+कूरेशः

  • काञ्ची-समीपस्थ-कूर-ग्रामोद्भवः। भागवतः। रामानुजशिष्यः। ग्रन्थकृत्। अपरिग्रही।
  • पत्नी आण्डाळ्।
  • पुत्रौ वेदव्यासभट्टः, पराशर-भट्टश् च।

पराशर-भट्टः

प्रसिद्धो ग्रन्थकृत्। भागवतः। उत्तमः कविः।

यस् संस्कृत-कवितायां
प्रौढिम्नान्वेति कूरनाथ-सुतम् +++(=पराशरभट्टम्)+++।
द्रामिड-कविता-मार्गे
परकालं+++(=तिरुमङ्गैयाल्वार्)+++ वाथ भक्तिसारं+++(=तिरुमलिशै आल्वार्)+++ वा ॥ 19 ॥

इति वेदान्तदेशिकम् अधि प्रतिवादिभयङ्करः।

ऎम्बार्-गोविन्दाचर्यत्वम्

एकादशे ऽहनि ऎम्बार्-गोविन्दः वेदव्यास-पराशराभ्यां द्वयमन्त्रम् उपादिशद् इति श्रूयते।

आनीयतामित्येव आचार्यस्य आदेशः, उपदेशः स्वेनैव कृत इति।
आचार्येणापि अनन्तरमेव अवगतम् उपदेशः कृत इति।
“कथं श्रीवैष्णवगन्ध” इत्यपृच्छत् आचार्यरामानुजः।
उपदिष्टो मनुरिति उत्तरमासीत्।
तदनन्तरमेव त्वमेव आचार्यो भवेति आज्ञा समभवत्।
अतो विनैव आज्ञाम् आचार्यस्संवृत्त इति।