इन्द्राय त्वा

इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣳ श्रीणामि ।

तेजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुख॑म् ।
तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।

ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । ओज॑स्वदस्तु मे॒ मुख॑म् ।
ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
ओज॑सा॒ सम्पि॑पृग्धि मा ।

पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुख॑म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ।

आयु॑रसि । तत्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुख॑म् ।
आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान् वि॒श्वतः॑ प्र॒त्यङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।