प्रो.श्रीनिवास वरखेडि
वेदवेदान्तविद्याश्रीः यं श्रिता साश्रयाऽभवत्।
माध्वीर्गाः सम्पालयन्तं गोविन्दं तं नमाम्यहम् ॥ १॥
माध्वग्रन्थान् असंस्पृष्टान् मूलतालपुटीकृतान्।
प्रकटय्य करैः स्वीयैः शोधयामास सन्मतिः॥ २॥
मन्त्रेषु रुद्रविषयेषु हरेः सुगाथा शास्त्रेषु मूढगहनेषु सुखं विहारः।
काव्येषु कोमलगतिः सरसा च टीका विद्यासु निश्चलमतिः विशदा च दृष्टिः॥३॥
पाण्डित्ये च कवित्वे च टीकायामनुसर्जने।
गोविन्दार्यसमो नास्ति भाषयोरुभयोरपि॥ ४॥
आचार्यवचसां व्याख्या श्रद्धया युक्तिभिः कृता।
दिवारात्रं च तपसा ह्याचार्यत्वं निरूपितम्॥ ५॥
छन्दस्सु देवभारत्यां भाषायामपि विस्तृतम्।
वाङ्मयं विरचय्याथ कृतवान् लोकसंग्रहम्॥ ६॥
लिकुचान्वयसत्वांशः श्रीमध्वाध्वनि दीक्षितः।
पुनरेव जनिं प्राप्य सर्वमूलं पपाठ ह ॥ ७॥
शताधिकनिबन्धैर्वा व्याख्यानानां सहस्रकैः।
गीतानामयुतेनापि यशसा लोकविश्रुतः॥ ८॥
बन्नञ्जेत्यभिधानेन स्वाचार्योपाधिना श्रुतः।
विद्यावाचस्पतिरसौ पद्मश्रीबिरुदांकितः॥ ९॥
आजीवनं तपश्चीर्णं वाङ्मयं यज्ञसंज्ञितम्।
मध्वेशस्य प्रसादेन कृतार्थोऽभून्महायशाः॥१०॥
[[2]]