राम-नक्षत्र-माला

॥ श्रीरामनक्षत्रमालास्तुतिः ॥

शिष्टानुग्रहदुष्टशिक्षणकृते ब्रह्मादिभिः प्रार्थितः
सञ्जातो धरणीतले रविकुलेऽयोध्यापुरीभाग्यतः ।
कौसल्यासुकृतोदयात् दशरथस्यापत्य-कामेष्टितः
श्रीरामः शरणं ममास्तु सततं मायाकिशोरो हरिः ॥१॥

नीतः कौशिक-नन्दनेन विपिने संहृत्य सुन्द-प्रियां
संगृह्याद्भुतम् अस्त्र-शस्त्र-निवहं विद्राव्य तस्याः सुतम् ।
योऽतानीन् मख-रक्षणेन च मुनेः सिद्धाश्रमं सार्थकं
श्रीरामः शरणं ममास्तु सततं बालाकृतिः सानुजः॥२॥

संशुद्धां पथि गौतमप्रियसखीं नत्वा विदेहान् गतो
विश्वामित्रकथामृतं मुनिशतानन्देन सङ्कीर्तितम् ।
श्रुत्वा विस्मितमानसो जनकराडातिथ्यसमानितः
श्रीरामः शरणं ममास्तु सततं सौन्दर्यसारो वटुः ॥३॥

यस्यासीदतिमानुषं स्मयकरं देवासुराणामपि
प्रावीण्यं त्रिपुरान्तकस्य धनुषः सन्तोलने भञ्जने ।
हेतुः श्रीजनकात्मजापरिणये राज्ञः प्रतिज्ञावशात्
श्रीरामः शरणं ममास्तु सततं गन्धर्वराजोपमः॥४॥

साकेतात् द्रुतमागते दशरथे तस्यानुमत्या मुदा
वैदेहेन समर्पितां स्मितमुखीं लज्जानतां जानकीम् ।
हस्तेन प्रतिगृह्य शास्त्रविधिना पर्यग्नि भक्त्या व्रजन्
श्रीरामः शरणं ममास्तु सततं सीतापतिः श्रीपतिः ॥५॥

याते हैमवतीं दिशं कुशिकजे साकेतयात्रोन्मुखः ।
क्षत्रोन्मूलकभार्गवं मुनिवरं निर्जित्य मध्येपथम् ।
तस्यैवार्जितमप्रमेयसुकृतं नैजं च गृह्णन् धनुः
श्रीरामः शरणं ममास्तु सततं कोदण्डहस्तोज्ज्वलः ॥६॥

श्रद्धाभक्तिपुरस्सरं गुरुजनं शुश्रूषया प्रीणयन्
सौलभ्यादिगुणैः प्रजाश्च निखिलाः सन्तोषयन् भूरिशः ।
धर्मो विग्रहवानिति स्थिरतरां कीर्तिं च विस्तारयन्
श्रीरामः शरणं ममास्तु सततं चारित्रभूषोऽनघः ॥ ७॥

शत्रुघ्ने भरते च मातुलकुलं याते सभासेदुषां
सर्वेषां मतिमाकलय्य सहसा तातेन दत्तां श्रियम् ।
स्वीकर्तुं विधिवत् प्रभातसमयेऽनुष्ठाय पूर्वाः क्रियाः
श्रीरामः शरणं ममास्तु सततं सीतासमेतः शुचिः॥८॥

प्रातर्हन्त तु कैकयीवचनतः पित्रैव धर्मात्मना
सद्यो यो वरदानखिन्नमनसा संप्रेरितः काननम् ।
पित्राज्ञां शिरसा वहन्नविकृतो ह्यामन्त्र्य सर्वान् गतः
श्रीरामः शरणं ममास्तु सततं सीतानुजाभ्यां सह ॥९॥

तीर्त्वा जह्नुसुतां गतं प्रियसुतं श्रुत्वा प्रविष्टं वनं
शोचत्येव दिवं गते दशरथे मन्त्र्यादिभिः प्रार्थितः ।
राज्यं वोढुमियेष नैव भरतो यत्पादसेवापरः
श्रीरामः शरणं ममास्तु सततं श्रीचित्रकूटाश्रयः ॥१०॥

यस्याभूद्भभरतेन साकमतुला संभाषणे चातुरी
सर्वानेव निरुत्तरान् विदधती न्याय्या च धर्म्या दृढा ।
शास्त्राचारसमञ्जसा नययुता माधुर्थशोभान्विता
श्रीरामः शरणं ममास्तु सततं धर्मैकनिष्ठापरः ॥ ११ ॥

नूनं दारुमयी निसर्गजडतां संत्यज्य यत्पादुका
गुर्वीं राज्यधुरं यदङ्घ्रिबलतो वोढुं समर्थाऽभवत् ।
तां पीठे विनिवेश्य किङ्करपदे यस्यानुजस्तस्थिवान्
श्रीरामः शरणं ममास्तु सततं कान्तारवासप्रियः ॥१२॥

सेवित्वा शरभङ्गतापसमुखान् हत्वा विराधादिमान्
लब्ध्वा कुम्भसमुद्भवान्मुनिवराद्दिव्यं च चापादिकम् ।
तेनादिष्टपथा क्रमेण समगात् यः पञ्चवट्याः स्थलं
श्रीरामः शरणं ममास्तु सततं भ्रात्रा युतः सीतया ॥१३॥

यत्सौन्दर्यविमोहिता निशिचरी संछिन्ननासाऽभवत्
संप्राप्तान् खरदूषणादिनिवहान् तस्याः कृते यः स्वयम् ।
संप्रेष्याशु यमक्षयं जनकजासंश्लेषसंभावितः
श्रीरामः शरणं ममास्तु सततं संपूज्यमानः सुरैः॥१४ ।।

मारीचं विनिहन्तुमाश्वपगते मायामृगं भर्तरि
वैदेहीहरणोद्यतं दशमुखं संरुध्य यावद्बलम् ।
तेन च्छिन्ननिपातितं खगपतिं प्रास्थापयत् यो दिवं
श्रीरामः शरणं ममास्तु सततं स्वर्गापवर्गप्रदः ॥ १५ ॥

सीतामार्गणखिन्नखिन्नहृदयो गत्वा मतङ्गाश्रमं
पम्पायां शबरीं कवन्धवचनाद्दृष्ट्वा तया पूजितः ।
तामारूढदिवं विलोक्य सहसा सुग्रीवसख्योत्सुकः
श्रीरामः शरणं ममास्तु सततं सौमित्रिसंसेवितः ॥ १६ ॥

कृत्वा स्नेहनिबन्धनां हुतवहस्याग्रे हरीशेन यः
तस्यार्थे कृतकिल्बिषं समवधीत् सद्यो मृधे वालिनम् ।
सुग्रीवं हरिराज्यभाजमकरोत् सत्यप्रतिज्ञश्च यः
श्रीरामः शरणं ममास्तु सततं दौर्जन्यनिग्राहकः ॥ १७ ॥

सुग्रीवं प्रतिबोध्य कामवशगं तस्योग्रसंशासनात्
सीतान्वेषणतत्परे दिशि दिशि प्रस्थापिते सैनिके ।
वर्षान्तस्पृहया कथञ्चिदचले तिष्ठन् गुहायां क्वचित्
श्रीरामः शरणं ममास्तु सततं सीतेतिवृत्तोन्मुखः ॥१८॥

यस्य प्रीतिरनुत्तमा हनुमति प्रोल्लङ्घ्य पाथोनिधिं
लङ्कामेत्य सतीमशोकवनगां आश्वास्य सीतां मुहुः ।
लकेशं परिभर्त्स्य तत्पुरवरं दग्ध्वा पुनश्चागते
श्रीरामः शरणं ममास्तु सततं वात्सल्यवारांनिधिः ॥ १९ ॥

रक्षिष्ये शरणागतं जनमिमं यद्यप्ययं रावणः
एवं सिन्धुतटे विभीषणकृते येन प्रतिज्ञा कृता ।
येनाकार्यत सिन्धुराजवचनात् सेतुर्नलेनाद्भुतः
श्रीरामः शरणं ममास्तु सततं लङ्कानिरोधोत्सुकः ॥ २० ॥

दृष्टा यस्य विलक्षणा नययुता ह्यायोधनप्रक्रिया
युद्धश्रान्तमतीव विह्वलतनुं लङ्कापतिं मुञ्चतः ।
वीर्यं यस्य निरर्गलं प्रकटितं त्रैलोक्यविस्मापकं
श्रीरामः शरणं ममास्तु सततं धीरोत्तमो धार्मिकः ॥२१ ।।

दृष्टं बोधितकुम्भकर्णहनने नैपुण्यमन्यादृशं
यस्याख्यामहिमा च रावणिवधे सौमित्रिणा दर्शितः ।
सुग्रीवाङ्गदजाम्बवत्प्रभृतिभिः भक्तैर्बलिष्ठैर्वृतः
श्रीरामः शरणं ममास्तु सततं वातात्मभूसेवितः ॥ २२ ॥

यातेषु प्रथितेषु राक्षसबले लङ्काधिपेन स्वयं
युध्यन् भास्करकुम्भसम्भवमुखाल्लब्ध्वाऽप्रमेयं बलम् ।
हत्वा यो दशकन्धरं त्रिभुवनं निष्कण्टकं व्यातनोत्
श्रीरामः शरणं ममास्तु सततं जाज्वल्यमानः श्रिया ॥ २३ ।।

यस्यातर्कितवाग्वशात् सशपथं ज्वालां प्रविष्टां प्रियां
भूयस्तत्र समुत्थितां हुतभुजा शुद्धेति संमानिताम् ।
दृष्ट्वा हर्षविषादलेशरहितं यस्याभवन्मानसं
श्रीरामः शरणं ममास्तु सततं ब्रह्मादिभिः संस्तुतः ॥ २४ ॥

भ्रातुर्दर्शनलालसेन मनसा सद्यः प्रयाणोत्सुकं
यं ज्ञात्वेव विना विलम्बमगमत् यानं मुनेराश्रमम् ।
तस्मै प्रेष्य च मारुतिं प्रथमतो वृत्तान्तसंवेदकं
श्रीरामः शरणं ममास्तु सततं यस्तूर्णमेवाययौ ॥ २५ ॥

योऽभूत् भ्रातृसमागमे सहभुवां हर्षो हि सीमातिगः
तस्य स्वानुभवैकवेद्यरसतां ज्ञात्वा कथं वर्ण्यते ।
को वा वर्णयितुं क्षमः पुरवरं प्रोत्साहकल्लोलितं
श्रीरामः शरणं ममास्तु सततं त्रैलोक्यमोदावहः ।। २६ ।।

हैमे यः सह सीतया मणिमये सिंहासने संस्थितो
नानातीर्थसमाहृतैः सुसलिलैः मन्त्रैः पवित्रीकृतैः ।
वासिष्ठाद्यभिषेचितस्त्रिभुवनं संह्लादयन् वीक्षणैः
श्रीरामः शरणं ममास्तु सततं स्वर्गं भुवि स्थापयन् ॥ २७ ॥

लीलामानुषविग्रहस्य चरितं सद्धर्मसम्बोधकम्
इत्यालोच्य मया सभक्ति रचितां नक्षत्रमालास्तुतिम् ।
रम्यालङ्कृति-शब्द-भाव-विधुरां बाल-प्रजल्पात्मिकां
श्रीरामः शरणं ममास्तु सततं स्वीकृत्य मोदाद् इमाम् ॥२८॥

श्रीरामनक्षत्रमालास्तुतिः सम्पूर्णा ।।