गवर्णनात् तेषां विनाशोपि गम्यते चेत्, वेदस्य पौरुषेयत्वापत्तिः इत्याशङ्कायां सत्याम्, विश्वस्य मित्रम् विश्वामित्रः, त्रीन् गुणान्, दोषान् वा अतीतः अत्रिः, भरन् वाजं अन्नरसम्- भरद्वाजः- इत्यादिप्रकारेण अविनाशवतां देवानामेव वर्णनमत्राभिप्रेतमिति कथयन्ती श्रुतिः, यमध्वानं प्रादर्शयत्, तेनैव विवधेन (विधानेन) वैनाशिकत्व- शङ्कानिवारणाय तात्त्विकार्थः शर्यणावत् शब्दे समुन्नीतः आचार्येण।

यणयोः ज्ञानानन्दयोः शरणम् - शर्यणम्।नामधेयत्वात् पूर्वपदवृद्धिः द्वारावती इत्यादिवत्। शीर्यमाणत्वात् शर्यणम्। तद्वत् शर्यणावत्।

शरीरवदिति यावत्। तत्र वर्तमानः देवः इन्द्रः परमेश्वरः, तस्मै हे सोम भक्तिरसरूप – त्वं प्रवह इति भक्तिभाव उदाहृतः।

[[15]]

सप्तमे ओषधिसूक्ते, ओषधीरिति मातरः … सनेयमश्वं गां वास आत्मानं O Kॆ᐀्Kव पूरुष इति व्याख्यानावसरेण, भगवद्गीतासारभूतं परमेश्वरार्पणं निरूपयति, कायेन वाचा मनसेन्द्रियैर्वा … इति भागवतपथस्य वेदमूलकत्वं ज्ञापयति च। अत्र वाक्ये अश्वः- अन्तःप्रज्ञा, इन्द्रियाणि च। गौः वाक्। वासः शरीरम्। एतत्सर्वं नारायणाय धन्वन्तरये सनेयम् दद्याम् इति वर्ण्यते। तथा च धन्वन्तरिर्भगवानिति ओषधीशं स्तावयति।

अन्यच्च, यदहं वाजयन्निमाः इति तैत्तिरीयशाखागतं मन्त्रं व्याख्यान्, यक्ष्मो नाम - अज्ञायमानं सत्, यत् अन्तः पीडयति- सः अज्ञातरोगः। तस्य यक्ष्मस्य आत्मा ओषधीभिर्नश्यति, जीवग्रहाणां विनाश इव- इति अज्ञातमूलानां रोगलक्षणानां निदानमोषधिप्रयोगेण मन्त्रवता साध्यत इति वदति। एवञ्च काण्वानां माध्यन्दिनानां सूक्ते विशिष्टाश्च मन्त्रा व्याख्याताः।

घर्मसूक्ते अष्टमे, भगवन्तमेव घर्मशब्देन वर्णयति वेद इति कथयति। तथा च तेजोबन्नरूपस्य त्रिवृतो मूलभूतस्य वायोः स्तवनमवतारयन्, मातरिश्वशब्दं व्याख्याति। मातरि जगत्स्रष्टरि श्वयति गच्छति - मातरिश्वा सदागतिः वायुः। (मातृशब्दः अन्तरिक्षेण सह, गर्भ- वाक्परतया च व्याख्येयः इति कथयति।) वस्तुतस्तु, एकस्यैव ब्रह्मणः बहुभिश्शब्दार्थैर्वर्णनं वेदस्यैव निश्चप्रचो मार्ग इति वैदिका जानन्त्येव। उपनिषत्सु उपासनप्रसङ्गेषु बहवश्शब्दाः वस्तु- गुणाभिधायकाः प्रस्तुताः पाङ्क्त- ओङ्कार- प्रणव- अक्षि- आदित्य- उदारादयः। तथा च स्कम्भ- शतौदन- पञ्चौदन– ब्रह्मचारि- अश्वादिशब्दाश्च आथर्वणिकैः याजुषैश्च प्रयुज्यन्ते। स एव पन्था अत्राप्यनुसृत इति नावसरो विशेषस्य।

दानसूक्तम् नवममस्यां व्याख्यानस्रजि। दानशौण्डः अन्नकामस्सन्, अन्नं विन्दति। पापात् दारिद्र्यात् मुच्यते इति भावं वर्णयति। अददतः पिशुनस्य सकाशे, अदीयमानमपि वस्तु न तिष्ठति। किन्तु, रफिताय आध्राय दरिद्राय दीयमानमपि न क्षीयति इति श्रुतितत्त्वं बोधयामास। क्षुधा

[[16]]

मरणवत् भवति। गृहवे प्रतिग्रहयोग्याय अन्नकामाय कृशाय दरिद्राय यो ददाति, स एव भोजः (भोक्ता) अलं भवति। पर्याप्त इति दानमहिमान- माविष्कारयति।

दशमे पक्षिसूक्ते, अग्निं तुष्टुवुः जरितारिः, सारिसृक्कः, स्तम्बमित्रः, द्रोणः इति चत्वारः पक्षिणः, मन्दपालमुनेः शार्ङ्गकनाम्नः पक्षिरूपधारिणः पुत्राः, जरितानाम्न्यां पक्षिण्यां जाताः। खाण्डवदाहे आशुशुक्षणिना वह्निना दह्यमानास्ते चत्वारः, तमेव भगवन्तं कृशानुं प्रार्थयामासुरिति महाभारतोक्तया गाथया समन्वयः रोचते। तत्र महाभारतगाथायाः ऋग्वेदसम्प्रदायस्य च नामचतुष्टयप्रस्तावे व्यत्ययञ्च भणति। तत्रैव उलप इति तृणनाम व्युत्पादितम्। तद्व्युत्पत्तिर्यथा ऋ-गतौ (इयर्तेः) अप् इत्येकधा। उल - आवरणे, दाहे च सौत्रो धातुः। उल्यते इति उलपः। वल - संवरणे - वलतीत्युलपः। तादृशं शाब्दिककौशलं नैकान् बुधान् विस्मापयति।

एकादशे गर्भसूक्ते, यः अलं प्रजायै सन्- प्रजां न विन्दत इति श्रुतिप्रस्तुतां सन्तानहीनतां प्रक्रमय्य, मन्त्रद्वयं निर्दिशति- विष्णुर्योनिं कल्पयतु …

नेजमेष परापत… इति। गर्भधारणसामर्थ्याय जपेत् जापयेद्वा ऋतुमती स्त्रीः मन्त्रद्वयमेतत्। अत्र च विष्णुशब्देन, गर्भमभिव्याप्य जायस्व इति प्रार्थनां गमयति। नेजं शुद्धिं मेषति सिञ्चतीति नेजमेषो भगवान् इति च गर्भशुद्धिं स्तावयति च। (गर्भशुद्धिं सन्तानशुद्धिं प्रापयेति भगवन्तं प्रार्थयते सूक्तमिति च विवृणोति।) संवनन सूक्तम् (शाकलम्, आथर्वणम् वा) द्वादशम्। अत्र सङ्गच्छध्वं भक्तिमार्गे, सम्भूय ऐकमत्येन संवादं सम्यक् नामकीर्तनं कुरुत- इति भक्तजनप्रबोधो गम्यते। भगवति निरतिशयिता भक्तिः समाजस्य संवनने सामरस्ये कीलकवद्भवितेति ध्वनयति।

त्रयोदशं कुन्तापसूक्तम्। चतुरोऽपि वेदानधीयमानानामस्मादृशामपि कुन्तापसूक्तवाक्यानि विस्मापकानि भवन्त्येव। यतोत्र भगवतः विद्यारण्यस्य

[[17]]

भाष्यवचनानि नोपलभ्यन्त इति हेतोः, महत्त्वलक्षितस्य सूक्तस्यास्य अर्थज्ञाने कुण्ठितबुद्धयो बहवो माणवकाः। तत्र श्रीमतां व्याख्यानं अन्धतमस्तारकमिति वचने नास्त्यतिशयः।

कुत्सितं दोषं तापयन्तीति कुन्तापाः। यज्ञे ब्राह्मणाच्छंसिना ऋत्विजा पठ्यमानेषु सत्सु, छन्दसां रसः प्रतिष्ठितो भवति, यज्ञश्च रसपूर्णैः छन्दोभिरिष्टो भवति इति ब्राह्मणवाक्यानि श्रूयन्ते। तत्रैव नराशंसशब्दः एवं व्याख्यातः।

न रीयन्ते इति नराः। तैः आशंस्यमानः स्तूयमानः वासुदेवः नराशंसः परमात्मा।

तथा च रेभपदघटिता मन्त्राश्च व्याख्याताः। रेभृशब्दे। नरेषु स्थित्वा यो रेभति शब्दायते, स एव रेभः अनिरुद्धोत्र सम्बुध्यते, देवकीर्तनोद्बोधनाय इति वर्णयति। एवञ्च न्यूङ्खशब्दव्युत्पत्तिः, नीवीव नर्दनञ्चेति अप्रसिद्धा अप्यंशाः वैदिकोपकाराय प्रस्तूयन्ते।

अश्लील सूक्तम् चरममस्यां मालिकायाम्। अश्वमेधप्रकरणे, राजमहिषी- प्रसङ्गे वर्तमानमिदम्।याज्ञिकाः कर्ममात्रप्रज्ञाः इति रूढिः। तेष्वन्यथा मन्यमानेष्वपि, सर्वमपि वेदवाङ्मयं, किञ्चित् परतत्त्वं विधत्ते विज्ञापयति च तत्त्ववादिनाम्। अतः परिहासरूपं, जल्पनरूपमपि वाक्यं भगवत्स्तोत्रपरतया व्याचख्यौ गोविन्दाचार्यः स्वकीयशेमुषीवैशिष्ट्यप्रभावात्। यत्र रुचिः- तत्र भक्तिः भावश्चेति सम्यङ्निरूपयति व्याख्यानावसरोयम्। तथा च दधिक्राव

-जिष्णु-अश्व-वाजिशब्दानां दशावतारपरं व्याख्यानमत्यन्तं शोभतेतमाम्।

एवं गुरोरनुग्रहादवाप्तां शाब्दिकविद्यां भगवद्भक्तिञ्च लोकोपकाराय विदधत् गोविन्दाचार्यः सुकृतां ज्योतिरिति सानन्दं प्रकटयामः।

तादृशे वाग्व्यापारे रिरंसुषु निरन्तरं मङ्गलमातनोतु भगवानप्रमेयः।


[[18]]