०३ गोविन्दो धाम निर्ययौ

विद्वान्. उमाकान्तभट्टः

प्रकाण्डं पाण्डित्यं प्रवचनपटुत्वं स्फुटतरं प्रसिद्धो वाग्योगः स्फुरणगुणशीलं स्मृतिबलम्।

दृढा तत्त्वश्रद्धा व्यवहरणरीतिर्निरुपमा गुरोर्गोविन्दस्य प्रथममभिवन्द्याः प्रमतिभिः ॥१ ॥

कियन्तः शिष्या यं त्वनवरतमध्यासत सतां गुरुं तं गैर्वाण्यां मधुमधुरवाण्यामनुपमम्।

विदग्धं कार्णाट्यां लिखनपरिपाटीपटुमतिं गलाग्रस्थाङ्ग्लेयं कुसुमसहकारं त्विव पिकाः ॥२ ॥

सदा यो वेदान्ते परिषदि च विन्ते स्म कृतिनां लसत्तत्त्वामोदे विहितबहुशोधे जितबुधः।

ददानो माध्वीकं विमथनसमुत्थं मृदुहृदे स यातो गोविन्दो दिवमिति तु वार्ताशनिनिभा ॥३ ॥

कियत्स्वादुर्वा वागथ कियदुदारं च हृदयं कियन्मन्त्रं ध्यानं कियदमितमैत्रं तदुदितम्।

कियच्छोधो बोधः कियदुपकृतिर्वा व्यवहृतिः त्वितीमां ना नार्हो गुणगणनिकां कर्तुमधुना ॥४ ॥

मुकुन्दं माकान्तं विधृतनवनीतं मुनिनुतं मुदा मुग्धस्त्रीभिर्वननवलनासेविततनुम्।

हृदि ध्यायं ध्यायं रजतपुरमध्यस्थनिलयं स गोविन्दाचार्योऽलभत हरिगोविन्दविभवम् ॥५ ॥

गोविन्दधाम बन्नञ्जे गोविन्दपदभागसौ।

गोविन्दतत्त्वनिर्णेता गोविन्दकृपया ययौ ॥६ ॥