आधुनिककालीनकार्नाटविद्वत्कविषु मूर्धन्यतमः बन्नञ्जे गोविन्दाचार्यः (3.8.1936-13.12.2020)। हानगल्ल विरूपाक्षशास्त्रिभ्योधितगत- न्यायशास्त्राणां रजतपीठपुरस्थमध्वसिद्धान्तप्रबोधकमहाविद्यालये न्याय- अध्यापकानाम् अष्टमठाधीश्वराणां पाठनेन प्रथितयशस्कानां पडमन्नूरु- नारायणाचार्याणां द्वितीयः पुत्रोऽयं बाल्यादेव गीर्वाणभाषां शास्त्राणि च स्वपितृचरणेभ्यः परमपूज्येभ्यः भण्डारकेरिमठाधीशेभ्यः विद्यामान्यतीर्थेभ्य श्चाधिजगाम। स्वप्रतिभया वेदपुराणनिगमागमदर्शनकाव्यशास्त्रेषु कृतभूरि- परिश्रमः अनितरसाधारणीं वाग्धोरणीमासाद्य कर्नाटेषु स्वप्रवचनविभवेन प्रसिद्धिमाप। एतस्याचार्यस्य प्रवचनरसमास्वादयितुमहमहमिकया धावन्ति स्म जनाः। भगवद्गीता-श्रीमद्भागवतादिपुराणानाम् आस्वादने जनेषु भक्ति- रसाविर्भावने च नितरां हेतुरासीदस्य प्रवचनम्। कार्नाटभाषया गीर्वाणवाण्या च सुन्दरकाव्यग्रथने प्रभुरयमासीत्। उभयभाषाकवेरस्य पद्यान्यधुनापि गायन्ति भक्त्या जनाः। श्रीमदानन्दतीर्थभगवत्पादेषु नितरां भक्तियुक्तस्यास्य समुचितैव हृषीकेशतीर्थलिखितमातृकाधारेण सर्वमूलग्रन्थसंपादनकुशलता।
खण्डार्थनिर्णये जयन्तीकल्पे प्रणवकल्पे दूषणत्रये मध्वविजये उपनिषत्सु महाभारततात्पर्यनिर्णये तत्त्वप्रदीपिकायां संग्रहरामायणे चानेन विरचिताः टीकाः सहृदयविद्वन्मनांस्याह्लादयन्ति। घृत-भाग्य-कुविदङ्ग-नासत्य- अपाला-घर्म-अम्भृणी-मन्युद्वय-सपत्नघ्न-अस्यवामीय-प्राणाग्निसूक्त- तापनीयोपनिषत्-शतरुद्रियादीनां च नूत्न-व्याख्यानेन भूषितमनेन वैदिक- वाङ्मयम्। उपनिषदां च रहस्यार्थाविष्करणे असाधारणं प्रभुत्वमासीदस्य।
शाकुन्तलसमीक्षा कादम्बरीरूपान्तरं मृच्छकटिककार्नाटरूपान्तरं च काव्यरसिकानां मनांस्यावर्जयन्ति। विशिष्यानेन मध्वाचार्यशास्त्राणि
[[V]]
सेवितानि, सर्वमूलग्रन्थेष्वनितरसाधारणी गतिरासादिता। तदीयसूक्ष्मार्थ- ग्रहणशक्तिः, तस्य प्रतिपादनसौष्ठवं चाकर्षति तत्त्वजिज्ञासून्। मध्वाचार्य- ग्रन्थाभ्यास-तत्प्रचारावेवास्य जीवनस्य लक्ष्यभूतावास्ताम्। आङ्ग्लादि भाषापरिचयोऽप्यनेनासादितः आसीत्।
माध्वमठाधिपास्तस्य मध्वाचार्यसेवया सन्तुष्टान्तरङ्गाः विद्यावाचस्पतिः इत्यादीनुपाधीन् प्रदायैतं बहुधान्वगृह्णन्। तस्यास्य प्रतिभां गीर्वाणवाणीसेवां च समभिलक्ष्य भारतशासनं पद्मश्रीः इत्युपाधिना पुरश्चकारेमम्। कर्नाटक- संस्कृतविश्वविद्यालयश्च डि.लिट् उपाधिना अमुं सममानयत्।
गोविन्दाचार्यस्य पिता पडमन्नूरुनारायणाचार्यः महान् विद्वान्, तदीयौ द्वौ पुत्रौ रामाचार्य-गोविन्दाचार्यनामानौ प्रख्यातौ आस्ताम्। तत्रापि गोविन्दाचार्यः शास्त्रेषु कृतभूरिपरिश्रमः। तथापि अग्रे तदन्ववायीयाः अनाघ्रातशास्त्रगन्धा इति विद्वत्परंपरा अत्रैव क्षीयते न वेत्यत्र काल एव प्रमाणम्। स्वकीया सन्ततिर्नैव शास्त्राणि शिक्षिता गोविन्दा-चार्येणेति स्वयं गोविन्दाचार्यस्यैवायं दोषः, नान्यस्य कस्यचित्।
तदेतस्य कर्नाटकविकुलतिलकस्य कृतीनां विषये नानादेशीयानां विदुषां विमर्शं प्रशंसां चैकीकृत्य कश्चिद्ग्रन्थः शीघ्रं प्रकाशनीय इत्यस्मत्प्राक्तन- कुलपतीनानां प्रो.मल्लेपुरं जि. वेंकटेशमहोदयानां प्रेरणया स्वीकृतोयमुद्यमः।
यद्यपि विष्ण्वर्चनाख्यं वेदव्याख्यानं प्रणेतुं कृतमनसो मम नासीदत्र कश्चित्समयः। तथापि बन्नञ्जे गोविन्दाचार्यस्य विषये आदरातिशयेन कर्नाटकदेशीयस्यास्य विदुषः सर्वविद्वज्जनसाधारणीकरणमस्मत्कर्तव्यं, तद्विषये विशेषविमर्शोऽपि विद्वत्कर्तव्यविशेषः, कर्नाटकदेशीयस्यास्य विश्व- विद्यालयस्य कर्तव्यविशेषोऽपीति मत्वा यथाकथञ्चिदस्मिन् प्रवृत्तोऽहम्।
[[VI]]
तत्रापि कार्ये बहवो विघ्नाः। चिरादपि कैश्चिल्लेखो न प्रेषित इति महानेव विलम्बोऽपि दैवकृत आसीत्तथापि दैवेन इदानीं वा संपन्नादस्मात् कार्यात् निवृत्तो निर्वृतश्च ‘क्लेशः फलेन हि पुनर्नवतां विधत्ते’ इत्युक्तवन्तं कालिदासं स्मरामि।
अत्र प्रथमतः श्रुतिव्याख्यानानि, पुराणादिव्याख्यानानि, पश्चात् सर्वमूलव्याख्यानानि, ततश्च साहित्यादिशास्त्रव्याख्यानानीति क्रम आदृतः इति ध्यातव्यम्।
अनेके खलु शास्त्रेषु कृतभूरिश्रमाः ग्रन्थमिमं स्वकीयैरभिप्रायैः समभूषयन्।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतयः अस्मन्मित्रमणयः प्रो.
श्रीनिवासवरखेडीमहोदयाः, व्याकरणादिशास्त्रेषु निष्णाताः देशविदेशेषु ख्याताः विद्वन्मणयः एच्.वि.नागराजरावमहोदयाः, सकलशास्त्रपारदृश्वानो शस्मद्गुरवः हरिदासभट्टाचार्याः, शतावधानिनो रा.गणेशवर्याः, द्वैतवेदान्त- पारदृश्वानः सग्रि राघवेन्द्रोपाध्यायाः, मम गुरवः विद्वद्वर्याः गुरुप्रसादाचार्याः, न्यायादिशास्त्रेषु कृतभूरिपरिश्रमाः उमाकान्तभट्टमहोदयाः, मम गुरवः विद्वद्वर्याः रामविठलाचार्याः, दर्शनशास्त्रमर्मज्ञाः प्रो.पेन्ना मधुसूदनमहाभागाः, साहित्यशास्त्रमर्मज्ञाः लक्ष्मीनारायणभट्टाः, पूर्णप्रज्ञसंशोधनमन्दिरस्य निर्देशकाः नागसंपिगे आनन्दतीर्थाचार्याः, श्रौतस्मार्तकर्मानुष्ठानदक्षाः वंशीकृष्णघनपाठिनः, गोविन्दाचार्येभ्योवाप्तविद्याः द्वैतवेदान्तविशारदाः उडुपि रामनाथाचार्याः तथा चिप्पगिरि नागेन्द्राचार्याश्च, साहित्याद्यनेकशास्त्रमर्मज्ञाः हेच्.के. सुरेशाचार्याः, श्रौतसंप्रदायविदः प्रो.सुन्दरेश्वरन् महोदयाः, पूर्णप्रज्ञविद्यापीठस्य प्राचार्याः मम सहपाठिनः सत्यनारायणाचार्याः, योगशास्त्रे कृतभूरिपरिश्रमाः डा. जयरामन् महाभागाः, राष्ट्रियसंस्कृतविश्वविद्यालये द्वैतवेदान्तप्राध्यापकाः प्रो.नारायणाचार्याः, राष्ट्रियसंस्कृतविश्वविद्यालये न्यायप्राध्यापकाः
[[VII]]
प्रो.संपत्कुमाराचार्याः, गोविन्दाचार्यशिष्याग्रगण्याः विजयसिंहाचार्याः, बेलूरुमठस्थरामकृष्णमिशन् विवेकानन्दमानितविश्वविद्यालयीयसंस्कृतविभागा ध्यक्षाः जपसिद्धानन्दस्वामिनः, गोविन्दाचार्याणाम् अत्यन्तं प्रिया वाग्मिनः कृष्णराजकुत्पाडिमहोदयाः, रूप्यपीठपुरे द्वैतवेदान्तप्राध्यापकाः डा.षण्मुख हेब्बारमहोदयाः, केन्द्रीय-संस्कृतविश्वविद्यालयस्य जम्मुपरिसरस्थाः डा.
दयानाथमहोदयाः, व्यासतीर्थ-विद्यापीठस्य प्राचार्याः डा.श्रीनिधिप्याटिमहोदयाः, कविवर्याः वेंकटेशकुलकर्णिमहोदयाः, वाग्मिप्रवराः डा.श्रीहरिवाळवेकर महोदयाः, तन्त्रशास्त्रे कृतभूरिपरिश्रमाः कृष्णनूरित्तायमहोदयाः, ज्योतिष्यादि- शास्त्रमर्मज्ञाः रवीन्द्र हेर्गमहोदयाः, व्याकरणसाहित्यादिशास्त्रविद्वांसः राजकृष्णपेजत्ताय महोदयाः, वाजसनेयविद्वद्वर्याः जयपुरस्थाः डा. शम्भुकुमार- झामहोदयाः, द्वैतवेदान्तसाहित्यशास्त्रयोः कृतभूरिश्रमः मम प्रियः श्रेयःप्रसन्ना चार्यः, गोग्गि डा.सुशीलेन्द्राचार्यः गोविन्दाचार्यशिष्यपरंपराप्रविष्टा रावोपाख्या अनूषा इत्येते मयि प्रीत्या गोविन्दाचार्याणां संस्कृतकृतीः गहनमवलोक्य महता परिश्रमेण मदीयचोदनेन च स्वकीयान् अभिप्रायविशेषानत्र प्राचीकशन्।
तेन गोविन्दाचार्याणां शास्त्रेषु गभीरं पाण्डित्यं, परिश्रमः, सूक्ष्मेक्षिका, नूतनदृष्टिः इत्यादयो विषयाः सर्वगम्या भवन्ति। गुणी खलु गुणं वेत्ति, न तु निर्गुणस्तदन्वयः। विद्वांसश्चात्र स्वतन्त्राः गुणदोषचिन्तनविधौ। विद्वांसः खलु शाणा मणिगुणनिर्णये।
विदुषां साफल्ये खलु विद्वांसः प्रमाणम्। यथोक्तं कालिदासेन – ‘हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा’’ इति, ‘आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्’’ इति च॥
तदत्र विदुषां स्वतन्त्रेषु विचारेषु गुणदोषचिन्तनविधौ नाविद्वानधिक्रियते परिवादे परिचर्चायां च। भाव्यं च तैर्मूकैरेव। ते खलु गुणदोषचिन्तनसभायां
[[VIII]]
न शोभन्ते हंसमध्ये बका इव। तदत्र तूष्णींभावमास्थाय स्वकीयमेव स्थानमास्थातव्यमिति तेपि निवेद्यन्ते।
किंचात्र तदीयजीवनविषये एतद्वक्तव्यम्। बाल्यादारभ्य स्वतन्त्रविचार- प्रवृत्तिमानयं स्वपितृचरणेभ्यः अस्मद्गुरुभ्यो विद्यामान्यतीर्थेभ्यश्च चन्द्रिका दिग्रन्थानधिजगे। काले काले अस्मदाचार्याः विश्वेशतीर्था अप्यस्य ग्रन्थाधिगमे कारणभूता आसन्। एवं समधिगतव्युत्पत्तिः सन्नयं प्रायः अन्यान् गुरुमुखादनधीतान् तत्तच्छास्त्रीयग्रन्थान् स्वयमेवाभ्यास्यत्।
सर्वमेव वाङ्मयं हृदयेकार्षीत्। वाचोविधेयमासीद्भारतीयवाङ्मयमिति नूनं विद्यावाचस्पतित्वं स्थानेस्मिन्। वैदिकवाङ्मये पुराणेषु तन्त्रेषु काव्ये काव्यशास्त्रे व्याकरणे द्वैतप्रमेयशास्त्रे चास्याप्रतिहता गतिरासीत्।
आङ्ग्लादिभाषापरिचयः, पत्रकारिताक्षेत्रे कार्यानुभवः, मध्वाचार्य- रामानुजाचार्य-भगवद्गीतादिचलच्चित्रनिर्माणोपयुक्तकथा-संभाषणादि- निर्माणानुभवः, आधुनिककाव्यशास्त्रपरिचयः, आधुनिककविसंपर्कः, पाश्चात्त्यविद्वद्भिः सह संवादः, काम-संगीत-नाट्यादिशास्त्रपरिचयः इत्यादयो विशेषाः अस्य बहुप्रज्ञतायास्साक्षिभूता आसन्। ध्यानाभ्यासः योगशास्त्राभ्यासः इत्यादयः प्राणसूत्रादिप्रणयने कारणभूताः।
एतत्सर्वमेवातिरिच्य वैदिकवाङ्मयप्रचारासक्तिः, मध्वाचार्येषु भक्तिः, सर्वमूलग्रन्थानां व्याख्यानचातुर्यमिति गुणाः प्रधाना आसन्। अत एव प्रायः तदीयकृतिषु सर्वत्रैव मध्वाचार्यप्रभावः बाढं संलक्ष्यते। मध्वाचार्यान् विहाय अन्यत्किमपि तस्य नैवासीदिति नातिशयितोक्तिः। तदीया अत्यपूर्वा स्मृतिशक्तिः, निरूपणकौशलं वाक्पाटवं सर्वानेवाभिभवति स्म।
अत्रेदं विशिष्य वक्तव्यं तदीयहृषीकेशतीर्थीयपाठसंपादनविषये।
पलिमारुमठे श्रीहृषीकेशतीर्थलिखितः तालपत्रग्रन्थ आसीत्। तदनुसारेण
[[IX]]
मध्वाचार्यरचितसर्वमूलग्रन्थानां परिशोधनं करणीयमिति अखिलभारतमाध्व महामण्डलस्याभिलषितमासीत्। तत्कार्यं विहितं गोविन्दाचार्ये। स च तत्कार्यं सम्यङ्निरुवाहेत्यत्र नास्ति संशयलेशः। परन्तु हृषीकेशतीर्थीयतालग्रन्थे न सर्वेप्याचार्यग्रन्था आसन् गीताभाष्यादयः, ते च प्रतनतरमातृकाधारेण समशोध्यन्त। तत्रोपलब्धौ तिथिनिर्णयन्यासपद्धती अपि आचार्यग्रन्थावेवेति निरचिनोत्। स एव च मध्वाचार्याभिप्रेतः मूलपाठः अन्यस्सर्वोप्यपपाठ इति प्रायः पञ्चाशद्वर्षपर्यन्तमिममेव डिण्डिममाघोषयामास गोविन्दाचार्यः।
इदमेव तदीयजीवनस्य मुख्यं यशस्साधनमिति च मेने सः।
अयं च पाठः न जयतीर्थसंमतः, किन्तु पद्मनाभतीर्थादिपरसम्परया प्राप्त अन्य एव कश्चिन्मूलकोशः जयतीर्थोपयुक्त इति तद्ग्रन्थदर्शिनां स्पष्टम्, स्पष्टमेव च मया प्रतिपादितं मदीयलेखनेपि यत् हृषीकेशतीर्थीयत्वेन मुद्रितः पाठः जयतीर्थैः अपपाठत्वेन तिरस्कृत इति च।
किंच इदानीं यो मुद्रितः पाठः न स सर्वोपि जयतीर्थाभिमतः, न वा अन्येषां टिप्पण्यादिकृतां संमतः, लिपिकृत्प्रमादादिना अन्यस्यापि बहुलम् उपलम्भात्।
टीकाटिप्पण्यादिविमर्शेन शुद्धः पाठः अन्योऽस्ति इति स्पष्टमेव।
किंच हृषीकेशतीर्थीयपाठः लिपिकारेषु संभावितदोषग्रस्त एव। तत्र व्याख्याभागस्यादर्शनात्। परन्तु न जयतीर्थीयपाठस्तथा व्याख्यानत्वात्।
किंच हृषीकेशतीर्थीयपाठः अनेकत्र त्रिविक्रमपण्डिताचार्यपाठादपि भिद्यते एव। कथं तर्हि आचार्यसाक्षाच्छिष्यत्रिविक्रमपण्डिताचार्यव्याख्यावि रोधिनः मूलपाठत्वम्।
किंच हृषीकेशतीर्थीय-जयतीर्थीयपाठयोरयमेव भेदो दृश्यते यत् उदा- हरणवाक्यानि दीर्घान्युपलभ्यन्ते जयतीर्थीयपाठे प्रायः, न तथा हृषीकेश- तीर्थीये इति। क्कचिदेव तु प्रमेयभेद इति।
[[X]]
किंच तत्त्वसंख्याने स्वतन्त्रमस्वतन्त्रमित्येव ग्रन्थारम्भः जयतीर्थीये।
हृषीकेशतीर्थीये तु ‘रमाविरिञ्चशर्वादिशक्रादीतरसुक्रमम्। मुक्तौ चेदङ्गुणैः सर्वैर्यद्वशे नौमि तं हरिम्॥’ इति ग्रन्थारम्भः। परन्तु- प्रमेयनवमालिका- व्याख्याने तत्त्वसंख्यानस्य स्वतन्त्रपदेनैव ग्रन्थारम्भमुदाहृत्य तेनैव न्यायेन प्रमेयनवमालिकायामपि पृथङ्मङ्गलाभावो न दोषायेति वदन्तः रघुवर्यतीर्था एव गोविन्दाचार्यमुद्रिते हृषीकेशतीर्थीयत्वेन विभाविते रमाविरिञ्चेत्यादि- श्लोकयुक्तपाठे स्वासंमतिं समसूचयन्। गोविन्दाचार्यः खलु हृषीकेश- तीर्थीयाभावे तदनुसृत्य लिखितं रघुवर्यतीर्थीयमेव मूलकोशमवलम्ब्य पाठनिर्णयोद्यतः। तेन न तस्य प्रामाणिकता इति ज्ञायते।
तथापि अभ्युपेत्यापि गच्छामः हृषीकेशतीर्थीय एव मूलपाठोस्तु। अस्तु वा जयतीर्थादयः पाठेषु स्खलिता अपि। ते हृषीकेशतीर्थीयमज्ञात्वा यथोपलब्धमेव पाठं मूलपाठत्वेन स्वीकृत्य व्याख्या रचयामासुरिति कल्पनं तु कथंचिन्मनसि आरोहेदपि। दोषाणां मनुष्यस्वभावत्वात्। परन्तु- ‘भगवत्पादकृतानां सर्वमूलग्रन्थानां शुद्धप्रायः पाठ आचार्यगोविन्दोपज्ञ माविष्करणीय इति नियतिः। अत एव मूलपाठं स्वयं जानन्तोऽपि जयतीर्थव्यासतीर्थादयः तौळवमण्डले च वादिराजतीर्थादयः नाविश्चक्रुः।
प्रत्युत प्रचलितमेव पाठमाश्रित्य व्याचक्रुः’ (अस्मिन्नेव ग्रन्थे विजय- सिंहाचार्येणोल्लेखितं वचनम्) इति गोविन्दाचार्येण स्वमाहात्म्यप्रकटनोक्तिस्तु न केवलं स्वस्य, नापि केवलं जयतीर्थादीनां, अपि तु स्वतः मध्वाचार्यस्यापि विप्रलम्भकत्वं निरूपयति। तथाहि जयतीर्थादयः षड्भ्यः शतेभ्यो वत्सरेभ्यः अपपाठावलम्बनेन तज्जनितेन अशुद्धव्याख्यानेन च सज्जनान् व्यथयामासुः।
ते किमर्थं तथा अकार्षुरित्युक्ते ज्ञात्वाप्यपपाठं गोविन्दाचार्ययशोर्थित्वेन सज्जनान् विप्रलम्भयामासुरित्येवोत्तरं वक्तव्यम्। मध्वाचार्येच्छां विना एतादृशं निगूहनं न संभवति। मध्वाचार्योपि केन कारणेन तथैवेयेष इति
[[XI]]
प्रश्नस्यापि मध्वाचार्योपि गोविन्दाचार्ययशःख्यापनायैव एतावत्पर्यन्तं यस्य कस्यापि सज्जनस्य हस्ते शुद्धपाठो न गच्छेदितीयेष इत्येव वक्तव्यम्। कथं परमकारुणिकस्य मध्वाचार्यस्येदृशी निष्करुणता सप्तशतकपर्यन्तं सर्वे सज्जनाः क्लिश्येयुरिति। कथमहो विप्रलिप्सा मध्वाचार्यस्य जयतीर्थादीनां वा स्यादिति किंचिन्मात्रं वा बुद्धिमद्भिर्विचारणीयम्।
तदेवं यद्यपि हृषीकेशतीर्थीयः पाठः तैः महता श्रमेण संशोधितः, तथापि तत्र पाठे सर्वेषां न प्रामाणिकताबुद्धिरभूदिति तु निश्चप्रचम्। तत्र कारणमिदं, महानंशः हृषीकेशतीर्थीये नोपलब्ध आसीत् कालकवलितत्वेन। तद्यथा- गीताभाष्यं नोपलब्धम्, ऋग्भाष्यं कर्मनिर्णयाख्यः खण्डार्थनिर्णयश्च तथा।
भागवततात्पर्यं तथा। कृष्णामृतमहार्णव-तन्त्रसारसंग्रह-यतिप्रणवकल्प- जयन्तीनिर्णय-न्यासपद्धति-तिथिनिर्णायाख्याश्चाचारग्रन्था नोपलब्धाः।
तदेवं भागशोऽप्युपलब्धेषु ग्रन्थेषु लिपिकृत्प्रमादादिकमविगणय्यायमेव मूलपाठः, अन्ये सर्वेप्यपपाठा एवेति निर्णयस्सर्वथा असाधुरेव।
किंच प्राचीनकोशा इति प्रतनकोशा इति च बहुधा निर्दिष्टेष्वपि कोशेषु कस्मिन् कोशे कः पाठः इति कोशनाम्नां विशिष्य निर्देशाभावेन सर्वस्यास्य प्रामाणिकायां संदेहो जायते।
मया 2003 वर्षे एवैते विचाराः पृथगेव मुद्राप्य गोविन्दाचार्याणां सकाशे प्रेषिताः कड्डिबदरीनारायणाचार्यद्वारा। ते तु सर्वमिमं मदीयलेखं पठित्वा वीरनारायणो बुद्धिमान् इत्युक्त्वा तूष्णीं बभूवुरिति बदरीनारायणाचार्याः मामवोचन्।
पूर्वे वयसि अन्ये सर्वे बभ्रमुरिति लिखितवानाचार्यः चरमे वयसि ‘तेषां सर्वेषां क्षमामभ्यर्थ्य’ इति तत्त्वप्रदीपोपोद्घाते व्यलिखदिति परिणतिं सूचयति।
[[XII]]
अस्त्वेतद्यथातथा। एकमात्रदोषस्य गुणसमुदयनिमग्नस्य नास्मदक्षि- प्रतिबन्धकता भवेदिति न्यायेन गोविन्दाचार्यस्य मध्वाचार्याणां विषये श्रद्धातिशयेन महती तदीयसेवा विहिता न त्वन्यस्य यस्य कस्यापि भाष्यकारस्येति माननीय एवायं गोविन्दाचार्योस्माकम्। बहवः खलु निष्पक्षपाताः पण्डिताः तदीयग्रन्थस्थस्य सर्वस्याङ्गीकारे अनुत्सुका अपि तदीय-ग्रन्थस्थान् कांश्चन वा विषयान् स्वीकुर्वन्त्येवेति न तिरोहितम्।
अन्यैरस्पृष्टेषु बहुषु विषयेषु गोविन्दाचार्येण स्पृष्टेषु किं वा अनेन लिखितमित्येकवारं वा परामर्शं नूनं कुर्युरेव कृतधियोपि। अङ्गीकुर्युः सर्वं नाङ्गीकुर्युर्वा। सूक्ष्मेक्षिका तु तस्य सर्वैरङ्गीकार्यैव।
सर्वथा गोविन्दाचार्यस्य लेखनशैली वाग्धोरणी चेति द्वे अपि समन्ततो मध्वमतप्रसारे विशिष्य कारणभूते अभूतामिति सर्वैरङ्गीकरणीयमेव।
तदीयग्रन्थोपजीविनामस्माकं तदीयमर्हणमपि कर्तव्यमेवेति कार्ये प्रवृत्तोहम्।
तद्विषये मदीयः गौरवविशेषः, तथा मद्विषये तस्याचार्यस्य स्नेहविशेषोपि अत्र कारणमेवेति न पृथग्वक्तव्यम्। यद्यपि बहोः कालाद्बहिःस्थोहमभूवम्।
तस्माद्बेङ्गळूरुनगरे तेन सह मेलनं दुर्लभमेवासीत्। तथापि न मां व्यस्मरदाचार्यः। यदाकदाचिन्मां स्मरति स्मेति अनिलाचार्यः मामूचे।
कदाचिदमेरिकादेशेपि कारणान्तरेण मां सस्मारेति ममाग्रजः सेतुरामोवादीत्।
2012 वर्षे तं मां चैकस्मिन्नेव मञ्चे उपवेश्य सममानयन् मल्लेपुरं वेंकटेशवर्याः तदानीन्तनकुलपतयः। बेङ्गळूरुनगरेपि पुनरागतोहं तमपश्यं मदग्रजेन पाण्डुरङ्गाचार्येण अनिलाचार्येण च सह। मध्ये तु क्कचन केनापि तत्कृतेन खिन्नोहं न तमपश्यम्। अन्ते तु तद्दर्शनं अस्माकं विश्वविद्यालये दीक्षान्तोत्सव समये तस्मै डि.लिट् उपाधिदानसंदर्भे आसीत् इति मदीयस्तेन संबन्धः। अहं च भिन्नमेव पन्थानमनुसरामि वेदव्याख्याविषये, तथापि नूनमेवानन्दिष्यन् मदीयां विष्ण्वर्चनां दृष्ट्वा यद्ययमजीविष्यत् अद्येत्यपि निश्चप्रचम्।
[[XIII]]
इदमिह विशिष्य वक्तव्यम्- स तु प्रतिभाविशेषसंपन्न आसीत्। बाल्यादेव स्वच्छन्दप्रवृत्तिरध्ययननियतिनन्यसाधारणो विपश्चिच्चासीत्। परन्तु अग्रे तेन कथं जीविका निर्व्यूढेति न विस्मर्तव्यम्। न खलु आचार्यः सर्वथा कुत्रचित् विद्यालये मठे विश्वविद्यालये वा अध्यापनवृत्तिमधिजगाम सकारणमेव। न वा केनापि तथा नियुक्त्यायासोपि विहितः। किन्तु उदयवाणि इत्याख्यदिन पत्रिकायां विशेषाङ्कसंपादकरूपेण जीविकां समपादयदाचार्यः बहुवर्षपर्यन्तम्।
यद्यपि तत्कार्यालयाधिकृतैः ससंमानं सस्वातन्त्र्यं च स नियुक्तः, तथापि तत्र तत्कार्येष्वन्यतमदासीत् गासिपलेखनं नटनर्तकादीनां विषये। अहो कीदृशी पाण्डिती, कीदृशी जीविका। कीदृशी दुर्दशा पण्डितानामस्मद्देशे।
न कोपि तं विश्वविद्यालयादिषु नियोक्तुमियेष। नापि गोविन्दाचार्यस्तथेयेष स्वातन्त्र्य-भङ्गभिया। तदुत्तरकाले भागवतभगवद्गीताद्युपदेशेन जीविकां जनप्रियतां च समपादयदाचार्यः। तदिदं कष्टं सुखं च। यदि कोपि तस्मै स्वतन्त्रां वृत्तिमदास्यत तर्हि तदीयं पाण्डित्यकर्म निर्विघ्नमभविष्यत्। इतोपि दीर्घाः कृतयः भागवतादिव्याख्यानानि च अकारिष्यन्त। नागराज राव् महोदयानां ‘यदि तैः स्वतन्त्रं काव्यं संस्कृतभाषायां अरचयिष्यत तर्हि तत् कुमारसंभवेन नैषधीयचरितेन सहास्पर्धिष्यत’ इति दुःखोद्गारस्यावकाशः नाभविष्यच्च। अहो दैवदुर्विपाकः। तदेतद्देशस्यास्य दौर्भाग्यमिदानीमप्य स्मादृशाः अपि असदृशे स्थाने नियुक्ताः मूर्खाणां सेवां विधाय स्वायुः कदर्थीकुर्म इति। नैतादृशी स्थितिरवालोकयिष्यत यद्ययममेरिकादिदेशेषु उदपत्स्यत इति चेखिद्यते चेतः। परन्तु न ते देशाः एतादृशस्य प्रगतस्य अाचार्यस्योत्पत्तिस्थानतां यान्तीत्यपि निश्चप्रचमेव विदुषाम्।
तदत्र मां प्रेरितवन्तं मल्लेपुरं वेंकटेशमहोदयं अस्मत्कुलपतिमहाभागाम् अहल्यावर्यां विशिष्यास्मिन् सहकृतवन्तम् अस्मन्मित्रमणिं प्रो.नारायणाचार्यं च स्मरामि। तथा मुद्रणकार्यनिर्वहणेन मामधमर्णीकुर्वन्तं डा.सुशीलेन्द्राचार्य- गोग्गिमहोदयं विद्वांसं अार्. सुदर्शनाचार्यं च एवमाकर्षकतया मुखपुटविन्यासं कृतवन्तं कार्तीक जोषी महाभागं भगवाननुगृह्णातु कृष्णाख्य इति संप्रार्थ्य विरमामि।
संपादकविद्वद्गणप्रतिनिधिः आचार्यः वीरनारायणः पाण्डुरङ्गी वेदान्तनिकायाध्यक्षः कर्नाटकसंस्कृतविश्वविद्यालयः
[[XV]]