०२ गोविन्दाचार्यवर्यस्य त्रैविक्रम इव क्रमः

— शतावधानी डा. रा. गणेशः

मात्राशिष्टोऽहं मम पञ्चम एव वयसि ‘चन्दमामा’पत्त्रिकां पिपठिषुरभवम्।

अचिरेणैव कालेन सा पिपठिषा मां ‘कस्तरू ी’पत्त्रिकापयर्न् तमनषै ीत्। मासपत्त्रिकैषा कर्णाटवाण्या रीडर्स् डैजेस्ट् इति प्राप्तप्रसिद्धिः। प्रायेण तस्मिन्नेव काले तत्पत्त्रिकायां ‘महाश्वेते’ इति नाम्नीं सरसकर्णाट-वाणीवेल्लितां कथामपाठिषम्।

सेयं कथा वाणीपौरुषरूपस्य भट्टबाणस्य भारतीमनुधावतीति संस्कृतविदाम् अपरोक्षम्। तस्यां प्रयुक्तां वाणीं भावधोरणीं विचित्रकथनक्रमसरणिं च ध्यायतो मे नूनमेव हारितं मनः। एवमेव दशकुमारचरितस्येतिवृत्तमादृत्य विरचितां ‘हत्तु हुडुगर कथॆ’ इत्यभिधां कथां तत्रैव पठित्वा रोमाञ्चकञ्चुकितश्च। अबोधमुग्धे वयसि तस्मिन् कथे एते संस्कृतसाहित्यस्य सर्वोत्तमगद्यकाव्यद्वितयस्य सारभूते इति प्रेक्षा न मनागप्यासीत्। तथापि कथारचयित्रा केनापि बालानां सुखबोधाय सर्वमिदं स्वरसतया न्यरूपीति प्रतिबोधो मय्याविरासीत्। मूलकवेराशयं काव्यानुभावं च हृदयसात्कृतवतः कथाकर्तुरस्य विषये महानादरोऽपि मयि प्रादुरासीत्। हन्त, केनाप्यनवधानेन कथानां रचयितुरभिधानं मया न हृदि कृतम्। किन्तु तदीया भाषावैदुषी पदगुम्फनशेमुषी विलक्षणशैली-सन्दर्भणवैपश्चिती च ममान्तरङ्गे वज्रकीलायिताः। युक्तं चेदं कर्त्रपेक्षया कर्मैव ज्याय इति सनातनधर्मस्य दर्शनम्। सन्ति किल सूक्तिसङ्ग्रहेषु नैकानि हृदयङ्गमानि पद्यानि यत्कतर्णॄ ा ंनामानि वय ंन जानीमहे। अथ च वक्षृ ज्ञानविहीनानामपि तत्फलानि रसवन्ति ननु सम्भवन्ति। तदास्ताम्। गच्छता कालेन प्रौढशालायामधीयानोऽहं कदाचिद्ग्रन्थालये कन्नडवाण्या कृतं कादम्बरीकाव्यस्य कृत्स्नं गद्यानुवादमपश्यम्।

तत्र पूर्वपठिता कथाप्यासीदन्तर्गता। अनेन कथनमेतदेव मया बाल्ये व्यलोकीति प्रत्यभिज्ञानमजनि। तदास्य कर्ता पुण्यश्लोको वश्यवाग्गोविन्दाचार्य इत्यज्ञासिषम्।

तदनु विदुषानेन विरचितानि मम च हस्तापचेयानि पुस्तकानि सादरं पठितानि, सोत्सुकं विमृष्टानि, सोद्विग्नं चिन्तितानि, सोल्लासम् अास्वादितानि च॥

[[3]]

लोकस्तु गोविन्दाचार्यवर्यं प्रायेण वश्यवाचं वाग्ग्मिनं विजानीते। अहं तावद्विदुषोऽस्य प्रवचनपाटवापेक्षया ग्रन्थग्रन्थनकौशलमेव जानामि।

एवमस्य विषये श्रवणं मेऽल्पीयः, पठनं हि ज्यायः। तथापि कतिपयानि तत्प्रवचनानि कर्णपेयानि साक्षान्मया श्रुतानि। सर्वार्थेन सव्यसाचिरसौ धीमान्। अत एव कर्णाटसंस्कृतयोर्व्यवहारे तत्सव्यसाचिता दरीदृश्यते।

शास्त्रे, काव्ये, चलच्चित्रे, रङ्गकर्मणि, पत्त्रकारितायां, पाण्डुलिपिग्रन्थ- परिशोधने, सम्प्रदाये, साम्प्रतिके, स्नेहे, साहसे, वादे, विनोदे, सारल्ये प्रौढिम्नि च सर्वदा सर्वथा च लीलायतेऽस्य भारती॥

आगर्भविद्वानसौ कुशाग्रमतिः स्वपितृचरणानां तर्ककेसरिबिरुदभाजां पडमुन्नूरुग्रामाभिजनानां नारायणाचार्याणां चरणतलशुश्रूषया लब्धविद्या- प्रकाशः पश्चात् तत्र भवतां श्रीविद्यामान्यतीर्थानां, श्रीविद्यासमुद्रतीर्थानां च सविधे निजधिषणामणिसमुत्तेजनं लेभे। तथापि धीमतोऽस्य स्वाध्ययन- स्वानुभवावेव विद्यावनसञ्चारावसरे समालम्बनयष्टितां प्रापतुः। नूनमत्रास्य सर्वपथीना स्मृतिशक्तिः साह्यभूताभूत्। श्रीमदानन्दतीर्थपादेन विरचितां तच्छिष्यवरेण श्रीहृषीकेशतीर्थेन लिखितां च सर्वमूलग्रन्थराजिं गोविन्दाचार्यः सम्पादयित्वा प्रकाशयामासेति विद्वल्लोकविश्रुतेयं वार्ता। कर्मणानेन गोविन्दाचार्यस्य ग्रन्थसम्पादनकौशलं पाठपरिष्करणपाटवं विविधलिपि- परिज्ञानं च विदुषामतिरोहितमभूत्॥

इत्थमेव तेन नैके द्वैतदर्शनसम्बन्धिनो ग्रन्थाः स्वोपज्ञटीकासमलङ्कृताः क्कचिद्भाषानुवादभूषिताश्च प्राकाश्यं नीताः। एतेषु मुकुटायमानो महाभारत- तात्पर्यनिर्णयः। अस्य वैदुष्यपूर्णं व्याख्यानमपि स स्वयं निरमासीत्। अत्र गोविन्दवर्यस्य वैयाकरणधिषणा च विद्योतत इति शाब्दिका आमनन्ति।

वेदसूक्तविश्लेषणेऽपि पटुहस्तोऽयं पण्डितः। ईदृशां ग्रन्थानां निर्मितावस्य गद्यपद्यमयी गीर्वाणवाणी शास्त्ररसोचितं लास्यं ताण्डवं च तनुतेतराम्। विशिष्य गद्ये क्कचित् सूत्रसङ्क्षिप्ता क्कचिच्चूर्णिकाचटुला क्कचिदुत्कलिकाप्राया च भङ्गीभणितिः

[[4]]

सङ्ग्रामवडवेव नैकविधा धाराः प्रदर्शयन्ती जिज्ञासुजनं लीलया लक्ष्यं लगयति॥

अस्मासु नैके प्रवचनेषु प्रगल्भन्ते। किन्तु लेखनकर्मणि सीदन्ति। अन्ये केचन कृतिरचनासु कृतपरिश्रमाः। किन्तु मध्येसभं वाग्धोरणीं शीलयितुं न शक्नुवन्ति। उभयकर्मनदीष्णा विद्वांसस्तावदल्पीयांस एव। अतः किल कीर्तिशेषैः पण्ढरिनाथाचार्य-नारायणाचार्यमुखैः पङ्क्तिपावनैः सह गोविन्दा-चार्यो गणनामर्हति॥

गोविन्दार्यस्य संस्कृतभाषा विषयनिरपेक्षमप्यपूर्वां सुषमां धत्ते। नेयं समासजटिला विकटाक्षरगडुला वा। असमस्तान्येव पदानि तत्र भूरिशो भान्ति। अभिजातसंस्कृतसम्प्रदायमनुधावन्ती स्वविशिष्टां शैलीं बिभर्ति।

अत्र वाचोयुक्त्यनुरक्तिः प्रतिपदं चकास्ति। आभाणकानां लोकोक्तीनां च प्रयोगाः प्रतिवाक्यं परापतन्ति। विरलप्रचुराणां धातूनां वैविध्यमयानि रूपाणि सुबहूनि लोचनपथमवतरन्ति। आत्मोपज्ञानि वाग्रूढिवैचित्र्याणि च प्रावृट्पयोदेषु विद्युतां विलसितमिव वाग्विदां हृदयानि हरन्ति। प्रायः पद्यादपि गोविन्दवर्याणां गद्यमेव व्युत्पित्सूनां पठितॄणां प्रेक्षां समाकर्षति। किं बहुना, तदीयो वाग्विलासः संस्कृतसाहित्यस्य विद्वद्रसिकवृन्दवन्दितमभिजातयुगसि द्धं व्याहारं पुनरुज्जीवयतीव भाति। मन्ये, हेतुनानेन संस्कृतचलच्चित्रसम्भाष णरचनास्वपि गोविन्दाचार्य एव प्रथमं पदमलमकार्षीत्। न केवलं शङ्कर- मध्व-रामानुज-भगवद्गीतादिषु चित्रेषु, बहुषु रङ्गप्रयोगेषु, आकाशवाणी- रूपकेषु च विपश्चितोऽस्य योगदानं दरीदृश्यते॥

गीर्वाणवाण्यां कृतभूरिपरिश्रमा विद्वदपश्चिमाः प्रायेण देशभाषासु तामेव सरणिमनुरुन्धानाः प्रौढिमानं ढौकन्त इति प्रेक्षावतामपरोक्षमेव। परन्तु गोविन्दाचार्यो नैवं नारिकेलपाकपरायणः। स तावदक्लिष्टमनोरमां प्रतिपद- सुखबोधां नूनमन्वर्थाभिधां कर्णाटवाणीमेव प्रयुङ्क्ते। संस्कृत इवात्रापि लघूनि वाक्यानि, व्यस्तानि पदानि, हृद्यानि च गुम्फनानि। विशुद्धानां कार्णाटपदानामेवात्र पारम्यम्। अत एव ‘द्वादशस्त्रोत्राणि’ ‘हन्नेरडु हाडु’

[[5]]

इति, ‘नित्यानुष्ठानम्’ ‘मुञ्जानेयिन्द सञ्जेय तनक’ इति, ‘विष्णुसहस्र- नामस्तोत्रम्’ ‘देवर साविर हाडु’ इति, ‘भगवद्गीता’ ‘भगवन्तन नल्नुडि’ इत्येवं रूपाणि विन्दन्ते। वाग्रीतिवयनमिदमाप्तैः सह भाषितमिव निरुपस्कारं प्रसादगुणगण्यं प्रबन्धगुणमान्यं च भासतेतराम्। प्रतिपादनविधानमपि तदीयं नितरामनाकुलमस्तोभमनवद्यं च। तन्न जातु शाखाचङ्क्रमणं सहते, वाग्विग्लापनं भजते वा। गोविन्दार्यस्य वाणी प्रसन्नापि गभीरा, शास्त्र-शासितापि काव्यकन्दलिता। अत एव तेन विपश्चिता संस्कृताविरोधिन्या देशभाषया शूद्रक-कालिदास-भवभूतिकृतानि कानिचन रूपकाण्यनुवादेन सभाजितानि।

एतेषु मृच्छकटिकम् (‘आवॆय मण्णिन आटद बण्डि’) अभिज्ञानशाकुन्तलम् (‘मत्तॆ नेनपादळु शकुन्तलॆ’) उत्तररामचरितम् (‘मत्तॆ रामन कथॆ’) च प्रामुख्यमर्हन्ति। एतेषु भाषानुवादेषु सुकुमारमतिसौख्यं भूयोऽनुभूयते। तथापि संस्कृतमूलस्य शब्दालङ्कारसौभाग्यं- विशिष्य तत्रत्यानां पद्यानां-छन्दोनादमाधुर्यं च ह्नासतामनुयातीत्यत्र नास्ति संशीति लेशः। किन्तु मूलकृतीनां शब्दालङ्कृतिरक्षणचणाः सन्त्येव नैकेषां पूर्वसूरीणां तत्र भवतां बसवप्पशास्त्रि- कृष्णाचार्य-सीतारामशास्त्रि-अनन्तनारायण-शास्त्रि-सुब्रह्मण्यशास्त्रिकृष्ण मूर्तिसदृशानां हृद्यानवद्या अनुवादा इति विद्यत एव परिहारः॥

सङ्क्षेपेण वक्तव्यं चेत्तत्र भवता गोविन्दाचार्येण कर्णाटवाक्प्रयोगावसरे स्वीया काचिदनन्या शैली समाविष्कृता। नेदं कर्म सुलभम्। सत्यकामः, रावोपाह्वः सालग्रामाभिजनः कृष्णात्मजो रामचन्द्रः, तोळ्पाडिकुलजो लक्ष्मीश इति केवलम् अङ्गुलिमेया एव शैलीमीदृशीं प्रयुञ्जते। एतेषु मध्यमणिरिव महोत्तमं स्थानमध्यास्ते गोविन्दवर्यः। अस्या वाग्रीत्या उत्तराधिकारिणी प्रायेण तत्पुत्री वीणैव॥

गोविन्दाचार्यवर्यः पण्डितप्रवरो रसिकप्रवेकश्च। स हि तलवकारोपनिषत्- यज्ञियमन्त्रोपनिषत्-तन्त्रसारसङ्ग्रह-प्राणसूक्त-पञ्चसूक्तप्रभृतीनां मोक्षसाधक ग्रन्थानां देशभाषया व्याख्यातापि; कामशास्त्रस्य कन्नडगिरानुवक्तापि।

[[6]]

‘कृष्णन उडुपि’, ‘प्रयोगशीलकवि बेन्द्रॆ’, ‘पुरन्दरोपनिषत्तु’, कनकोपनिषत्तु’, ‘भीमसेन’, ‘वाल्मीकि कण्ड रामायण’, ‘आचार्य मध्वर बदुकु-बरेह’, ‘पराशर कण्ड परतत्त्व’, ‘कृष्णनॆम्ब सॊदॆय कडलु’ चेत्याद्यानां नैकासां कर्णाटवाण्युपनिबद्धानां कृतीनां कर्ता विशिष्टविचारप्रस्तोता च स एव धीमान्।

आधुनिककर्णाटकविकुलकुलायकोकिलायितस्य दत्तात्रेयरामचन्द्रबेन्द्रॆवर्यस्य निरतिशयोऽभिभावकोऽसौ स इव सङ्ख्यासङ्केतमुग्धो ब्रह्मोद्यसदृक्ष रहस्य- रचनाविदग्धश्च। तदस्य विद्याविलासतौर्यत्रिकस्य सङ्ख्या-सङ्केतरहस्यवादौ श्रुतिलयाविति वक्तुमलम्। गुह्यभाषा, समाधिभाषा चेति योगिप्रत्यक्षवादिभिर्या वाक् प्रतिपादिता तामयमार्यः प्रत्यहं प्रस्तौति स्म। पण्डितः प्रवचनपटुश्च गोविन्दाचार्यः प्रपञ्चे यावती प्रसिद्धिमाञ्चीत्तावतीं प्रशस्तिं कविः कथकश्च स एव नालभतेति महदिदं विषादस्थानम्। नेदमस्य सरस्वतीसूनोः कष्टाय; किन्तु सारस्वतजगतः किल नष्टाय। धीमतोऽस्य कविताकौशलंस्मारयितुंसुमतीन्द्र नाडिगवर्यविरचिते ‘पञ्चभूत’सञ्ज्ञिते काव्ये विद्यमानमामुखमेकमलम्। तत्तु स्वयमेव रोचकं रोमाञ्चकं च खण्डकाव्यम्। एवमाचार्यगोविन्दस्य साहितीवरिवस्या त्यक्तयूथस्य यूथपस्येव गतिः कामपि वैचित्रीं तनुते॥

विपुलवाङ्मयनिर्माणचणोऽप्यसौ सुधीमणिः सर्वदा लेखनीलाङ्गलबद्ध इव बलीवर्दः पुस्तग्रस्तहस्तः। प्रायेण रचनाकर्मैव तमूरीकृत्य लेखयतीति वक्तव्यम्।

यतो हि कृतिशिल्पनप्रवृत्तिः सर्वदा तन्मनोलहरीमनुधावति हरिणीव हारिते वने। अत एव सा नूनमवधूतनियन्त्रणा, अनन्यपरतन्त्रा च विलसति। मन्ये विद्यावनितैव गोविन्दवर्यं दुर्ललितमिव बालं लालयित्वा लेखनकर्मसु प्रेरयामास।

बह्वीषु विद्याशाखास्वधीती लब्धवर्णोऽसौ निजरसनारासमण्डल एव नर्तयति वाग्विलासगोपालं स्वीयया स्मृतिशक्तिराधया समाराधितम्॥

पूर्णप्रज्ञदर्शनमिति प्रथितस्य द्वैतराद्धान्तस्य प्राग्रहरेषु विद्वदवतंसेषु गण्यः खलु गोविन्दाचार्यः बि.एन्.के. शर्मा, कृ.त. पाण्डुरङ्गी चेत्यादीनां प्रशस्तां पङ्क्तिं भजते। अन्यैरचुम्बितानि क्कचिदस्वप्नायितान्यपि स्वोपज्ञानि

[[7]]

शोधतत्त्वानि प्रतिनवतया प्रतिपिपादयिषुरसौ प्रावृषेण्यः पयोवाह इव प्रत्यग्र- चिन्तनचञ्चलाञ्चितः, प्रभूतचातुर्यपुरुहूतचापचित्रितश्च स्तनितं निजविजय- वैजयन्तीसनाथम् आचिख्यासति। किं बहुना, आचार्यवर्यः पूर्णप्रज्ञदर्शनस्य रूपस्तरीयां चौक्षतामहार्षीत्; तत्स्वरूपस्तरस्य चौक्षतामितोऽपि वर्धयामास। इयता प्रमाणेन श्रीमदानन्दतीर्थीयं दर्शनं बहुस्तरीयेषु लोकेषु प्रापितवान् प्रख्यापितवांश्च कश्चन धीमान् सद्यःकाले नावर्तिष्टेति नातिशयोक्तिः। पूर्वं पुरन्दर-जगन्नाथ-विजयादयो दासवर्याः कार्यमिदं चक्रुरिति वयं शुश्रुम। किञ्च गोविन्दाचार्यस्य वरिवस्या भिन्नैव। यतः किल दासकूटस्य सरणिरन्या। सा हि सङ्गीतसाहित्यधन्या। व्यासकूटपद्धतिस्तु साम्प्रदायिकवाक्यार्थवैशेषिकवैदुषीनुन्ना, लब्धवर्णैकवलयप्रपन्ना च।

मुरारेरिव गोविन्दार्यस्याप्युपलब्धिः पन्थानं तृतीयं कमपि गाहते; ककुभं कामपि जिगमिषति। विपश्चिता तेन दशप्रमतिदर्शनस्य वैचारिकीं साम्प्रतिकीं च शोभां यावतीं कल्पयितुमलं तावतीमखिलामपि शीलयित्वा महदिदं कर्म साधितम्। यदि गीतवादित्रपरिभाषामाश्रित्य वक्तव्यम्, गोविन्दाचार्योपज्ञं कापि ‘घराना’, ‘बानी’ काचिच्च विद्यत इत्यौत्तराहपद्धतिम् अनुस्मरन्तो ब्रवाम। प्रस्थानकारकल्पानामेवमेव खलु चर्या। एवं स्वाभिमते शास्त्रप्रपञ्चे पर्यटतः श्रीमतो गोविन्दवर्यस्य तच्छास्त्रमेव सीमायते न तु नैजः पुरुषकारः।

अतो ह्यस्य वाचि लेखे वृत्तिषु चात्मीया काचिदनन्या मुद्रा मुदं रान्ती मोहयति सतां मनांसि। ‘रीतिरात्मा काव्यस्य’ इतीमां वामनीयां प्रेक्षां शास्त्रेऽप्यापादयितुं प्रलोभयति भावकान् गोविन्दवाणी॥

प्राक्तनेषु तौलवकविपण्डितेषु विश्रुतनामा किल त्रिविक्रमपण्डितः।

विशुद्धविचारं विविदिषुः कृत्यसौ वादसमयानुरोधेननिजमतमेव तत्याज निर्भरतयेति श्रूयते। अस्य भक्तिरपि श्रीमत्यनुमानतीर्थे तीर्थभूते गरीयसीति ज्ञायते। अस्मिन् मनीषिणि नितमां स्निह्यति स्म गोविन्दवर्यः। तस्य वंशविद्यावंशादिष्वपि विचारेषु सुविपुलं संशोधनमतानीच्च। अतोऽस्मद्गोविन्द- वर्ये च त्रैविक्रमं क्रममिममेव पश्यामो वयम्॥

[[8]]