भार्गवाग्निः

davAnalaH
davAnalaH
विस्तारः (द्रष्टुं नोद्यम्)

कालः - २०१७ त आरब्धम्, ततो नित्यस्मृतौ प्रयुज्यमानम्, काले काले परिवर्त्यमानं च।

बाह्येन्द्रियैः स्मृतेर् बुद्ध्या
विषैर् वैव मनस्-तुदैः।
प्रीतिर् लभ्या तनौ बद्धैश्,
चेयं योग्यं बुधैस् ततः॥

भार्गवाग्नेस् स्फुलिङ्गोऽयं
पर्वतादौ दरे स्मये।
ऋषेर् दृष्टौ कवेरुक्तौ
योद्धृ-कायोपपादने॥
विस्मये वृष्टि-सन्ध्यादौ
देवकृत्ये जने जने।
मन्त्रे तन्त्रे सद्-आचारे
पित्रादीनाम् ऋणे स्मृते॥
द्यु-दास्ये धर्म-निष्ठायाम्
अर्थे तृप्तौ च कौशले।
अर्ध-जागृति-संश्लिष्ट-
चित्र-कल्पानुसाधने॥
अ-मानित्वे ऽप्य् अ-दम्भित्वे
श्लाघा-त्यागे सु-दूषणे।
नृत्ये गीते तथा शिल्पे
गन्धे पुष्पे मृदुस्पृशे॥
एतेषु तुष्टिर् अद्धाऽस्य
रतौ पुत्राभिवर्धने।

आत्मज्ञानं स्थिरं ह्येवं
दद्याद् देवी सरस्वती॥

वन्यो व्याघ्रादि-सङ्काशः
कूर्दन् धावन्न् अकारणम्।
क्वचिद् वेगं क्वचिन् मान्द्यं
बुद्ध्या कायेन दर्शयन्
उच्छृङ्खलोऽपि न व्यालो
रूक्षो ऽपि न च राक्षसः।
+++(“Wild but not savage” इत्युक्तिर् अत्र प्रेरणम्। पङ्क्तिकर्तारौ शशिसुहासौ।)+++
सभ्यता-वाससा छन्नो
जाङ्गलो जामदग्न्य-वत्।
यथा स्यात्, तीव्रतां देव
स्फोरयाशीविषाशन

GuruAnaerobic-ब्राह्मणम्

Wild, but not savage.

“The closest to a wild environment is being in a Street Gang, with its periods of inaction and intense action, adrenaline, and psychological danger. This is because young people are still wild. Yet people say that is wrong. Society doesn’t like wildness. It’s scared by it. It will stop you from being wild. It wants you to conform, but as soon as you conform, your life-force and spirit is dead.”

वातुलालय-मध्य-स्थः
स्वास्थ्योल्लास-रसोन्मुखः।
अनिराशी न चात्य्-आशी
वैद्यवद् वर्ततां भुवि॥

English

One must live in the world seeking delight and health, as if one were a doctor in a mental hospital - neither too hopeful, nor hopeless.

स्यात् स्वावस्थासु संतृप्तिर्
व्याधिभिश् चापराजितिः।
जीवनोद्देश एवं सन्न्
असाध्यश् चेद् वरा मृतिः॥
इति निश्चित्य जीवेयम्
म्रियेयोत पुनर् यम।

अ-नित्यं देह-लोकादि
नित्य-ब्रह्म-कलेवरम्।
तद्-भोगाय जगत् सर्वं
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्य-भोगी, न हीतरः॥ इति स्व-भाव–शस्त्राभ्यां
शेषत्वं शेष शिक्षय

भक्तिस् स्व-रूप-सिद्धा या
देवादि-स्मृति-सन्ततिः।
षष्ठ-प्राण-निभं मे स्याद्
उल्लासाय जयाय च॥

त्वयि प्रीतेः परीवाहो
न्याय्या किङ्करता मम।
क्वात्म-प्रीति–स्वरूपाप्ती
लोक-भुक्! स्यात् तद्-अन्तरा॥
मयि पूर्त्यै त्वयि प्रीतेः
कुत्र कुत्र न भाससे
कायात् काव्यं जगत् सर्वं
जुष्टं हृष्य-गुणैर् यतः॥
प्रीतेः पूर्ति-परीवाहौ
वर्तेतां चक्रवद् यतः।
स्यन्देत जीवितं देव-
यानी-भूतं मुदाऽध्वनि॥

यावन् मांस-जनास् सत्यास्
तावद् देवास् ततो ऽथ वा।
इत्य् एवं मन्यमानस्य
हृष्टाः पुष्टाः क्रियास् तताः

प्रीति-पात्रम् पुरस् कृत्य
तद्-विरुद्धस्य निग्रहे
द्वेषो गुणी-कृतश् चेत् स
तक्रे लवणवद् भवेत्