श्रुत-प्रकाशिकाचार्याः- सुदर्शनसूरयः

विस्तारः (द्रष्टुं नोद्यम्)

गद्यत्रय-यदुगिरि-प्रस्तावात्

जन्म

एते च श्रुत-प्रकाशिकाचार्याः श्री-रङ्ग-क्षेत्रे कृतावताराः ।
क्रिस्ताब्दे १३ तेषां जीवितकालः ।
एते हारित-गोत्र-लब्ध-जन्मानः ।

तात-पादा एतेषां वाग्-विजयि-भट्टर्-नामानः ।
एतेषां पितामहाः वेद-व्यास-भट्टर् ।
भगवद्-रामानुजाचार्याणां प्रधान-अन्तरङ्ग-शिष्यस्य श्री कूरेशस्य (कूरत्ताळ्वान्) प्रपौत्राः
एते श्रुत-प्रकाशिकाचार्याः ।

एते सुदर्शन-भट्टर्, सुदर्शन-सूरिः, व्यास-भट्टर्, टीकाचार्यः, इत्यादि नाम-धेयैः प्रख्याताः ।

आचार्यः

तेषां आचार्याः तावत् वात्स्य-वरदाचार्याः नडादूरम्माळ् इति द्राविडभाषायां प्रसिद्धाः ।
भगवद्-रामानुजार्यैः स्थापितेषु चतुस्-सप्ततौ सिंहासनेषु अन्यतमस्य श्रीभाष्यपीठस्य अधिपतयश्च ।
एतेषां सविधे श्रुतप्रकाशिकाचार्याः श्रीभाष्यादि ग्रन्थान् अधीतवन्तः ।
आचार्य-मुखेन बहु-वारं श्री-भाष्य-काल-क्षेपं श्रुत्वा
यथाश्रुतं तथैव विलिख्य रक्षितवान् ।
अत एव एतेषां नाम ‘श्रुतप्रकाशिकाचार्यः’ इति विख्यातम् ।
तद्ग्रन्थः ‘श्रुतप्रकाशिका’ इत्येव प्रसिद्धाभूत् ।

तस्मै रामानुजार्याय
नमः परमयोगिने ।
यः श्रुति-स्मृति-सूत्राणां
अन्तर्-ज्वरम् अशीशमत् ॥
वन्देऽहं वरदार्यं तं
वत्साभिजन-भूषणम् ।
भाष्यामृत-प्रदानाद् यः
सञ्जीवयति माम् अपि ॥

इति श्रुतप्रकाशिकाग्रन्थारम्भे परमगुरून् भगवद्-रामानुजाचार्यान्
तथा स्वगुरून् वात्स्य-वरदार्यान् नमस्कृतवन्तः ।

ग्रन्थाः

एतैः अनुग्रहीताः ग्रन्थाः

  • १. श्रुतप्रकाशिका
  • २. श्रुतप्रदीपिका
  • ३. तात्पर्यदीपिका वेदार्थसङ्ग्रहव्याख्या
  • ४. सुबालोपनिषद्-वृत्तिः
  • ५. शरणागति-गद्य-व्याख्या (इतर-गद्य-द्वयस्य व्याख्या लुप्ता)
  • ६. नित्य-ग्रन्थ-व्याख्या
  • ७. शुक-पक्षीयम् (भागवत-व्याख्या-ग्रन्थः)
  • ८. सन्ध्या-वन्दन-भाष्यम्
  • ९. प्रार्थना-पञ्चकम्
  • १०. मुक्तक-श्लोकाः
  • ११. पञ्च-स्तवादि-व्याख्या (लुप्तः)

इत्याद्यनेके ग्रन्थाः ।

शिष्याः

एतेषां सविधे श्री-पिळ्ळै-लोकाचार्याः, श्री वेदान्ताचार्याः, ईयुण्णि-पद्मनाभाः इत्यादि महाचार्याः
श्रीभाष्यादीन् अधीतवन्ताः ।

पूर्वाचार्यैः परिरक्षित-श्रीरङ्गक्षेत्रं, श्रीरङ्गनाथ-कैङ्कर्यञ् च
तथा श्रीभाष्यादि प्रमाण-ग्रन्थान् सम्यक् परिपोषितवन्तः एते ।
एतेषां कालानन्तरं तुरुष्क-यवनाद्य्-आक्रमण-काले
श्रीपिळ्ळै-लोकाचार्येण
प्रमेयं श्रीरङ्गनाथ-दिव्य-मङ्गल-विग्रहं,
तथा श्रीवेदान्ताचार्येण प्रमाणं श्रुत-प्रकाशिकां परिरक्ष्य
उपकृतवन्तः ।

श्री श्रुत-प्रकाशिकाचार्यस्य तनियन् (स्तुतिः)

‘यतीन्द्रकृतभाष्यार्थाः
यद्व्याख्यानेन दर्शिताः ।
वरं सुदर्शनार्यं तं
वन्दे कूरकुलाधिपम्’ ॥

इति ।