यद्वर्चो हिरण्यस्य

ऐन्द्रम्।

1.1.6.4.10

य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣
य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢।
सृ꣢जामसि ।।624

यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत। सृजामसि ।।624

स꣢ह꣣स् त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡
ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् +++(=महन्)+++।
स्थवि꣢꣯रं च꣣ वा꣡जं꣢+++(=अन्नं)+++ +++(प्रतिकूल)+++वृ꣡त्रे꣢षु꣣
श꣡त्रू꣢न्त् सु꣣ह꣡ना꣢ कृधी नः ।। 625

सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन्। स्थविरं च वाजं वृत्रेषु शत्रून्त् सुहना कृधी नः ।।625