+रामानुजः

  • a lion of the विशिष्टाद्वैत school; author of श्रीभाष्य, deemed to be आदिशेष himself.
  • हारीतगोत्रः आसूरिवंश्यः आन्ध्रकप्रायस्य श्रीकेशवसोमयाजिनः तनूजः, परं मातृपक्षे-द्राविडीयः । दिव्यसूरीणां द्राविडगाथासु आचार्यः निष्णातः (तिरुप्पावै जीयर् इति प्रसिद्धिः) ।

परम्परा-विषयो ऽन्यत्र द्रष्टव्यः।

प्रसिद्धनामानि

  • रामानुजः, लक्ष्मणः, इळय्-अवन्+++(=अनुजः)+++ /आऴ्वन् - मातुलेन श्री-शौल-पूर्णेन दत्तानि।
  • यति-राजः - सन्न्यास-स्वीकारे काञ्ची-देवराजेन दत्तम्।
  • ऊडैयवार् - श्रीरङ्गदेवेन दत्तम् - उभय-विभूति-युक्त इत्य् अर्थे।
  • ऎम्-पॆरुमानार् - गोष्ठीपूर्णेन मन्त्रार्थकथने तद्-औदार्येण विस्मितेन दत्तम्।

सारविरुद्धे ऽत्याचारे विरोधः

  • चौक्षताचारानुसरणे (<–“मडि”) तत्पत्न्या रामानुजविरोधः प्रसिद्धः। तस्याः प्रातिकूल्यात् अपि सन्न्यासं स्वीकृतवान् इति केचित्।
  • वैश्योच्चिष्टभोजने रामानुजार्यस्य वाञ्छावर्ततेति श्रूयते। नैवम् - पात्रे शिष्टस्यैव भोजने वाञ्छावर्ततेति केचित्। काञ्ची-पूर्ण-विषये भगवतो वरदराजस्य कृपाविशेषं ज्ञात्वा तस्मिन् गौरवं कृतम् इति केचित्। “Though as per tenkalai tradition, even echil of nimna varna acharya is bhojya only. Whereas as per vadakalai it is restricted to brahmana acharya - For the rest it is only sesha in the pAtra.”

रहस्य-मन्त्रप्रकाशनम्

देवायतन-शिखरम् आरुह्य मन्त्ररहस्यप्रकाशनम् प्रसिद्धम्। मन्त्रार्थज्ञानविषये शृङ्गाटकात् भक्तान् आहूतवन्तः इति केचित्।

प्रजाः

अपत्यानि नैवासन्न् अस्येति सम्प्रदायः। आयी-जनन्याचार्य इति केचित्।

विंशतिवर्ष एव सन्न्यस्तः ।