तद् वो गाय

RV.6.45.22a; SV.1.115a; 2.1016a; AV;S.20.78.1a; A;S.9.11.21; Vait.39.3,18. Ps: tad vo gAya ;S;S.15.8.10; Vait.27.10; tad vaH Svidh.1.4.16.

+++([सायणो ऽत्र। बृहस्पतिपुत्रः शंयुः। गायत्री। इन्द्रः।])+++

२२ तद्वो गाय ...{Loading}...

तद् वो +++(स्तोतारः)+++ गाय+++(त)+++ सु॒ते +++(सोमे)+++ सचा +++(=सह)+++,
पुरुहू॒ताय॒ +++(=बह्वाहूताय)+++ सत्व॑ने +++(=शत्त्रुसादयित्रे)+++।
शं यद् गवे न शा॒किने +++(=शक्तिमते)+++।।

indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna
indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna

+++([जैमिनीय-ब्राह्मणे - मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥])+++