जीवानां शेषत्वम्

शेषत्वम्

“शेषः परार्थत्वात्” इति पूर्वमीमांसासूत्रेषु (3.3.1–7)।
शेषः शेषी च चेतनः स्याद् अचेतनो ऽपि वा।
“residue” इत्य् आङ्ग्लिक्याऽस्तु।

वेदार्थ-सङ्ग्रहे रामानुजार्येणोक्तम् -

पर-गतातिशय+++(→न प्रतिकूल!)++++आधानेच्छयोपादेयत्वम् एव यस्य स्वरूपं,
शेषः, परः शेषी
+++(यथा -)+++ फलोत्पत्तीच्छया
यागादेस् तत्-प्रयत्नस्य चोपादेयत्वं,
यागादि-सिद्धीच्छया
ऽन्यत् सर्वम् उपादेयम्

एवं गर्भ-दासादीनाम् अपि +++(सामुराय्-योद्धॄणाम् इव)+++
पुरुष-विशेषातिशयाधानोपादेयत्वम् एव स्वरूपम् ।

एवम् ईश्वर-गतातिशयाधानेच्छयोपादेयत्वम् एव
चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च -
सर्वस्य वस्तुनः स्वरूपम् इति,
सर्वम् ईश्वर-शेषत्वम् एव
सर्वस्य चेश्वरः शेषीति
“सर्वस्य वशी” “सर्वस्येशानः” “पतिं विश्वस्ये"त्य्-आद्य् उक्तम् ।

गीताभाष्ये रामानुजः - “ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम्।”

लक्ष्मीपुर-श्रीनिवासः -

स्व-परम-प्रयोजन-भूत–
पर-गतातिशयाधायकत्वं शेषत्वम्
स्व-परम-प्रयोजन-भूत–
स्व-प्रतिसन्धानार्ह–
पर-गतातिशयाधायकत्वं दासत्वम्
शेषत्वाभिमत–प्रयोज्य-प्रयोजन-भूतातिशय-भाक्त्वं शेषित्वम्
शेषित्वाभिमत–प्रयोज्य–परम-प्रयोजन-भूत–
स्व-पुरुषार्थातिशय-भाक्त्वं स्वामित्वम् इति ।

औपाधिक-शेषित्वम्

पत्नी पत्युः शेषः (विपरीतम् अपि वक्तुं शक्यम्),
वेतन-भृत्यः स्वामिनः,
सामुराय्-योद्धा तत्-प्रभोः।
किञ्चात्र शेषत्वं न +++(तज्-जन्मातिरिच्य)+++ स्वरूपम्,
अपि तु कृत्रिमम्।

सामुराय्-योद्धा जन्म-दासश् च तत्-प्रभोः शेष-भूतः स्व-रूपतस् तज्-जन्मनि।

परम-शेषि-कृतम्

द्वयोर् वस्तुनोः शेषि
किञ्चिद् वस्तु कस्यचिद् अपरस्य वस्तुनो ऽपेक्षया शेषं कुर्यात्।
यथा पुस्तक-पीठयोस् स्वामी
पीठस्योपरि पुस्तकं स्थापयित्वा
पुस्तकस्यापेक्षया पीठं शेषं कुर्यात्।

दास्य-भेदाः

स्वरूप-दास्यं बौद्धिकम् -
शास्त्रानुसन्धानादि-विचार-जन्यम्।
(वक्ष्यमाणाद्) गुण-दास्यात् स्थिरतर
इत्य् एकया दृष्ट्या ऽस्योत्कर्षः।

गुण-दास्यम् भावनात्मकम्।
कौङ्कर्ये प्रेरयतितरां स्वरूप-दास्यापेक्षया।
यथाह लक्ष्मणो रामविषये -

“अहम् अस्य+++(अभिप्राये)++++अवरो भ्राता,
+++(किञ्च)+++ गुणैर् दास्यम् उपागतः”

पुनः केचिद् दासा अकुशलाः,
केचिन् न।
केचित् स्व-दास्यम् इच्छन्ति,
केचित् तिरस्-कुर्वाणाः प्रतिकूलम् आचरितुं यतेरन्।

धर्मानुकूल्येनापि दास्यं विभक्तम्।

दास्ये सुख-दुःखे

यदि पतिः कुत्सितः,
तच्-छेषत्वम् अङ्गीकृतं चेद् अपि दुःखकरम् भवति।

गुण-दास्यं प्रीति-कारितं हर्षजनकम् ।
यथा - भगवति दास्यं साम्राज्यप्राप्तिर् इत्व प्रशस्यते।

गर्हण-प्रशंसे

धर्मानुकूलं दास्यं
क्वचिद् दुःखास्पदम् अपि
आर्यैः प्रशस्यम्।

अनीश्वरविषये शेषत्वम्
न धर्माङ्गं चेद्
गर्हितम् मनुना -

सेवा श्ववृत्तिर् आख्याता
तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥

सर्व-शेषित्वम्

चिद् अचिद् वा सर्वो ऽपि
+ईश्वरभोगाय निर्मितः।
तेन सर्वो ऽपि स्वरूपतः शेषः, ईश्वरश् च सर्वशेषी।

प्रतिकूल-दासेभ्योऽपि तद्-उत्कर्षः

दासेषु विरुद्ध-प्रवृत्ताव् अपि शेषत्वं स्पस्टम् इति लक्ष्मीपुर-श्रीनिवास एव -

तत्र शास्त्र-विरुद्ध-प्रवृत्तौ सत्यां
शासितुः दण्ड-धरस्येश्वरस्य लीला-रसोत्पादन-द्वारा
अतिशयम् आधत्ते ।
शास्त्राविरुद्ध-प्रवृत्तौ सत्याम्
ईश्वरस्य सन्तोषम् उत्पाद्य
तदीयौदार्यादि-गुण-प्रकाशन-द्वारा अतिशयम् आधत्ते ।

ईश्वरत्वम्

“ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम्।”
इति रामानुजो गीताभाष्ये।

“स्वाधीन/स्वनियाम्य-(त्रिविध-चेतनाचेतन)स्वरूप-स्थिति-प्रवृत्ति-भेद” इति रामानुजेन प्रयुज्यते, यामुनेन च। द्राविड-गाथासु शठ-कोपेनापि शब्दान्तरैर् उच्यते।

(स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि - इति वेङ्कटनाथः।
स्थितिः, रक्षा वा
कस्यचिद्वस्तुनः पूर्वक्षणधर्माणाम् उत्तरक्षणे ऽप्य् अनुवर्तनम्। )

जीव-स्वातन्त्र्य-मात्रा

धर्माद्य्-अनुशासनेन साकं
जीवः परमात्म-भोगाय नियुक्तः।
स्वभाव/स्वरूप-स्थिति-प्रवृत्तयो ऽपि भगवता ऽनुमत्या व्यवस्थापिताः।
किञ्च, तद्विरोधे ऽपि वर्तितुं स्वातन्त्र्यं दत्तम्, चितमार्गानुसारेण च फलानि निश्चितानि।
(स्वातन्त्र्याभाव-वादे धर्मानुशासनादेर् वैयर्थ्य-प्रसङ्गः।)

अधिष्ठानं तथा कर्ता
करणं च पृथग्-विधम्।
विविधाश् च पृथक् +++(प्राण-)+++चेष्टा
दैवं चैवात्र पञ्चमम्॥18.14॥

इति श्लोकस्य रामानुज-व्याख्याने व्यक्तम् एतत् -

जीवात्मा
तद्+++(=ब्रह्म)+++-आधारस् तद्-आहित-शक्तिस् सन्
कर्म-निष्पत्तये स्वेच्छया करणाद्य्-अधिष्ठानाकारं प्रयत्नं च +आरभते,
तद्-अन्तर्-अवस्थितः परमात्मा स्वानुमति-दानेन तं प्रवर्तयति।

एवं तर्हि कर्मसु कर्तृत्वम् ईषद् वर्तत एव जीवस्य।
किन्तु, परमात्मन एव कर्तृत्वम् अधिकम्।

लक्ष्मीनरसिंहार्योदाहरणानि -

  • यथा देवालयगमने यान-पाथेयादिसम्पादने पथिकः कर्ता, किन्तु मार्गादिनिर्माणेन सर्वकारः कर्ता।
  • यथा रथयात्रायां रथाकर्षणे गतो जनो “मत्कारणाद् एव रथ आकृष्ट” इति न मन्येत।

शरीर-शरीरि-भावः

अत्र शरीर-शरीरि-भावः प्रसज्यते - विशिष्य श्रुत्य्-अवगमनाय।

रामानुजो गीता-भाष्ये -

श्रुतयः
परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानं,
परम-पुरुषं च प्रवर्तयितारम् आचक्षते।

तत्रैव शरीर-लक्षणम् आह श्रीभाष्ये-

यस्य चेतनस्य यद् द्रव्यम् +++(चेतनम् अ-चेतनं वापि, न क्रियादि)+++
सर्वात्मना+++(=यावद्-द्रव्य-भावितया, न घटादिवत्)+++ स्वार्थे+++(=शरीरार्थे - न मनुष्यशरीरस्य डयनार्थे)+++ नियन्तुम् +++(→शक्यम्, न तु रुग्णावस्थायाम् इव सर्वदा नियाम्यत इति)+++,
धारयितुम् च शक्यं;
तच्-छेषतैक-स्वरूपञ् +++(न तु गृहवद् बहूनां शेषम्)+++ च
तत् तस्य शरीरम्

(स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि - इति वेङ्कटनाथः। )

शरीरं शरीरिणो नियन्त्रणे न पूर्णतया ऽस्ति -
बालेषु चलनं शिक्षत्सु,
स्वाङ्गचालने रोगतो ऽसमर्थेषु च यथा स्पष्टम्।

पुनः शरीरत्वं शेषत्वं व्यनक्ति -
यथैवाङ्गुल्या नखस्य भोगो गौणो, जीवस्य च प्रधानः,
तथैव सर्वशेषी शरीरीश्वरः प्रधानभोक्ता।

उपादान-कारणत्व-सिद्धिः

सर्वं चिद् अचिच् च
भगवतश् शरीरम्। तेन नित्यम् अपि -
यतः प्रलये सूक्ष्मावस्थायां (नामरूपव्यपदेशायोग्य-रीत्या) वर्तते।
तेन हि भगवान् विश्वस्योपादानकारणम् इत्य् उच्यते।

शेषत्व-सिद्धिः

सर्वं भगवच्-छरीरम् इति सिद्धे,
जीवानां शेषत्वम् अपि सिध्यति।

शेषतैक-रसत्वम्

सुख-दुःख-हेतू

अङ्गीकारे ऽनङ्गीकारे वा
स्वाभाविकं शेषत्वं वर्तत एव।
स्वरूप-ज्ञानेन तु शेषत्वं सुखतरम् भवति।

पुनः कृत्रिमं स्वरूपस्थं वा शेषत्वं
प्रीति-कारितम् उल्लासं जनयति,
न तु द्वेष-कारितम्।
यदि पतिः कुत्सितः,
शेषत्वम् अङ्गीकृतं चेद् अपि दुःखकरम् भवति।
एवं भगवद्-गुण-कलनम् बह्व् अपेक्षितम्।

गौण-फलित्वम्

शेषतैक-रसत्वे स्वानन्देन भोगो वर्तते चेद् अपि,
स परम्परया भवति,
शेषि-भोग एव प्रधानभूतः साक्षाद् भवतीति व्यत्यासः।

लक्ष्याणि

शेषवृत्तेः शेषतैकरसत्वस्य च परा काष्ठा काचिद्
उषःपुत्र-योद्धृषु (सामुराय्-आख्येषु) दृश्यते
(यद्य् अपि तत्र शेषी मानुषप्रभुः यःकश्चित्)।
तद्-अवगत्यै हगाकुरे-निभ-ग्रन्थानुसन्धानं लाभाय स्यात्।

भगवति

भगवतः शेषोऽहम्।
भगवत्-सापेक्ष-स्वातन्त्र्यं मम, न निरपेक्षम्।
मच्छेषित्वं लोके सोपाधिकम्।

इति स्पष्टता भवेत्।

भगवच्-छेषत्व-ज्ञान-रसिको भागवत इति वेङ्कटनाथार्यः।

कर्म-सन्न्यासः

रामानुजः शेषिणि +++(प्रधान-)+++कर्तृत्वस्य फलस्य चाधानम् / त्यागं / ‌सन्न्यासम् आह -

अतो मच्-छरीरतया
मत्-प्रवर्त्यात्म-स्वरूपानुसन्धानेन
सर्वाणि कर्माणि मया +एव क्रियमाणानि

इति मयि परमपुरुषे संन्यस्य
तानि च केवलं मद्-आराधनानि +इति कृत्वा,
तत्-फले निराशीः,
तत एव तत्र कर्मणि ममता-रहितो भूत्वा
विगतज्वरो युद्धादिकं कुरुष्व।
+++(“उत्तरोत्तरस्य च पूर्व-पूर्व-हेतुकतां पाठ-क्रम-सूचितां प्रकाशयति” इति वेङ्कटनाथः।)+++

स्वकीयेन +++(जीव-)++++आत्मना कर्त्रा,
स्वकीयैर् एव करणैः,
स्वाराधनैकप्रयोजनाय,
परमपुरुषः सर्वेश्वरः सर्वशेषी
स्वयम् एव स्वकर्माणि कारयति

इति +अनुसन्धाय

आराधनम्

निर्वचनम्

वेदान्त-देशिक-कृतायां तात्पर्य-चन्द्रिकायाम् रामानुज-कृत-गीता-भाष्य-व्याखान-भूतायाम् एवम् -

स्वाराधनैक-प्रयोजनायेति ।
शेषस्य शेषिण्य् अतिशयाधानम्+++(=अतिशयस्य, न प्रतिकूलस्य +आधानम्)+++ एव प्रयोजनम् इति भावः।

अनेन शेषस्य शेषिण्य् अतिशयाधानम् एवाराधनम् इति गम्यते।

परिपूर्ण-शेष-वृत्तिर् एवाराधनम् इति विशिष्टाद्वैतकोशे।

स्वार्थक-फलाभिसन्धिस् तु न स्यात् तत्र। यथा -

अनभिसंहित-फल-कर्मणाम् हि भगवद्-आराधन-रूपता

इति श्रुत-प्रकाशिका।

कर्माणि

तत्र कर्माणि चैवं स्युर् गोपाल-देशिकोक्तरीत्या -

शरणागति-फल-भूत–
तत्-कालोत्पन्न-भगवत्-प्रेम-परीवाह-रूपाणि

कैङ्कर्यं च द्वेधा - आज्ञा-कैङ्कर्यम्, अनुज्ञा-कैङ्कर्यं चेति।
आज्ञा-कैङ्कर्य-वेलायाम् अनुज्ञा-कैङ्कर्यं निषिद्धम्।
आराधनाङ्ग-शरणागतिर् दोषक्षान्त्यै कल्पते - तत्र +आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-वर्जनं च विशिष्टे ऽङ्गे।

एवं यत्-किचिद् भगवद्-आज्ञाऽविरुद्धम् तद्-आराधन-रूपम् भवेत् -

यत् करोषि यद् अश्नासि
यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय
तत् कुरुष्व मद्-अर्पणम् ॥

अनुज्ञा-कैङ्कर्यतो भगवान् प्रसादोन्मुखतरो भवति,
पुनर् जीवः स्वरूपज्ञानेन रमते, तथा पाप-कृत्येषु मनो न यच्छति।

भागवत-पर्यन्तता

भगवच्-छेषत्वं भागवत-शेषत्व-पर्यन्तं स्यात्।
तत्र स्मृति-प्रमाणम् - “ज्ञानी त्व् आत्मैव मे मतः”,
श्रुतिः- “दैव्ये जनेऽभिद्रोहं मनुष्याश् चरामसि …"।

नित्य-किङ्करता

यद्य् अपि मृत्योः प्राक्
प्रबुद्धस्य भगवच्-छेषतैक-प्राय-रसता तद्-आराधान-रतिश् च स्यात्,
तत्रानुकूल्य-प्रकर्षाय,
मृत्योश् च परं तत्र व्यवधानं वारयितुं
पुनर्जन्मनो मुक्तिर् अपेक्ष्यते,
यत्-प्राप्त्या लीला-विभूतिं त्यक्त्वा
नित्य-विभूतौ वैकुण्ठे प्रीति-परीवाह-रूप-भगवद्-दास्यम् अनुवर्तयन्ति।