स्वादोरित्था

स्वादोरित्था ...{Loading}...

ऋक्

संहिता

ऋग्वेदः १.८४.१०
ऋषिः गोतमो राहूगणः
देवता इन्द्रः
छन्दः पंक्तिः

19_0409 स्वादोरित्था विषूवतो ...{Loading}...

स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣ओयः꣢꣯। या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥ 19:0409 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

स्वा॒दोरि॒त्था+++(त्थं)+++ वि॑षू॒वतो॒+++(=वि+सू+शतृँ)+++
मध्वः॑+++(=मधुरस्य)+++ +++(इन्द्रपीतशेषस्य सोमस्य)+++ पिबन्ति +++(वर्णेन)+++ गौ॒र्यः॑ +++(गावः)+++ । या इन्द्रे॑ण स॒याव॑री॒र्+++(=सह यान्त्यो)+++ +++(काम-)+++वृष्णा॒
मद॑न्ति शो॒भसे॒ +++(पयोदानेन)+++ वस्वी॒र्+++(=निवासदात्र्यः)+++ अनु॑ +++(इन्द्रस्य)+++ स्व॒राज्य॑म् ॥

पदपाठः

स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ । याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥

विस्वरपाठः

स्वादोरित्था विषूवतो मधोः पिबन्ति गौओयः। या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ।।409 ।।

साम

ऋषभशाक्वरम् ॥
ओ,ओ+++([])+++ओम् ॥ त्रिः ॥
स्वा+++([])+++,दो, रे, इद्थाए, विषू,एवा,,ताआ ।
शङ्+++([])+++योः ॥ द्विः ॥
म+++([])+++धोरे, पिबाएं,ति गॊ,एरी,इ,,य्याआ ।
ह्या+++([])+++विः॥ द्विः ॥
या+++([])+++आ, एंद्रे,णा+++([])+++ए, सया,एवा,,रीया ।
सु+++([])+++वः ॥ द्विः ॥ वृ+++([])+++ष्णाए,, मदाएं,ति शो,ए,भा+++(बा)+++था,आआ ।
ज्यो+++([])+++,तिः ॥ द्विः ॥
व+++([])+++स्वीरे, अनूए। स्वरा,एजी,यामा।
ओ+++([])+++,ओओम् ॥ द्विः ॥
ओ+++([])+++,: ओओ, ओ । वा+++([])+++अ । इ+++([])+++टीइडाअ ॥ ७ ॥