०१ कुलपतिवचांसि

विद्वत्कुलतिलकभूताः भारतसर्वकारेण ‘पद्मश्रीः’ इति बिरुदेण पुरस्कृताः बन्नञ्जे गोविन्दाचार्याः न केवलं माध्ववेदान्ते प्रसिद्धाः विद्वांसः, अपि तु षडङ्गसहिते वैदिकसाहित्ये, इतिहासपुराणेषु, भारतीयदर्शनेषु, तन्त्रविद्यासु, आधुनिकसाहित्ये, कलासु, कन्नडसाहित्ये, पाश्चात्य दर्शनेषु च पारङ्गताः विरला एव एतादृशाः विद्वांसः। एतेषां शास्त्रज्ञानं विशिष्टं विचारजनितं निष्कृष्टञ्च।

बन्नञ्जे गोविन्दपण्डिताचार्याः यथा ग्रन्थनिर्माणे असदृशाः तथा प्रवचन- कर्मणि अपि सुप्रसिद्धाः। जिज्ञासुजनचित्तहारिणी प्रवचनशैली तेषाम्। देश- विदेशेषु विद्यमानास्तदनुयायिनः तत्वशास्त्रबुभुत्सवः अन्तर्जालमाध्यमेन, आचार्याणां प्रवचनं श्रुत्वा इदानीमपि भक्तिमार्गगाः दृश्यन्ते। नास्तिकानपि अास्तिकमार्गे प्रवर्तयन्ती तदीयवाग्धोरणी अासीत्।तदीयवाचां श्रवणमात्रेण भक्तिभावः श्रोतृमनस्सु जागर्ति स्म इत्यत्र नास्तिसंशयलेशः।

एतादृशानां महतां विद्वद्वराणां बन्नञ्जे गोविन्दपण्डिताचार्याणां संस्कृत- कृतयः बह्व्यः विराजन्ते। तासां कृतीनां वैशिष्ट्यम् आचार्याणां वैदुष्यञ्च अवश्यमेव विद्वल्लोके प्रकाशनीयमिति अयं गोविन्दालोकः कर्णाटकसंस्कृत विश्वविद्यालयेन प्रकाश्यते इतीदमस्माकं भागधेयम्। ग्रन्थोऽयं राष्ट्रिय- अन्ताराष्ट्रियस्तरे विख्यातानां विदुषां लेखैः समलङ्कृतः। सम्पादकान् प्रो.

मल्लेपुरम्.जि. वेङ्कटेशमहाभागान् आचार्य वीरनारायण पाण्डुरङ्गीमहाभागान् तथा आचार्य नारायणमहाभागान् च अभिनन्दामि ।

प्रो.अहल्या. एस्

कुलपतिः,

कर्नाटकसंस्कृतविश्वविद्यालयः

[[IV]]