अग्निना विश्वषाट्

०८ इन्द्रतन्वाख्येष्टकोपधानम् ...{Loading}...

अग्निर्ऋषिः

सायणोक्त-विनियोगः

सप्तमेऽनुवाके भूयस्कृदाद्या इष्टका उक्ताः ।
अथाष्टम इन्द्रतन्वाख्या इष्टका उच्यन्ते ।
कल्पः—“अग्निना विश्वाषाडिति द्वाविंशतिमिन्द्रतनूः” इति।

मूलम् (संयुक्तम्)

अ॒ग्निना॑ विश्वा॒षाट्थ्सूर्ये॑ण स्व॒राट्क्रत्वा॒ शची॒पति॑र्ऋष॒भेण॒ त्वष्टा॑ य॒ज्ञेन॑ म॒घवा॒न्दख्षि॑णया सुव॒र्गो म॒न्युना॑ वृत्र॒हा सौहा᳚र्द्येन तनू॒धा अन्ने॑न॒ गयᳶ॑ पृथि॒व्यास॑नोदृ॒ग्भिर॑न्ना॒दो व॑षट्का॒रेण॒र्द्धस्साम्ना॑ तनू॒पा वि॒राजा॒ ज्योति॑ष्मा॒न्ब्रह्म॑णा सोम॒पा गोभि॑र्य॒ज्ञन्दा॑धार ख्ष॒त्रेण॑ मनु॒ष्या॑नश्वे॑न च॒ रथे॑न च व॒ज्र्यृ॑तुभिᳶ॑ प्र॒भुस्स॑व्ँवथ्स॒रेण॑ परि॒भूस्तप॒साना॑धृष्ट॒स्सूर्य॒स्सन्त॒नूभिः॑ ॥
[24]
(अथ चतुर्थकाण्डे चतुर्थप्रपाठके अष्टमोऽनुवाकः )।

विश्वास-प्रस्तुतिः

अ॒ग्निना॑ विश्वा॒षाट्त् +++(=विश्वसहकः)+++ +++( त्वमसि)+++।

मूलम्

अ॒ग्निना॑ विश्वा॒षाट्।

सायण-टीका

२०८५ पाठस्तु— अग्निना विश्वाषाडिति ।
विश्वं सहते तत्पालनप्रयासमङ्गी करोतिति विश्वाषाट् ।
अग्निना सह विश्वापाष्ठ्य इन्द्रो हे इष्टके तद्रूपा त्वमसि ।
एवं सर्वत्र योज्यम् ।

विश्वास-प्रस्तुतिः

सूर्ये॑ण स्व॒राट् +++( त्वमसि)+++।

मूलम्

सूर्ये॑ण स्व॒राट्।

सायण-टीका

सूर्येण सह स्वतो राजत इति स्वराडिन्द्रः ।

विश्वास-प्रस्तुतिः

क्रत्वा॒ शची॒पतिः॑ +++( त्वमसि)+++।

मूलम्

क्रत्वा॒ शची॒पतिः॑ +++( त्वमसि)+++।

सायण-टीका

क्रत्वा ज्योतिष्ठोमादिप्रौढकर्मणा सहितः शच्या देव्याः पतिरिन्द्रः ।

विश्वास-प्रस्तुतिः

ऋ॒ष॒भेण॒+++(=वर्षितृधर्मेण)+++ त्वष्टा᳚ +++( त्वमसि)+++।

मूलम्

ऋ॒ष॒भेण॒ त्वष्टा᳚ +++( त्वमसि)+++।

सायण-टीका

ऋषभेण वर्षित्रा धर्मेण वर्षित्रा धर्मेण सह त्वष्टा रूपकृदिन्द्रः।

विश्वास-प्रस्तुतिः

य॒ज्ञेन॑ म॒घवान्॑ +++( त्वमसि)+++।

मूलम्

य॒ज्ञेन॑ म॒घवान्॑ +++( त्वमसि)+++।

सायण-टीका

यज्ञेनाल्पेन पाकयज्ञेन सहितो मघवानन्नवानिन्द्रः ।

विश्वास-प्रस्तुतिः

दख्षि॑णया सुव॒र्गः +++( त्वमसि)+++।

मूलम्

दख्षि॑णया सुव॒र्गः +++( त्वमसि)+++।

सायण-टीका

दक्षिणया गावदिरूपया सुवर्गः स्वर्गलोकात्मक इन्द्रः ।

विश्वास-प्रस्तुतिः

म॒न्युना॑ वृत्र॒हा +++( त्वमसि)+++। ।

मूलम्

म॒न्युना॑ वृत्र॒हा +++( त्वमसि)+++। ।

सायण-टीका

मन्युना क्रोधेन सह वृत्रहा शत्रुघातीन्द्रः ।

विश्वास-प्रस्तुतिः

सौहा᳚र्द्येन तनू॒धाः +++( त्वमसि)+++।

मूलम्

सौहा᳚र्द्येन तनू॒धाः +++( त्वमसि)+++।

सायण-टीका

सुहृदो भावः सौहार्द्यं स्नेहातिशयस्तेन सहितस्तनूवाः शरीरधारीन्द्रः ।

विश्वास-प्रस्तुतिः

अन्ने॑न॒ गयः॑ +++(=गृहविशेषः)+++ +++( त्वमसि)+++।

मूलम्

अन्ने॑न॒ गयः॑ +++( त्वमसि)+++।

सायण-टीका

अन्नेन सहितो गयो गृहविशेषरूप इन्द्रः।

विश्वास-प्रस्तुतिः

पृ॒थि॒व्याऽस॑नोत् +++(=ऽददात्)+++।

मूलम्

पृ॒थि॒व्याऽस॑नोत्।

सायण-टीका

पृथिव्या सहासनोद् द्रव्यादिदानं कृतवान् इन्द्रः ।

विश्वास-प्रस्तुतिः

ऋ॒ग्भिर् अ॑न्ना॒दः +++(=अन्नभक्षकः)+++ +++( त्वमसि)+++।

मूलम्

ऋ॒ग्भिर॑न्ना॒दः+++( त्वमसि)+++।

सायण-टीका

ऋग्भिर्मन्त्रविशेषैः सहितोऽन्नादो हविर्लक्षणस्यान्नस्य भोक्तेनद्रः ।

विश्वास-प्रस्तुतिः

व॒ष॒ट्का॒रेण॒र्धः +++( त्वमसि)+++।

मूलम्

व॒ष॒ट्का॒रेण॒र्धः +++( त्वमसि)+++।

सायण-टीका

वषट्कारेण हविष्प्रदानेन हेतुना सह ऋद्धः समृद्ध इन्द्रः ।

विश्वास-प्रस्तुतिः

साम्ना॑ तनू॒पाः+++( त्वमसि)+++।

मूलम्

साम्ना॑ तनू॒पाः+++( त्वमसि)+++।

सायण-टीका

साम्ना गीयमानेन मन्त्रेण सह तनूपाः शरीरपालक इन्द्रः ।

विश्वास-प्रस्तुतिः

वि॒राजा॒ +++(छन्दसा)+++ ज्योति॑ष्मान् +++( त्वमसि)+++।

मूलम्

वि॒राजा॒ ज्योति॑ष्मान् +++( त्वमसि)+++।

सायण-टीका

विराजा दशाक्षरच्छन्दसा सह ज्योतिष्मान्प्रकाशवानिन्द्रः ।

विश्वास-प्रस्तुतिः

ब्रह्म॑णा सोम॒पाः +++( त्वमसि)+++।

मूलम्

ब्रह्म॑णा सोम॒पाः +++( त्वमसि)+++।

सायण-टीका

ब्रह्मणा मुख्येन क्रत्विजा मन्त्रेण वा सह सोमपाः सोमपानस्य कर्तेन्द्रः ।

विश्वास-प्रस्तुतिः

गोभि॑र् य॒ज्ञन् दा॑धार,
क्ष॒त्रेण॑ मनु॒ष्या॑न्॥

मूलम्

गोभि॑र् य॒ज्ञन्दा॑धार
ख्ष॒त्रेण॑ मनु॒ष्या॑न् ।

सायण-टीका

गोभिर्दक्षिणारूपाभिः सह यज्ञं दाधार यज्ञधारक इन्द्रः ।

विश्वास-प्रस्तुतिः

+++(स)+++ अश्वे॑न च॒ रथे॑न च व॒ज्र्य्,
ऋ॑तुभि॑ᳶ प्र॒भुस्,
सँ॑व्वत्स॒रेण॑ परि॒भूस्,
तप॒सा ऽना॑धृष्ट॒स्,
सूर्य॒स् सन्त॒नूभिः॑ ॥

मूलम्

अश्वे॑न च॒ रथे॑न च व॒ज्र्यृ॑तुभिᳶ॑ प्र॒भुस्स॑व्ँवथ्स॒रेण॑ परि॒भूस्तप॒साना॑धृष्ट॒स्सूर्य॒स्सन्त॒नूभिः॑ ॥

सायण-टीका

योऽयमश्वो यश्च रथस्ताभ्यामुप्राभ्यां सह वज्री वज्रयुक्त इन्द्रः ।
ऋतुभिर्वसन्तादिभिः सह प्रभुः फलदानसमर्थ इन्द्रः ।
संवत्सरेण कालरूपेण सह परिभूः परितो व्याप्तवानिन्द्रः ।
तपसाऽशनवर्जनधनदानादिरूपेणानाधृष्टः केनाप्यतिरस्कृत इन्द्रः ।
तनूभिर्द्वादशमूर्तिभिः सह सूर्यः सन्सूर्यरूपो भूत्वेन्द्रो वर्तते ।
हे इष्टके तद्रूपा त्वमसि ।

सायणोक्त-विनियोगः

एतैर्मन्त्रैः साध्यमुपधानं विधत्ते– “देवासुराः संयत्ता आसन्ते न व्यजयन्त स एता इन्द्रस्तनूरपश्यत्ता उपाधत्त ताभिर्वै स तनुवामेन्द्रियं वीर्यमात्मन्नधत्त ततो देवा अभवन्पराऽसुरा यदिन्द्रतनूरुपदधाति तनुवमेव ताभिरिन्द्रियं वीर्यं यजमान आत्मन्धत्तेऽथो सेन्द्रमेवाग्निꣳ सतनुं चिनुते भवत्यात्मना पराऽश्य भ्रातृव्यो भवति” (सं. का. ५ प्र. ४ अ. १) इति।
२०८६ देवानामसुराणां च संग्रामे प्राप्तो दुर्बला देवा विजयं न प्राप्ताः।
तदानीं विजयाय स इन्द्र एतास्तनूनामिका इष्टका दृष्ट्वा तदुपधानेन शरीरपुष्टिमिन्द्रिय पाटवं च धृतवान् ।
ततो देवानां जयोऽसुराणां पराभवश्चाऽऽसीत् ।
ततो यजमानोऽपीन्द्रतनूनामुपधानेन तथाविधो भवति ।
विश्वाषाडित्यादिशब्दा इन्द्रतनूविशेषवाचकाः । तद्युक्तेर्मन्त्रैरुपधेया इष्टका इन्द्रतनवः ।
अत्र विनियोगसंग्रहः अग्नीन्द्रतनुनामानो द्वाविंशतिरितीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ ८॥

चतुर्थकाण्डे चतुर्थप्रपाठके नवमोऽनुवाकः