यश्छन्दसाम्

०७ यश् छन्दसाम् ...{Loading}...

विश्वास-प्रस्तुतिः

+++(ॐकारः)+++ यश् छन्द॑साम् ऋष॒भो वि॒श्वरू॑पः।
छन्दो॒भ्यो ऽध्य॒मृता॑थ् संब॒भूव॑।
स मेन्द्रो॑ मे॒धया॑ स्पृणोतु।
अ॒मृत॑स्य देव॒धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्।
जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा॑भ्यां॒ भूरि॒विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।
श्रु॒तं मे॑ गोपाय।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

मूलम्

यश् छन्द॑साम् ऋष॒भो वि॒श्वरू॑पः।
छन्दो॒भ्यो ऽध्य॒मृता॑थ् संब॒भूव॑।
स मेन्द्रो॑ मे॒धया॑ स्पृणोतु।
अ॒मृत॑स्य देव॒धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्।
जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा॑भ्यां॒ भूरि॒विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः।
श्रु॒तं मे॑ गोपाय।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

रङ्गरामानुजः

ब्रह्मविद्यार्थं प्रणवं प्रार्थयते - यश्छन्दसाम् इति ।
छन्दसाम् वेदानां यः ऋषभः - श्रेष्ठः ।
विश्वरूपः - विश्वं विष्णुः (सा.ना.१) इति नामसहस्रपाठात् विश्वं - विष्णुः । तत्प्रतीकत्वात् तद्ध्यानसाधनत्वाच् च तद्-रूपत्वम् । सर्वशब्दप्रकृतित्वाद्वा सर्वरूपत्वम् । एवंभूतः प्रणवः अमृतात् परमात्मनः सर्वेभ्यश् छन्दोभ्यो ऽधिकतया सम्बभूव - प्रादुर्भूतः ।
सः इन्द्रः - परमैश्वर्यशाली प्रणवः मा - मां मेधया - ज्ञानेन स्पृणोतु - उज्जीवयतु ।
स्पृप्रीतिरक्षणप्राणनेषु (धा.पा.१२६०) इति हि धातुः।
देवेति दीव्यतः प्रणवस्य सम्बोधनम् ।
अमृतस्य परमात्मनः हृदये धारको भूयासम् । सर्वदा ब्रह्मज्ञानम् अनुवर्तताम् इत्यर्थः । मदीयञ्च शरीरं विचर्षणं बलारोग्यादिना कान्तिमद्भवतु ।
मदीया च जिह्वा सर्वदा ब्रह्मवदनशीलतया भोग्यतमा भवतु ।
कर्णाभ्याञ्च भूरि - भूयो ब्रह्मप्रतिपादकं शास्त्रं शृणवानि । विश्रुवम् इति छान्दसं रूपम् ।
परमात्मनः त्वं वाचकतया कोशोऽसि - निधानस्थानमसि ।
मेधाजनकतया तद्भरिततया वा मेधया ऽच्छादितोऽसि । तादृशः त्वम्, श्रुतार्थो यथा अप्रमृष्टो भवति, तथा कुरु इत्यर्थः ।